११ सामिधेनी-होतृ-नियमाः, आघाराः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)
सामिधेनीषु होतुर्निमयमविशेषः,
२-२५ आध्वर्यव आघारश्च
प्रजापतिऋषिः
प्राजापत्यं काण्डम्
उपवीतम्
मूलम् (संयुक्तम्)
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतन्दे॒वाना॒मुप॑ व्ययते देवल॒क्ष्ममे॒व तत्कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह
विश्वास-प्रस्तुतिः
निवी॑तम् मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम् पि॑तृ॒णाम्,
उप॑वीतन् दे॒वाना॑म्।
Keith
The thread is worn around the neck for men,
over the right shoulder for the Pitrs,
over the left for the gods.
मूलम्
निवी॑तम्मनु॒ष्या॑णाम्,
प्रा॒ची॒ना॒वी॒तम्पि॑तृ॒णाम् ।
उप॑वीतन्दे॒वाना॑म् ।
पद-पाठः
निवी॑त॒मिति॒ नि-वी॒त॒म् । म॒नु॒ष्या॑णाम् ।
प्रा॒ची॒ना॒वी॒तमिति॑ प्राचीन-आ॒वी॒तम् । पि॒तृ॒णाम् ।
उप॑वीत॒मित्युप॑-वी॒त॒म् । दे॒वाना॑म् ।
भट्टभास्कर-टीका
1निवीतमित्यादि ॥ स्वाध्यायविधावुपवीतादीनां लक्षणं भविष्यति । अत्र तु तत एव प्राप्तत्वादर्थवादः । उक्तञ्च ‘निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात्’ इत्यत्र । उभावपि बाहू न्यग्भूतौ वीयेते तत् निवीतं मनुष्याणां स्वं मनुष्यकार्येषु प्रशस्तम् ।
प्राचीनो दक्षिणो बाहुः आ वीयते अधस्तात् क्रियते यत्र तत् प्राचीनावीतं पितृकर्मणि प्रशस्तम् ।
यज्ञसाधनभूतो दक्षिणो बाहुरुपवीतं समन्ताच्छाद्यते यत्र तद् यज्ञोपवीतम् । यथोक्तं - ‘दक्षिणं बाहुमुद्धरतेऽव धत्ते सव्यमिति’ इति ।
तत्र ‘सत्यभामा’ ‘भामा’ इतिवत् पदैकदेशो लुप्यते । गतार्थत्वादप्रयोगो लोपः । एतद्देवकर्मणि प्रशस्तम् । तस्माद्धोता सामिधेनीरनुब्रुवन् उपव्ययते उपवीतं करोति ।
सायण-टीका
नैमित्तिक्यः सामिधेन्यः काम्याश्च दशमे श्रुताः।
अथैकादशे सामिधेनीषु होतुर्नियमविशेषोऽध्वर्योराधारविशेषश्चाभिधीयते।
तत्राऽऽदौ तावद्यागकर्तृणामुपवीतं विधातुं प्रस्तौति— निवीतमिति।
यत्रोभावपि बाहून्यग्भूतौ सन्तौ ब्रह्मसूत्रेण वस्त्रेण वाधीयेते संवृतामाच्छादितौ क्रियेते तन्निवीतम् तच्च मनुष्याणां कार्येषु प्रशस्तम्। तस्मादृषितर्पणं निवीतयुक्तैः पुरुषैरनुष्ठीवते।
प्राचीनो दक्षिणो बाहुराधीयतेऽधस्तात्कियते यत्र तत्प्राचीनावीतम्। तच्च पितृणां कर्मणि प्रशस्तम्। अत एव शिष्टाः प्राचीनावीतयुक्ताः पिण्डदानं कुर्वन्तीति।
उपवीतस्य लक्षणं स्वाध्यायब्राह्मणे समाम्नातम्—‘दक्षिणं बाहुमुद्धरतेऽवधत्ते सब्यमिति यज्ञोपवीतम्’ इति। तच्च देवानां कर्मणि प्रशस्तम्।
विश्वास-प्रस्तुतिः
उप॑ व्ययते - देवल॒क्ष्मम् ए॒व तत् कु॑रुते।
Keith
He puts it over the left shoulder;
verily he makes the mark of the gods.
मूलम्
उप॑ व्ययते - देवल॒क्ष्ममे॒व तत्कु॑रुते।
पद-पाठः
उपेति॑ । व्य॒य॒ते॒ । दे॒व॒ल॒क्ष्ममिति॑ देव-ल॒क्ष्मम् । ए॒व । तत् । कु॒रु॒ते॒ ।
भट्टभास्कर-टीका
देवानामेव तेन लक्षणं कृतं भवति । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः ॥
सायण-टीका
अत एव शिष्टाः स्वाध्यायादिकं तथैवाऽऽचरन्ति इदानीं विधत्ते— उप व्ययत इति। तत्तेनोपवीतेन देवलक्ष्ममेव देवचिन्हमेव कृतं भवति
होतृ-नियमाः
उत्थानम्
मूलम् (संयुक्तम्)
तिष्ठ॒न्न् ह्याश्रु॑ततरव्ँ॒वद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति
विश्वास-प्रस्तुतिः
तिष्ठ॒न्न् अन्वा॑ह।
तिष्ठ॒न्न् ह्य् आश्रु॑ततरव्ँ॒ वद॑ति॒।
Keith
He repeats standing,
for standing he speaks more audibly.
मूलम्
तिष्ठ॒न्नन्वा॑ह।
तिष्ठ॒न्न् ह्याश्रु॑ततरव्ँ॒वद॑ति॒।
पद-पाठः
तिष्ठ॑न् । अन्विति॑ । आ॒ह॒ ।
तिष्ठ॑न् । हि । आश्रु॑ततर॒मित्याश्रु॑त-त॒र॒म् । वद॑ति ।
भट्टभास्कर-टीका
2तिष्ठन्नित्यादि ॥ लोके हि योऽतिशयेत आश्रोतुं भवती प्रतिश्रुतमिच्छति स तिष्ठन् वदन् दृश्यते । तस्मात्तिष्ठन्न ब्रूयात् ।
सायण-टीका
यागकर्तृणामुपवीतं विधाय होतुः सामिधेन्याद्यनुवचनकाले स्थितिं विधत्ते— तिष्ठन्नन्वाहेति।
आसीनो नानुबूयात्किंतु तिष्ठन्नेप ब्रुयात्। तस्मात्तिष्ठन्मनुष्य आ समन्तादतिशयेत श्रुतं यथा भवति तथा वदितुं प्रभवति। तस्मात्तिष्ठन्ननुब्रूयात्।
विश्वास-प्रस्तुतिः
तिष्ठ॒न्न् अन्वा॑ह।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
Keith
He repeats standing,
to conquer the world of heaven.
मूलम्
तिष्ठ॒न्नन्वा॑ह।
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
पद-पाठः
तिष्ठ॑न् । अन्विति॑ । आ॒ह॒ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि-जि॒त्यै॒ ।
भट्टभास्कर-टीका
किञ्च - सुवर्गस्य लोकस्याभिजयाय भवति, प्रत्यासत्त्या, आभिमुख्याद्वा । आसित्वा यागे अस्मिन् लोके प्रतिष्ठित्यै भवति, एतल्लोकप्रत्यासत्या अविचलत्वाच्च ॥
सायण-टीका
तदेवानूद्य प्रशंसति— तिष्ठन्नन्वाहेति।
आसनादुत्थितस्य प्रत्यासन्नः स्वर्गः। तस्मात्तस्याभिजित्यै संपद्यते।
विश्वास-प्रस्तुतिः
आसी॑नो यजति ।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
Keith
He sacrifices sitting; verily he finds support in this world.
मूलम्
आसी॑नो यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
पद-पाठः
आसी॑नः । य॒ज॒ति॒ ।
अ॒स्मिन् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ ।
सायण-टीका
याज्याकाल उपवेशनं विधत्ते— आसीनो यजतीति। यजति याज्यां पठेदित्यर्थः। आसीनस्य चलनाभाबादत्र प्रतिष्ठा।
ध्वनिः
मूलम् (संयुक्तम्)
यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रन्तद्यन्म॒न्द्रम्मा॑नु॒षन्तद्यद॑न्त॒रा तत्सदे॑वमन्त॒रानूच्यँ॑ सदेव॒त्वाय॑
विश्वास-प्रस्तुतिः
यत् क्रौ॒ञ्चम् अ॒न्वाह, आ॑सु॒रन् तत् ।
यन् म॒न्द्रम् मा॑नु॒षन् तत् ।
यद् अ॑न्त॒रा तत् सदे॑वम्।
अन्त॒रानूच्यँ॑ सदेव॒त्वाय॑ ।
Keith
In that he repeats in the Krauñca, note,
that is connected with the Asuras,
in the low note, that is connected with men,
in the intermediate note, that is connected with the gods.
One should repeat in the intermediate note, to secure the gods.
मूलम्
यत्क्रौ॒ञ्चम॒न्वाहा॑सु॒रन्तत्।
यन्म॒न्द्रम्मा॑नु॒षन्तत् ।
यद॑न्त॒रा तत्सदे॑वमन्त॒रानूच्यँ॑ सदेव॒त्वाय॑ ।
पद-पाठः
यत् । क्रौ॒ञ्चम् । अ॒न्वाहेत्य॑नु-आह॑ । आ॒सु॒रम् । तत् ।
यत् । म॒न्द्रम् । मा॒नु॒षम् । तत् ।
यत् । अ॒न्त॒रा । तत् । सदे॑व॒मिति॒ स-दे॒व॒म् ।
अ॒न्त॒रा । अ॒नूच्य॒मित्य॑नु-उच्य॑म् । स॒दे॒व॒त्वायेति॑ सदेव-त्वाय॑ ।
भट्टभास्कर-टीका
3क्रौञ्चम् ॥ क्रौञ्चमिव स्वरः शुष्कः मन्द्रः गभीरः तद्द्वयोरन्तरा मध्यमस्वरोऽभिधीयते ।
सदेवं देवसहितं । तस्मान्मन्द्रक्रौञ्चयोरन्तरा मध्ये अनूच्यं मध्यस्थेन स्वरेणानुब्रुयात् । छान्दसः क्यच् ॥
सायण-टीका
अत्युच्चध्वनिमतिनीचध्वनिं चापवदन्मध्यमध्वनिं विधत्ते—
यत्क्रौञ्चमन्वाहेति।
यथा कौञ्चाख्यः पक्षिविशेष उच्चध्वनिं करोति तत्सदृशे सत्यासुरं भवेत्। मनुध्यास्तूपविश्य मन्द्रस्वरेण संभापन्ते। अतः सोऽपि वर्ज्यः। मध्यमध्वनेर्देवप्रियत्वात्तथैवानुवचनं कार्यम्।
मूलम् (संयुक्तम्)
वि॒द्वाँसो॒ वै [61] पु॒रा होता॑रोऽभूव॒न्तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑व॒न्न पन्था॑न॒स्सम॑रुक्षन्नन्तर्वे॒द्य॑न्यᳶ पादो॒ भव॑ति बहिर्वे॒द्य॑न्यः
पादस्थानम्
विश्वास-प्रस्तुतिः
वि॒द्वाँसो॒ वै पु॒रा होता॑रो ऽभूवन् ।
तस्मा॒द् विधृ॑ता॒ अध्वा॒नो ऽभू॑वन् ।+++(5)+++
न पन्था॑न॒स् +++(परस्-परं)+++ सम॑रुक्षन् ।
Keith
Clever indeed [1] were the Hotrs of old;
therefore the ways were held apart,
and the paths did not conflict.
मूलम्
वि॒द्वाँसो॒ वै पु॒रा होता॑रोऽभूवन् ।
तस्मा॒द्विधृ॑ता॒ अध्वा॒नोऽभू॑वन् ।
न पन्था॑न॒स्सम॑रुक्षन् ।
पद-पाठः
वि॒द्वाँसः॑ । वै । पु॒रा । होता॑रः । अ॒भू॒व॒न् ।
तस्मा॑त् । विधृ॑ता॒ इति॒ वि-धृ॒ताः॒ । अध्वा॑नः । अभू॑वन् ।
न । पन्था॑नः । समिति॑ । अ॒रु॒क्ष॒न् ।
भट्टभास्कर-टीका
4विद्वांस इत्यादि ॥ पूर्वं विद्वांसः अध्वरज्ञा होतारोऽभूवन् ।
समरुक्षन् अन्योन्यं समारूढा नाभूवन् । ‘शल इगुपधादनिटः क्सः’ ।
सायण-टीका
अपरं कंचिद्विशेषं विधत्ते- विद्वाँ सो वा इति।
मूढः कश्चिद्धोता वेदेर्वहिरेव पादद्वयमवस्थाप्यानुब्रूते, तस्य पादद्वयस्थापनान्मार्गः संकीर्णो भवति।
अपरस्तु मूढः पादद्वयं वेदिमध्य एव प्रक्षिप्यानब्रूते। स तु मार्गं न जानाति, तदिदं दोषद्वयं विद्वांसः केचित्कुशलाः पुरा यज्ञेषु होतारोऽभूवन् ।
ते च दक्षिणं पादं वहिर्नप्रक्षिपन्ति। तेन तेषामध्वानो विस्तीर्णत्वेन धृता भवन्ति।
विश्वास-प्रस्तुतिः
अ॒न्त॒र्वे॒द्य् अ॒॑न्यᳶ पादो॒ भव॑ति +++(← चादिलोपे विभाषा?)+++,
बहिर्वे॒द्य् अ॒॑न्यः +++(पादो भवति)+++ ।
अथान्वा॒हाध्व॑नाव्ँ॒ विधृ॑त्यै प॒थाम् असँ॑रोहाय ।
विश्वास-टिप्पनी
तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान+अव्यय-द्वितीया-कृत्याः इत्य् अनेन असँ॑रोहाय इत्य् आद्युदात्तः।
Keith
One foot should be within the sacrificial altar,
the other outside;
then he repeats,
to hold the ways apart and to avoid conflict of the paths.
मूलम्
अ॒न्त॒र्वे॒द्य॑न्यᳶ पादो॒ भव॑ति ।
ब॒हि॒र्वे॒द्य॑न्यः +++(पादो भवति)+++ ।
अथान्वा॒हाध्व॑नाव्ँ॒विधृ॑त्यै प॒थामसँ॑रोहाय ।
पद-पाठः
अ॒न्त॒र्वे॒दीत्य॑न्तः-वे॒दि । अ॒न्यः । पादः॑ । भव॑ति ।
ब॒हि॒र्वे॒दीति॑ बहिः-वे॒दि । अ॒न्यः ।
अथ॑ । अन्विति॑ । आ॒ह॒ । अध्व॑नाम् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ । प॒थाम् । असँ॑रोहा॒येत्यस॑म्-रो॒हा॒य॒ ।
भट्टभास्कर-टीका
तत्कथमिदानीं तैर्होत्रादिभिः कर्तव्यमित्याह – अन्तर्वेदीत्यादि ।
अन्तर्वेदि दक्षिणतः पादोऽवस्थाप्यः, इतरो बहिर्वेदि नातिदूरेऽवस्थाप्यः । अथानन्तरमेवमवस्थापितपादद्वयोऽनुब्रूयात्; अध्वनाम् असङ्कीर्णत्वाय असंरोहाय च भवति । अन्यः पन्थाः अन्यस्मिन् समारूढो न भवति । मार्गमोहश्च न भवतीत्यर्थः ॥
सायण-टीका
वामपादमन्तर्न प्रक्षिपन्ति, किंतु बहिरेव स्थापयन्ति। तेन बहिःस्थापनेन पन्थानस्तान्विदुषः पुरुषान्नैव समरुक्षन्संरोहं न कृतवन्तः। अन्यो मार्गोऽन्यत्र च गच्छन्तीत्येतादृशो मार्गभ्रंशो मार्गकृतः संहोहः सोऽप्येषां नाऽऽसीत्। तस्मात्पुरातनविद्वांस इवायमपि दक्षिणं पादं वेदेरन्तः प्रक्षिपेत्। वामपादं बहिः प्रक्षिपेत्। ततोऽनुब्रूयात्। एवं च सत्यध्वनां विस्तीर्णत्वेन धारणं भवति। पथिविषये संमोहश्च न भवति।
मूलम् (संयुक्तम्)
अथान्वा॒हाध्व॑नाव्ँ॒विधृ॑त्यै प॒थामसँ॑रोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्द्धेऽथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रु॒न्द्धेऽथो॑ ग्रा॒म्याँश्चै॒व प॒शूना॑र॒ण्याँश्चाव॑ रु॒न्द्धेऽथो॑ [62] दे॒व॒लो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति
फलम्
विश्वास-प्रस्तुतिः
अथो॑ भू॒तञ् चै॒व भ॑वि॒ष्यच् चाव॑ रुन्द्धे ।
अथो॒ परि॑मितञ् चै॒वाप॑रिमित॒ञ् चाव॑ रुन्द्धे ।
अथो॑ ग्रा॒म्याँश् चै॒व प॒शून् आ॑र॒ण्याँश् चाव॑ रुन्द्धे ।
अथो॑ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।
Keith
Then does he win the past and the future,
the measured and the unmeasured does he win,
domestic and wild cattle both does he win [2];
verily also the world of the gods and the world of men he conquers.
मूलम्
अथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रुन्द्धे ।
अथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रुन्द्धे ।
अथो॑ ग्रा॒म्याँश्चै॒व प॒शूना॑र॒ण्याँश्चाव॑ रुन्द्धे ।
अथो॑ देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति ।
पद-पाठः
अथो॒ इति॑ । भू॒तम् । च॒ । ए॒व । भ॒वि॒ष्यत् । च॒ । अवेति॑ । रु॒न्द्धे॒ ।
अथो॒ इति॑ । परि॑मित॒मिति॒ परि॑-मि॒त॒म् । च॒ । ए॒व । अप॑रिमित॒मित्यप॑रि-मि॒त॒म् । च॒ । अवेति॑ । रु॒न्द्धे॒ ।
अथो॒ इति॑ । ग्रा॒म्यान् । च॒ । ए॒व । प॒शून् । आ॒र॒ण्यान् । च॒ । अवेति॑ । रु॒न्द्धे॒ ।
अथो॒ इति॑ । दे॒व॒लो॒कमिति॑ देव-लो॒कम् । च॒ । ए॒व । म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य-लो॒कम् । च॒ । अ॒भीति॑ । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
5अथो इत्यादि ॥ अन्तर्वेदि भूतं इष्टसाधनत्वेन परिनिष्पन्नत्वात्, बहिर्वेदि भविष्यत् अतथाभावात् ।
अन्तर्वेदि परिमितं इतरद् अपरिमितम् ।
अन्तर्वेदि ग्राम्याः पशवो यज्ञसाधनत्वात् । बहिरारण्याः विपर्ययत्वात् ।
अत्र गोश्वाजाविपुरुषगर्दभोष्ट्रा ग्राम्याः पशवः । द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेया आरण्याः ।
अन्तर्वेदि देवलोकः । बहिर्वेदि अन्यः ॥
सायण-टीका
परस्परविलशणं पादविन्यासं बहुधा प्रशंसति— अथो भूतमिति।
चतुर्ष्वप्येतेषु प्रथमेनान्त पादप्रशंसा द्वितीयेन बहिष्पादप्रशंसेति द्रष्टव्यम्।
तदेवं सामिधेनीषु विशेषनियमा हौत्राः समापिताः।
मूलम् (संयुक्तम्)
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्त्स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रय॒त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै
सामिधेनी
आघारः
विश्वास-प्रस्तुतिः
दे॒वा वै सा॑मिधे॒नीर् अ॒नूच्य॑ य॒ज्ञन् नान्व॑पश्यन् ।
Keith
The gods having repeated the Samidhenis could not see the sacrifice.
मूलम्
दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्यन् ।
पद-पाठः
दे॒वाः । वै । सा॒मि॒धे॒नीरिति॑ साम्-इ॒धे॒नीः । अ॒नूच्येत्य॑नु-उच्य॑ । य॒ज्ञम् । न । अन्विति॑ । अ॒प॒श्य॒न् ।
भट्टभास्कर-टीका
6देवा वै सामिधेनीरनूच्येत्यादि ॥ समाप्तं हौत्रम् । अतःपरं दार्शपौर्णमासिकमाध्वर्यवं प्राजापत्यमेव काण्डम् । सामिधेन्यनुवचनानन्तरं यज्ञप्रयोगं देवा नान्वपश्यन् अनन्तरं कर्तव्यं नाजानन् ।
सायण-टीका
अथाऽऽर्ध्वयवस्त्रौवाधारं विधत्ते— देवा वा इति। पूर्वं देवाः सामिधेनीरनूच्य तत्रत्येषु नियमविशेषेषु व्यापृतमनस्काः सन्त उपरितनयज्ञगतं कतर्व्यविशेषं कंचिदपि नैव स्मृतवन्तः।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिस् तू॒ष्णीम् आ॑घा॒रम् आघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञम् अन्व॑पश्यन् ।
Keith
Prajapati in silence performed the sprinkling of the butter.
Then indeed did the gods see the sacrifice.
मूलम्
स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाघा॑रयत् ।
ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्यन् ।
पद-पाठः
सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । तू॒ष्णीम् । आ॒घा॒रमित्या॑-घा॒रम् । एति॑ । अ॒घा॒र॒य॒त् ।
ततः॑ । वै । दे॒वाः । य॒ज्ञम् । अन्विति॑ । अ॒प॒श्य॒न् ।
भट्टभास्कर-टीका
स इत्यादि । प्रजापतिरुत्तरं परिधिसन्धिं अन्ववहृत्य दक्षिणाप्राञ्चमाघारं तूष्णीम् आघारयत् आज्यम् अक्षारयत् ।
सायण-टीका
ततः प्रजापतिर्मन्त्रं कमप्यनुच्चार्य तूष्णीमेव ऋजुमाघारमनुष्ठितवान्। तावता कालेन देवाः सामिधेनीषु विक्षिप्तं चित्तं समाधायैकाग्रेण मनसा यज्ञगतकर्तव्यविशेष मनुस्मृतवन्तः।
विश्वास-प्रस्तुतिः
यत् तू॒ष्णीम् आ॑घा॒रम् आ॑घा॒रय॑ति
य॒ज्ञस्यानु॑ख्यात्यै ।
Keith
In that he silently sprinkles, (it serves) to light up the sacrifice.
मूलम्
यत्तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्यै ।
पद-पाठः
यत् । तू॒ष्णीम् । आ॒घा॒रमित्या॑-घा॒रम् । आ॒घा॒रय॒तीत्या॑-घा॒रय॑ति । य॒ज्ञस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑-ख्या॒त्यै॒ ।
भट्टभास्कर-टीका
यज्ञस्यानुक्रमेण ख्यात्यै भवति ॥
सायण-टीका
अतोऽत्रापि तूष्णीमनुष्टितः प्रथमाघारोऽनन्तरभाविनो यज्ञकर्तव्यस्यानुस्मरणाय भवति। यद्यपि पौरोडाशिककाण्ड वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयतीति अपमाघारो विहितः, तथाऽपि तूष्णींभावादयो गुणविशेषा न विहिता इति नास्ति पुनरुक्तिः।
अभ्यञ्जनम्
मूलम् (संयुक्तम्)
अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू॑क्षो भवति॒ य ए॒वव्ँ वेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ [63] य ए॒वव्ँ वेद
विश्वास-प्रस्तुतिः
अथो॑ सामिधे॒नीर् ए॒वाभ्य॑नक्ति।
Keith
Verily also he anoints the kindling-sticks.
मूलम्
अथो॑ सामिधे॒नीरे॒वाभ्य॑नक्ति।
पद-पाठः
अथो॒ इति॑ । सा॒मि॒धे॒नीरिति॑ साम्-इ॒धे॒नीः । ए॒व । अ॒भीति॑ । अ॒न॒क्ति॒ ।
भट्टभास्कर-टीका
7अथो इत्यादि ॥ सामिधेनीभिर्हुतानां समिधामियमभ्यक्तिः क्रियते अञ्जनस्थानीयत्वात् । यथोक्तम् - ‘अभ्यञ्जनं वाव स्त्रिया अन्नम्’ इति ।
सायण-टीका
तमेवाऽऽघारं प्रशंसति— अथो सामिधेनीरिति। न केवलमनन्तरभावियज्ञकर्तव्यप्रतिमानमाधारस्य प्रयोजनं, किंतु वन्हौ प्रक्षिप्तानां सामिधेनीकाष्ठानामभ्यञ्जनमप्येकं प्रयोजनम्।
विश्वास-प्रस्तुतिः
अलू॑क्षो भवति॒
य ए॒वव्ँ वेद॑ ।
Keith
He who knows thus becomes soft.
मूलम्
अलू॑क्षो भवति ।
य ए॒वव्ँ वेद॑ ।
पद-पाठः
अलू॑क्षः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
एवं विद्वानलूक्षो भवति । लूक्षो दुर्गतः । लुब्ध इत्येके ।अभ्यञ्जनादिसमृद्धो भवति ।
सायण-टीका
एतद्वेदनं प्रशंसति— अलूक्षो भवतीति। उक्ताभ्यञ्जनाभिज्ञः स्वयम् अरूक्षः पारुष्यरहितः स्नेहोपेतो भवति।
विश्वास-प्रस्तुतिः
अथो॑ त॒र्पय॑त्य् ए॒वैनाः॒,
तृप्य॑ति प्र॒जया॑ प॒शुभि॒र्
य ए॒वव्ँ वेद॑ ।
Keith
Verily also he delights them.
He delights in offspring and cattle [3] who knows thus.
मूलम्
अथो॑ त॒र्पय॑त्ये॒वैनाः॑ ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वव्ँ वेद॑ ।
पद-पाठः
अथो॒ इति॑ । त॒र्पय॑ति । ए॒व । ए॒नाः॒ ।
तृप्य॑ति । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ ।
यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
तर्पयत्येवेति । अग्नौ प्रक्षेपं विस्मृत्य यथातृप्ता एव भवन्ति तथा करोत्यनेन ॥
सायण-टीका
आघारमेव पुनः प्रशसंति— अथो तर्पयतीति।
किंचानेनाऽऽधारणैनाः सामिधेन्यभिमानिदेवतास्तर्पयति।
एतदीयतृप्तिवेदनं प्रशंसति— तृ**प्यतीति। **
यदुक्तं सूत्रकारेण
“स्रुवेण ध्रुवाया आज्यमादाय वेदेनोषयम्याऽऽसीन उत्तरं परिधिमन्ववहृत्य प्रजापतिं मनसा ध्यायन्दक्षिणाप्राञ्चमृजुँ संततं ज्योतिष्मत्याधारयन्सर्वाणीध्मकाष्ठानि सँ स्पर्शयति”
इति।
वेदेनोपयभ्य स्रुवस्याधस्ताद्वेदं धारयित्वोत्तरं परिधिसंधिमन्ववहृत्य वायवीये संधौ स्रुवद्युक्तहस्तमन्तः प्रसार्य ज्योतिष्मति वन्हौ घृतं क्षारयंस्तद्घृतं सर्वसामिधेनीकाष्ठस्पृष्टं कुर्यादित्यर्थः।
मूलम् (संयुक्तम्)
यदेक॑याघा॒रये॒देका॑म्प्रीणीया॒द्यद्द्वाभ्या॒न्द्वे प्री॑णीया॒द्यत्ति॒सृभि॒रति॒ तद्रे॑चये॒न्मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना॑प्तमा॒प्यते
सङ्ख्या
विश्वास-प्रस्तुतिः
यद् एक॑या ऽऽघा॒रये॒द्, एका॑म् प्रीणीयात् ।
Keith
If he were to sprinkle with one (verse), he would delight one;
मूलम्
यदेक॑याघा॒रये॒देका॑म्प्रीणीयात् ।
पद-पाठः
यत् । एक॑या । आ॒घा॒रये॒दित्या॑-घा॒रये॑त् । एका॑म् । प्री॒णी॒या॒त् ।
भट्टभास्कर-टीका
8यदेकयेत्यादि ॥ यद्येकया वाचा मन्त्रात्मिकया आघारयेत् एकामेव सामिधेनीं प्रीणीयात् ।
सायण-टीका
तत्र मनसा प्रजापतर्यद्ध्यागं तदेतत्द्विधत्ते— यदेकयेति। यद्येकामृचं पठित्वाऽऽधास्येत्तदानीमेकैव सामिधेनी तृप्ता भवेत्।
विश्वास-प्रस्तुतिः
यद् द्वाभ्या॒न् द्वे प्री॑णीयात् ।
Keith
if with two, (he would delight) two;
मूलम्
यद्द्वाभ्या॒न्द्वे प्री॑णीयात् ।
पद-पाठः
यत् । द्वाभ्या॑म् । द्वे इति॑ । प्री॒णी॒या॒त् ।
भट्टभास्कर-टीका
द्वाभ्यां द्वे ।
सायण-टीका
द्वाभ्यामृग्भ्यां द्वे एव तृप्ते भवेताम्।
विश्वास-प्रस्तुतिः
यत् ति॒सृभि॒र् - अति॒ तद् रे॑चयेत् ।
Keith
if with three, he would make (the offering) go beyond (all others).
मूलम्
यत्ति॒सृभि॒रति॒ तद्रे॑चयेत् ।
पद-पाठः
यत् । ति॒सृभि॒रिति॑ ति॒सृ-भिः॒ । अतीति॑ । तत् । रे॒च॒ये॒त् ।
भट्टभास्कर-टीका
यदिति । तिसृभिस्तदतिरेचयेत् । आघारमात्रं तिसृभिः क्रियते इत्यतिरेकोयम् ।
सायण-टीका
त्रिप्रभृतिभिर्ऋग्भिराघारं यदि कुर्यात्तेनायमाघारः सर्वाणि कर्माण्यतिरिक्तवान्भवति। एकस्य हि कर्मण एकैव ऋक्प्राप्ता। तथा सति बहुभिरनुष्ठानमतिरेकः।
आघार-प्रकारः
विश्वास-प्रस्तुतिः
मन॒साघा॑रयति।
मन॑सा॒ ह्य् अना॑प्तम् आ॒प्यते॑ ।
Keith
He sprinkles (repeating the verse) in the mind,
for what is imperfect is made perfect by mind.
मूलम्
मन॒सा घा॑रयति॒ मन॑सा॒ ह्यना॑प्तमा॒प्यते॑ ।
पद-पाठः
मन॑सा । एति॑ । घा॒र॒य॒ति॒ । मन॑सा । हि । अना॑प्तम् । आ॒प्यते॑ ।
भट्टभास्कर-टीका
तस्माद्गत्यभावात् मनसा तूष्णीं आघारयति । एवं ह्यनाप्तं आप्तुमयोग्यं ह्याप्तं भवति ॥
सायण-टीका
तस्य सर्वस्य दोषस्य परिहाराय मनसैवाऽऽघारयेन्मनसोऽप्रतिहतगतित्वात्। यद्वागादिभिर्न प्राप्तं तत्सर्वं मनसा प्राप्तुं शक्यते।
विश्वास-प्रस्तुतिः
ति॒र्यञ्च॒म् आ घा॑रय॒त्य् - अ-छ॑म्-बट्कारम् ।
Keith
He sprinkles across so as not to make a failure.
मूलम्
ति॒र्यञ्च॒मा घा॑रय॒त्यछ॑म्बट्कारम् ।
पद-पाठः
ति॒र्यञ्च॑म् । एति॑ । घा॒र॒य॒ति॒ । अछ॑म्बट्कार॒मित्यछ॑म्बट्-का॒र॒म् ।
भट्टभास्कर-टीका
9तिर्यञ्चमिति ॥ सर्वगतिको दण्डवत् धारकत्वात् तिरश्चीनआघारोग्नेरनार्तत्वाय भवति ॥
सायण-टीका
दक्षिणाप्राञ्चमित्युदाहृते सूत्रे वायवीं दिशमारभ्याऽऽग्नेय्यां समापनमुक्तम्। स एव सूत्रकार आधारयोः पुनरपि द्वे पक्षान्तर दर्शितवान्—
“ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा” इति।
तत्र तिर्यक्पक्षं विधत्ते— तिर्यञ्चमेति।
दक्षिणां दिशमारभ्योत्तरस्यां समापनं तिर्यक्त्वम्।
प्रतीची मारभ्य प्राच्यां समापने सत्येकस्या एव समिध उपरि घृतं पतेत्। तथा सति समिदन्तराणामस्पर्शाच्छम्बट्कारो वैयर्थ्यं भवेत्। तस्मादच्छम्यट्कारं यथा भवति तथा होतव्यम्। तिर्यक्त्वे सति सर्वसमित्संस्पर्शाद्वैयर्थ्यं न भवति।
प्रजापतये न वाक्
मूलम् (संयुक्तम्)
वाक्च॒ मन॑श्चार्तीयेताम॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीद॒हन्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम्
विश्वास-प्रस्तुतिः
वाक् च॒ मन॑श् चार्तीयेताम् ।
Keith
Speech and mind disputed;
मूलम्
वाक्च॒ मन॑श्चार्तीयेताम् ।
पद-पाठः
वाक् । च॒ । मनः॑ । च॒ । आ॒र्ती॒ये॒ता॒म् ।
भट्टभास्कर-टीका
10वाक्चेत्यादि ॥ ऋतिस्सौत्रो धातुः घृणायां वर्तते । तस्माल्लुङ्, ‘ऋतेरीयङ्’ ‘आडजदीनाम्’ । वाक्च मनश्च देवेषु आर्तीयेतां आदरातिशयम् अकुरुताम् ।
सायण-टीका
मनसाऽऽघारयतीति यद्विहितं तदेव पुनः प्रशंसति— वाक्च मनश्चेति।
आर्तिः अतिशयः , तामिच्छेताम्।
विश्वास-प्रस्तुतिः
“अ॒हन् दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हा॒मी"ति॒ वाग् अ॑ब्रवीद् “अ॒हन् दे॒वेभ्य॒” इति॒ मनः॑ ।
Keith
‘I will bear the offering to the gods’, speech said;
I to the gods’, mind said.
मूलम्
अ॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीत् । अ॒हन्दे॒वेभ्य॒ इति॒ मनः॑ ।
पद-पाठः
अ॒हम् । दे॒वेभ्यः॑ । ह॒व्यम् । व॒हा॒मि॒ । इति॑ । वाक् । अ॒ब्र॒वी॒त् । अ॒हम् । दे॒वेभ्यः॑ । इति॑ । मनः॑ ।
भट्टभास्कर-टीका
अहमेव देवभेयो हव्यं वहानीति वागब्रवीत् ।
मनश्चाहमेव वहानीत्यब्रवीत् ।
सायण-टीका
सैवाऽऽर्तिः स्पष्टी क्रियते—“अहं देवेभ्यो हव्यं वहामि” इति वाक्येन।
विश्वास-प्रस्तुतिः
तौ प्र॒जाप॑तिम् प्र॒श्ञम् ऐ॑ताम् ।
Keith
They went to question Prajapati;
मूलम्
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
पद-पाठः
तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । प्र॒श्ञम् । ऐ॒ता॒म् ।
भट्टभास्कर-टीका
अथ तौ तथा श्रद्धातिशयेन विप्रतिपद्यमानौ वाङ्मनसाख्यौ पदार्थौ पुत्रौ वा प्रजापतेः । लिङ्गव्यत्ययेन वा ‘नपुंसकमनपुंसकेन’ इति बाध्यते । प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छताम् ॥
सायण-टीका
ततो वाक्च मनश्चेत्येतौ हविर्वहननिर्णयाय प्रश्नं कर्तुं प्रजापतिं प्राप्नुताम्।
मूलम् (संयुक्तम्)
सो॑ऽब्रवीत् [64] प्र॒जाप॑तिर्दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त्तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑
विश्वास-प्रस्तुतिः
सो᳙ऽब्रवीत् प्र॒जाप॑तिः -
“दू॒तीर् ए॒व त्वम् मन॑सो ऽसि ।
यद् +धि मन॑सा॒ ध्याय॑ति॒, तद् वा॒चा वद॒ती"ति॑ ।
Keith
he said [4], Prajapati,
‘Thou art the messenger of mind,
for what one thinks of in the mind, one utters in speech’.
मूलम्
सो॑ऽब्रवीत् प्र॒जाप॑तिः ।
दू॒तीरे॒व त्वम्मन॑सोऽसि ।
यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॑ ।
पद-पाठः
सः । अ॒ब्र॒वी॒त् । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ ।
दू॒तीः । ए॒व । त्वम् । मन॑सः । अ॒सि॒ ।
यत् । हि । मन॑सा । ध्याय॑ति । तत् । वा॒चा । वद॑ति । इति॑ ।
भट्टभास्कर-टीका
11सोब्रवीदित्यादि ॥ ‘सुपां सुलुक्’ इति हल्ङ्यादिलोपापवादः स्वादेशः । वाचमब्रवीत् प्रजापतिः -
मनस्याध्यातस्य बहिःख्यापयित्रीति दूतस्थानीयैव त्वमसि । तस्मान्मन एव हविर्वोढुमर्हतति इति ।
सायण-टीका
स प्रजापतिर्वाचमब्रवीत्— हे वाक्त्वं मनसो दूतीरेवासि दासीभूतैवासि न तु स्वतन्त्रा। तत्कथमित्युच्यते यस्माल्लोके पुरुषो यत्पूर्वं मनसा ध्यायति तत्पश्चाद्वाचा वदति तस्माद्वाचो दूतीत्वमेवेति।
विश्वास-प्रस्तुतिः
“तत् खलु॒ तुभ्य॒न् न वा॒चा जु॑हव॒न्न्” इत्य् अ॑ब्रवीत् । तस्मा॒न् मन॑सा प्र॒जाप॑तये जुह्वति ।
Keith
‘Then assuredly they will not sacrifice to you with speech’, said (speech).
Therefore in the mind they offer to Prajapati,
मूलम्
तत्खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवीत् । तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति ।
पद-पाठः
तत् । खलु॑ । तुभ्य॑म् । न । वा॒चा । जु॒ह॒व॒न् । इति॑ । अ॒ब्र॒वी॒त् ।
तस्मा॑त् । मन॑सा । प्र॒जाप॑तय॒ इति॑ प्र॒जा-प॒त॒ये॒ । जु॒ह्व॒ति॒ ।
भट्टभास्कर-टीका
अथ वाक् प्रजापतिमब्रवीत् - तर्हि केचिदपि तुभ्यं न वाचा मन्त्रेण जुहुवन्न जुहुयुः । तस्माद्वाचश्शापात्प्रजापतये मनसैव जुह्वतीति । लेटि तस्यार्धधातुकत्वेन ङित्वाभावाद्गुणः, अन्त्यादेशश्च, द्विविकरणत्वेन शबपि मध्येऽवतिष्ठते ।
सायण-टीका
अनन्तरं क्रुद्धा वागब्रवीत्— हे प्रजापते यद्यहं दूती तर्हि तुभ्यं कोऽपि वाचा मा जुहोत्विति। तस्मादाघारं प्रजापतये मनसा जुह्वति।
विश्वास-प्रस्तुतिः
मन॑ इव॒ हि प्र॒जाप॑तिᳶ - प्र॒जाप॑ते॒र् आप्त्यै॑ +++(तीष्णीं जुहुयात्)+++।
Keith
for Prajapati is, as it were, the mind; (verily it serves) to obtain Prajapati.
मूलम्
मन॑ इव॒ हि प्र॒जाप॑तिᳶ प्र॒जाप॑ते॒राप्त्यै॑ ।
पद-पाठः
मनः॑ । इ॒व॒ । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । आप्त्यै॑ ।
भट्टभास्कर-टीका
मन इव हीति । व्यापकत्वेन प्रजापतितुल्यत्वेन मनसा होमः प्रजापतेराप्त्यै भवति ॥
सायण-टीका
यथा मनः संकल्पेन कार्यं साधयति तथा प्रजापतिरपि। अतः सादृश्यान्मनसा होम प्रजापतेराप्त्यै भवति।
मूलम् (संयुक्तम्)
परि॒धीन्त्सम्मा॑र्ष्टि पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मन्त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति॒ त्रिर्द॑क्षिणा॒र्ध्य॑न्त्रयः॑ [65] इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्ध्य॑न्त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति
परिधि-सम्मार्गः
विश्वास-प्रस्तुतिः
प॒रि॒धीन्त् सम्मा॑र्ष्टि ।
पु॒नात्य् ए॒वैना॒न्।
Keith
He rubs the enclosing-sticks; verily he purifies them.
मूलम्
प॒रि॒धीन्त्सम्मा॑र्ष्टि ।
पु॒नात्ये॒वैना॒न्त्रिर्म॑ध्य॒मम् ।
पद-पाठः
प॒रि॒धीनिति॑ परि-धीन् । समिति॑ । मा॒र्ष्टि॒ ।पु॒ना॒ति॒ । ए॒व । ए॒ना॒न् ।
भट्टभास्कर-टीका
12परिधीनित्यादि ॥ गतम् ।
सायण-टीका
यदुक्तं सूत्रकारेण
“इध्मसंनहनैः सह स्फ्यैऋते स्फ्यैर्वाऽऽग्निघ्रोऽनुपरिकामन्परिधीन्यथापरिधि तमन्वग्रं त्रिस्त्रिः संमृज्य”
इति।
तदेत्संमार्जनं स्फ्येन सहितैरिध्मसंनहनदर्भैः कर्तव्यमिति विधत्ते— परिधीन्त्समिति।
विश्वास-प्रस्तुतिः
त्रिर् म॑ध्य॒मम् +++(सम्मार्ष्टि)+++।
त्रयो॒ वै प्रा॒णाᳶ - प्रा॒णान् ए॒वाभि ज॑यति ।
Keith
(He rubs) the middle one thrice; the breaths are three; verily he conquers the breaths.
मूलम्
त्रिर् म॑ध्य॒मम् ।
त्रयो॒ वै प्रा॒णाᳶ प्रा॒णाने॒वाभि ज॑यति ।
पद-पाठः
त्रिः । म॒ध्य॒मम् ।
त्रयः॑ । वै । प्रा॒णा इति॑ प्र-अ॒नाः ।
प्रा॒णानिति॑ प्र-अ॒नान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
मध्यमादीनां प्राणादिजयहेतुत्वं यथाकथञ्चिदुत्प्रेक्ष्यम् । केचिदाहुः - देहमध्यस्थप्राणादिस्थानीया मध्यमा ।
सायण-टीका
क्रमेणैकैकस्य परिघेः संमार्जनावृत्तिं विधत्ते— त्रिर्मध्यममिति। प्राणापानव्याना इति त्रित्वं, लोकत्रित्वं प्रसिद्धं, स्वर्गलोकयमलोकब्रह्मलोकविषयास्त्रयः पन्थानः। तत्र यमलोकाविषयस्म परिहारो जय इतरयोः प्राप्तिर्जयः। त्रित्वसाम्यात्तज्जय इति स्तूतये।
विश्वास-प्रस्तुतिः
त्रिर् द॑क्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का - इ॒मान् ए॒व लो॒कान् अ॒भि ज॑यति ।
Keith
(He rubs) the southern one thrice; these worlds are three [5]; verily he conquers these worlds.
मूलम्
त्रिर्द॑क्षिणा॒र्ध्य॑म् ।
त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति ।
पद-पाठः
त्रिः । द॒क्षि॒णा॒र्ध्य॒॑मिति॑ दक्षिण-अ॒र्ध्य॑म् ।
त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । अ॒भीति॑ । ज॒य॒ति॒ ।
भट्टभास्कर-टीका
दक्षिणभूगोळस्य प्रकाशत्वेन लोकत्वात् दक्षिणा लोकस्थानीया ।
विश्वास-प्रस्तुतिः
त्रिर् उ॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्
तान् ए॒वाभि ज॑यति ।
Keith
(He rubs) the northern one thrice; three are the paths leading to the gods; verily he conquers them.
मूलम्
त्रिरु॑त्तरा॒र्ध्य॑म् ।
त्रयो॒ वै दे॑व॒याना॒ᳶ पन्था॑न॒स्ताने॒वाभि ज॑यति ।
पद-पाठः
त्रिः । उ॒त्त॒रा॒र्ध्य॒॑मित्यु॑त्तर-अ॒र्ध्य॑म् । त्रयः॑ । वै । दे॒व॒याना॒ इति॑ देव-यानाः॑ । पन्था॑नः । तान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ ।भट्टभास्कर-टीका
उत्तरगोळस्याप्रकाशत्वात् देवपथतुल्या उत्तरा इति । ‘दिक्पूर्वपदाट्ठञ्च’ इति अर्धान्ताद्यत्प्रत्ययः ॥
वाजनम्
मूलम् (संयुक्तम्)
त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
विश्वास-प्रस्तुतिः
त्रिर् उप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का, दे॑वलो॒कान् ए॒वाभि ज॑यति ।
Keith
Thrice he fans (the fire);
the worlds of the gods are three;
verily he conquers the worlds of the gods.
मूलम्
त्रिर् उप॑ वाजयति ।
त्रयो॒ वै दे॑वलो॒का, दे॑वलो॒काने॒वाभि ज॑यति ।
पद-पाठः
त्रिः । उपेति॑ । वा॒ज॒य॒ति॒ ।
त्रयः॑ । वै । दे॒व॒लो॒का इति॑ देव-लो॒काः ।
दे॒व॒लो॒कानिति॑ देव-लो॒कान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ ।
सायण-टीका
यदुक्तं सूत्रकारेण—“वेदेनाग्निं त्रिरुपवाज्य” इति।
तदेतद्विधत्ते— त्रिरुप वाजयतीति।
देवलोकानां त्रित्वं तदभिजयश्च मार्गत्रित्वज्जयवद्व्याख्येयम्।
विश्वास-प्रस्तुतिः
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रम् ए॒व प्री॑णाति ।
अथो॑ सव्ँवत्स॒रम् ए॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
Keith
They make twelve; the year has twelve months; verily he delights the year; verily also he brings up the year for him, to gain the world of heaven.
मूलम्
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रमे॒व प्री॑णाति ।
अथो॑ सव्ँवत्स॒रमे॒वास्मा॒ उप॑ दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
पद-पाठः
द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ ।
द्वाद॑श । मासाः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः ।
सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । प्री॒णा॒ति॒ ।
अथो॒ इति॑ । सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । अ॒स्मै॒ । उपेति॑ । द॒धा॒ति॒ ।
सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सम्-अ॒ष्ट्यै॒
भट्टभास्कर-टीका
13त्रिरुप वाजयतीति ॥ अग्निं त्रिर्विधूनयति ।
देवलोकस्थानीयस्याग्नेः उपवाजनेन लोकत्रयावाप्तिः । सत्यलोकान्तास्त्रयो देवलोकाः । वातेर्णिजन्तस्य ‘वोविधूनने जुक्’ इति जुगागमः ।
द्वादशत्वान्वयात् द्वादशमासात्मकः संवत्सरोऽत्र संपादितो भवति । स च स्वर्गावाप्तिहेतुरिति ॥
सायण-टीका
त्रिषु परिधिषु वह्नौ च येयं प्रत्येकं त्रिः क्रियावृत्तिस्तामेकीकृत्य प्रशंसति—द्वादश समिति।
न केवलं संवत्सरदेवतायाः प्रीतिः किंतु तत्संवत्सरं यजमानार्थं कर्मानुष्ठानकालत्वेन संपादयति। तच्च स्वर्गलोकाप्राप्त्यै भवति।
आघारः
मूलम् (संयुक्तम्)
आघा॒रमा घा॑रयति ति॒र इ॑व [66] वै सु॑व॒र्गो लो॒कस्सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णस्सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै
विश्वास-प्रस्तुतिः
आ॒घा॒रम् आ घा॑रयति ।
ति॒र इ॑व॒ वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गम् ए॒वास्मै॑ लो॒कम् प्र रो॑चयति ।
Keith
He sprinkles;
the world of heaven is as it were secret [6];
verily he makes the world of heaven resplendent for him.
मूलम्
आ॒घा॒रमा घा॑रयति ।
ति॒र इ॑व॒ वै सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑चयति ।
पद-पाठः
आ॒घा॒रमित्या॑-घा॒रम् । एति॑ । घा॒र॒य॒ति॒ ।
ति॒रः । इ॒व॒ । वै । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः ।
सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । अ॒स्मै॒ । लो॒कम् । प्रेति॑ । रो॒च॒य॒ति॒ ।
भट्टभास्कर-टीका
14आघारमित्यादि ॥ धारां; तिरश्चीनत्वेन तिरोभूतात्मानं स्वर्गमस्मै प्ररोचयति दीपयति वा ।
सायण-टीका
पूर्वत्र विहितं तिर्यञ्चमाघारमनूद्य प्रशंसति— आघारमिति।
प्राङ्मुखेन यजमानेन दृश्यमानः स्वर्गो लोको दक्षिणोत्तरायामेन प्रतीयमानत्वात्तिर इव भवति। अतिस्तिर्यगाधारेण यजमानाय स्वर्गमुत्पादितवान्भवति। अथवा स्रुच्याघारस्य द्वितीयस्यायं विधिर्द्रष्टव्यः।
ऋजु, सन्ततम्
विश्वास-प्रस्तुतिः
ऋ॒जुमा घा॑रयति ।
ऋ॒जुर् इ॑व॒ हि प्रा॒णः।
सन्त॑त॒म् आ घा॑रयति ।
प्रा॒णाना॑म् अ॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
अथो॒ रक्ष॑सा॒म् अप॑हत्यै ।
Keith
He sprinkles straight,
for the breath is as it were straight.
He sprinkles continuously,
for the continuity of the breaths and of food
and for the smiting away of the Raksases.
मूलम्
ऋ॒जुमा घा॑रयति ।
ऋ॒जुरि॑व॒ हि प्रा॒णः।
सन्त॑त॒म् आ घा॑रयति ।
प्रा॒णाना॑म् अ॒न्नाद्य॑स्य॒ सन्त॑त्यै ।
अथो॒ रक्ष॑सा॒मप॑हत्यै ।
पद-पाठः
ऋ॒जुम् । एति॑ । घा॒र॒य॒ति॒ ।
ऋ॒जुः । इ॒व॒ । हि । प्रा॒ण इति॑ प्र-अ॒नः ।
सन्त॑त॒मिति॒ सम्-त॒त॒म् । एति॑ । घा॒र॒य॒ति॒ ।
प्रा॒णाना॒मिति॑ प्र-अ॒नाना॑म् । अ॒न्नाद्य॒स्येत्य॑न्न-अद्य॑स्य । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।
अथो॒ इति॑ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ ।
भट्टभास्कर-टीका
ऋजुरिति । अकुटिलधारामाघारयति ।
प्राणानामन्नाद्यस्य अविछेदाय भवति । रक्षसामपहत्यै भवति ॥
सायण-टीका
आघारे गुणान्तरद्वयं विधत्ते— ऋजुमिति।
दक्षिणां दिशामारम्योत्तरदिगवसानपर्यन्तमाघारधाराया वक्रत्वं यथा न भवति यथा च विच्छेदो न भवति तथा कुर्यात्। प्राणवायुश्च हृदयमारभ्य मुखे निःसरन्मामदक्षिणापार्श्वयोरप्रवेशेन ऋजुरेव भवति संततश्च भवति। अतः प्राणस्यान्नस्य च संतत्यै संपद्यते। किंच सांतत्येन रक्षसामवकाशाभावदपहतिर्भवति।
मूलम् (संयुक्तम्)
अथो॒ रक्ष॑सा॒मप॑हत्यै॒ यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ जि॒ह्मन्तस्या घा॑रयेत्प्रा॒णमे॒वास्मा॑ज्जि॒ह्मन्न॑यति ता॒जक्प्र मी॑यते
विश्वास-प्रस्तुतिः
यङ् का॒मये॑त “प्र॒मायु॑कस् स्या॒द्” इति॑ -
जि॒ह्मन् तस्याघा॑रयेत् ।
प्रा॒णम् ए॒वास्मा॑ज् जि॒ह्मन् न॑यति ।
ता॒जक् प्र मी॑यते ।
Keith
If he desire of a man,
‘May he be likely to perish’,
he should sprinkle crookedly for him;
verily he leads his breath crookedly from him,
and swiftly he perishes.
मूलम्
यङ्का॒मये॑त प्र॒मायु॑कस्स्या॒दिति॑ ।
जि॒ह्मन्तस्या घा॑रयेत् ।
प्रा॒णमे॒वास्मा॑ज्जि॒ह्मन्न॑यति ।
ता॒जक्प्र मी॑यते ।
पद-पाठः
यम् । का॒मये॑त । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् । इति॑ ।
जि॒ह्मम् । तस्य॑ । एति॑ । घा॒र॒ये॒त् ।
प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्मा॒त् । जि॒ह्मम् । न॒य॒ति॒ ।
ता॒जक् । प्रेति॑ । मी॒य॒ते॒ ।
भट्टभास्कर-टीका
15यमित्यादि ॥ गतम् । जिह्मं कुटिलम् ॥
सायण-टीका
ऋजुत्वस्य नित्यप्रयोगाङ्गत्वात्काम्यत्वेन वक्रत्वं विधत्ते— यं कामयेतेति।
यं यजमानमुद्दिश्य मरणं कामयेत तस्य जिह्मं वक्रं यथा भवति तथाऽऽधारयेत्। तेन वक्रत्वेनास्माद्यजमानात्प्राणं वामादिपार्श्वनाडीषु प्रविश्य वक्रत्वं प्रापयति। तेन श्वासोपरोधेन तदानीमेवासौ म्रियते।
ध्रुवा-समञ्जनम्
विश्वास-प्रस्तुतिः
शिरो॒ वा ए॒तद् य॒ज्ञस्य॒
यद् आ॑घा॒र,
आ॒त्मा+++(→रुण्डम्)+++ ध्रु॒वा। [67]
आ॒घा॒रम् आ॒घार्य॑, ध्रु॒वाँ सम॑नक्त्य् -
आ॒त्मन्न् ए॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति।
Keith
The sprinkling is the head of the sacrifice,
the ladle is the body [7].
Having sprinkled, he anoints the ladle;
verily he places the head of the sacrifice on its body.
मूलम्
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [67]
आ॒घा॒रमा॒घार्य॑ ध्रु॒वाँ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑ दधाति
पद-पाठः
शिरः॑ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । आ॒घा॒र इत्या॑-घा॒रः ।
आ॒त्मा । ध्रु॒वा ।
आ॒घा॒रमित्या॑-घा॒रम् । आ॒घार्येत्या॑-घार्य॑ । ध्रु॒वाम् । समिति॑ । अ॒न॒क्ति॒ ।
आ॒त्मन् । ए॒व । य॒ज्ञस्य॑ । शिरः॑ । प्रतीति॑ । द॒धा॒ति॒ ।
भट्टभास्कर-टीका
16शिरो वा इत्यादि ॥ आघारशेषेण ध्रुवादिसमञ्जनादात्मनि यज्ञस्य शिरः प्रतिहितं भवति ॥
सायण-टीका
आघारशेषेण ध्रुवायामञ्जनं विधत्ते—
शिरो वा इति।
स्वात्मस्थानीयायां ध्रुवायां यज्ञशिरःस्थानीयस्याऽऽधारस्य प्रक्षेपे सति स्वस्मिन्नेव यज्ञशिरः स्थापितवान्भवति।
ननु परिधिसंमार्जनादयः पौरोडाशिककाण्डेऽपि विहिताः। बाढम्। तत्र ह्यनुक्रमेण मन्त्राणां व्याख्यायमानत्वाद्भुवनमित्यादिमन्त्रव्याख्यानावसरे युक्ता एतिद्विधयः। इह तु तदनुवादेन प्रत्यभिज्ञाप्य तेष्वृजुत्वादयो गुणा विधीयन्ते। ततो नास्ति पुनरुक्तदोषः। अत एवोक्तानुवादकत्वादनुब्राह्मणमेतदिति संप्रदायविदः।
यदुक्तं सूत्रकारेण “ऊर्ध्वस्तिष्ठन्होतारं वृणीतेऽग्निर्देवो होता देवान्यक्षद्विद्वाँ श्चिकित्विन्मनुष्यद्भरतवदमुवदमुवदिति यथार्षेयो यजमानः।” इति “इत ऊर्ध्वानध्वर्युर्वृणीतेऽमुतोऽर्वाचो होता” इति च।
अस्यायमर्थः- यजमानस्य यादृशान्यार्षेयणि तादृशानि होतारं प्रत्यमुवदमुवदिति तत्तन्नामपुरःसरं प्रयोक्तव्यानि। तदिदमध्वर्युकर्तृकं होतृविषयं वरणम्। समिधेनीप्रस्तावे त्वार्षेयं वृणीत इति होतृकर्तृकमग्निविषयं वरणमुक्तम्।
तयोरयं विशेषः। अर्वाञ्चमारभ्येत ऊर्ध्वानुत्तरोतरानध्वर्युर्वृणीते। होता तूत्तममारभ्याधस्तनान्वृणीते। तद्यथा भार्गवच्यावनाप्नवानौर्वजामदग्नेत्येवं होतृकर्तृकं पूर्वमुदाहृतम्। अध्वर्युकर्तृके तु मनुष्वद्भरतवदित्यन्तं मन्त्रं पठित्वा जमदग्निवदूर्ववदप्नवानवच्च्यवनवद्भृगुवदिति प्रयोक्तव्यमिति।
वरणम्
मूलम् (संयुक्तम्)
अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॒द्दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमैताँ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दन्दे॑वाश्शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर्दे॒वो होतेति॒ य ए॒व दे॒वाना॒न्तम॑वृणीत
विश्वास-प्रस्तुतिः
अ॒ग्निर् दे॒वाना॑न् दू॒त आसी॑द् +++(←चादिलोपे विभाषा)+++,
दैव्योऽसु॑राणाम् ।
Keith
Agni was the messenger of the gods,
Daivya of the Asuras;
मूलम्
अ॒ग्निर्दे॒वाना॑न्दू॒त आसी॑त् ।
दैव्योऽसु॑राणाम् +++(दूत आसीत्)+++ ।
पद-पाठः
अ॒ग्निः । दे॒वाना॑म् । दू॒तः । आसी॑त् । दैव्यः॑ । असु॑राणाम् ।
भट्टभास्कर-टीका
17अग्निर्देवानामित्यादि ॥ अध्वर्युप्रवरविधिः । दैव्य इति वक्ष्यमाणत्वान्मानुषोग्निर्गृह्यते । स च ब्राह्मण एषः देवानां यागे हविषो वोढाऽऽसीत्; दैव्योऽग्निरसुराणामासीत् । ‘देवाद्यञञौ’ इति यञ् ।
सायण-टीका
तदिदमध्वर्युकर्तृकं होतृविषयं वरणं विधत्ते—
अग्निर्देवानामिति। द्विविधो ह्यग्निर्मानुषो दैव्यश्चेति। भूलोके वर्तमानो होमसाधनभूतो मानुषोऽग्निः स च देवानां हविर्वहनेन तदीयो दूत आसीत्। दिवि वर्तमानो दैव्यः।
स चान्यत्रापि श्रूयते—“दिवि नाको नामाग्निः। तस्य विप्रुषो भागधेयम्” इति। स चासुराणां हितमाचरंस्तदीयो दूत आसीत्।
विश्वास-प्रस्तुतिः
तौ प्र॒जाप॑तिम् प्र॒श्ञम् ऐ॑ताम् ।
Keith
they went to question Prajapati.
मूलम्
तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ताम् ।
पद-पाठः
तौ । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । प्र॒श्ञम् । ऐ॒ता॒म् ।
भट्टभास्कर-टीका
तौ प्रजापतिं प्रश्नमैतां प्रष्टव्यत्वेनागच्छतां कतरो नो हविषा यष्टुमर्हतीति ।
सायण-टीका
तावुभावावयोः कस्य दौत्यमुचितामिति प्रश्नमभिलक्ष्य प्रजापतिं प्राप्नुताम्।
विश्वास-प्रस्तुतिः
स प्र॒जाप॑तिर् ब्राह्म॒णम् अ॑ब्रवीत् -
“ए॒तद् वि ब्रू॒ही"त्य्- “आ श्रा॑व॒ये"ति॑ ।
“इ॒दन् दे॑वाश् शृणु॒ते"ति॒ वाव तद् अ॑ब्रवीद् -
“अ॒ग्निर् दे॒वो होते"ति॑ ।
Keith
Prajapati spake to a Brahman (saying),
‘Explain the phrase, “Make announcement”’,
‘Hearken to this, O ye gods’, he said;
‘Agni the god is the Hotr’, (he said).
मूलम्
स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीत् ।
ए॒तद्वि ब्रू॒हीत्या श्रा॑व॒येति॑ ।
इ॒दन्दे॑वाश्शृणु॒तेति॒
वाव तद॑ब्रवीद्
अ॒ग्निर्दे॒वो होतेति॑ ।
भट्टभास्कर-टीका
अथ स प्रजापतिः ब्राह्मणं मानुषमग्निं दूत्ये स्थापयितुकामोऽ ब्रवीत् - आश्रावयेति । यदिदमध्वर्युणा त्वां प्रत्युच्यते एतद्विब्रूहि आचक्ष्वेति । सोऽपि -इदं देवाः शृणुत इति ।
पद-पाठः
सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । ब्रा॒ह्म॒णम् । अ॒ब्र॒वी॒त् ।
ए॒तत् । वीति॑ । ब्रू॒हि॒ । इति॑ ।
एति॑ । श्रा॒व॒य॒ । इति॑ ।
इ॒दम् । दे॒वाः । शृ॒णु॒त॒ । इति॑ ।
वाव । तत् । अ॒ब्र॒वी॒त् ।
अ॒ग्निः । दे॒वः । होता॑ । इति॑ ।
सायण-टीका
तत्र योऽयं मानुषोऽग्निः स ब्राह्मणः। ब्रह्मणि वेदे विहितं कर्म साधयितुं प्रवृत्तत्वात्। दैव्यस्त्वसुराणां कर्म साधयितुं प्रवृत्तत्वादासुर इत्युच्यते न ब्राह्मण इति। तयोर्मध्ये ब्राह्मणमग्निं प्रति प्रजापतिरब्रवीत्
हे मानुवाग्ने त्वमेव दूत्यमर्हसि। तस्मात्त्वमेव यागे वक्तव्यमेतत्सर्वं ब्रूहीति।
किं तत्सर्वमिति तदुच्यते—होतारं प्रत्यध्वर्युराश्रावयेति प्रयुङ्क्ते तस्य प्रयोगस्याभिप्रायः कथ्यते—
हे देवा इदं यजमानसंबन्धि हविर्दानं शृणुतेत्येतमर्थमेव होतर्ब्रूहीत्यभिप्रेत्य तदाश्रवणवाक्यं हे होतस्त्वां प्रत्यध्वर्प्रुरब्रवीत्।
देवेभ्य आवेदनार्थं वावेति तदब्रवीत् ।
विश्वास-प्रस्तुतिः
य ए॒व दे॒वाना॒न्, तम् अ॑वृणीत ।
Keith
He chose him of the gods.
मूलम्
य ए॒व दे॒वाना॒न्तम॑वृणीत ।
पद-पाठः
यः । ए॒व । दे॒वाना॑म् । तम् । अ॒वृ॒णी॒त॒ ।
भट्टभास्कर-टीका
ततः ‘अग्निर्देवो होता’ इत्यादिना वाक्येन य एव दूतो ब्राह्मणात्माऽग्निः तमेवावृणीत -
अयमग्निर्देवो होता ब्राह्मणात्मा देवान् यष्टुमर्हति विद्वान् आश्रावणादितत्त्वज्ञः ।
चिकित्वा महाज्ञानः - मनुरिव भारत इव जमदग्निरिवोर्व इवाप्नुवान इव च्यवन इव भृगुरिवेति ।
एवमिति । ऊर्ध्वानृषीन्प्रवृणानो होतारं वृणीते ॥
प्रदीपसिंहः
एवमिति । ऊर्ध्वानृषीन्प्रवृणानो होतारं वृणीते ॥ इति टीकावाक्यं कस्य मूलस्य व्याख्यानम् इति न स्पष्टम् ।
सायण-टीका
तस्मात्तमेव याज्यापाठमुरवेन देवानां श्रवणं यथा भवति तथा हौत्रमेतत्सर्वं त्वमेव ब्रूहीति।
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑व॒न् परा᳙सुराः।
यस्यै॒वव्ँ वि॒दुषᳶ॑ +++(गोत्र-)+++प्रव॒रम् प्र॑वृ॒णते॑ -
भव॑त्य् आ॒त्मना॒,
परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Keith
Then the gods [8] prospered,
the Asuras were defeated.
The man, who knows thus
and for whom they chose his list of ancestors,
prospers himself,
his enemy is defeated.
मूलम्
ततो॑ दे॒वा अभ॑व॒न्परा॑सुराः । यस्यै॒वव्ँवि॒दुषᳶ॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति
पद-पाठः
ततः॑ । दे॒वाः । अभ॑वन् । परेति॑ । असु॑राः ।
यस्य॑ । ए॒वम् । वि॒दुषः॑ । प्र॒व॒रमिति॑ प्र-व॒रम् । प्र॒वृ॒णत॒ इति॑ प्र-वृ॒णते॑ । भव॑ति । आ॒त्मना॑ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
18ततो देवा इत्यादि ॥ गतम् ॥
सायण-टीका
आसुरं प्रत्यध्वर्युणाऽऽश्रावयेत्यनुक्तत्वादसौ याज्यादिकं मा ब्रवीत्यभिप्रायः। यस्मात्प्रजापतिर्ब्राह्मणाग्निवरणं कृतवांस्तस्माद्देवा उत्कृष्टा अभवन्। पराभूता असुराः।
मूलम् (संयुक्तम्)
यद्ब्रा॑ह्म॒णश्चाब्रा॑ह्मणश्च प्र॒श्ञमे॒याता॑म्ब्राह्म॒णायाधि॑ ब्रूया॒द्यद्ब्रा॑ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह॒ यद्ब्रा॑ह्म॒णम्प॒राहा॒त्मन॒म्परा॑ह॒ तस्मा॑द्ब्राह्म॒णो न प॒रोच्यः॑ ॥ [69]
विश्वास-प्रस्तुतिः
यद् ब्रा॑ह्म॒णश् चाब्रा॑ह्मणश् च प्र॒श्ञम् ए॒याता॑म् -
ब्राह्म॒णायाधि॑ ब्रूयात् ।
यद् ब्रा॑ह्म॒णाया॒ध्याहा॒त्मने ऽध्या॑ह ।
यद् ब्रा॑ह्म॒णम् प॒राहा॒त्मान॒म् परा॑ह ।
Keith
If a Brahman and a non-Brahman have a litigation,
one should support the Brahman;
if one supports the Brahman,
one supports oneself;
if one opposes the Brahman,
one opposes oneself.
मूलम्
यद्ब्रा॑ह्म॒णश्चाब्रा॑ह्मणश्च प्र॒श्ञमे॒याता॑म् ।
ब्रा॒ह्म॒णायाधि॑ ब्रूयात् ।
यद्ब्रा॑ह्म॒णाया॒ध्याहा॒त्मनेऽध्या॑ह ।
यद्ब्रा॑ह्म॒णम्प॒राहा॒त्मान॒म्परा॑ह ।
पद-पाठः
यत् । ब्रा॒ह्म॒णः । च॒ । अब्रा॑ह्मणः । च॒ । प्र॒श्ञम् । ए॒याता॒मित्या॑-इ॒याता॑म् ।
ब्रा॒ह्म॒णाय॑ । अधीति॑ । ब्रू॒या॒त् ।
यत् । ब्रा॒ह्म॒णाय॑ । अ॒ध्याहेत्य॑धि-आह॑ । आ॒त्मने॑ । अधीति॑ । आ॒ह॒ ।
यत् । ब्रा॒ह्म॒णम् । प॒राहेति॑ परा-आह॑ । आ॒त्मान॑म् । परेति॑ । आ॒ह॒ ।
भट्टभास्कर-टीका
19यद्ब्राह्मणश्चेत्यादि ॥ ब्राह्मणाब्राह्मणयोः प्रश्नार्थमागतयोः ब्राह्मणायाधिकं पक्षपातेन ब्रूयात् । गतमन्यत् ।
सायण-टीका
प्रशंसति— यद्ब्राह्मणश्चेति। यदि लोके ब्राह्मणाब्राह्मणौ विवदमानावहमेवाधिक इति अधिविषयं प्रश्नं कर्तुं कंचिदभिज्ञं प्रत्यागच्छेतां सोऽभिज्ञो ब्राह्मणस्यैवाऽऽधिक्यं ब्रूयात्तेन वक्तुः स्वस्यैवाऽऽधिक्यं संपादितं भवति। ब्राह्मणस्य पराभववचने स्वस्यैव पराभव उक्तो भवति।
विश्वास-प्रस्तुतिः
तस्मा॑द् ब्राह्म॒णो न प॒रोच्यः॑ ॥
Keith
therefore one should not oppose a Brahman.
मूलम्
तस्मा॑द्ब्राह्म॒णो न प॒रोच्यः॑ ॥
पद-पाठः
तस्मा॑त् । ब्रा॒ह्म॒णः । न । प॒रोच्य॒ इति॑ परा-उच्यः॑ ॥ [
भट्टभास्कर-टीका
अनादरेण वचनं परोच्य इति । छान्दसः क्यच् ॥
इति द्वितीये पञ्चमे एकादशोऽनुवाकः ॥
सायण-टीका
तस्मात्कदाचिदपि ब्राह्मणः पराभवविषयो न कर्तव्यः। सोऽयं प्रासङ्गिकः पुरुषार्थो विधिर्द्रष्टव्यः।
इति द्वितीये पञ्चमे एकादशोऽनुवाकः ॥