०३ आग्नेयपुरोडाशविधिः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)
आग्नेयपुरोडाशविधिः
१०-११ कपालनाशे प्रायश्चित्तं च
प्रजापतिर्ऋषिः
उपस्तरणम्, अभिघारः
मूलम् (संयुक्तम्)
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑श॒त्स आ॒त्मन्नाज्य॑मधत्त॒ तन्दे॒वा अ॑ब्रुवन्ने॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॒ सो॑ऽब्रवी॒द्यजा॑न्व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॒ तस्मा॒द्यज॒न्त्याज्य॑भागा॒वुप॑ स्तृणन्त्य॒भि घा॑रयन्ति
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स आ॒त्मन्न् आज्य॑म् अधत्त ।
Keith
Prajapati assigned the sacrifices to the gods.
He placed in himself the oblation.
मूलम्
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् ।
स आ॒त्मन्नाज्य॑मधत्त ।
भट्टभास्कर-टीका
1प्रजापतिर्देवेभ्य इत्यादि ॥ यजनसाधनानि हवींषि यज्ञाः तान् देवेभ्यो विविधमादिश्य आज्यमात्मन्येवाधत्त आज्यव्यतिरिक्तमेव देवेभ्यो ददौ ।
विश्वास-प्रस्तुतिः
तन् दे॒वा अ॑ब्रुवन्न् -
ए॒ष वाव य॒ज्ञो यद् आज्य॒म्,
अप्य् ए॒व +++(भागः)+++ नो ऽत्रा॒स्त्व्
इति॑ ।
Keith
The gods said to him,
‘The oblation is the sacrifice;
let us have a share in it.’
मूलम्
तन्दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञो यदाज्य॒मप्ये॒व नोत्रा॒स्त्विति॑ ।
भट्टभास्कर-टीका
तं देवाः प्रजापतिमब्रुवन् ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् -
यजा॑न्,
व॒ आज्य॑-भागा॒व् उप॑ स्तृणान्
अ॒भि घा॑रया॒न्
इति॑ ।
Keith
He said,
‘Let them offer to you the portions of the oblation,
let them pour out (a layer),
let them sprinkle (it).’
मूलम्
सो॑ऽब्रवीत् ।
यजा॑न्, व॒ आज्य॑भागा॒वुप॑ स्तृणान॒भि घा॑रया॒निति॑ ।
भट्टभास्कर-टीका
आज्यमेव यज्ञसाधनं, तस्मादत्राज्ये अस्माकमपि भागित्वमस्त्येव । यद्वा - अत्रापि भागित्वमस्माकमस्त्विति । ततः प्रजापतिराज्यभागौ उपस्तरणाभिघारणे च देवेभ्यो दत्वा अन्यत्सर्वमात्मार्थं वृतवानिति । सर्वत्र लेट्याडागमः ।
विश्वास-प्रस्तुतिः
तस्मा॒द् यज॒न्त्य् आज्य॑-भागौ,..
उप॑ स्तृणन्त्य्,
अ॒भि घा॑रयन्ति ।
Keith
Therefore they offer the portions of the oblation,
they pour out (a layer), and sprinkle (it).
मूलम्
तस्मा॒द्यज॒न्त्याज्य॑भागौ,..
उप॑ स्तृणन्त्य॒भि घा॑रयन्ति ।
भट्टभास्कर-टीका
तस्मादित्यादि । देवानां तृप्त्यर्थम् ॥
अयातयामता ऽऽज्यस्य
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
कस्मा॑त् स॒त्याद् या॒तया॑मान्य् अ॒न्यानि॑ ह॒वीँष्य्
अया॑तयाम॒म् आज्य॒म्
इति॑ ।
“प्रा॒जा॒प॒त्यम्” इति॑ ब्रूया॒त् -
“अया॑तयामा॒ हि दे॒वाना॑म् प्र॒जाप॑ति॒र्” इति॑ ।
Keith
The theologians say,
‘For what reason are the other offerings worn out,
but the oblation fresh?’
He should reply,
‘Because it is Prajapati’s [1],
for Prajapati is of the gods the fresh one.’
मूलम्
ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा॑त्स॒त्याद्या॒तया॑मान्य॒न्यानि॑ ह॒वीँष्यया॑तयाम॒माज्य॒मिति॑ प्राजाप॒त्यम् [14]
इति॑ ब्रूया॒दया॑तयामा॒ हि दे॒वाना॑म्प्र॒जाप॑ति॒रिति
भट्टभास्कर-टीका
2ब्रह्मवादिन इत्यादि ॥ यातयामानि गच्छता कालेन गतसाराणि देवानां मध्ये प्रजापतिरयातयामा गतेऽपि महति काले अगतसारत्वात् । अन्येषां च मन्वन्तरावधिकालस्थत्वात् ॥
छन्दो-भागः
मूलम् (संयुक्तम्)
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न्न वो॑ऽभा॒गानि॑ ह॒व्यव्ँव॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुरव॒त्तम॑धारयन्पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुरव॒त्तञ्जु॒होति॒ छन्दाँ॑स्ये॒व तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँव॑ह॒न्ति
विश्वास-प्रस्तुतिः
छन्दाँ॑सि दे॒वेभ्यो ऽपा॑क्राम॒न् -
न वो॑ऽभा॒गानि॑ ह॒व्यव्ँ व॑क्ष्याम॒
इति॑ ।
+++(गायत्र्य्-अनुष्टुभ्-त्रिष्टुभ्-जगतीभ्यस्)+++ तेभ्य॑ ए॒तच् च॑तुर्-अव॒त्तम् अ॑धारयन् -
पुरोऽनुवा॒क्या॑यै, या॒ज्या॑यै, दे॒वता॑यै, वषट्का॒राय॑ ।
Keith
The metres ran away from the gods (saying),
‘We will not bear the offering,
if we have no share.’
They kept for them (the offering) divided into four parts, for the Puronuvakya, the Yajya, the deity, the Vasat call.
मूलम्
छन्दाँ॑सि दे॒वेभ्योऽपा॑क्राम॒न् ।
न वो॑ऽभा॒गानि॑ ह॒व्यव्ँव॑क्ष्याम॒ इति॑ ।
तेभ्य॑ ए॒तच्च॑तुरव॒त्तम॑धारयन् ।
पुरोनुवा॒क्या॑यै, या॒ज्या॑यै, दे॒वता॑यै, वषट्का॒राय॑ ।
भट्टभास्कर-टीका
3छन्दांसीत्यादि ॥ पुरोऽनुवाक्यादिचतुष्ठयार्थेन चतुर्गृहीतेन छन्दसां तृप्तिः । गायत्रीत्रिष्टुब्जगत्यनुष्टुभां प्रधानच्छन्दसां ग्रहणमित्येके ॥
विश्वास-प्रस्तुतिः
यच् च॑तुर्-अव॒त्तञ् जु॒होति॒
छन्दाँ॑स्य् ए॒व तत् प्री॑णाति ।
तान्य् अ॑स्य प्री॒तानि॑
दे॒वेभ्यो॑ ह॒व्यव्ँ व॑हन्ति।
Keith
In that he offers (the offering) in four parts,
he delights the metres,
and they delighted by him carry the offering to the gods.
मूलम्
यच्च॑तुरव॒त्तञ्जु॒होति॒ छन्दाँ॑स्ये॒व तत्प्री॑णाति ।
तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँव॑हन्ति।
मूलम् (संयुक्तम्)
अङ्गि॑रसो॒ वा इ॒त उ॑त्त॒मास्सु॑व॒र्गल्ँ लो॒कमा॑य॒न्तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॒न्ते [15]
अ॒प॒श्य॒न्पु॒रो॒डाश॑ङ्कू॒र्मम्भू॒तँ सर्प॑न्त॒न्तम॑ब्रुव॒न्निन्द्रा॑य ध्रियस्व॒ बृह॒स्पत॑ये ध्रियस्व॒ विश्वे॑भ्यो दे॒वेभ्यो॑ ध्रिय॒स्वेति॒ स नाध्रि॑यत॒ तम॑ब्रुवन्न॒ग्नये॑ ध्रिय॒स्वेति॒ सो॒॑ऽग्नये॑ऽध्रियत॒ यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ्चा॑च्यु॒तो भव॑ति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै
विश्वास-प्रस्तुतिः
अङ्गि॑रसो॒ वा इ॒त उ॑त्त॒मास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।
तद् ऋष॑यो यज्ञ-वा॒स्त्व् अ॑भ्य॒वाय॑न्।
Keith
The Angirases were the last to go hence to the world of heaven. The Rsis came to the place of sacrifice;
पुरोडाशानाम् उपाञ्जनम्
मूलम्
अङ्गि॑रसो॒ वा इ॒त उ॑त्त॒मास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
तदृष॑यो यज्ञवा॒स्त्व॑भ्य॒वाय॑न् ।
भट्टभास्कर-टीका
4अङ्गिरसो वा इत्यादि ॥ आग्नेयस्याष्टाकपालस्य विधिः । गेतेष्वङ्गिरस्सु तेषां यज्ञवास्तु अभ्यागताः ऋषयः कूर्मरूपिणं सर्पन्तं च्यवमानं स्वर्गादवपतन्तं पुरोडाशमपश्यन् ।
विश्वास-प्रस्तुतिः
ते॑ऽपश्यन् पुरो॒डाश॑ङ् कू॒र्मम् भू॒तँ सर्प॑न्तम्।
तम् अ॑ब्रुव॒न्-
“इन्द्रा॑य ध्रियस्व।
बृह॒स्पत॑ये ध्रियस्व।
विश्वे॑भ्यो दे॒वेभ्यो॑ ध्रिय॒स्वे"ति॑ ।
स नाध्रि॑यत ।
Keith
they [2] saw the sacrificial cake creeping about, having become a tortoise.
They said to it,
‘Be firm for Indra;
be firm for Brhaspati;
be firm for the All-gods.’
It did not become firm.
मूलम्
ते॑ऽपश्यन् पुरो॒डाश॑ङ्कू॒र्मम्भू॒तँ सर्प॑न्त॒न्तम॑ब्रुवन् ।
इन्द्रा॑य ध्रियस्व॒,
बृह॒स्पत॑ये ध्रियस्व॒,
विश्वे॑भ्यो दे॒वेभ्यो॑ ध्रिय॒स्वेति॑ ।
स नाध्रि॑यत ।
भट्टभास्कर-टीका
तमित्यादि । ध्रियस्व अवतिष्ठस्व ।
विश्वास-प्रस्तुतिः
तम् अ॑ब्रुवन् -
“अ॒ग्नये॑ ध्रिय॒स्वे"ति॑ ।
सो॒॑ऽग्नये॑ऽध्रियत ।
यद् आ॑ग्ने॒यो॒॑ ऽष्टाक॑पालो
ऽमावा॒स्या॑याञ् च पौर्णमा॒स्याञ् चा॑च्यु॒तो भव॑ति ,..
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
Keith
They said to it,
‘Be firm for Agni.’
It became firm for Agni.
In that (the cake) for Agni on eight potsherds is unmoved at the full and at the new moon,
(it serves) to conquer the world of heaven.
मूलम्
तम॑ब्रुवन् ।
अ॒ग्नये॑ ध्रिय॒स्वेति॑ ।
सो॒॑ऽग्नये॑ऽध्रियत ।
यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ्चा॑च्यु॒तो भव॑ति ,..
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।
भट्टभास्कर-टीका
अच्युत इति । आग्नेयस्याच्युतत्वात् स्वर्गस्याभिजयः ॥
मूलम् (संयुक्तम्)
तम॑ब्रुवन्क॒थाहा॑स्था॒ इत्यनु॑पाक्तोऽभूव॒मित्य॑ब्रवी॒द्यथाक्षोऽनु॑पाक्तः [16] अ॒वार्च्छ॑त्ये॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
विश्वास-प्रस्तुतिः
तम् अ॑ब्रुवन् -
“क॒थाऽहा॑स्था॒?” इति॑।
“+++(आज्येन)+++ अनु॑पाक्तो ऽभूव॒म्” इत्य् अ॑ब्रवीत्।
“यथाक्षोऽनु॑पाक्तो॒ ऽवार्च्छ॑द्
ए॒वम् अवा॑र॒म्” इति॑।+++(5)+++
उ॒परि॑ष्टाद् अ॒भ्यज्या॒धस्ता॒द् उपा॑नक्ति ..
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
Keith
They said to it, ‘How hast thou been left?’
‘I have not been anointed’, he said,
‘just as an axle not anointed [3] goes wrong, so I have gone wrong.’
After anointing it above,
he anoints it below,
to gain the world of heaven.
मूलम्
तम॑ब्रुवन् ।
क॒थाहा॑स्था॒ इत्यनु॑पाक्तोऽभूव॒मित्य॑ब्रवीत् ।
यथाक्षोऽनु॑पाक्तो॒ऽवार्च्छ॑द्
ए॒वमवा॑र॒मित्यु॒परि॑ष्टाद॒भ्यज्या॒धस्ता॒दुपा॑नक्ति ..
सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
भट्टभास्कर-टीका
5तमित्यादि ॥ अभ्यज्यमानोपाञ् जनहेतुः । केन हेतुना त्वमहास्थाः यज्ञसकाशात्प्रच्युतोऽसि ।
अवार्छतीति । अवपत्तिः अवार्च्छतेः पाघ्रादिना ऋच्छादेशः । ‘उपसर्गादृति धातौ’ इति वृद्धिः ।
अवारमिति । ‘सर्तिशास्त्यार्तिभ्यश्च’ इत्यङ् ॥
मूलम् (संयुक्तम्)
सर्वा॑णि क॒पाला॑न्य॒भि प्र॑थयति॒ ताव॑तᳶ पुरो॒डाशा॑न॒मुष्मिल्ँ॑ लो॒के॑ऽभि ज॑यति
कपालेषु स्थापनम्
विश्वास-प्रस्तुतिः
सर्वा॑णि क॒पाला॑न्य् अ॒भि प्र॑थयति +++(पुरोडाशम्)+++।
ताव॑तᳶ पुरो॒डाशा॑न् अ॒मुष्मिल्ँ॑ लो॒के॒॑ऽभि ज॑यति ।
Keith
He spreads (the cake) on all the fragments;
so many cakes does he conquer in yonder world.
मूलम्
सर्वा॑णि क॒पाला॑न्य॒भि प्र॑थयति ।
ताव॑तᳶ पुरो॒डाशा॑न॒मुष्मिल्ँ॑ लो॒के॑ऽभि ज॑यति ।
भट्टभास्कर-टीका
6अभि प्रथयतीति ॥ सर्वाणि कपालान्यभि व्याप्नोति तथा पृथूकरोति ।
तावत इति । यावन्ति कपालान्यभिप्रथयति तावत्सङ्ख्यान् पुरोडाशानमुष्मिन् लोके इष्टसाधनत्वेन प्राप्नोति ॥
मूलम् (संयुक्तम्)
यो विद॑ग्ध॒स्स नैर्॑ऋ॒तो योऽशृ॑त॒स्स रौ॒द्रो यश्शृ॒तस्स सदे॑व॒स्तस्मा॒दवि॑दहता शृत॒ङ्कृत्य॑स्सदेव॒त्वाय
पाकः
विश्वास-प्रस्तुतिः
यो विद॑ग्ध॒स् स नै॑र्ऋ॒तः,
यो ऽशृ॑त॒स् स रौ॒द्रः ,
यश् शृ॒तस् स सदे॑वः, ..
तस्मा॒द् अवि॑दहताशृत॒ङ् कृत्य॑स् सदेव॒त्वाय॑ ।
Keith
That which is burnt belongs to Nirrti,
that which is not cooked to Rudra,
that which is cooked to the gods.
Therefore one should cook it, without burning it, for the gods.
मूलम्
यो विद॑ग्ध॒स्स नै॑र्ऋ॒तः,
योऽशृ॑त॒स्स रौ॒द्रः ,
यश्शृ॒तस्स सदे॑वः, ..
तस्मा॒दवि॑दहता शृत॒ङ्कृत्य॑स्सदेव॒त्वाय॑ ।
भट्टभास्कर-टीका
7विदग्धो विरूपो दग्धः, अतिदग्धो वा । अशृतः अपक्वः । शृतः सुष्ठु पक्वः । सदेवः देवयोग्यः । शृतं कृत्य इति । सुष्ठु पक्तव्यः । शृतमिति तु नकारान्तो निपातः । ‘विभाषा कृवृषोः’ इत्यप् ॥
भस्मना वासनम्
विश्वास-प्रस्तुतिः
भस्म॑ना॒भि वा॑सयति ।
तस्मा॑न् माँ॒सेनास्थि॑ छ॒न्नम्।
Keith
He covers it with ashes; therefore the bones are clothed with flesh.
मूलम्
भस्म॑ना॒भि वा॑सयति ।
तस्मा॑न् माँ॒सेनास्थि॑ छ॒न्नम्।
भट्टभास्कर-टीका
8अभितश्छादनमव्भिवासनम् ॥
वेदेन वासनम्
मूलम् (संयुक्तम्)
तस्मा॑न्माँ॒सेनास्थि॑ छ॒न्नव्ँवे॒देना॒भि वा॑सयति॒ तस्मा॑त् [17] केशै॒श्शिर॑श्छ॒न्नम्प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒कादग॑तन्देवलो॒कय्ँयच्छृ॒तँ ह॒विरन॑भिघारितमभि॒घार्योद्वा॑सयति देव॒त्रैवैन॑द्गमयति
विश्वास-प्रस्तुतिः
वे॒देना॒भि वा॑सयति।
तस्मा॒त् केशै॒श् शिर॑श् छ॒न्नम्।
Keith
He covers it with the bunch of grass;
therefore [4] the head is covered with hair.
मूलम्
वे॒देना॒भि वा॑सयति।
तस्मा॒त् केशै॒श्शिर॑श्छ॒न्नम्।
विश्वास-प्रस्तुतिः
प्रच्यु॑तव्ँ॒ वा ए॒तद् अ॒स्माल् लो॒काद्,
अग॑तन् देवलो॒कय्ँ
यच् छृ॒तँ ह॒विर् अन॑भिघारितम्।
अ॒भि॒घार्योद्वा॑सयति ।
दे॒व॒त्रैवैन॑द् गमयति ।
Keith
The offering which is cooked without being sprinkled has fallen from this world,
but has not reached the world of the gods.
He sprinkles it before covering it;
verily he makes it go among the gods.
मूलम्
प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒कादग॑तन्देवलो॒कय्ँयच्छृ॒तँ
ह॒विरन॑भिघारितमभि॒घार्योद्वा॑सयति ।
दे॒व॒त्रैवैन॑द्गमयति ।
भट्टभास्कर-टीका
9प्रच्युतमित्यादि ॥ गतम् ।
देवत्रेति । ‘देवमनुश्य’ इत्यादिना द्वितीयान्तात्त्राप्रत्ययः ॥
कपालानां सङ्ख्ययोद्वासनविधिः
मूलम् (संयुक्तम्)
यद्येक॑ङ्क॒पाल॒न्नश्ये॒देको॒ मास॑स्सव्ँवत्स॒रस्यान॑वेत॒स्स्यादथ॒ यज॑मान॒ᳶ प्र मी॑येत॒ यद्द्वे नश्ये॑ता॒न्द्वौ मासौ॑ सव्ँवत्स॒रस्यान॑वेतौ॒ स्याता॒मथ॒ यज॑मान॒ᳶ प्र मी॑येत स॒ङ्ख्यायोद्वा॑सयति॒ यज॑मानस्य [18] गो॒पी॒थाय
विश्वास-प्रस्तुतिः
यद्य् एक॑ङ् क॒पाल॒न् नश्ये॒द्
एको॒ मास॑स् सव्ँवत्स॒रस्यान॑वेत॒स् स्याद् +++(←चादिलोपे विभाषा)+++,
अथ॒ यज॑मान॒ᳶ प्र मी॑येत।
यद् द्वे नश्ये॑ता॒न्
द्वौ मासौ॑ सव्ँवत्स॒रस्यान॑वेतौ॒ स्याता॒म्
+++(←चादिलोपे विभाषा)+++,
अथ॒ यज॑मान॒ᳶ प्र मी॑येत।
स॒ङ्ख्यायोद्वा॑सयति॒ - यज॑मानस्य गोपी॒थाय॑ ।
Keith
If one fragment were lost,
one month of the year would be omitted,
and the sacrificer would perish.
If two were lost, two months of the year would be omitted,
and the sacrificer would perish.
He counts before covering, to guard the sacrificer [5].
मूलम्
यद्येक॑ङ्क॒पाल॒न्नश्ये॑त् ।
एको॒ मास॑स्सव्ँवत्स॒रस्यान॑वेत॒स्स्यात् ।
अथ॒ यज॑मान॒ᳶ प्र मी॑येत ।
यद्द्वे नश्ये॑ताम् ।
द्वौ मासौ॑ सव्ँवत्स॒रस्यान॑वेतौ॒ स्याताम् ।
अथ॒ यज॑मान॒ᳶ प्र मी॑येत ।
स॒ङ्ख्यायोद्वा॑सयति॒ यज॑मानस्य गोपी॒थाय॑ ।
भट्टभास्कर-टीका
10यद्येकमित्यादि ॥ कपालानां सङ्ख्ययोद्वासनविधिः । अनवेतः अनवगतः । अन्यून इति यावत् सङ्ख्ययोद्वासनं यजमानस्य रक्षार्थम् ॥
कपालनाशे प्रायश्चित्तम्
विश्वास-प्रस्तुतिः
यदि॒ नश्ये॑द् आश्वि॒नन् द्वि॑कपा॒लन् निर्व॑पेद्
द्यावापृथि॒व्य॒॑म् एक॑-कपालम्।
अ॒श्विनौ॒ वै दे॒वाना॑म् भि॒षजौ॒,
ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ् क॑रोति ।
द्या॒वा॒पृ॒थि॒व्य॒॑ एक॑कपालो भवति ।
अ॒नयो॒र् वा ए॒तन् न॑श्यति ।
यन् नश्य॑ति -
अ॒नयो॑र् ए॒वैन॑द् विन्दति॒ प्रति॑ष्ठित्यै ॥
Keith
If it be lost, be should make an offering on two potsherds to the Aśvins, and on one potsherd to sky and earth. The Aśvins are the physicians of the gods; verily by them he heals it. Then is offered an offering on one potsherd to sky and earth; in them is lost what is lost; verily in them he finds it, (and it serves) for support.
मूलम्
यदि॒ नश्ये॑दाश्वि॒नन्द्वि॑कपा॒लन्निर्व॑पेद्द्यावापृथि॒व्य॑मेक॑कपालम॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति द्यावापृथि॒व्य॑ एक॑कपालो भवत्य॒नयो॒र्वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒नयो॑रे॒वैन॑द्विन्दति॒ प्रति॑ष्ठित्यै ॥ [19]
भट्टभास्कर-टीका
11प्रमादाद्विनाशे आश्विनादिविधिः । गतमन्यत् । इष्ट्यन्तभाविनोऽपि हविश्श्रपणान्ते प्रासन्ङ्गिकमुद्वासनस्यामननम् ॥
इति द्वितीये षष्ठे तृतीयोनुवाकः ॥