०२ आज्य-भाग-प्रधान-याज्यानुवाक्यानि ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)
२ आज्यभागौ ६ तदीये याज्यानुवाक्ये
७-१७ प्रधानस्य हविषो याज्यानुवाक्ये च
प्रजापतिर्ऋषिः
आज्यभागौ
चक्षुष्ट्वम्
मूलम् (संयुक्तम्)
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ॒ यदाज्य॑भागौ॒ यज॑ति॒ चक्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति पूर्वा॒र्धे जु॑होति
विश्वास-प्रस्तुतिः
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद् आज्य॑-भागौ ।
यद् आज्य॑भागौ॒ यज॑ति॒
चक्षु॑षी ए॒व तद् य॒ज्ञस्य॒ प्रति॑ दधाति।
Keith
The two portions of the oblation are the eyes of the sacrifice.
In that he offers the two portions of the oblation, he inserts the two eyes of the sacrifice.
मूलम्
चक्षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यदाज्य॑भागौ ।
यदाज्य॑भागौ॒ यज॑ति ।
चक्षु॑षी ए॒व तद्य॒ज्ञस्य॒ प्रति॑ दधाति ।
भट्टभास्कर-टीका
1’चक्षुषी वा इत्यादि ॥ आज्यभागयोर्विधिः । आज्यं भागं ययोः तावाज्यभागौ अग्नीषोमीयौ तयोश्चक्षुस्स्थानीययोः यागेन यज्ञस्य चक्षुषी प्रतिदधाति । प्रतिमुखं स्थापयति ॥
मूलम् (संयुक्तम्)
तस्मा॑त्पूर्वा॒र्धे चक्षु॑षी प्र॒बाहु॑ग्जुहोति॒ तस्मा॑त्प्र॒बाहु॒क्चक्षु॑षी
विश्वास-प्रस्तुतिः
पू॒र्वा॒र्धे जु॑होति।
तस्मा॑त् पूर्वा॒र्धे चक्षु॑षी।
Keith
He offers in the front place;
therefore the eyes are in front.
मूलम्
पू॒र्वा॒र्धे जु॑होति।
तस्मा॑त्पूर्वा॒र्धे चक्षु॑षी।
विश्वास-प्रस्तुतिः
प्र॒बाहु॑ग्+++(=बाहुवत् [समं])+++ जुहोति ।
तस्मा॑त् प्र॒बाहु॒क् चक्षु॑षी ।
Keith
He offers evenly;
therefore the eyes are even.
मूलम्
तस्मा॑त्प्र॒बाहु॒क्चक्षु॑षी ।
भट्टभास्कर-टीका
2प्रबाहुगिति ॥ देशतः प्रमाणतश्च ते सममित्यर्थः ॥
मूलम् (संयुक्तम्)
देवलो॒कव्ँ वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒कँ सोमे॑नोत्तरा॒र्धे॑ऽग्नये॑ जुहोति दक्षिणा॒र्धे सोमा॑यै॒वमि॑व॒ हीमौ लो॒काव॒नयो॑र्लो॒कयो॒रनु॑ख्यात्यै॒
देव-पितृ-लोक-ख्यातिः
विश्वास-प्रस्तुतिः
दे॒व॒-लो॒कव्ँ वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति
पितृलो॒कँ सोमे॑न।
Keith
By Agni the sacrificer discerns the world of the gods, by Soma the world of the Pitrs;
मूलम्
दे॒व॒लो॒कव्ँ वा अ॒ग्निना॒ यज॑मा॒नोऽनु॑ पश्यति पितृलो॒कँ सोमे॑न।
विश्वास-प्रस्तुतिः
उ॒त्त॒रा॒र्धे॒॑ऽग्नये॑ जुहोति,
दक्षिणा॒र्धे सोमा॑य।
ए॒वम् इ॑व॒ हीमौ लो॒कौ।
अ॒नयो॑र् लो॒कयो॒र् अनु॑ख्यात्यै ।
Keith
in the north part he offers to Agni,
in the south to Soma,
for these worlds are thus, as it were, to illumine these worlds.
मूलम्
उ॒त्त॒रा॒र्धे॑ऽग्नये॑ जुहोति,
दक्षिणा॒र्धे सोमा॑य।
ए॒वमि॑व॒ हीमौ लो॒काव॒नयो॑र्लो॒कयो॒रनु॑ख्यात्यै ।
भट्टभास्कर-टीका
3देवलोकं वा इत्यादि ॥ गतम् । अनुक्रमेण ख्यानमनुख्यातिः । ‘तादौ च’ इति गतेः प्रकृति स्वरत्वम् ॥
राजत्वम्
विश्वास-प्रस्तुतिः
राजा॑नौ॒ वा ए॒तौ दे॒वता॑नां [8]
यद् अ॒ग्नी-षोमा॑व्,
अ॒न्त॒रा दे॒वता॑ इज्येते -
दे॒वता॑नाव्ँ॒ विधृ॑त्यै।
तस्मा॒द् राज्ञा॑ मनु॒ष्या॑ विधृ॑ताः।
Keith
Agni and Soma are the kings of the gods [1]. They are sacrificed to between the gods, to separate the gods. Therefore men are separated by the king.
मूलम्
राजा॑नौ॒ वा ए॒तौ दे॒वता॑नाम् [8] यद॒ग्नीषोमा॑व् अन्त॒रा दे॒वता॑ इज्येते दे॒वता॑नाव्ँ॒विधृ॑त्यै॒ तस्मा॒द्राज्ञा॑ मनु॒ष्या॑ विधृ॑ताः
भट्टभास्कर-टीका
4राजानावित्यादि ॥ देवानां मध्ये राजनशीलौ । अन्तरेति । देवानां मध्ये इज्येते । ‘अन्तरान्तरेण’ इति द्वितीया । प्रयाजप्रधानदेवतापेक्षमन्तरात्वमेतयोः ॥
पशु-धारणम्
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ किन्तद्य॒ज्ञे यज॑मानᳵ कुरुते॒ येना॒न्यतो॑दतश्च प॒शून्दा॒धारो॑भ॒यतो॑दत॒श्चेत्य् ऋच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ -
“किन् तद् य॒ज्ञे यज॑मानᳵ कुरुते॒
येना॒न्यतो॑दतश् च प॒शून् दा॒धारो॑भ॒यतो॑दत॒श् चे"ति॑
Keith
The theologians say, ‘What is it that the sacrificer does in the sacrifice to support both those animals which have incisors on one side only and those which have incisors on both?’
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किन्तद्य॒ज्ञे यज॑मानᳵ कुरुते॒ येना॒न्यतो॑दतश्च प॒शून्दा॒धारो॑भ॒यतो॑दत॒श्चेति॑
भट्टभास्कर-टीका
5ब्रह्मवादिन इत्यादि ॥ अन्यतरपार्श्वस्थदन्ता अश्वादयः । ‘छन्दसि च’ इति दतृभावः । ‘दाधार इति छान्दसो लिट्, तुजादित्वादभ्यासस्य दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
ऋच॑म् अ॒नूच्याज्य॑भागस्य “जुषा॒णे"न॑ यजति॒ -
तेना॒न्यतो॑-दतो दाधार।
ऋच॑म् अ॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ -
तेनो॑भ॒यतो॑दतो दाधार।
Keith
When he has repeated a Rc,
he makes an offering of the portion of the oblation with the jusana formula;
by that means he supports those with incisors on one side only.
When he has repeated a Rc, he makes an offering of the sacrificial food (havis) with a Rc;
by that means he supports those with incisors on both sides.
मूलम्
ऋच॑म॒नूच्याज्य॑भागस्य जुषा॒णेन॑ यजति॒ तेना॒न्यतो॑दतो दाधा॒रर्च॑म॒नूच्य॑ ह॒विष॑ ऋ॒चा य॑जति॒ तेनो॑भ॒यतो॑दतो दाधार
भट्टभास्कर-टीका
ऋचमिति । ‘अग्निर्वृत्राणि’ इत्यादिकां पुरोऽनुवाक्याम् । जुषाणेनेति । ‘जुषाणो अग्निराज्यस्य’ इत्यादियजुषा याज्यया ।
ऋचमिति । ‘अग्निर्मूर्धा’ इत्यादिकां पुरोऽनुवाक्याम् । ऋचेति । ‘भुवो यज्ञस्य’ इत्यादिकया याज्यया ॥
पुरोनुवाक्या - मूर्धा
मूलम् (संयुक्तम्)
मूर्ध॒न्वती॑ पुरोनुवा॒क्या॑ भवति मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति [9]
विश्वास-प्रस्तुतिः
मू॒र्ध॒न्वती॑ पुरोनुवा॒क्या॑ भवति ।
मू॒र्धान॑म् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।
Keith
The Puronuvakya contains the word ‘head’;
verily he makes him head of his peers [2].
मूलम्
मू॒र्ध॒न्वती॑ पुरोनुवा॒क्या॑ भवति ।
मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
भट्टभास्कर-टीका
6मूर्धन्वतीति ॥ मूर्धशब्दयुक्ता पुरो ऋक् । ‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्वम् ॥
याज्या - नियुत्
विश्वास-प्रस्तुतिः
नि॒युत्व॑त्या यजति॒ -
भ्रातृ॑व्यस्यै॒व प॒शून् नि यु॑वते
Keith
He offers with averse containing the word ’team’ (niyut); verily he appropriates (ni-yu) the cattle of his enemy.
मूलम्
नि॒युत्व॑त्या यजति॒ भ्रातृ॑व्यस्यै॒व प॒शून्नि यु॑वते
भट्टभास्कर-टीका
7नियुत्वत्येति ॥ नियुच्छब्दवत्या । ‘तसौ मत्वर्थे’ इति भत्वम् ।
नियुवत इति । भ्रातृव्यं नितरां पृथक्करोति । यौतेः व्यत्ययेन शः, आत्मने पदं च ॥
शक्वरी
विश्वास-प्रस्तुतिः
के॒शिनँ॑ ह दा॒र्भ्यङ् के॒शी सात्य॑कामिर् उवाच -
स॒प्त-प॑दान् ते॒ शक्व॑रीँ॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒
यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न्,
यस्यै॑ वी॒र्ये॑णो॒भयो॑र् लो॒कयो॒र् ज्योति॑र् ध॒त्ते
यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान् भु॒नक्ति॑,
जघना॒र्धेन॑ धे॒नुर्
इति॑
Keith
Keśin Satyakami said to Keśin Darbhya, ‘The seven-footed Śakvari I shall use for thee at the sacrifice to-morrow, by whose strength one defeats the enemies that have arisen and those that shall be, … by the first half of whose strength the ox feeds, by the second half the cow.’
मूलम्
के॒शिनँ॑ ह दा॒र्भ्यङ्के॒शी सात्य॑कामिरुवाच स॒प्तप॑दान्ते॒ शक्व॑रीँ॒ श्वो य॒ज्ञे प्र॑यो॒क्तासे॒ यस्यै॑ वी॒र्ये॑ण॒ प्र जा॒तान्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒न्यस्यै॑ वी॒र्ये॑णो॒भयो॑र्लो॒कयो॒र्ज्योति॑र्ध॒त्ते यस्यै॑ वी॒र्ये॑ण पूर्वा॒र्धेना॑न॒ड्वान्भु॒नक्ति॑ जघना॒र्धेन॑ धे॒नुरिति॑
भट्टभास्कर-टीका
8केशिनमित्यादि ॥ दर्भस्यापत्यं केशिनामानं सत्यकामस्यापत्यं केशिनामा उवाच । दर्भशब्दात् गर्गादियञ उदात्तनिवृत्तिस्वरेण उदात्तत्वम् । सप्तपदामिति । त्रिपदा पुरोऽनुवाक्या चतुष्पदा याज्या त्रिष्टुप् । अनयोः समष्टिः सप्तपदा । शक्वरीं सर्वार्थसाधनभूतां वक्ष्यमाणवीर्यवतीं तव यज्ञे श्वः प्रयोक्तासे । तथा महावीर्या सा ज्ञातव्येति विषेशमभिधित्सुः सात्यकामिरुवाचेति । ‘न लुट्’ इति निघाताभावः ।
वीर्यफलानि स्वयमेव इदानीं दर्शयति - यस्या इत्यादि । पुरोनुवाक्या प्राथम्याज्जातानां शत्रूणां प्रतिनोदः उत्पत्तिनिरोधः ।
उभयोरिति । अस्मिश्चामुष्मिंश्च पूर्वोर्त्तरभावादुभयोः ।
पूर्वार्धेनेति । अनड्वान् वाहनादिना पूर्वार्धेन प्रजाः भुनक्ति रक्षति । धेनुः क्षीरस्रवणादिना जघनार्धेन प्रजाः भुनक्ति । पूर्वोत्तरत्वात् अनयोः ॥
मूलम् (संयुक्तम्)
पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दत उ॒परि॑ष्टाल्लक्ष्मा [10]
या॒ज्या॑ जनि॒ष्यमा॑णाने॒व प्रति॑ नुदते पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवत्य॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्त उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते॒
विश्वास-प्रस्तुतिः
पु॒रस्ता॑ल्-लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्र णु॑दते ।
उ॒परि॑ष्टाल्-लक्ष्मा या॒ज्या॑,
जनि॒ष्यमा॑णान् ए॒व प्रति॑ नुदते ।
Keith
The Puronuvakya is marked in front;
verily he defeats the enemies that have arisen;
the Yajya is marked behind [3];
verily he defeats the enemies that shall be.
मूलम्
पु॒रस्ता॑ल्-लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्र णु॑दते ।
उ॒परि॑ष्टाल्-लक्ष्मा या॒ज्या॑ जनि॒ष्यमा॑णान् ए॒व प्रति॑ नुदते ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
अ॒स्मिन्ने॒व लो॒के ज्योति॑र् धत्ते ।
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॒॑
ऽमुष्मि॑न्न् ए॒व लो॒के ज्योति॑र् धत्ते ।
ज्योति॑ष्मन्ताव् अस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वव्ँ वेद॑
Keith
The Puronuvakya is marked in front; verily he places light in this world; the Yajya is marked behind; verily he places light in yonder world. Full of light become these worlds to him who knows thus.
मूलम्
पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते ।
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑मुष्मि॑न्ने॒व लो॒के ज्योति॑र्धत्ते ।
ज्योति॑ष्मन्तावस्मा इ॒मौ लो॒कौ भ॑वतो॒ य ए॒वव्ँ वेद॑
भट्टभास्कर-टीका
9अथेदानीं स्वयमेव वीर्यविशेषमनयोर्दर्शयितुमाह - पुरस्ताल्लक्ष्मेति ॥ लक्षणं यष्टव्यदेवतानामधेयम् । पूर्वस्मिन्नर्धर्चे लक्ष्म यस्यास्सा तथोक्ता । यथा - ‘अग्निर्मूर्धा’ इत्यादि । उत्तरस्मिन्नर्धर्चे लक्ष्मवती उपरिष्टाल्लक्ष्मा यथा - ‘जिह्वामग्ने चकृषे’ इति । उभयत्रापि ‘मनः’ इति ङीप्प्रतिषेधः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवति॒ तस्मा॑त्पूर्व॒र्धेना॑न॒ड्वान्भु॑नक्त्यु॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ तस्मा॑ज्जघना॒र्धेन॑ धे॒नुर्य ए॒वव्ँ वेद॑ भु॒ङ्क्त ए॑नमे॒तौ
विश्वास-प्रस्तुतिः
पु॒रस्ता॑ल्-लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
तस्मा॑त् पूर्व॒र्धेना॑न॒ड्वान् भु॑नक्ति ।
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ ।
तस्मा॑ज् जघना॒र्धेन॑ धे॒नुः।
य ए॒वव्ँ वेद॑ भु॒ङ्क्त ए॑नम् ए॒तौ ।
Keith
The Puronuvakya, is marked in front; therefore the ox feeds with the first half. The Yajya is marked behind; therefore the cow feeds with the second half. Him who knows thus these two enjoy.
मूलम्
पु॒रस्ता॑ल्लक्ष्मा पुरोनुवा॒क्या॑ भवति ।
तस्मा॑त्पूर्व॒र्धेना॑न॒ड्वान्भु॑नक्ति ।
उ॒परि॑ष्टाल्लक्ष्मा या॒ज्या॑ ।
तस्मा॑ज्जघना॒र्धेन॑ धे॒नुः।
य ए॒वव्ँ वेद॑ भु॒ङ्क्त ए॑नमे॒तौ ।
भट्टभास्कर-टीका
10अस्मा इति ॥ यजमानार्थं य एवं वेद तस्मै च इमौ लोकौ ज्योतिष्मन्तौ भवतः ।
भुङ्क्त इति । एवं वेदितारमेतौ अनड्वान् धेनुश्च भुङ्क्तः । यथायथं संरक्षतः ।
एष च एषा च एतौ । ‘पूमान् स्त्रिया’ इति पुंसश्शेषः ॥
वज्रः
मूलम् (संयुक्तम्)
वज्र॒ आज्यव्ँ॒वज्र॒ आज्य॑भागौ [11] वज्रो॑ वषट्का॒रस्त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑र॒त्यछ॑म्बट्कारमप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्या॑
विश्वास-प्रस्तुतिः
वज्र॒ आज्यँ॒ , वज्र॒ आज्य॑भागौ ,वज्रो॑ वषट्का॒रस्,
त्रि॒वृत॑म् ए॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
Keith
The oblation is a bolt, the portions of the oblation are a bolt [4], the Vasat call is a bolt; thus forges be a threefold bolt and hurls it at his foe, so as not to make a failure.
मूलम्
वज्र॒ आज्यँ॒ , वज्र॒ आज्य॑भागौ ,वज्रो॑ वषट्का॒रस्, त्रि॒वृत॑मे॒व वज्रँ॑ स॒म्भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति ।
विश्वास-प्रस्तुतिः
अछ॑म्बट्कारम् अप॒गूर्य॒+++(←कोपेनेव)+++ वष॑ट् करोति॒ स्तृत्यै॑ ।+++(5)+++
Keith
He utters the Vasat call in anger, to lay low his foe.
मूलम्
अछ॑म्बट्कारम् अप॒गूर्य॒ वष॑ट्करोति॒ स्तृत्यै॑ ।
छन्दः
विश्वास-प्रस्तुतिः
गा॒य॒त्री पु॑रोनुवा॒क्या॑ भवति, त्रि॒ष्टुग् या॒ज्या॑ ।
Keith
The Puronuvakya is the Gayatri, the Yajya the Tristubh;
मूलम्
गा॒य॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्या॑ ।
भट्टभास्कर-टीका
11वज्र आज्यमित्यादि ॥ त्रिगुणेनैव वज्रेण भ्रातृव्यस्य रक्षःप्रभृतेः प्रहरणं यज्ञस्याछम्बट्कारायानार्तत्वाय भवति । ‘ये यजामहे’ इत्यपगूरणयुक्तो वषट्कारश्च भ्रातृव्याणां स्तृत्यै छादनाय विनाशाय भवति । ह्रस्वान्तं धात्वन्तरं द्रष्टव्यम् ॥
विश्वास-प्रस्तुतिः
ब्रह्म॑न्ने॒व क्ष॒त्रम् अ॒न्वार॑म्भयति ।
तस्मा॑द् ब्राह्म॒णो मुख्यः॒।
मुख्यो॑ भवति॒ य ए॒वव्ँ वेद॑ ।
Keith
verily he makes the ruling class dependent on the priestly class; therefore the Brahman is the chief. The chief he becomes who knows thus.
मूलम्
ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति॒ तस्मा॑द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वव्ँ वेद॒
भट्टभास्कर-टीका
12ब्रह्मन्नेवेति ॥ गायत्र्याः प्राथम्यात्रिष्टुभश्च चरमभावात् गायत्रत्रिष्टुभयोर्ब्रह्मक्षत्रयोः प्राधान्यं गुणभावं च करोति । एवं वेदिता च मुख्यो भवति ॥
पुरोऽनुवाक्या-याज्या-वषट्कार-भावनाः
विश्वास-प्रस्तुतिः
प्रैवैन॑म् पुरोनुवा॒क्य॑या ऽऽह॒,
प्र ण॑यति या॒ज्य॑या,
ग॒मय॑ति वषट्का॒रेण॑।
Keith
He proclaims him with the Puronuvakya, leads him forward with the Yajya, and makes him go with the Vasat call.
मूलम्
प्रैवैन॑म्पुरोनुवा॒क्य॑याह॒ प्र ण॑यति या॒ज्य॑या ग॒मय॑ति वषट्का॒रेण॑।
भट्टभास्कर-टीका
13प्रैवैनमित्यादि ॥ एनं यजमानं पुरोनुवाक्यया प्राह - हविर्व्याजेन यजमानमेव प्रकृष्टं करोति ब्रवीति याज्यया एनं प्रणयति प्रकृष्टफलं प्रापयितुं नयति ।
वषट्कारेण तत्फलं गमयति प्रापयतीति ॥
मूलम् (संयुक्तम्)
वषट्का॒रेणैवैन॑म्पुरोनुवा॒क्य॑या दत्ते॒ प्र य॑च्छति या॒ज्य॑या॒ प्रति॑ [12] व॒ष॒ट्का॒रेण॑ स्थापयति
विश्वास-प्रस्तुतिः
आ+ए॒वैन॑म् पुरोऽनुवा॒क्य॑या दत्ते,
प्र य॑च्छति या॒ज्य॑या॒
प्रति॑ वषट्का॒रेण॑ स्थापयति ।
Keith
He takes him with the Puronuvakya, he gives him with the Yajya, and [5] establishes him with the Vasat call.
मूलम्
ऐवैन॑म् पुरोऽनुवा॒क्य॑या दत्ते,
प्र य॑च्छति या॒ज्य॑या॒
प्रति॑ वषट्का॒रेण॑ स्थापयति ।
भट्टभास्कर-टीका
14अथान्यथा रूपयति ऐवैनमिति ॥ पुरोनुवाक्यया एनमादत्ते देवेषु स्थापयितुं गृह्णाति ।
याज्यया देवेभ्यः प्रयच्छति । वषट्कारेण देवेषु स्थापयतीति ॥
मूलम् (संयुक्तम्)
त्रि॒पदा॑ पुरोनुवा॒क्या॑ भवति॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे द्व्यक्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानᳶ प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑ तिष्ठति गाय॒त्री पु॑रोनुवा॒क्या॑ भवति त्रि॒ष्टुग्या॒ज्यै॑षा वै स॒प्तप॑दा॒ शक्व॑री
विश्वास-प्रस्तुतिः
त्रि॒पदा॑ पुरोनुवा॒क्या॑ भवति ।
त्रय॑ इ॒मे लो॒का - ए॒ष्व् ए॒॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
Keith
The Puronuvakya has three feet; these worlds are three; verily he finds support in these worlds.
मूलम्
त्रि॒पदा॑ पुरोनुवा॒क्या॑ भवति ।
त्रय॑ इ॒मे लो॒का - ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ।
विश्वास-प्रस्तुतिः
चतु॑ष्पदा या॒ज्या॑ - चतु॑ष्पद ए॒व प॒शून् अव॑ रुन्द्धे ।
Keith
The Yajya has four feet; verily he wins four footed cattle.
मूलम्
चतु॑ष्पदा या॒ज्या॑ - चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे ।
विश्वास-प्रस्तुतिः
द्व्य॒क्ष॒रो व॑षट्का॒रो,
द्वि॒पाद् यज॑मानᳶ
प॒शुष्व् ए॒वोपरि॑ष्टा॒त् प्रति॑ तिष्ठति ।
Keith
The Vasat call has two syllables, the sacrificer has two feet; verily afterwards he finds support in cattle.
मूलम्
द्व्य॒क्ष॒रो व॑षट्का॒रो द्वि॒पाद्यज॑मानᳶ प॒शुष्वे॒वोपरि॑ष्टा॒त् प्रति॑ तिष्ठति ।
सप्तपदा शक्वरी
विश्वास-प्रस्तुतिः
गा॒य॒त्री पु॑रोनुवा॒क्या॑ भवति ।
त्रि॒ष्टुग् या॒ज्या॑ ।
ए॒षा वै स॒प्त-प॑दा॒ शक्व॑री ।
Keith
The Puronuvakya is the Gayatri, the Yajya, the Tristubh, and this is the sevenfooted Śakvari.
मूलम्
गा॒य॒त्री पु॑रोनुवा॒क्या॑ भवति ।
त्रि॒ष्टुग्या॒ज्या॑ ।
ए॒षा वै स॒प्तप॑दा॒ शक्व॑री ।
भट्टभास्कर-टीका
15यथे[त्रिपदे]त्यादि ॥ गतम् ॥
विश्वास-प्रस्तुतिः
यद् वा ए॒तया॑ दे॒वा अशि॑क्ष॒न्
तद् अ॑शक्नुवन्।
य ए॒वव्ँ वेद॑
श॒क्नोत्य् ए॒व यच् छिक्ष॑ति ॥ [13]
Keith
Whatever the gods were fain to do by it, that they were able to do; he who knows thus can do whatever he is fain to do.
मूलम्
यद्वा ए॒तया॑ दे॒वा अशि॑क्ष॒न्तद॑शक्नुव॒न्य ए॒वव्ँ वेद॑ श॒क्नोत्ये॒व यच्छिक्ष॑ति ॥ [13]
भट्टभास्कर-टीका
16एतयेति ॥ गायत्रीत्रिष्टुप्समिष्टरूपया यत्कर्तुमैच्छन् तदशक्नुवन्नेव देवाः । एवं वेदिताऽपि यच्च कार्यमिच्छतितच्छक्नोत्येवसाधयितुम् । शकेः ‘सनि मीमा’ इत्यादिना इम् अभ्यासलोपश्च ॥
इति द्वितीये षष्ठे द्वितीयोनुवाकः ॥