०१ प्रयाजविधिः ...{Loading}...
प्रजापतिर्ऋषिः
ऋतु-जयः
मूलम् (संयुक्तम्)
स॒मिधो॑ यजति वस॒न्तमे॒वर्तू॒नामव॑ रुन्द्धे॒ तनू॒नपा॑तय्ँयजति ग्री॒ष्ममे॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
स॒मिधो॑ यजति।
व॒स॒न्तम् ए॒व र्तू॒नाम् अव॑ रुन्द्धे ।
Keith
He offers to the kindling-sticks; verily he wins spring among the seasons.
मूलम्
स॒मिधो॑ यजति।
व॒स॒न्तमे॒वर्तू॒नामव॑ रुन्द्धे ।
भट्टभास्कर-टीका
1अथ दार्शपूर्णमासिकमाध्वर्यवम् । समिधो यजति इत्यादयः षडनुवाकाः, प्राजापत्यं काण्डम् । तत्रादौ प्रयाजा विधीयन्ते । समिदादयः प्रयाजदेवता अग्निविशेषा आविष्टलिङ्गवचनाः । एषां च यागेन वसन्ताद्यृतुधर्मे प्रवृत्तिर्यथायथं भवति । वसन्ताद्यृतुधर्मप्रवर्तनेन लोकस्याधारा एते । एताश्च एतैः प्रीणयति । भावानां समिन्धयितारः समिधः । अग्नेरियं संज्ञा । वसन्ते हि भावाः समुज्ज्वला भवन्ति ।
विश्वास-प्रस्तुतिः
तनू॒-नपा॑तय्ँ यजति ।
ग्री॒ष्मम् ए॒वाव॑ रुन्द्धे ।
Keith
He offers to Tanunapat; verily he wins the hot season.
मूलम्
तनू॒नपा॑तय्ँयजति ।
ग्री॒ष्ममे॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
तनूनामवयविनां न पातयिता प्रायशोऽवयवानां पातयिता तनूनपात् भावानां सङ्कोचयिता । ग्रीष्मे हि सर्वे भावाः सङ्कोचं व्रजन्ति ॥
मूलम् (संयुक्तम्)
इ॒डो य॑जति व॒र्षा ए॒वाव॑ रुन्द्धे ब॒र्हिर्य॑जति श॒रद॑मे॒वाव॑ रुन्द्धे स्वाहाका॒रय्ँय॑जति हेम॒न्तमे॒वाव॑ रुन्द्धे॒ तस्मा॒त्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति
विश्वास-प्रस्तुतिः
इ॒डो य॑जति ।
व॒र्षा ए॒वाव॑रुन्द्धे ।
Keith
He offers to the oblations; verily he wins the rains.
मूलम्
इ॒डो य॑जति ।
व॒र्षा ए॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
2इडः वृष्ट्या इषोऽन्नस्य उत्पादयित्र्यः । अन्त्यविकारश्छान्दसः । यद्वा - इडन्नम् । ‘तत्करोति’ इति णिचि इष्ठवद्भावे टिलोपे क्विपि णिलोपः । वर्षासु हि सर्वसस्याभिवृद्धिः ।
विश्वास-प्रस्तुतिः
ब॒र्हिर् य॑जति ।
श॒रद॑म् ए॒वाव॑ रुन्धे।
Keith
He offers to the sacrificial strew, verily lie wins autumn.
मूलम्
ब॒र्हिर्य॑जति ।
श॒रद॑मे॒वाव॑ रुन्द्धे।
भट्टभास्कर-टीका
बृंहणाल्लोकस्य बर्हिः । शरदि हि सर्वैः सस्यैः लोकः समृद्धो भवति । स्वाहुतमिव दग्धं करोतीति स्वाहाकारो हिमाग्निः ।
विश्वास-प्रस्तुतिः
स्वा॒हा॒का॒रय्ँ य॑जति।
हे॒म॒न्तम् ए॒वाव॑ रुन्द्धे ।
तस्मा॒त् स्वाहा॑कृता॒ हेम॑न् प॒शवोऽव॑ सीदन्ति ।
Keith
He offers with the cry of ‘Hail!’; verily he wins the winter.
Therefore in winter animals over which the cry of ‘Hail!’ is raised perish.
मूलम्
स्वा॒हा॒का॒रय्ँय॑जति।
हे॒म॒न्तमे॒वाव॑ रुन्द्धे ।
तस्मा॒त्स्वाहा॑कृता॒ हेम॑न्प॒शवोऽव॑ सीदन्ति ।
भट्टभास्कर-टीका
हेमन्ते हि सर्वं जगत् हिमाग्निना दग्धमिव भवति । तदेवाह - तस्मात्स्वाहाकारेण हिमाग्निना दग्धाः हेमन्ते पशवो द्विपादश्चतुष्पादश्चावसीदन्ति विनश्यन्ति । इयमपि स्तुत्यर्थमेव । ऋतुधर्मप्रवृत्तिः कीर्त्यते ॥
मूलम् (संयुक्तम्)
उ॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्द्धे॒ तनू॒नपा॑तय्ँयजति य॒ज्ञमे॒वाव॑ रुन्द्धे [1] इ॒डो य॑जति प॒शूने॒वाव॑ रुन्द्धे ब॒र्हिर्य॑जति प्र॒जामे॒वाव॑ रुन्द्धे
दिनांशादि-जयः
विश्वास-प्रस्तुतिः
स॒मिधो॑ यजति ।
उ॒षस॑ ए॒व दे॒वता॑ना॒म् अव॑ रुन्धे ।
Keith
He offers to the kindling sticks; verily he wins the dawns of the goddesses.
मूलम्
स॒मिधो॑ यजति ।
उ॒षस॑ ए॒व दे॒वता॑ना॒मव॑ रुन्द्धे ।
भट्टभास्कर-टीका
3पुनरपि फलान्तरवत्तया प्रयाजाः स्तूयन्ते - उषस इति ॥
समिद्धत्वान्वयाद्देवानां योग्या उषसः उदयान् लभन्ते ।
विश्वास-प्रस्तुतिः
तनू॒-नपा॑तय्ँ यजति ।
य॒ज्ञम् ए॒वाव॑ रुन्द्धे ।
Keith
He offers to Tanunapat; verily he wins the sacrifice [1].
मूलम्
तनू॒नपा॑तय्ँयजति ।
य॒ज्ञमे॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
तनुमतां मनुष्याणामवनहेतोरग्निविशेषात् यज्ञलाभः ।
विश्वास-प्रस्तुतिः
इ॒डो य॑जति ।
प॒शून् ए॒वाव॑ रुन्द्धे ।
Keith
He offers to the oblations; verily he wins cattle.
मूलम्
इ॒डो य॑जति ।
प॒शूने॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
इडः पशव इति । पशुलाभहेतुरिडाभागः ।
विश्वास-प्रस्तुतिः
ब॒र्हिर् य॑जति ।
प्र॒जाम् ए॒वाव॑ रुन्द्धे ।
Keith
He offers to the sacrificial strew; verily he wins offspring.
मूलम्
ब॒र्हिर्य॑जति ।
प्र॒जामे॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
बर्हिरिति । प्रजालाभहेतुर्बहिर्यागः ॥
मूलम् (संयुक्तम्)
स॒मान॑यत उप॒भृत॒स्तेजो॒ वा आज्य॑म्प्र॒जा ब॒र्हिᳶ प्र॒जास्वे॒व तेजो॑ दधाति स्वाहाका॒रय्ँय॑जति॒ वाच॑मे॒वाव॑ रुन्द्धे॒ दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
स॒मान॑यत उप॒भृतः॑।
Keith
He takes (the oblation) from the Upabhrt.
मूलम्
स॒मान॑यत उप॒भृतः॑।
विश्वास-प्रस्तुतिः
तेजो॒ वा आज्य॑म् ।
प्र॒जा ब॒र्हिᳶ,
प्र॒जास्व् ए॒व तेजो॑ दधाति ।
Keith
The oblation is brilliance, the sacrificial strew offspring;
verily he places brilliance in offspring.
मूलम्
तेजो॒ वा आज्य॑म् । प्र॒जा ब॒र्हिᳶ प्र॒जास्वे॒व तेजो॑ दधाति ।
भट्टभास्कर-टीका
4समानयत इति ॥ त्रीन् प्रयाजानिष्ट्वा अर्धमौपभृतस्य जुह्वामानीय चतुर्थपञ्चमौ यजति । तेजो वा इति । पुनराज्याधानेन प्रजानां तेजस्समृद्धिः क्रियते ॥
विश्वास-प्रस्तुतिः
स्वा॒हा॒का॒रय्ँ य॑जति ।
वाच॑म् ए॒वाव॑ रुन्द्धे ।
Keith
He offers with the cry of ‘Hail!’; verily he wins speech.
मूलम्
स्वा॒हा॒का॒रय्ँय॑जति ।
वाच॑मे॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
5`स्वैव ते वागित्यब्रवीत्’ इति स्वाहाकारेण वागवरोधः ।
विश्वास-प्रस्तुतिः
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् । (अन्नं॑ वि॒राट्।)
वि॒राजै॒वान्नाद्य॒म् अव॑ रुन्द्धे ।
Keith
They make up ten,
the Viraj has ten syllables,
the Viraj is food; verily he wins food by the Viraj.
मूलम्
दश॒ सम्प॑द्यन्ते ।
दशा॑क्षरा वि॒राट् ।
(अन्नं॑ वि॒राट्। इति सायणपाठे।)
वि॒राजै॒वान्नाद्य॒मव॑ रुन्द्धे ।
भट्टभास्कर-टीका
दशेति एवंफलभेदेन प्रयाजानां द्विप्रकारत्वेन दशत्वमुपचर्यते । यद्वा - जुह्वां पञ्चगृहीतेन औपभृतस्यार्धं पञ्चगृहीतमानीयत इति दशग्रहणं जुह्वाः संपद्यते इति । तत्र दशत्वान्वयात् विराड्लक्षणान्नलाभः ॥
मूलम् (संयुक्तम्)
स॒मिधो॑ यजति अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ तनू॒नपा॑तय्ँयजति [2] य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठती॒डो य॑जति प॒शुष्वे॒व प्रति॑ तिष्ठति ब॒र्हिर्य॑जति॒ य ए॒व दे॑व॒याना॒ᳶ पन्था॑न॒स्तेष्वे॒व प्रति॑ तिष्ठति स्वाहाका॒रय्ँय॑जति सुव॒र्ग ए॒व लो॒के प्रति॑ तिष्ठत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठति
प्रतिष्ठा
विश्वास-प्रस्तुतिः
स॒मिधो॑ यजति ।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
Keith
He offers to the kindling-sticks;
verily he finds support in this world.
मूलम्
स॒मिधो॑ यजति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
6इदानीं पञ्चविधायाः प्रतिष्ठाया हेतुत्वं प्रयाजानामाह - अस्मिन् इति ॥ प्रथमत्वात्प्रकाशितत्वाच्च अस्मिन् मनुष्यलोके प्रथमे प्रतिष्ठितो भवति ।
विश्वास-प्रस्तुतिः
तनू॒-नपा॑तय्ँ यजति ।
य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठति ।
Keith
He offers to Tanunapat [2]; verily in the sacrifice and in the atmosphere he finds support.
मूलम्
तनू॒नपा॑तय्ँयजति ।
य॒ज्ञ ए॒वान्तरि॑क्षे॒ प्रति॑ तिष्ठति ।
विश्वास-प्रस्तुतिः
इ॒डो य॑जति ।
प॒शुष्व् ए॒व प्रति॑ तिष्ठति ।
Keith
He offers to the oblations; verily in cattle he finds support.
मूलम्
इ॒डो य॑जति ।
प॒शुष्वे॒व प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
यज्ञादिसर्वपरिस्पन्दाश्रयेऽन्तरीक्षे द्वितीयेन प्रतितिष्ठति । इड्यागेन पशुषु प्रतिष्ठां गन्ता ।
विश्वास-प्रस्तुतिः
ब॒र्हिर् य॑जति ।
य ए॒व दे॑व॒याना॒ᳶ पन्था॑न॒स्
तेष्व् ए॒व प्रति॑ तिष्ठति ।
Keith
He offers to the sacrificial strew; verily he finds support in the paths that lead to the gods.
मूलम्
ब॒र्हिर्य॑जति ।
य ए॒व दे॑व॒याना॒ᳶ पन्था॑न॒स्तेष्वे॒व प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
बर्हिषः बृंहकत्वात् सर्वदेवयानपथप्रतिष्ठाहेतुत्वम् ।
विश्वास-प्रस्तुतिः
स्वा॒हा॒का॒रय्ँ य॑जति ।
सु॒व॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति ।
Keith
He offers with the cry of ‘Hail!’; verily he finds support in the world of heaven.
मूलम्
स्वा॒हा॒का॒रय्ँय॑जति ।
सु॒व॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
स्वाहुतत्वस्याग्न्यादितृप्तिहेतुत्वात् स्वाहाकारेण स्वर्गे प्रतितिष्ठति ।
विश्वास-प्रस्तुतिः
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्
तेष्व् ए॒व य॑थापू॒र्वम् प्रति॑ तिष्ठति ।
Keith
So many are the worlds of the gods;
verily in them in order he finds support.
मूलम्
ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
देवलोका इति । सुखहेतुत्वात् देवलोकत्वमेषाम् । यथापूर्वमिति । यथाक्रमं प्रयाजादिनां क्रमात् ॥
प्रयाजः
मूलम् (संयुक्तम्)
देवासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ ते दे॒वाᳶ प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त॒ तत्प्र॑या॒जाना॑म् [3] प्र॒या॒ज॒त्वय्ँयस्यै॒वव्ँवि॒दुषᳶ॑ प्रया॒जा इ॒ज्यन्ते
विश्वास-प्रस्तुतिः
दे॒वा॒सु॒रा ए॒षु लो॒केष्व् अ॑स्पर्धन्त ।
ते दे॒वाᳶ प्र॑या॒जैर् ए॒भ्यो लो॒केभ्यो ऽसु॑रा॒न् प्राणु॑दन्त ।
तत् प्र॑या॒जाना॑म् प्रयाज॒त्वम्।
Keith
The gods and the Asuras contended as to these worlds.
The gods by the fore-sacrifices drove the Asuras away from these worlds;
that is why the fore-sacrifices [3] are so called.
मूलम्
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त ।
ते दे॒वाᳶ प्र॑या॒जैरे॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त ।
तत्प्र॑या॒जाना॑म् प्रयाज॒त्वम् ,
भट्टभास्कर-टीका
7देवासुरा इत्यादि ॥ प्रथमत इज्यन्ते इति प्रयाजाः भ्रातृव्यप्रणोदनफलाः । यद्वा - प्रस्थानादिवत् धात्वर्थनिवृत्तौ प्रशब्दः । प्रेज्यन्ते प्रवा बाध्यन्ते एभिरिति प्रयाजाः । ‘प्रयाजानुयाजौ यज्ञाङ्गे’ इति कुत्वाभावः । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदतेऽभि॒क्राम॑ञ्जुहोत्य॒भिजि॑त्यै
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँ वि॒दुषᳶ॑ प्रया॒जा इ॒ज्यन्ते॒
प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान् नुदते ।
Keith
He for whom knowing thus are offered the fore-sacrifices, drives his enemy away from these worlds.
मूलम्
यस्यै॒वव्ँवि॒दुषᳶ॑ प्रया॒जा इ॒ज्यन्ते॑ ।
प्रैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्यान्नुदते ।
अभिक्रामः
विश्वास-प्रस्तुतिः
अ॒भि॒क्राम॑ञ् जुहोत्य् अ॒भिजि॑त्यै ।
Keith
He offers stepping near, for conquest.
मूलम्
अ॒भि॒क्राम॑ञ्जुहोत्य॒भिजि॑त्यैै ।
भट्टभास्कर-टीका
8अभिक्राममिति ॥ अभिक्रम्याभिक्रम्य आभिमुख्येनाक्रम्य ॥
प्रयाज-मिथुनम्
मूलम् (संयुक्तम्)
यो वै प्र॑या॒जाना॑म्मिथु॒नव्ँवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स॒मिधो॑ ब॒ह्वीरि॑व यजति॒ तनू॒नपा॑त॒मेक॑मिव मिथु॒नन्तद् इ॒डो ब॒ह्वीरि॑व यजति ब॒र्हिरेक॑मिव मिथु॒नन्तद्
ए॒तद्वै प्र॑या॒जाना॑म्मिथु॒नम्य ए॒वव्ँ वेद॒ प्र [4] प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते
विश्वास-प्रस्तुतिः
यो वै प्र॑या॒जाना॑म् मिथु॒नव्ँ वेद॒
प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते
Keith
He who knows the pairing of the fore sacrifices is propagated with offspring, with cattle, with pairings.
मूलम्
यो वै प्र॑या॒जाना॑म्मिथु॒नव्ँवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते
विश्वास-प्रस्तुतिः
स॒मिधो॑ ब॒ह्वीर् इ॑व यजति,
तनू॒नपा॑त॒म् एक॑म् इव। मि॒थु॒नन् तत्।
Keith
He offers to the kindling-sticks as many,
to Tanunapat as one, and that makes a pair.
मूलम्
स॒मिधो॑ ब॒ह्वीरि॑व यजति ।
तनू॒नपा॑त॒मेक॑मिव मिथु॒नन्तद् ,
भट्टभास्कर-टीका
9मिथुनमिति ॥ स्त्रीपुंसयोर्युगळम् ।
विश्वास-प्रस्तुतिः
इ॒डो ब॒ह्वीर् इ॑व यजति,
ब॒र्हिर् एक॑म् इव - मिथु॒नन् तत्
Keith
He offers to the kindling-sticks (sic) as many, to the sacrificial strew as one, and that makes a pair.
मूलम्
इ॒डो ब॒ह्वीरि॑व यजति ब॒र्हिरेक॑मिव मिथु॒नन्तद्
भट्टभास्कर-टीका
बह्वीरिति । स्त्रीत्वं बहुलं चाविवक्षितम् । एकमिवेत्यत्रापि पुंस्त्वमेकत्वं च । लिङ्गवचनविशेषयोरग्नावपारमार्थ्यमिवशब्देन द्योत्यते । एवमिडाबर्हिषोर्वेदितव्यम् ॥
विश्वास-प्रस्तुतिः
ए॒तद् वै प्र॑या॒जाना॑म् मिथु॒नम्।
य ए॒वव्ँ वेद॒ प्र [4] प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते।
Keith
That is the pairing of the fore-sacrifices.
He who knows thus [4] is propagated with offspring, with cattle, with pairings.
मूलम्
ए॒तद् वै प्र॑या॒जाना॑म्मिथु॒नम्य ए॒वव्ँ वेद॒ प्र [4] प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते
प्रयाजानुजाय-वर्मता
मूलम् (संयुक्तम्)
दे॒वानाव्ँ॒ वा अनि॑ष्टा दे॒वता॒ आस॒न्नथासु॑रा य॒ज्ञम॑जिघाँस॒न्ते दे॒वा गा॑य॒त्रीव्व्ँयौ॑ह॒न्पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि॒ ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्वर्म॒ यज॑मानाय
विश्वास-प्रस्तुतिः
दे॒वानाव्ँ॒ वा अन्-इ॑ष्टा दे॒वता॒ आस॑न् ।
Keith
These deities were not sacrificed to by the gods;
मूलम्
दे॒वानाव्ँ॒ वा अनि॑ष्टा दे॒वता॒ आस॑न् ।
भट्टभास्कर-टीका
10देवानां इत्यादि ॥ पूर्वं देवानां यागेन प्रयाजदेवता अनिष्टा आसन् ।
विश्वास-प्रस्तुतिः
अथासु॑रा य॒ज्ञम् अ॑जिघाँसन् ।
Keith
then the Asuras were fain to harm the sacrifice.
मूलम्
अथासु॑रा य॒ज्ञम॑जिघाँसन् ।
भट्टभास्कर-टीका
अथ तादृशं यज्ञं असुरा हन्तुमैच्छन् ।
विश्वास-प्रस्तुतिः
ते दे॒वा गा॑य॒त्रीव्ँ व्यौ॑हन् -
पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒, त्रीणि॑ प्रती॒चीना॑नि ।
Keith
The gods divided the Gayatri,
five syllables in front and three behind.
मूलम्
ते दे॒वा गा॑य॒त्रीव्व्ँयौ॑हन् ।
पञ्चा॒क्षरा॑णि प्रा॒चीना॑नि॒ त्रीणि॑ प्रती॒चीना॑नि ।
भट्टभास्कर-टीका
अथ तत् ज्ञात्वा देवा गायत्रीं अष्टाक्षरां व्यौहन् व्यूहद्वयं कृतवन्तः ।
पञ्चाक्षराणि यज्ञस्य प्राचीनानि पुरस्तात्स्थितान्येको व्यूहः । त्रीण्यक्षराणि प्रतीचीनानि पश्चात् स्थितान्यन्यो व्यूहः ।
विश्वास-प्रस्तुतिः
ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्, वर्म॒ यज॑मानाय +++(अभवत् )+++
Keith
Then the sacrifice was protected, and the sacrificer.
मूलम्
ततो॒ वर्म॑ य॒ज्ञायाभ॑व॒द्, वर्म॒ यज॑मानाय +++(अभवत् )+++
भट्टभास्कर-टीका
ततस्स तथा व्यूढाष्टाक्षरा गायत्री मध्यस्थस्य यज्ञस्य यजमानस्य च रक्षाकवचत्वेन सम्पन्ना ॥
मूलम् (संयुक्तम्)
यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै॒ तस्मा॒द्वरू॑थम्पु॒रस्ता॒द्वर्षी॑यᳶ प॒श्चाद्ध्रसी॑यः
विश्वास-प्रस्तुतिः
यत् प्र॑याजानूया॒जा इ॒ज्यन्ते॒
वर्मै॒व तद् य॒ज्ञाय॑ क्रियते॒
वर्म॒ यज॑मानाय॒, भ्रातृ॑व्याभिभूत्यै+++(←बहुव्रीहिः??)+++
Keith
In that the fore- and after sacrifices are offered,
protection is afforded to the sacrifice and to the sacrificer, for the overcoming of the enemy.
मूलम्
यत्प्र॑याजानूया॒जा इ॒ज्यन्ते॒ वर्मै॒व तद्य॒ज्ञाय॑ क्रियते॒ वर्म॒ यज॑मानाय॒ भ्रातृ॑व्याभिभूत्यै
भट्टभास्कर-टीका
11यदित्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
तस्मा॒द् वरू॑थम्+++(←वृ)+++ पु॒रस्ता॑त् वर्षी॑यᳶ
प॒श्चाद् +ध्रसी॑यः ।
Keith
Therefore a covering is larger in front and smaller behind.
मूलम्
तस्मा॒द्वरू॑थम् पु॒रस्ता॑त् ,
वर्षी॑यᳶ प॒श्चाद्ध्रसी॑यः ।
भट्टभास्कर-टीका
वरूथमिति । रक्षकं सेनाबलादिकं पुरस्ताद्वर्षीयः वृद्धतरः । ‘प्रियस्थिर’ इत्यादिना वर्षादेशः । पश्चाद्ध्रसीयः ह्रस्वतरः । ‘स्थूलदूर’ इत्यादिना यणादिलोपः ॥
सन्तानम्
मूलम् (संयुक्तम्)
दे॒वा वै पु॒रा रक्षो॑भ्यः [5] इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञँ सँ॒स्थाप्य॑मपश्य॒न्तँ स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापय॒न्वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यत्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सँस्था॒पय॑न्ति प्रया॒जानि॒ष्ट्वा ह॒वीँष्य॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्या॒ अथो॑ ह॒विरे॒वाक॒रथो॑ यथापू॒र्वमुपै॑ति
विश्वास-प्रस्तुतिः
दे॒वा वै “पु॒रा रक्षो॑भ्य॒” [5] इति॑
स्वाहाका॒रेण॑ प्रया॒जेषु॑
य॒ज्ञँ सँ॒स्थाप्य॑म् अपश्यन्।
Keith
The gods thought that the sacrifice must be completed (in the fore-sacrifice) before the Raksases [5] with the cry of ‘Hail!’
मूलम्
दे॒वा वै पु॒रा रक्षो॑भ्यः [5] इति॑ स्वाहाका॒रेण॑ प्रया॒जेषु॑ य॒ज्ञँ सँ॒स्थाप्य॑मपश्य॒न्
भट्टभास्कर-टीका
12देवा वा इत्यादि ॥ हाविषोऽभिघारणविधिः । रक्षसां प्रवृत्तेः पुरैव यागः समाप्य इति मन्यमानाः देवाः प्रयाजेषु कृतेषु तदन्ते स्वाहाकारेण पञ्चमेन प्रयाजेन संस्थाप्यमपश्यन् इत्थमेव इदं कर्तव्यमिति निश्चितवन्तः । ततस्तदनुरूपमेव कृतवन्तः ।
ननु किं प्रयाजेभ्य ऊर्ध्वमेव लुप्तो देवानां यागः । न ब्रूमः प्रयाजान्तो याग इति, किंतु - स्वाहाकारेण सर्वो यज्ञो यथा सन्तिष्ठते । तादृशं प्रयोगं कृतवन्तो देवा इत्युच्यते ।
विश्वास-प्रस्तुतिः
तँ स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापयन् ।
Keith
They completed it with the cry of ‘Hail!’ in the fore-sacrifices.
मूलम्
तँ स्वा॑हाका॒रेण॑ प्रया॒जेषु॒ सम॑स्थापयन् ।
भट्टभास्कर-टीका
स च प्रयाजानन्तरं स्वाहाकारेण विच्छिन्नं हविषामभिघारणम् ।
विश्वास-प्रस्तुतिः
वि वा ए॒तद् य॒ज्ञञ् छि॑न्दन्ति॒
यत् स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सँस्था॒पय॑न्ति।
Keith
They split the sacrifice who complete it with the cry of ‘Hail!’ in the fore-sacrifices.
मूलम्
वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति ।
यत्स्वा॑हाका॒रेण॑ प्रया॒जेषु॑ सँस्था॒पय॑न्ति ।
भट्टभास्कर-टीका
तदेव प्रतिपादयति - वि वा एतदित्यादि । यदि प्रयाजान्तो यज्ञः संस्थाप्यते विच्छेद एवायं यज्ञस्य क्रियते न पुनस्सर्वोऽयं यज्ञस्संस्थाप्यते ।
विश्वास-प्रस्तुतिः
प्र॒या॒जान् इ॒ष्ट्वा ह॒वीँष्य् अ॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्यै ।
अथो॑ ह॒विर् ए॒वाकः॑ ।
अथो॑ यथापू॒र्वम् उपै॑ति ।
Keith
Having offered the fore sacrifices
he sprinkles the oblations, for the continuity of the sacrifice;
then verily he makes the oblation,
and then he proceeds in order.
मूलम्
प्रया॒जानि॒ष्ट्वा ह॒वीँष्य् अ॒भि घा॑रयति य॒ज्ञस्य॒ सन्त॑त्यै ।
अथो॑ ह॒विरे॒वाकः॑ ।
अथो॑ यथापू॒र्वमुपै॑ति ।
भट्टभास्कर-टीका
तस्मात्प्रयाजानिष्ट्वाऽनुपूर्वं हवींष्यभिघारयति । यज्ञस्याविच्छेदाय देवा अपि तथाऽकुर्वन्निति ।
अथो अपिच हविष्ट्वमेव हविषामनेनाभिघारणेनाकः करोति । छान्दसे लुङि ‘मन्त्रे घस’ इत्यादिना’ च्लेर्लुक् ।
अथो अपिच यथापूर्वं अनुक्रमेण पदार्थानुपैति । इदं कृतमिदं कृतमिदानीं कर्तव्यमिति बुद्ध्या उपसंप्राप्नोति ॥
मूलम् (संयुक्तम्)
पि॒ता वै प्र॑या॒जाᳶ प्र॒जानू॑या॒जा यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीँष्य॑भिघा॒रय॑ति पि॒तैव तत्पु॒त्रेण॒ साधा॑रणम् [6] कुरुते
विश्वास-प्रस्तुतिः
पि॒ता वै प्र॑या॒जाᳶ, प्र॒जा ऽनू॑या॒जाः।
यत् प्र॑या॒जान् इ॒ष्ट्वा
ह॒वीँष्य् अ॑भिघा॒रय॑ति ,
पि॒तैव तत् पु॒त्रेण॒ साधा॑रणं कुरुते ।
Keith
The fore-sacrifices are the father, the after-sacrifices the son;
in that having offered the fore-sacrifices
he sprinkles the oblations,
the father makes common property with the son [6].
मूलम्
पि॒ता वै प्र॑या॒जाᳶ, प्र॒जानू॑या॒जाः ,
यत्प्र॑या॒जानि॒ष्ट्वा ह॒वीँष्य॑भिघा॒रय॑ति .. ,
पि॒तैव तत्पु॒त्रेण॒ साधा॑रणम् कुरुते ।
भट्टभास्कर-टीका
13पिता वा इत्यादि ॥ पूर्वमुत्पन्नत्वात्प्राधान्याच्च पितृस्थानीयाः प्रयाजाः । विपर्ययात्प्रजास्थानीया अनूयाजाः । अस्मात् प्रयाजशेषेण हविषामभिघारणेन पिता स्वयमेवात्मीयं धनं पुत्रेण साधारणं कुरुते । सह ध्रियत इति साधारणम् । ‘आग्नीध्रसाधारणादञ् वक्तव्यः’ इति अञ् प्रत्ययः ॥
विश्वास-प्रस्तुतिः
तस्मा॑द् आहु॒र् यश् चै॒वव्ँ वेद॒ यश्च॒ न
क॒था पु॒त्रस्य॒ केव॑लङ्, क॒था साधा॑रणम् पि॒तुर्
इति॑
Keith
Therefore they say, who know it or who know not,
‘How is it the son’s only, how is the father’s common?’
मूलम्
तस्मा॑दाहु॒र्यश्चै॒वव्ँवेद॒ यश्च॒ न क॒था पु॒त्रस्य॒ केव॑लङ्क॒था साधा॑रणम्पि॒तुरिति॑
भट्टभास्कर-टीका
11तस्मादित्यादि ॥ यश्चैवं वेदार्थं वेद जानाति ते सर्वेऽपि कथा केन हेतुना पुत्रस्य स्वं केवलं पुत्रस्यैव स्वम्, कथा च पितुः स्वं साधारणं पुत्रस्यापि स्वमिति जिज्ञासवो वक्तारो भवन्ति । एवं विद्वांस्तु हेतुमत्र जानातीति भावः । ‘था हेतौ च’ इति थाप्रत्ययः । श्लोकार्धमिदं पुरातनं ब्राह्मणदर्शितम् । अन्यार्थस्यानूयाजशेषस्याभावात् पुत्रधनस्यासाधारण्यम् ॥
मूलम् (संयुक्तम्)
अस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति गाय॒त्र्ये॑व तेन॒ गर्भ॑न्धत्ते॒ सा प्र॒जाम्प॒शून्यज॑मानाय॒ प्र ज॑नयति ॥ [7]
अस्कन्नता
विश्वास-प्रस्तुतिः
अस्क॑न्नम् ए॒व तद्
यत् प्र॑या॒जेष्व् इ॒ष्टेषु॒ स्कन्द॑ति ।
Keith
That which spills
when the fore-sacrifices are offered
is not really spilt.
मूलम्
अस्क॑न्नमे॒व तद्यत्प्र॑या॒जेष्वि॒ष्टेषु॒ स्कन्द॑ति ।
भट्टभास्कर-टीका
15किं चेत्याह - अस्कन्नमित्यादि ॥ प्रथमत एव इष्टप्रायत्वात् । तस्मात् प्रयाजाः कार्या इति ।
विश्वास-प्रस्तुतिः
गा॒य॒त्र्य् ए॒॑व तेन॒ गर्भ॑न् धत्ते ।
Keith
The Gayatri conceives through it,
मूलम्
गा॒य॒त्र्ये॑व तेन॒ गर्भ॑न्धत्ते ।
भट्टभास्कर-टीका
अपिचेत्याह – गायत्र्येवेत्यादि । प्रयाजानूयाजात्मकेन यागाष्टकेनाष्टाक्षरा गायत्री गर्भं धत्ते ।
विश्वास-प्रस्तुतिः
सा प्र॒जाम् प॒शून् यज॑मानाय॒ प्र ज॑नयति ॥
Keith
and produces offspring and cattle for the sacrificer.
मूलम्
सा प्र॒जाम्प॒शून्यज॑मानाय॒ प्र ज॑नयति ॥
भट्टभास्कर-टीका
सा कालेन यजमानाय प्रजां पुत्रादिकां पशूंश्च गवादीन् यजमानाय प्रजनयति । प्रसूते । तस्मात् प्रयाजा अनूयाजाश्च कर्तव्या इति ॥
इति द्वितीये षष्ठे प्रथमोऽनुवाकः ॥