२७ दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्

०६ दर्शपूर्णमासौ सोमात् प्राक् ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्
प्रजापतिऋषिः ।

रथत्वम्

मूलम् (संयुक्तम्)

ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यति

विश्वास-प्रस्तुतिः

ए॒ष वै दे॑वर॒थो यद् द॑र्शपूर्णमा॒सौ ।

Keith

The new and the full moon (sacrifices) are the chariot of the gods.

मूलम्

ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ ।

पद-पाठः

ए॒षः । वै । दे॒व॒र॒थ इति॑ देव-र॒थः । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । 2 ।

भट्टभास्कर-टीका

1एष वा इत्यादि ॥ देवरथः देवानां रथस्थानम् ।

सायण-टीका

अथ षष्ठे दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यं विधत्ते- एष वा इति।
दर्शपूर्णमासाविति यदस्त्येष एव देवानां रथो रथसदृशः।

विश्वास-प्रस्तुतिः

यो द॑र्शपूर्णमा॒साव् इ॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑-स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒म् अव॑स्यति

Keith

He, who having offered the new and the full moon (sacrifices) sacrifices with Soma,
rests in the chosen resting-place of the gods
which is conspicuous for its chariot (tracks).

मूलम्

यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते। रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑स्यति ।

पद-पाठः

यः । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । इ॒ष्ट्वा । सोमे॑न । यज॑ते ।
रथ॑स्पष्ट॒ इति॒ रथ॑-स्प॒ष्टे॒ । ए॒व । अ॒व॒सान॒ इत्य॑व-साने॑ । वरे॑ । दे॒वाना॑म् । अवेति॑ । स्य॒ति॒ ।

भट्टभास्कर-टीका

रथस्पष्टः रथेन प्रकाशितः क्षुण्णः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
तत्र देवानां वरे उत्कृष्टे अवसाने देवानां स्वभूते देवानां गृहे अवस्यति देवयजनमध्यवस्यति । तादृशे देवैः स्वभ्यस्ते देवयजनेऽनेनेष्टं भवति ॥

सायण-टीका

तथा सति प्रथमतो दर्शपूर्णमासाविष्ट्वा पश्चात्सोमेन यो यजते तस्यानुष्ठाने महत्सौकर्यं भवति। यथा लोके भूयो रथसंचरणेन महामार्गस्थकण्टकपाषाणादिषु क्षुण्णेषु मार्गो विस्पष्टो भवति, अयमस्य ग्रामस्य मार्ग इति-
सुखेनाध्यवसातुं शक्यत। कण्टकाद्यभावात्।
वरः श्रेष्ठश्चासौ भवति तादृशे मार्गे मनुष्या अनायासेन गन्तुं शक्नुवन्ति, तथा देवानां संबन्धिना दर्शपूर्णमासरथेन स्पष्टे सुखेनाध्यवसातुं शक्ये श्रेष्ठे मार्गे यजमानः सोमेन यष्टुमध्यवस्यति।
दर्शपूर्णमासयोरिष्टिप्रकृतित्वात्तयोः प्रयोगे स्वाधीने सति तद्विकृतिभूताः सोमाङ्गभूता प्रायणीयाद्याः साङ्गाः सुखेनानुष्ठातुं शक्यन्ते। अननुष्ठितयोस्तु दर्शपूर्णमासयोः सोमप्रकरणे दीक्षणीयादिकर्मस्वरूपमात्रस्योपदिष्टत्वात्तदङ्गानि प्रयाजादीन्यनुष्ठातुं न शक्यन्ते। तस्मादिष्टिपूर्वत्वं दर्शपूर्णमासयोर्बहुधा प्रशस्यते।

संवत्सराङ्गत्वम्

विश्वास-प्रस्तुतिः

ए॒तानि॒ वा अङ्गा॒परूँ॑षि
सव्ँवत्स॒रस्य॒ यद् द॑र्श-पूर्णमा॒सौ।

Keith

The new and the full moons are the limbs and joints of the year;

मूलम्

ए॒तानि॒ वा अङ्गा॒परूँ॑षि सव्ँवत्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ

पद-पाठः

ए॒तानि॑ । वै । अङ्गा॒परूँ॒षीत्यङ्गा॑-परूँ॑षि । सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । 4 ।

भट्टभास्कर-टीका

2अङ्गापरूंषि अङ्गानि च परूंषि पर्वाणि च संवत्सरस्थितिहेतुत्वात् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
प्रतिधानं अविचलितस्थापनम् ॥

सायण-टीका

तत्र प्रथमं संवत्सरावयवत्वेन प्रशंसति- एतानि वा इति।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॒ते
ऽङ्गा॒परूँ॑ष्य् ए॒व सव्ँ॑वत्स॒रस्य॒ प्रति॑ दधाति

Keith

he who knowing thus offers the new and the full moon (sacrifices)
thus unites the limbs and joints of the year.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूँ॑ष्ये॒व सव्ँ॑वत्स॒रस्य॒ प्रति॑ दधाति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते । अङ्गा॒परूँ॒षीत्यङ्गा॑-परूँ॑षि । ए॒व । सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । प्रतीति॑ । द॒धा॒ति॒ । 5 ।

सायण-टीका

यथा मनुष्यस्य हस्तपादादीनि अङ्गानि मणिबन्धकूर्परकक्षादिसंधिरूपाणि परूंषि पर्वाणि तथा संवत्सरस्य द्वादश दर्शा अङ्गानि द्वादश पौर्णमास्यः परूंषि तद्विदित्वानुष्ठाने तदुभयं प्रविदधाति सम्यगनुष्ठापयति।

विश्वास-प्रस्तुतिः

ए॒ते वै सव्ँ॑वत्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ

Keith

The new and the full moon are the eyes of the year;

मूलम्

ए॒ते वै सव्ँ॑वत्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ

पद-पाठः

ए॒ते इति॑ । वै । सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । चक्षु॑षी॒ इति॑ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । 6 ।

सायण-टीका

अथ चक्षुष्ट्वेन प्रशंसति- एते वा इति।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒
ताभ्या॑म् ए॒व सु॑व॒र्गल्ँ लो॒कम् अनु॑ पश्यति

Keith

he who knowing thus offers the new and the full moon (sacrifices) thus sees with them along the world of heaven [1].

मूलम्

य ए॒वव्ँ वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गल्ँ लो॒कमनु॑ पश्यति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते । ताभ्या॑म् । ए॒व । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अन्विति॑ । प॒श्य॒ति॒ ।

भट्टभास्कर-टीका

3संवत्सरनिबन्धनाश्च सर्वेऽर्थाः । संवत्सरात्मनः चक्षुस्स्थानीयाख्यां साक्षादव्यवधानेन स्वर्गम् अनु क्रमेण पश्यति स्वर्गोस्य प्रकाशितो भवति ॥

मूलम् (संयुक्तम्)

ए॒षा वै दे॒वानाव्ँ॒विक्रा॑न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मते

देव-विक्रान्तिः

विश्वास-प्रस्तुतिः

ए॒षा वै दे॒वानाव्ँ॒ विक्रा॑न्ति॒र् यद् द॑र्श-पूर्णमा॒सौ ।

English

The new and the full moon are the striding of the gods;

मूलम्

ए॒षा वै दे॒वानाव्ँ॒ विक्रा॑न्ति॒र्यद्द॑र्शपूर्णमा॒सौ ।

पद-पाठः

ए॒षा । वै । दे॒वाना॑म् । विक्रा॑न्ति॒रिति॒ वि-क्रा॒न्तिः॒ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।

सायण-टीका

अथेन्द्रपराक्रमरूपेण प्रशंसति- एषा वै इति।
सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविति शाखान्तरे श्रुतत्वाद्युद्धजयहेतुत्वमप्यस्तीति पराक्रमरूपत्वम्।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
दे॒वाना॑म् ए॒व विक्रा॑न्ति॒म् अनु॒ वि क्र॑मते ।

Keith

he who knowing thus offers the new and the full moon (sacrifices) steps in the striding of the gods.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते
दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मते ।

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
दे॒वाना॑म् । ए॒व । विक्रा॑न्ति॒मिति॒ वि-क्रा॒न्ति॒म् । अनु॑ । वीति॑ । क्र॒म॒ते॒ ।

भट्टभास्कर-टीका

4विक्रान्तिः विशिष्टं क्रम्णं आभ्यां देवा हि विक्रमवन्तो वीरा भवन्ति धारकत्वात्तेषाम् ।

भट्टभास्कर-टीका

अनु विक्रमते इति । यत्रयत्र देवा विक्रमन्ते तत्रतत्रायमप्रतिबन्धेन विक्रमते । लक्षणेनोः कर्मप्रवचनीयत्वम् । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् ॥

देव-पन्था

मूलम् (संयुक्तम्)

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तँ स॒मारो॑हति

विश्वास-प्रस्तुतिः

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒
यद् द॑र्शपूर्णमा॒सौ।

Keith

The new and the full moon are the path on which the gods fare;

मूलम्

ए॒ष वै दे॑व॒यान॒ᳶ पन्था॒ यद्द॑र्शपूर्णमा॒सौ

पद-पाठः

ए॒षः । वै । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः॑ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒
य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्
तँ स॒मारो॑हति

Keith

he who knowing thus offers the new and the full moon (sacrifices) mounts the path on which the gods fare.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यान॒ᳶ पन्था॒स्तँ स॒मारो॑हति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
यः । ए॒व । दे॒व॒यान॒ इति॑ देव-यानः॑ । पन्थाः॑ ।
तम् । स॒मारो॑ह॒तीति॑ सम्-आरो॑हति ।

भट्टभास्कर-टीका

5देवयान इति ॥ देवा येन यान्ति स देवप्रयातो मार्गो देवयानः । देवैस्सदा मुक्तमार्ग एवेति ॥

सायण-टीका

अथ स्वर्गमार्गत्वेन प्रशंसति- एष वै इति।
देवा यान्ति गच्छन्ति अस्मिन्मार्गे सोऽयं देवयानः

देव-हरी

मूलम् (संयुक्तम्)

ए॒तौ वै दे॒वानाँ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाँ॒ हरी॒ ताभ्या॑म वैभ्यो॑ ह॒व्यव्ँव॑हति ।

विश्वास-प्रस्तुतिः

ए॒तौ वै दे॒वानाँ॒ हरी॒
यद् द॑र्शपूर्णमा॒सौ ।

Keith

The new and the full moons are the bay steeds of the gods;

मूलम्

ए॒तौ वै दे॒वानाँ॒ हरी॒ यद्द॑र्शपूर्णमा॒सौ ।

पद-पाठः

ए॒तौ । वै । दे॒वाना॑म् । हरी॒ इति॑ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒
याव् ए॒व दे॒वानाँ॒ हरी॒
ताभ्या॑म् [34] ए॒वैभ्यो॑ ह॒व्यव्ँ व॑हति ।

Keith

he who knowing thus offers the new and the full moon (sacrifices) carries to the gods with their two bay steeds [2] the offering.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वानाँ॒ हरी॒ ताभ्या॑म् [34] ए॒वैभ्यो॑ ह॒व्यव्ँव॑हति ।

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
यौ । ए॒व । दे॒वाना॑म् । हरी॒ इति॑ ।
ताभ्या॑म् । ए॒व । ए॒भ्यः॒ । ह॒व्यम् । व॒ह॒ति॒ ।

भट्टभास्कर-टीका

6देवा येन प्राप्यन्ते देवप्राप्तिहेतुत्वात् हरी अश्वौ हविषां वाहनस्थानीयत्वात् ॥

सायण-टीका

अथाश्वरूपेण प्रशंसति- एतौ वा इति। एभ्योऽग्यादिदेवेभ्यस्ताभ्यामेव दर्शपूर्णमासाभ्यां यजमानः पुरोडाशं वहति।

देवास्यम्

मूलम् (संयुक्तम्)

ए॒तद्वै दे॒वाना॑मा॒स्यय्ँ॑यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोति

विश्वास-प्रस्तुतिः

ए॒तद् वै दे॒वाना॑म् आ॒स्यय्ँ॑
यद् द॑र्शपूर्णमा॒सौ

Keith

The new and the full moon (sacrifices) are the mouth of the gods;

मूलम्

ए॒तद्वै दे॒वाना॑मा॒स्यय्ँ॑यद्द॑र्शपूर्णमा॒सौ

पद-पाठः

ए॒तत् । वै । दे॒वाना॑म् । आ॒स्य॑म् । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
सा॒क्षाद् ए॒व दे॒वाना॑म् आ॒स्ये॑ जुहोति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । दे॒वाना॑म् । आ॒स्ये॑ । जु॒हो॒ति॒ ।

Keith

he who knowing thus offers the new and the full moon (sacrifices) manifestly sacrifices in the mouth of the gods.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते । सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । दे॒वाना॑म् । आ॒स्ये॑ । जु॒हो॒ति॒ ।

भट्टभास्कर-टीका

7आस्यमिति ॥ अभ्यवहतर्व्याधारत्वात् । साक्षादव्यवधानेन देवानामास्ये हुतं भवति ॥

सायण-टीका

अथ देवमुखत्वेन प्रशंसति- एतद्वै देवानामिति। साक्षाद् व्यवधानमन्तरेणैव यथा ब्राह्मणाय दत्तमन्नं पात्रहस्तव्यवधानेन मुखं प्रविशति तद्वन्नेत्यर्थः।

हविर्धानी

मूलम् (संयुक्तम्)

ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति॒ यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाँ॑ सु॒तः

विश्वास-प्रस्तुतिः

ए॒ष वै ह॑विर्-धा॒नी यो द॑र्शपूर्णमासया॒जी,
सा॒यम्-प्रा॑तर् अग्निहो॒त्रञ् जु॑होति॒,
यज॑ते दर्शपूर्णमा॒सौ।
अह॑र्-अहर् हविर्धा॒निनाँ॑ सु॒तः।

Keith

He who offers the new and the full moon sacrifices possesses an oblation holder.
He offers the Agnihotra morn and evening,
he offers the new and the full moon (sacrifices);
on every day (the Soma) of those who have oblation holders is pressed.

मूलम्

ए॒ष वै ह॑विर्धा॒नी यो द॑र्शपूर्णमासया॒जी
सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॑होति॒
यज॑ते दर्शपूर्णमा॒सावह॑रहर्हविर्धा॒निनाँ॑ सु॒तः

ए॒षः । वै । ह॒वि॒र्धा॒नीति॑ हविः-धा॒नी । यः । द॒र्श॒पू॒र्ण॒मा॒स॒या॒जीति॑ दर्शपूर्णमास-या॒जी ।

सा॒यम्प्रा॑त॒रिति॑ सा॒यम्-प्रा॒तः॒ । अ॒ग्नि॒हो॒त्रमित्य॑ग्नि-हो॒त्रम् । जु॒हो॒ति॒ ।
यज॑ते । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।
अह॑रह॒रित्यहः॑-अ॒हः॒ । ह॒वि॒र्धा॒निना॒मिति॑ हविः-धा॒निना॑म् । सु॒तः ।

भट्टभास्कर-टीका

8हविर्धानी ॥ सोमस्य हविराधारदर्शपूर्णमासवत्त्वात् दर्शपूर्णमासयाजी हविर्धानी

किञ्च - यदयं सायं प्रातरग्निहोर्त्रं जुहोति दर्शपूर्णमासावेवाहरहर्यजते । यस्मादयं हविर्धानिनां सुतोपि हविर्धानीभिस्सुन्वानैरनुज्ञातः । हविर्धानित्वं पर्वणिपर्वण्यसुन्वानत्वमस्यानुमन्यते । पर्वणि सुन्वानः अहरहर्दर्शपूर्णमासयाजी भवति ॥

सायण-टीका

अथ सोमयाजित्वसंपादनेन स्तौति- एष वा इति। हवींषि सोमग्रहरूपाणि धीयन्त असाद्यन्ते यस्मिन्मण्डपे तदिहं हविर्धानं तदस्यास्तीति हविर्धानी सोमयाजी।
दर्शपूर्णमासयाजिनः सोमयाजित्वं कथमित्युच्यते- आधानान्तरमेव प्रवृत्तं यदग्निहोत्रं तत्प्रतिहोत्रं सायंप्रातरनुतिष्ठति, पर्वणि च दर्शपूर्णमासौ यजते। तदुभयानुष्ठानेन हविर्धानिनां सोमदेवानां प्रतिदिनं सोमोऽभिषुतो भवति। सोमाभिषवणे या प्रीतिः सा देवानामत्र संपद्यते। अग्निहोत्रदर्शपूर्णमासप्रवृत्त्या तदनन्तरभाविनि सोमयागेऽपि प्रवर्तिष्यत इत्येव तैर्निश्चेतुं शक्यत्वात्।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
हविर्धा॒न्य् अ॑स्मीति॒
सर्व॑म् ए॒वास्य॑ बर्हि॒ष्य॑न् द॒त्तम् भ॑वति

Keith

By him who knowing thus offers the new and the full moon (sacrifices)
regarding himself as possessing an oblation holder,
everything is given as on the strew.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते
हविर्धा॒न्य॑स्मीति॒
सर्व॑मे॒वास्य॑ बर्हि॒ष्य॑न्द॒त्तम्भ॑वति

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
ह॒वि॒र्धा॒नीति॑ हविः-धा॒नी । अ॒स्मि॒ । इति॑ ।
सर्व॑म् । ए॒व । अ॒स्य॒ । ब॒र्हि॒ष्य॑म् । द॒त्तम् । भ॒व॒ति॒ ।

दे॒वाः । वै । अहः॑ । [35]

भट्टभास्कर-टीका

9य एवमित्यादि ॥ एवं हविर्धान्यस्मीति विद्वान् य एतौ यजते अस्य सम्बन्धि यद्दत्तं यावान् कश्चिदस्य धनव्ययः स सर्वो बर्हिषि यज्ञे विनियुक्तो भवति । सहविर्धानत्वात् सर्वो व्ययो यज्ञे व्ययो भवतीति ॥

सायण-टीका

तत्प्रवृत्तिक्रमश्च सूत्रकारेण दर्शितः-
“अथकेषामग्नीनाधाय हस्ताववनिज्य संवत्सरमाग्निहोत्रं’ हुत्वा दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजेत तत ऊर्ध्वमन्यानि कर्माणि कुरुते” इति यजमान एवं देवानां भविष्यत्सोमयागविषयां प्रीतिं विद्वानहं हविर्धानी सोमयाजी भवामीति बुद्ध्वा दर्शपूर्णमासौ यजते। तत ऊर्ध्वमस्य यजमानस्य वर्हिषि सोमयागे दातव्यं यद्यद्विद्यते तत्सर्वं वर्हिष्यं दत्तं भवति।

पवित्रता

मूलम् (संयुक्तम्)

दे॒वा वा अहः॑ [35] य॒ज्ञिय॒न्नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒

विश्वास-प्रस्तुतिः

दे॒वा वा अह॑र् य॒ज्ञिय॒न् नावि॑न्दन् ।

Keith

The gods [3] could not find the suitable day for the sacrifice.

मूलम्

दे॒वा वा अह॑र्य॒ज्ञिय॒न्नावि॑न्दन् ।

पद-पाठः

दे॒वाः । वै । अहः॑ । य॒ज्ञिय॑म् । न । अ॒वि॒न्द॒न् । ते । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । अ॒पु॒न॒न् ।

भट्टभास्कर-टीका

10देवा वा इत्यादि ॥ यज्ञार्हं यज्ञियंम्’। यज्ञर्त्विभ्यां घखञौ’ ।

सायण-टीका

स्वल्पेऽपि कर्मण्यधिककर्मसंपादनवेदनेन फलाधिक्यप्राप्तिः पूर्वकाण्डे प्रजापतिर्यज्ञानसृजतेत्यनुवाके प्रपञ्चिता। अथ दर्शपूर्णमासकर्मणोस्तिथिविषयविधिमर्थवादेनोन्नयति-
देवा वा इति। एतौ दर्शपूर्णमासौ यज्ञावर्हतीति यज्ञियं, तादृशमेकमप्यहर्देवा न लेभिरे।

विश्वास-प्रस्तुतिः

ते द॑र्शपूर्णमा॒साव् अ॑पुनन् । तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद् द॑र्शपूर्णमा॒सौ ।

Keith

They purified the new and full moons;
the new and the full moon (sacrifices) are these pure and sacrificial (days).

मूलम्

ते द॑र्शपूर्णमा॒साव॑पुनन् ।

तौ वा ए॒तौ पू॒तौ मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ ।

पद-पाठः

ते । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । अ॒पु॒न॒न् ।

तौ । वै । ए॒तौ । पू॒तौ । मेध्यौ॑ । यत् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ ।

भट्टभास्कर-टीका

दर्शपूर्णमासाविति । कालवचनाविमाविदानीम् ।

सायण-टीका

ततो विचार्य दर्शपूर्णमासावमावास्यां पौर्णमासीं च दिनद्वयमपुनञ्शोधितवन्तः। यज्ञियत्वं निश्चितवन्तं इत्यर्थः। यस्मिन्दिने सूर्य एव दृश्यते चन्द्रमास्तु न दृश्यते सोऽयं दर्शः। अमावस्या च तादृशी। तस्यां तिथौ सूर्येण सहैववसतश्चन्द्रमसो द्रष्टुमक्यत्वात्। अतः सा तिथिः सूर्यमात्रदर्शनाद्दर्शनामाङ्कितस्य कर्मणो योग्या।
यस्यां तिथौ चन्द्रमण्डलं संपूर्णं दृश्यते सा पौर्णमासी। सा चन्द्रमसः पूर्तेः पूर्णनामाङ्कितस्य कर्मणो योग्या।
प्रतिपदादिषु चतुर्दश्यन्तासु तिथिषु चन्द्रमा लेशतो दृश्यते। न पूर्णो नाप्यत्बन्तमदृष्टः अतस्तयोः कर्मणोर्योग्या न भवन्ति। तस्मात्तावेव एतौ उक्तौ तिथिविशेषौ देवैरुक्तरीत्या शोधितौ सन्तौ यज्ञयोग्यौ संपन्नौ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते पू॒ताव् ए॒वैनौ॒ मेध्यौ॑ यजते ।

Keith

He who knowing thus offers the new and the full moon (sacrifices)
offers them as pure and sacrificial.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते । पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते ।

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
पू॒तौ । ए॒व । ए॒नौ॒ । मेध्यौ॑ । य॒ज॒ते॒ ।

भट्टभास्कर-टीका

य एवमिति । एवं वेदितुरेव एतौ पूता भवतः ॥

सायण-टीका

अत्र दर्शपूर्णमासशब्दस्तिथिपरो न कर्मपरः। यस्त्येवं तिथ्योः शुद्धिं विद्वान्कर्मद्वयं कुरुते सोऽयं शोधितौ यज्ञयोग्यौ तिथिविशेषावेव प्राप्य कृतवान्भवति। तश्मात्तयोस्तिथ्थोः कुर्यादिति तात्पर्यार्थः।

यभन-निषेधः

विश्वास-प्रस्तुतिः

नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒म् उपे॑यात् ।

Keith

One should not approach a woman on the new moon or the full moon night;

मूलम्

नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒मुपे॑यात् ।

पद-पाठः

न । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण-मा॒स्याम् । च॒ । स्त्रिय॑म् । उपेति॑ । इ॒या॒त् ।

भट्टभास्कर-टीका

11नामावास्यायां चेति ॥ गतम् ॥

सायण-टीका

प्रसङ्गात्पुरुषार्थं कंचिन्नियमं विधत्ते- नामावास्यायामिति।

विश्वास-प्रस्तुतिः

यद् उ॑पे॒यात् निरि॑न्द्रियस् स्यात् ।

Keith

if one were to do so, one would be impotent.

मूलम्

यदु॑पे॒यात् निरि॑न्द्रियस्स्यात् ।

पद-पाठः

यत् । उ॒पे॒यादित्यु॑प-इ॒यात् । निरि॑न्द्रिय॒ इति॒ निः-इ॒न्द्रि॒यः॒ । स्या॒त् ।

मूलम् (संयुक्तम्)

सोम॑स्य॒ वै राज्ञो॑ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आस॒न्तासा॑ममावा॒स्या॑ञ्च पौर्णमा॒सीञ्च॒ नोपै॑त् [36]
ते ए॑नम॒भि सम॑नह्येता॒न्तय्ँयक्ष्म॑ आर्च्छत्

विश्वास-प्रस्तुतिः

सोम॑स्य॒ वै राज्ञो॑ ऽर्धमा॒सस्य॒
रात्र॑य॒ᳶ पत्न॑य आसन् ।
तासा॑म् अमावा॒स्या॑ञ् च पौर्णमा॒सीञ् च॒ नोपै॑त् ।

Keith

The nights of the half-month were the wives of King Soma;
of these be did not approach the new moon night and the full moon night [4].

मूलम्

सोम॑स्य॒ वै राज्ञो॑ऽर्धमा॒सस्य॒ रात्र॑य॒ᳶ पत्न॑य आसन् ।
तासा॑ममावा॒स्या॑ञ्च पौर्णमा॒सीञ्च॒ नोपै॑त् ।

पद-पाठः

सोम॑स्य । वै । राज्ञः॑ । अ॒र्ध॒मा॒सस्येत्य॑र्ध-मा॒सस्य॑ । रात्र॑यः । पत्न॑यः । आ॒स॒न् ।
तासा॑म् । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या॑म् । च॒ । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण-मा॒सीम् । च॒ । न । उपेति॑ । ऐ॒त् ।

भट्टभास्कर-टीका

12रात्रय इति ॥ पञ्चदश तिथयः । पत्नय इति छान्दसो वर्णविकारः ।

विश्वास-प्रस्तुतिः

ते+++(←द्विवचनत्वात् न सन्धिः)+++ ए॑नम् अ॒भि सम॑नह्येताम् ।
तय्ँ यक्ष्म॑ आर्च्छत्।

Keith

They grasped him about, and illness seized him.

मूलम्

ते ए॑नम॒भि सम॑नह्येताम् ।
तय्ँयक्ष्म॑ आर्च्छत्।

पद-पाठः

ते इति॑ । ए॒न॒म् । अ॒भि । समिति॑ । अ॒न॒ह्ये॒ता॒म् ।

तम् । यक्ष्मः॑ । आ॒र्च्छ॒त् । 3 ।

भट्टभास्कर-टीका

अभी समनह्येतामिति । सोमेन राज्ञा अनुपेते त्यक्ते एते तिथी एनम् अभिभूय आभिमुख्येन वा भोकृत्वेन गृहीतवत्यौ ।

ततस्तं तथा ताभ्यां भुज्यमानं यक्ष्मः क्षयरोग आर्छत् आर्तमकरोत् ॥

सायण-टीका

पूर्वोक्तयोस्तिथ्योर्यज्ञियत्वमाख्यायिकया प्रपञ्चयति- सोमस्य वा इति।
अर्धमासस्य शुक्लपक्षस्य रात्रय एको वर्गः,
कृष्णपक्षस्य रात्रयः परो वर्गः,
ते अमावास्यापौर्णमास्यावेनं सोममभिसमगह्येतामाभिमुख्येन संभोगाय गृहीतवत्यौ। बलात्कारेण भुज्यमानं तंसोममतिव्यवायेन क्षयव्याधिः प्राप्तवान्।
एतच्च प्रजापतेस्त्रयस्त्रिँ शद्दुहितर इत्यत्र व्याख्यातं तथैव व्याख्येयम्।

विश्वास-प्रस्तुतिः

“राजा॑नय्ँ॒ यक्ष्म॑ आर॒द्” इति॒ ..
तद् रा॑ज-य॒क्ष्मस्य॒ जन्म॒,
यत् पापी॑या॒न् अभ॑व॒त्
तत् पा॑प-य॒क्ष्मस्य॒,
यज् जा॒याभ्या॒म् अवि॑न्द॒त्
तज् जा॒येन्य॑स्य।

Keith

‘Illness has seized the king’; that (saying) is the origin of the ‘king’s evil ‘.
In that he became worse,
that is (the origin) of the ‘bad illness’;
because he got it from his wives,
that is (the origin) of the ‘wife’s disease’ (Jayenya),

मूलम्

“राजा॑नय्ँ॒ यक्ष्म॑ आर॒द्” इति॒ ..
तद् रा॑जय॒क्ष्मस्य॒ जन्म॒,
यत्पापी॑या॒नभ॑व॒त्
तत् पा॑पय॒क्ष्मस्य॒,
यज् जा॒याभ्या॒म् अवि॑न्द॒त्
तज् जा॒येन्य॑स्य।

पद-पाठः

राजा॑नम् । यक्ष्मः॑ । आ॒र॒त् । इति॑ । तत् । रा॒ज॒य॒क्ष्मस्येति॑ राज-य॒ख्मस्य॑ । जन्म॑ ।
यत् । पापी॑यान् । अभ॑वत् । तत् । पा॒प॒य॒क्ष्मस्येति॑ पाप-य॒क्ष्मस्य॑ ।
यत् । जा॒याभ्या॑म् । अवि॑न्दत् । तत् । जा॒येन्य॑स्य ।

विश्वास-प्रस्तुतिः

य ए॒वम् ए॒तेषाय्ँ॒ यक्ष्मा॑णा॒ञ् जन्म॒ वेद॒
नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति ।+++(4)+++

Keith

him who knows thus the origin of these illnesses,
these illnesses do not visit.

मूलम्

य ए॒वम् ए॒तेषाय्ँ॒ यक्ष्मा॑णा॒ञ् जन्म॒ वेद॒
नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति ।

पद-पाठः

यः । ए॒वम् । ए॒तेषा॑म् । यक्ष्मा॑णाम् । जन्म॑ । वेद॑ । न । ए॒न॒म् । ए॒ते । यक्ष्माः॑ । वि॒न्द॒न्ति॒ ।

भट्टभास्कर-टीका

13राजानं यक्ष्म आरदित्यादि ॥ व्याख्यातममावास्यायामिति शेषः ॥

मूलम् (संयुक्तम्)

स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूताव्ँ॒वरव्ँ॑वृणावहा आ॒वन्दे॒वाना॑म्भाग॒धे अ॑साव [37] आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒

विश्वास-प्रस्तुतिः

स ए॒ते ए॒व न॑म॒स्यन्न् उपा॑धावत् ।

Keith

He ran up to these two in reverence;

मूलम्

स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धावत् ।

पद-पाठः

सः । ए॒ते इति॑ । ए॒व । न॒म॒स्यन् । उपेति॑ । अ॒धा॒व॒त् ।

भट्टभास्कर-टीका

14स एते इत्यादि ॥ गतम् ।

विश्वास-प्रस्तुतिः

ते अ॑ब्रूताव्ँ॒

वरव्ँ॑ वृणावहै
आ॒वन् दे॒वाना॑म् भाग॒-धे अ॑साव
आ॒वद् अधि॑ दे॒वा इ॑ज्यान्ता॒

इति॑ ।

Keith

they said,

‘Let us choose a boon;
let us be the appointers of portions for the gods [5];
from us let the gods be sacrificed to.’

मूलम्

ते अ॑ब्रूताव्ँ॒वरव्ँ॑वृणावहै ।
आ॒वन्दे॒वाना॑म्भाग॒धे अ॑साव ।
आ॒वदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॑ ।

पद-पाठः

ते इति॑ । अ॒ब्रू॒ता॒म् ।
वर॑म् । वृ॒णा॒व॒है॒ । आ॒वम् । दे॒वाना॑म् । भा॒ग॒धे इति॑ भाग-धे । अ॒सा॒व॒ ।
आ॒वत् । अधीति॑ । दे॒वाः । इ॒ज्या॒न्तै॒ । इति॑ ।

भट्टभास्कर-टीका

भागधे इति । भागानां हविषां धात्र्यौ आवां असाव भवाव ।

भट्टभास्कर-टीका

आवदधि आवयोरेव उपरिष्टात् देवाः इज्यान्ता इति । पूर्ववल्लेट् ॥

सायण-टीका

आवाम् उभे एव देवानां हविर्भागधारिण्यौ भवाव आवयोरधिश्रित्गाग्न्यादयो देवा इज्यन्तामित्यनयोर्वरः। एतबोभगिधारित्वं जानते मनुष्याः सर्वेऽपि भागं धारयित्वा प्रयच्छन्ति।

विश्वास-प्रस्तुतिः

तस्मा॑त् स॒दृशी॑नाँ॒ रात्री॑णाम्
अमावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑
दे॒वा इ॑ज्यन्ते ।
ए॒ते हि दे॒वाना॑म् भाग॒-धे ।
भा॒ग॒-धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒,
य ए॒वव्ँ वेद॑ ।

Keith

Therefore of the series of nights
it is on the new and the full moon night that the gods are sacrificed to;
for they are the appointers of portions for the gods.
Men appoint portions to him who knows thus.

मूलम्

तस्मा॑त्स॒दृशी॑नाँ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वाना॑म्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वव्ँ वेद॑

पद-पाठः

तस्मा॑त् । स॒दृशी॑नाम् । रात्री॑णाम् । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । च॒ । पौ॒र्ण॒मा॒स्यामिति॑ पौर्ण-मा॒स्याम् । च॒ । दे॒वाः । इ॒ज्य॒न्ते॒ ।

ए॒ते इति॑ । हि । दे॒वाना॑म् । भा॒ग॒धे इति॑ भाग-धे ।
भा॒ग॒धा इति॑ भाग-धाः । अ॒स्मै॒ । म॒नु॒ष्याः॑ । भ॒व॒न्ति॒ ।
यः । ए॒वम् । वेद॑ ।

भट्टभास्कर-टीका

15तस्मादित्यादि ॥ गतम् ॥

क्षुत्

मूलम् (संयुक्तम्)

भू॒तानि॒ क्षुध॑मघ्नन्त्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तर॑स्सव्ँवत्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्य॑ᳵ क्रियते सव्ँवत्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ्गृह्णन्ति॒ य ए॒वव्ँ वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्यम् ॥ [38]

विश्वास-प्रस्तुतिः

भू॒तानि॒ क्षुध॑म् अघ्नन्थ् -
स॒द्यो म॑नु॒ष्या॑
अर्धमा॒से दे॒वा
मा॒सि पि॒तर॑स्
सव्ँवत्स॒रे वन॒स्पत॑यः

Keith

Creatures slew hunger,
man at once,
the gods at the half-month,
the Pitrs in a month,
trees in a year.

मूलम्

भू॒तानि॒ क्षुध॑मघ्नन्त्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तर॑स्सव्ँवत्स॒रे वन॒स्पत॑यः

पद-पाठः

भू॒तानि॑ । क्षुध॑म् । अ॒घ्न॒न् । स॒द्यः । म॒नु॒ष्याः॑ । अ॒र्ध॒मा॒स इत्य॑र्ध-मा॒से । दे॒वाः । मा॒सि । पि॒तरः॑ । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रे । वन॒स्पत॑यः ।

भट्टभास्कर-टीका

16भूतानीत्यादि ॥ सर्वाणि भूतानि क्षुधं बुभुक्षां घ्नन्ति तदुपघातहेतुभिरुपशमयन्ति सद्यस्समानेह्नि एत[क]स्मिन्नह्नि सकृदुपघातहेतुशमनं कृत्वा क्षुधं हन्ति ।

अर्धमासे देवाः क्षुधं घ्नन्ति हविर्भिर्यागप्रभवैः ।

मासि पितरः श्राद्धेन ।

सायण-टीका

अथ मनुष्यादिसाम्योपन्यासेनोक्तार्थमेव पुनः प्रशंसति- भूतानि क्षुधमिति। भूतानि मनुष्याद्याः प्राणिनः।

विश्वास-प्रस्तुतिः

तस्मा॒द् अह॑र्-अहर् मनु॒ष्या॑ अश॑नम् इच्छन्ते,
ऽर्धमा॒से दे॒वा इ॑ज्यन्ते,
मा॒सि पि॒तृभ्य॑ᳵ क्रियते,
सव्ँवत्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ् गृह्णन्ति।

Keith

Therefore day by day men desire food,
at the half-month the gods are sacrificed to,
every month offering is made to the Pitrs,
in a year trees produce fruit.

मूलम्

तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्य॑ᳵ क्रियते सव्ँवत्स॒रे वन॒स्पत॑य॒ᳶ फल॑ङ्गृह्णन्ति

पद-पाठः

तस्मा॑त् । अह॑रह॒रित्यहः॑-अ॒हः॒ । म॒नु॒ष्याः॑ । अश॑नम् । इ॒च्छ॒न्ते॒ ।
अ॒र्ध॒मा॒स इत्य॑र्ध-मा॒से । दे॒वाः । इ॒ज्य॒न्ते॒ ।
मा॒सि । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । क्रि॒य॒ते॒ ।
सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रे । वन॒स्पत॑यः । फल॑म् । गृ॒ह्ण॒न्ति॒ ।

भट्टभास्कर-टीका

वनस्पतयः संवत्सरे फलग्रहणेन तृप्ताः क्षुधं घ्नन्ति । तस्मात्पर्वणिपर्वणि यष्टव्या देवा इति ॥

इति द्वितीये पञ्चमे षष्ठोनुवाकः ॥

सायण-टीका

वनस्पतयः पनसाम्राद्याः। तेषां फलग्रहणमेव क्षुन्निवारणरूपां तृप्तिं सूचयति। एवं क्षुधो हननं यो वेद सोऽप्यन्नसमृद्धः क्षुद्रूपं शत्रुं सर्वदा हन्ति।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे पञ्चमप्रपाठके षष्टोऽनुवाकः।। ६ ।।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒
हन्ति॒ क्षुध॒म् भ्रातृ॑व्यम् ॥

Keith

He who knows thus slays the enemy, hunger.

मूलम्

य ए॒वव्ँ वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्यम् ॥

पद-पाठः

यः । ए॒वम् । वेद॑ । हन्ति॑ । क्षुध॑म् । भ्रातृ॑व्यम् ॥ [38]