२५ ०४

०४ ऐन्द्रेष्टयः ...{Loading}...

सेन्द्रत्वम्

विस्तारः (द्रष्टुं नोद्यम्)

भ्रातृव्यतः पशुकामस्य च यागौ । सान्नायदेवता च।

प्रजापतिऋषिः ।

मूलम् (संयुक्तम्)

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑स॒स्सेन्द्र॑ ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वश्श्वो॑ऽस्मा ईजा॒नाय॒ वसी॑यो भवति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सौ य॑जेत॒ -
य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ ।

Keith

The theologians say,

‘He would indeed offer the new and full moon (sacrifices)
who should offer them with Indra.’

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सौ य॑जेत ।
य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
सः । तु । वै । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । य॒जे॒त॒ ।
यः । ए॒नौ॒ । सेन्द्रा॒विति॒ स-इ॒न्द्रौ॒ । यजे॑त । इति॑ ।

भट्टभास्कर-टीका

1ब्रह्मवादिन इत्यादि ॥ गतम् ।

सायण-टीका

तत्राऽऽदौ तावत्पूर्वोक्तानुवाकयोर्दर्शपूर्णमासयोः प्रशंसामाह— ब्रह्मवादिन इति।

विश्वास-प्रस्तुतिः

वै॒मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति ।
तेन॑ पू॒र्णमा॑स॒स्सेन्द्रः॑।

Keith

At the full moon there is the subsequent offering of the enemy-dispelling (oblation),
and by it the full moon has Indra.

मूलम्

वै॒मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति ।
तेन॑ पू॒र्णमा॑स॒स्सेन्द्रः॑।

पद-पाठः

वै॒मृ॒धः । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु-नि॒र्वा॒प्यः॑ । भ॒व॒ति॒ ।
तेन॑ । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒सः॒ । सेन्द्र॒ इति॒ स-इ॒न्द्रः॒ ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रन् दध्य् अ॑मावा॒स्या॑याम्।
तेना॑मावा॒स्या॑ सेन्द्रा॑।

Keith

There are curds for Indra at the new moon;
verily the new moon has Indra.

मूलम्

ऐ॒न्द्रन्दध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा॑।

पद-पाठः

ऐ॒न्द्रम् । दधि॑ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । तेन॑ । अ॒मा॒वा॒स्येत्य॑मा-वा॒स्या॑ । सेन्द्रेति॒ स-इ॒न्द्रा॒ ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान् द॑र्श–पूर्ण-मा॒सौ यज॑ते॒
सेन्द्रा॑व् ए॒वैनौ॑ यजते ।
श्वश्-श्वो॑ ऽस्मा ईजा॒नाय॒ वसी॑यो भवति ।

Keith

He who knowing thus offers, the new and full moon sacrifices, offers them with Indra,
and day after day it becomes better for him who has so sacrificed.

मूलम्

य ए॒वव्ँवि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते ।
सेन्द्रा॑वे॒वैनौ॑ यजते ।
श्वश्श्वो॑ऽस्मा ईजा॒नाय॒ वसी॑यो भवति ।

पद-पाठः

यः । ए॒वम् । वि॒द्वान् । द॒र्श॒पू॒र्ण॒मा॒साविति॑ दर्श-पू॒र्ण॒मा॒सौ । यज॑ते ।
सेन्द्रा॒विति॒ स-इ॒न्द्रौ॒ । ए॒व । ए॒नौ॒ । य॒ज॒ते॒ ।
श्वश्श्व॒ इति॒ श्वः-श्वः॒ । अ॒स्मै॒ । ई॒जा॒नाय॑ । वसी॑यः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

एनावित्यादि । अविदुषो नार्थः । पूर्णमासे वैमृधेन अमावास्यायामैन्द्रेण दध्ना च इत्येवं विदित्वेष्टवते यजमानायोत्तरमुत्तरं दिनं प्रशस्ततरं भवति ॥

सायण-टीका

एतौ दर्शपूर्णमासयागाविन्द्रसहितौ यो यजते स एव दर्शपूर्णमासयाजी न त्वन्यः। तयोश्च यागयोः सेन्द्रत्वं वैमृधसांनाय्याभ्यां संपद्यते। एवं विदुषः सेन्द्रयागेनो (णो) त्तरोत्तरदिने धनाधिक्यं भवति।

मूलम् (संयुक्तम्)

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ताम् [22] इष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपालँ॒ सर॑स्वत्यै च॒रुँ सर॑स्वते च॒रुन्ताम्पौ॑र्णमा॒सँ सँ॒स्थाप्यानु॒ निर॑वप॒न्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स पौ॑र्णमा॒सँ सँ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत्पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या॑ग्नावैष्ण॒वेन॑ दे॒वता॑श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान्प॒शून्त्सा॑रस्व॒ताभ्याय्ँ॒याव॑दे॒वास्यास्ति॒ तत् [23] सर्वव्ँ॑वृङ्क्ते

भ्रातृव्यवत इष्टिः

विश्वास-प्रस्तुतिः

दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत ।
तद् असु॑रा अकुर्वत ।
ते दे॒वा ए॒ताम् इष्टि॑म् अपश्यन् -
आग्नावैष्ण॒वम् एका॑दश-कपालं॒,
सर॑स्वत्यै च॒रुँ,
सर॑स्वते च॒रुम्।

Keith

What the gods did at the sacrifice, the Asuras did. The gods [1] saw this offering,
one on eleven potsherds for Agni and Visnu,
an oblation for Sarasvati,
an oblation for Sarasvant;

मूलम्

दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तामिष्टि॑मपश्यन् -

आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् ।
सर॑स्वत्यै च॒रुँ,
सर॑स्वते च॒रुम्।

पद-पाठः

दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत ।
तत् । असु॑राः । अ॒कु॒र्व॒त॒ ।
ते । दे॒वाः । ए॒ताम् । इष्टि॑म् । अ॒प॒श्य॒न् ।
आ॒ग्ना॒वै॒ष्ण॒वमित्या॑ग्ना-वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् ।
सर॑स्वत्यै । च॒रुम् । सर॑स्वते । च॒रुम् ।

भट्टभास्कर-टीका

2देवा वा इत्यादि ॥ गतम् ।

सायण-टीका

अथ पौर्णमास्यां काम्यमनुनिर्वाप्यमिष्ट्यन्तरं विधातुं प्रस्तौति— देवा वा इति।

विश्वास-प्रस्तुतिः

ताम् पौ॑र्णमा॒सँ सँ॒स्थाप्यानु॒ निर॑वपन् ।

Keith

after performing the full moon (sacrifice) they offered this.

मूलम्

ताम् पौ॑र्णमा॒सँ सँ॒स्थाप्यानु॒ निर॑वपन् ।

पद-पाठः

ताम् । पौ॒र्ण॒मा॒समिति॑ पौर्ण-मा॒सम् । सँ॒स्थाप्येति॑ सम्-स्थाप्य॑ । अनु॑ । निरिति॑ । अ॒व॒प॒न् ।

भट्टभास्कर-टीका

एतामिष्टिमिति । वक्ष्यमाणां त्रिहविष्कां पौर्णमासी-समाप्त्य्-अनन्तरं तस्या अनुनिर्वाप्याम् अकुर्वन् । पौर्णमास्येवानुनिर्वाप्यसहिता फलं ददाति (कूग[कुहू]श्च) ।

प्रदीपसिंहः अत्र एतामिष्टिम् इति भट्टभास्करभाष्ये प्रतीकग्रहणं कृतम् । एताम् इत्यस्य वक्ष्यमाणाम् इति अर्थः प्रदर्शितः । मूलपाठे ताम् इति वर्तते । अतः ताम् इति प्रतीको वा स्यात् भाष्ये । अथवा आर्षत्वात् मूलस्य ताम् इत्यस्य एतामति व्याख्या इति वा वाच्यम् इति वाच्यमिति भाति ।
ततो॑ दे॒वा अभ॑वन् ...{Loading}...
विश्वास-प्रस्तुतिः

ततो॑ दे॒वा अभ॑वन्न् +++(←चादिलोपे विभाषा)+++,
पराऽसु॑राः +++(चाभवन्)+++।

Keith

Then the gods prospered,
the Asuras were defeated.

मूलम्

ततो॑ दे॒वा अभ॑वन् ।
पराऽसु॑राः ।

पद-पाठः

ततः॑ । दे॒वाः । अभ॑वन् ।
परेति॑ । असु॑राः ।

सायण-टीका

ततो देवा अभवन्। पराऽसुराः।


देवानां यज्ञं दृष्ट्वा तथैवानुचरतामसुराणां देवसमानं विजयं दृष्ट्वा देवास्तानसुरान्वञ्चयित्वाऽनुष्ठितेनानुनिर्वाप्येण स्वयं विजयं प्राप्ता असुराश्च पराभूताः।

पद-पाठः

ततः॑ । दे॒वाः । अभ॑वन् ।
परेति॑ । असु॑राः ।

विश्वास-प्रस्तुतिः

यो भ्रातृ॑व्यवा॒न्त् स्यात्-
स पौ॑र्णमा॒सँ सँ॒स्थाप्यै॒ताम् इष्टि॒म् अनु॒ निर्व॑पेत् ।

Keith

He who has enemies should offer this offering
after performing the full moon (sacrifice).

मूलम्

यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स पौ॑र्णमा॒सँ सँ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् ।

पद-पाठः

यः । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य-वा॒न् । स्यात् ।
सः । पौ॒र्ण॒मा॒समिति॑ पौर्ण-मा॒सम् । सँ॒स्थाप्येति॑ सम्-स्थाप्य॑ । ए॒ताम् । इष्टि॑म् । अनु॑ । निरिति॑ । व॒पे॒त् ।

विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒सेनै॒व वज्र॒म् भ्रातृ॑व्याय प्र॒हृत्या॑ग्नावैष्ण॒वेन॑
दे॒वता॑श् च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते,
मि॒थु॒नान् प॒शून्त् सा॑रस्व॒ताभ्यां॒
याव॑द् ए॒वास्यास्ति॒
तत् सर्वव्ँ॑ वृङ्क्ते ।

Keith

With the full moon (sacrifice) he hurls the bolt at his enemy,
with (the offering) to Agni and Visnu
he appropriates the gods and the sacrifice of his enemy,
his pairing cattle - with (the offerings) to Sarasvati and Sarasvant.
Whatever he has, all that [2] he appropriates.

मूलम्

पौ॒र्ण॒मा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या॑ग्नावैष्ण॒वेन॑ दे॒वता॑श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते ।

मि॒थु॒नान्प॒शून्त्सा॑रस्व॒ताभ्याय्ँ॒याव॑दे॒वास्यास्ति॒ तत्सर्वव्ँ॑वृङ्क्ते ।

पद-पाठः

पौ॒र्ण॒मा॒सेनेति॑ पौर्ण-मा॒सेन॑ । ए॒व । वज्र॑म् । भ्रातृ॑व्याय । प्र॒हृत्येति॑ प्र-हृत्य॑ । आ॒ग्ना॒वै॒ष्ण॒वेनेत्या॑ग्ना-वै॒ष्ण॒वेन॑ । दे॒वताः॑ । च॒ । य॒ज्ञम् । च॒ । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ ।

मि॒थु॒नान् । प॒शून् । सा॒र॒स्व॒ताभ्या॑म् । याव॑त् । ए॒व । अ॒स्य॒ । अस्ति॑ । तत् । सर्व॑म् । वृ॒ङ्क्ते॒ ।

भट्टभास्कर-टीका

पौर्णमासेनैवेत्यादि । वृङ्क्ते वर्जयति स्वयं गृह्णाति । यस्मादेवं तस्माद्यावत्किञ्चित् भ्रातृव्यस्य विद्यते तत्सर्वमनयेष्ट्या वृङ्क्ते ॥

सायण-टीका

अथ विधत्ते— यो भ्रातृव्यवानिति। पौर्णमासेन प्रधानयागेन वज्रप्रहारः। अग्निः सर्वा देवता विष्णुर्यज्ञ इत्युक्तत्वात्तदीयहविषा वैरिणो देवता यज्ञं ऋतुं च विनाशयति। सारस्वतयोः स्त्रीपुरुषदेवत्वात्तदीयहविर्भ्यां मिथुनानां पशूना वर्जनम्। एतावता भ्रातृव्यस्य यावद्वित्तमस्ति तत्सर्वं नाशितं भवति।

मूलम् (संयुक्तम्)

पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याँ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति

विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒सीम् ए॒व य॑जेत ।
भ्रातृ॑व्यवा॒न् नामा॑वा॒स्याँ॑ ह॒त्वा
भ्रातृ॑व्य॒न् ना प्या॑ययति ।

Keith

One should sacrifice [only] at the full moon,
if one has enemies, not at the new moon;
having slain one’s enemy one does not cause him to grow again.

मूलम्

पौ॒र्ण॒मा॒सीमे॒व य॑जेत ।
भ्रातृ॑व्यवा॒न्नामा॑वा॒स्याँ॑ ह॒त्वा भ्रातृ॑व्य॒न्ना प्या॑ययति ।

पद-पाठः

पौ॒र्ण॒मा॒सीमिति॑ पौर्ण-मा॒सीम् । ए॒व । य॒जे॒त॒ ।
भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य-वा॒न् । न । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या॑म् । ह॒त्वा । भ्रातृ॑व्यम् । न । एति॑ । प्या॒य॒य॒ति॒ ।

भट्टभास्कर-टीका

3नामावास्यामिति ॥ तत्र पितृयज्ञ एव क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेयः इति लुप्यते, ‘अमावास्यायां प्याययन्ति’ इति । तद्वत्पौर्णमास्या पौर्णमासे भ्रातृव्यं हत्वा अमावास्यालोपेनाप्यायनं अस्य निवर्तयति । यावदमावास्यामाप्यायितस्य वृद्ध्या वृत्रस्य अमावास्याया ऊर्ध्वं वधः क्रियते । तत्राप्यायितस्य वधादनाप्यायनमेव श्रेय इति लुप्यते अमावास्या ॥

सायण-टीका

यदुक्तं सूत्रकारेण—पौर्णमासीमेव यजेत भ्रातृव्यवान्नामावास्यां पितृयज्ञमेवामावास्यायां क्रियते (इति) तदेतद्विधत्ते— पौर्णमासीमेवेति।
द्वितीयानुवाके वृत्रप्रसङ्ग इदमुक्तम्—घ्नन्ति वा एनं पूर्णमास आऽमावास्यायां प्याययन्ति इति। तस्मादत्रापि पूर्णमासानुष्ठानेन भ्रातृव्यं हत्वा दर्शयागपरित्यागेन भ्रातृव्यस्याऽऽप्यायनं परित्यक्तवान्भवति।

मूलम् (संयुक्तम्)

साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒ नात्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा॑त्य॒न्यस्मै॑ मह॒ता पू॒र्णँ हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति

साकम्-प्रस्थायीया

विश्वास-प्रस्तुतिः

सा॒क॒म्-प्र॒स्था॒यीये॑न यजेत प॒शुका॑मः ।

Keith

He who desires cattle should sacrifice with the Sakamprasthayiya.

मूलम्

साकम्प्रस्था॒यीये॑न यजेत प॒शुका॑मः ।

पद-पाठः

सा॒क॒म्प्र॒स्था॒यीये॒नेति॑ साकम्-प्र॒स्था॒यीये॑न । य॒जे॒त॒ । प॒शुका॑म॒ इति॑ प॒शु-का॒मः॒ ।

भट्टभास्कर-टीका

4साकंप्रस्थायीयेनेति ॥ साकं सह ब्राह्मणैः प्रतिष्ठते होतुमिति साकंप्रस्थायी अध्वर्युः । तस्य सम्बन्धी साकंप्रस्थायीयो यागः । तत्र द्वौ सायं दोहौ द्वौ प्रातर्दोहौ । तत्र ब्राह्मणाः पूर्णपात्रैः अध्वर्युं जुह्वन्तमनुजुह्वति । अमावास्यैव (स्या)विक्रियते ।

सायण-टीका

अथ दर्शपूर्णमासस्य गुणविकृतिरूपं कंचिद्यागं विधत्ते— साकंप्रस्थायीयेनेति। दधिक्षीरपूर्णाभिश्चतसृभिः कुम्भीभिर्ब्राम्हणाहृताभिः साकमध्वर्योः प्रस्थानं होमस्थानं त्रति प्रस्थानं यस्मिन्यागे सोऽयं साकंप्रस्थायीयो यागस्तेन पशुकामो यजेत। तत्र महता क्षीरद्रव्येण पूर्णं हविर्होतव्यम्।

पूर्णपात्रम्

विश्वास-प्रस्तुतिः

यस्मै॒ वा अल्पे॑ना॒हर॑न्ति॒,
नात्मना॒ तृप्य॑ति ।
नान्यस्मै॑ ददाति ।

Keith

The man to whom they bring (any thing) in small measure is not himself pleased,
and does not give to another.

मूलम्

यस्मै॒ वा अल्पे॑ना॒हर॑न्ति ।
नात्मना॒ तृप्य॑ति ।
नान्यस्मै॑ ददाति ।

पद-पाठः

यस्मै॑ । वै । अल्पे॑न । आ॒हर॒न्तीत्या॑-हर॑न्ति ।
न । आ॒त्मना॑ । तृप्य॑ति ।
न । अ॒न्यस्मै॑ । द॒दा॒ति॒ ।

विश्वास-प्रस्तुतिः

यस्मै॑ मह॒ता तृप्य॑ति,
आ॒त्मना॒ ददा॑ति,
अ॒न्यस्मै॑ मह॒ता।

Keith

But he, to whom they bring in large measure, is himself pleased,
and gives to another.

मूलम्

यस्मै॑ मह॒ता तृप्य॑ति ।
आ॒त्मना॒ ददा॑ति ।
अ॒न्यस्मै॑ मह॒ता

पद-पाठः

यस्मै॑ । म॒ह॒ता । तृप्य॑ति ।
आ॒त्मना॑ । ददा॑ति ।
अ॒न्यस्मै॑ । म॒ह॒ता ।

भट्टभास्कर-टीका

यस्मै वेति। यस्मै अल्पेन प्रमाणेन धनादिकमाहरन्ति अथ स नात्मना तृप्यति । येनात्मनि तृप्तिर्नास्ति असौ धनान्तरं च नान्यस्मै दातुं शक्नोति ।

सायण-टीका

लोके च यस्मै राज्ञे करप्रदायिन्यः प्रजा अल्पेन प्रमाणेन धनमाहरन्ति स राजा न स्वयं तृप्यति नाप्यन्यस्मै दातुं शक्नोति। यस्मै तु महता प्रमाणेन धनमाहरन्ति स राजा स्वयं तृप्यति चान्यस्मै दातुमपि च प्रभवति।

विश्वास-प्रस्तुतिः

पू॒र्णँ हो॑त॒व्य॑म् ।
तृ॒प्त ए॒वैन॒म् इन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स् तर्पयति ।

Keith

One should offer in full and large measure;
Indra then being pleased delights him with offspring and cattle.

मूलम्

पू॒र्णँ हो॑त॒व्य॑म् ।
तृ॒प्त ए॒वैन॒मिन्द्रᳶ॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति ।

पद-पाठः

पू॒र्णम् । हो॒त॒व्य॑म् ।
तृ॒प्तः । ए॒व । ए॒न॒म् । इन्द्रः॑ । प्र॒जयेति॑ प्र-जया॑ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । त॒र्प॒य॒ति॒ ।

भट्टभास्कर-टीका

यदि महता प्रमाणेन अस्मा आहरन्ति, स स्वयं च तृप्यति, अन्यस्मै चायं महता प्रमाणेन ददाति, तस्याप्यतृप्तिर्भवतीति भावः ॥

सायण-टीका

तस्मादत्रापि महता प्रमाणेन पूर्णस्य द्रव्यस्य होमे सति स्वयं तृप्त इन्द्रः प्रजया पशुभिश्चैनं यजमानं तर्पयति।
तद्यागप्रकारः सूत्रकारेण स्पष्टीकृतः-
‘साकंप्रस्थायीयेन यजेत पशुकाम इत्यमावास्या विक्रियते द्वौ सायंदोहावेवं प्रातः सायं सायंदोहाभ्यां प्रचरन्ति प्रातः प्रातर्दोहाभ्यां सर्वैर्वा प्रातः’ इति।

दारु-पात्रम्

विश्वास-प्रस्तुतिः

दा॒रु॒पा॒त्रेण॑ जुहोति ।

Keith

He offers with a wooden vessel,

मूलम्

दा॒रु॒पा॒त्रेण॑ जुहोति ।

पद-पाठः

दा॒रु॒पा॒त्रेणेति॑ दारु-पा॒त्रेण॑ । जु॒हो॒ति॒ ।

भट्टभास्कर-टीका

5दारुपात्रेणेति ॥ औदुम्बरैश्चतुर्भिः पात्रैः ।

सायण-टीका

क्षीरश्रपणपात्राणां मृन्मयत्वाद्धोमेऽपि तत्प्रसक्तिं वारयितुं विधत्ते- दारुपात्रेणेति। यस्मान्मृन्मयपात्रमाहुतिं व्याप्तुं नार्हति तस्माद्दारुपात्रेण होमः।

विश्वास-प्रस्तुतिः

न हि मृ॒न्मय॒म् आहु॑तिम् आनशे ।

Keith

for an earthenware one does not hold the offering.

मूलम्

न हि मृ॒न्मय॒माहु॑तिमानशे ।

पद-पाठः

‘7 । न । हि । मृ॒न्मय॒मिति॑ मृत्-मय॑म् । आहु॑ति॒मित्या-हु॒ति॒म् । आ॒न॒शे ।

भट्टभास्कर-टीका

न हीति । मृन्मयं कुम्भादिकं न ह्याहुतिम् आनशे अश्नुते आहुतिसाधनं न भवति । मृन्मयेन हुता आहुतिरेव न स्यादिति यावत् ।
‘एकाचो नित्यं मयटमिच्छन्ति’ इति मयट् ॥

सायण-टीका

न ह्यत्र जुह्वामवदानमस्ति। पूर्णस्य होतव्यत्वात्। अतो हविष्पूरणक्षमेण जुहुयात्।

विश्वास-प्रस्तुतिः

औदु॑म्बरम् भवति ।
ऊर्ग् वा उ॑दु॒म्बरः॑ ।
ऊर्क् प॒शवः॑ ।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म् प॒शूनव॑ रुन्द्धे ।

Keith

It is of Udumbara wood [3];
the Udumbara is strength,
cattle are strength;
verily by strength he wins for him strength and cattle.

मूलम्

औदु॑म्बरम् [24] भ॒व॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे

औदु॑म्बरम् भवति ।
ऊर्ग् वा उ॑दु॒म्बरः॑ ।
ऊर्क् प॒शवः॑ ।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म् प॒शूनव॑ रुन्द्धे ।

पद-पाठः

औदु॑म्बरम् । भ॒व॒ति॒ ।
ऊर्क् । वै । उ॒दु॒म्बरः॑ ।
ऊर्क् । प॒शवः॑ ।
ऊ॒र्जा । ए॒व । अ॒स्मै॒ । ऊर्ज॑म् । प॒शून् । अवेति॑ । रु॒न्द्धे॒ ।

भट्टभास्कर-टीका

6औदुम्बरमित्यादि ॥ गतम् । ‘अनुदात्तादेरञ्" ॥

सायण-टीका

दारुविशेषं विधत्ते- औदुम्बरमिति। प्रथमप्रपाठके औदुम्बरो यूपो भवतीत्यत्रैतद्व्याख्यातम्।
अत्र सूत्रम्- ‘पात्रसंसादनकाले चत्वार्यौदुम्बरपात्राणि प्रयुनक्ति तेषां जुहूवत्कल्पः’ इति।
‘यावत्यः कुभ्म्यस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्थाय कुन्भीभ्यः पात्राणि पूरयित्वा तैरेवाध्वर्युं जुह्वन्त(त) मनु जुह्वति स्विष्टकृद्भक्षाश्च न विद्यन्ते’ इति च।

माहेन्द्रा

विश्वास-प्रस्तुतिः

नाग॑तश्रीर् महे॒न्द्रय्ँ य॑जेत ।
त्रयो॒ वै ग॒तश्रि॑यश्- शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्यः॑।

Keith

One should not sacrifice to, Mahendra,
if one is not prosperous.
The prosperous are three;
a learned (Brahman), a village headman, and a warrior.

मूलम्

नाग॑तश्रीर्महे॒न्द्रय्ँय॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यश्शुश्रु॒वान्ग्रा॑म॒णी रा॑ज॒न्यः॑।

पद-पाठः

न । अग॑तश्री॒रित्यग॑त-श्रीः॒ । म॒हे॒न्द्रमिति॑ महा-इ॒न्द्रम् । य॒जे॒त॒ ।
त्रयः॑ । वै । ग॒तश्रि॑य॒ इति॑ ग॒त-श्रि॒यः॒ ।
शु॒श्रु॒वान् । ग्रा॒म॒णीरिति॑ ग्राम-नीः । रा॒ज॒न्यः॑ ।

भट्टभास्कर-टीका

7नागतश्रीरित्यादि ॥ शुश्रुवान् षडङ्गवेदत्रयवेदी श्रुतसंपन्नः । स च प्राप्तश्रीः, ‘सा हि श्रीरमृता सताम्’ इति श्रीत्वाद्वेदानाम् । ग्रामणीः ग्रामाध्यक्षः ।
राज्ञोपत्यं राजन्यः । ‘राजश्वशुराद्यत्’, ‘राज्ञोपत्ये जातिग्रहणम्’ इति क्षत्रिय उच्यते ।

विश्वास-प्रस्तुतिः

तेषा॑म् महे॒न्द्रो दे॒वता॑ ।

Keith

Their deity is Mahendra.

मूलम्

तेषा॑म्महे॒न्द्रो दे॒वता॑ ।

पद-पाठः

तेषा॑म् । म॒हे॒न्द्र इति॑ महा-इ॒न्द्रः । दे॒वता॑ ।

भट्टभास्कर-टीका

स्पष्टमेतयोर्गतश्रीत्वं, यतो हिन्द्र एषां देवता । तस्मादेभ्योऽन्योऽगतश्रीः महेन्द्रं यष्टुं नार्हति ॥

सायण-टीका

नागतश्रीरिति। शुश्रुवान् वेदत्रयाभिज्ञः। वेदत्रयस्य च श्रीरूपत्वात्तदभिज्ञः प्राप्तश्रीर्भवति।
श्रीरूपत्वं चैवमाम्नायते- ‘अहे बुध्निय मन्त्रं मे गोपाय। यन्मृषयस्त्रयिविदा विदुः। ऋचः सामानि यजूँ षि। सा हि श्रीरमृता सताम्’ इति।
ग्रामाध्यक्षो ग्रामणीः। राज्ञः पुत्रो राज्यन्यः। द्वयोः प्राप्तश्रीकत्वं प्रसिद्धम्। तेषामेव त्रयाणां महेन्द्रो देवता।

मूलम् (संयुक्तम्)

यो वै स्वान्दे॒वता॑मति॒यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान्भवति

विश्वास-प्रस्तुतिः

यो वै स्वान् दे॒वता॑म् अति॒यज॑ते॒
प्र स्वायै॑ दे॒वता॑यै च्यवते ।
न परा॒म् प्राप्नो॑ति ।

Keith

He who sacrifices beyond his own deity loses his own deity,
and does not obtain another,

मूलम्

यो वै स्वान्दे॒वता॑मति॒यज॑ते ।
प्र स्वायै॑ दे॒वता॑यै च्यवते ।
न परा॒म्प्राप्नो॑ति ।

पद-पाठः

यः । वै । स्वाम् । दे॒वता॑म् । अ॒ति॒यज॑त॒ इत्य॑ति-यज॑ते ।
प्रेति॑ । स्वायै॑ । दे॒वता॑यै । च्य॒व॒ते॒ ।
न । परा॑म् । प्रेति॑ । आ॒प्नो॒ति॒ ।

भट्टभास्कर-टीका

8यो वा इत्यादि ॥ आत्मीयदेवतातिक्रमेण योऽन्यां देवतां यजते स स्वाया देवतायास्तावत् प्रच्यवते तस्या अनुग्राह्यो न भवति ।

सायण-टीका

एवं सति यः पुरुषः स्वकीयां देवतामतिक्रम्य यजते। एतेषु कश्चिदिन्द्रं यजति। अन्यो वा महेन्द्रं यजति। तादृशः स्वकीयदेवतायाः प्रच्युतः सन्परकीयां देवतां न प्राप्नोति।

विश्वास-प्रस्तुतिः

पापी॑यान् भवति ।

Keith

and becomes worse.

मूलम्

पापी॑यान्भवति ।

पद-पाठः

पापी॑यान् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

ततश्च पापीयान् पापतरो भवति । अयष्टुरस्यापापत्वमेव । यष्टुः पापतरत्वं स्यात्, देवतावत्त्वाभावात् ॥

सायण-टीका

तद्देवताशापेन पापीयान् दरिद्रश्च भवति।

संवत्सरावधिः

मूलम् (संयुक्तम्)

सव्ँ॒व॒त्स॒रमिन्द्रय्ँ॑यजेत सव्ँवत्स॒रँ हि व्र॒तन्नाति॒ स्वा [25] ए॒वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे॒ वसी॑यान्भवति

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रम् इन्द्रय्ँ॑ यजेत ।
सव्ँ॒व॒त्स॒रँ हि व्र॒तन् नाति॑।

Keith

For a year one should sacrifice to Indra, for the vow extends not beyond the year;

मूलम्

सव्ँ॒व॒त्स॒रमिन्द्रय्ँ॑यजेत ।
सव्ँ॒व॒त्स॒रँ हि व्र॒तन् नाति॑।

पद-पाठः

सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । इन्द्र॑म् । य॒जे॒त॒ ।
सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । हि । व्र॒तम् । न । अतीति॑ ।

भट्टभास्कर-टीका

9संवत्सरमित्यादि ॥ संवत्सरातिक्रमे व्रतं नास्ति ।

सायण-टीका

अगतश्रियः सर्वदेन्द्रप्राप्तौ विशेषं विधत्ते- संवत्सरमिति। संवत्सरमतिक्रम्य यस्माद्व्रतं नानुष्ठेयं भवति तस्मादगतश्रीः संवत्सरमिन्द्रं यजेत।

विश्वास-प्रस्तुतिः

स्वैवैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे ।
वसी॑यान्भवति ।

Keith

verily [4] his own deity, being sacrificed to, kindles him with prosperity
and he becomes richer.

मूलम्

स्वैवैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्द्धे ।
वसी॑यान्भवति ।

पद-पाठः

स्वा । ए॒व । ए॒न॒म् । दे॒वता॑ । इ॒ज्यमा॑ना । भूत्यै॑ । इ॒न्द्धे॒ ।
वसी॑यान् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

तस्मात् गतश्रीत्वाय संवत्सरं व्रतं चरन्तं स्वा आत्मीया देवता इन्द्र इज्यमाना एनमवगतश्रियं भूत्यर्थं इन्धे दीपयति ।

ततो वसीयान् वसुमत्तरो भवति, महेन्द्रयागार्हो गतश्रीरेव भवति, गता श्रीः आत्मीया देवता अनेनेति कृत्वा ॥

सायण-टीका

एवं सति स्वकीयैव देवताऽन्यस्मिन्संवत्सर इज्यमाना सती भूत्यर्थं यजमानं प्रकाशयति। ततोऽयं धनवत्तरो भवति।

मूलम् (संयुक्तम्)

सव्ँवत्स॒रस्य॑ प॒रस्ता॑द॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् सव्ँवत्स॒रमे॒वैनव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति॒ ततोऽधि॒ कामय्ँ॑यजेत ॥ [26]

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑द् +++(=पश्चात्)+++
अ॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पेत् ।

Keith

After the year he should offer a cake on eight potsherds to Agni, lord of vows;

मूलम्

सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑द॒ग्नये॑ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेत् ।

पद-पाठः

सव्ँ॒व॒त्स॒रस्येति॑ सम्-व॒त्स॒रस्य॑ । प॒रस्ता॑त् । अ॒ग्नये॑ । व्र॒तप॑तय॒ इति॑ व्र॒त-प॒त॒ये॒ । पु॒रो॒डाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् ।

भट्टभास्कर-टीका

10ततस्समाप्ते संवत्सरे गते अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रम् ए॒वैनव्ँ॑ वृ॒त्रञ् ज॑घ्नि॒वाँस॑म्
अ॒ग्निर् व्र॒त-प॑तिर् व्र॒तम् आ ल॑म्भयति।

Keith

verily for a year Agni, lord of vows,
causes him to take up the vow who has slain his foe (vrtra).

मूलम्

सव्ँ॒व॒त्स॒रमे॒वैनव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॑म॒ग्निर्व्र॒तप॑तिर्व्र॒तमा ल॑म्भयति।

पद-पाठः

सव्ँ॒व॒त्स॒रमिति॑ सम्-व॒त्स॒रम् । ए॒व । ए॒न॒म् । वृ॒त्रम् । ज॒घ्नि॒वाँस॑म् । अ॒ग्निः । व्र॒तप॑ति॒रिति॑ व्र॒त-प॒तिः॒ । व्र॒तम् । एति॑ । ल॒म्भ॒य॒ति॒ ।

भट्टभास्कर-टीका

सोऽग्निर्व्रतपतिः तृप्तः एनं व्रतफलम् आलम्भयति गतश्रीत्वमस्योत्पादयति स्वयमप्यनुज्ञाय स्थिरीकरोति । कीदृशमित्याह - संवत्सरं व्रतं चरित्वा वृत्रं वारकं पापं महेन्द्रयागानर्हत्वलक्षणं जघ्निवांसं अभिभवन्तं तत्फलं प्रापयति । यथा इन्द्रो वृत्रं हत्वा इन्द्रो महेन्द्रोऽभवत्, एवमयमपि त्वयोग्यतालक्षण वत्रवधेन महेन्द्रयागयोग्यो भवति ।

सायण-टीका

अगतश्रियः कांचिदिष्टिं विधत्ते- संवत्सरस्येति। व्रतपालकोऽग्निर्महेन्द्रयागाधिकारनिवारकपापरूपं वृत्रं संवत्सरेन्द्रानुष्ठानेन हतवन्तं यजमानं महेन्द्रयागानुष्ठानरूपं व्रतं प्रापयति।

विश्वास-प्रस्तुतिः

ततो ऽधि॒ कामय्ँ॑ यजेत ॥

Keith

Thereafter he may sacrifice at will.

मूलम्

ततोऽधि॒ कामय्ँ॑यजेत ॥

पद-पाठः

ततः॑ । अधीति॑ । काम॑म् । य॒जे॒त॒ ॥

भट्टभास्कर-टीका

तत उपरि कामं यथेष्टं महेन्द्रमेव यजेत ॥

इति द्वितीये पञ्चमे चतुर्थोऽनुवाकः ॥

सायण-टीका

व्रतपतेष्टेरूर्ध्वमगतश्रिय इन्द्रमहेन्द्रयोरैच्छिकत्वं विधत्ते- ततोऽधि कामं यजेतेति।