२४ ०३

०३ वैमुधः, सान्नाय-दधि-यागः ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

पौर्णमासे अनुनिर्वाप्यो वैमृधपुरोडाशः, अमावास्यायां सान्नाय्यदधियागश्च

प्रजापतिऋषिः ।

वैमृधः

मूलम् (संयुक्तम्)

इन्द्रव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तव्ँ वै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त्तन्निर॑वप॒त्तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धᳶ पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हतः

विश्वास-प्रस्तुतिः

इन्द्रव्ँ॑ वृ॒त्रञ् ज॑घ्नि॒वाँस॒म् मृधो॒ ऽभि प्रावे॑पन्त ।

Keith

When Indra had slain Vrtra, his enemies threatened him.

मूलम्

इन्द्रव्ँ॑वृ॒त्रञ्ज॑घ्नि॒वाँस॒म्मृधो॒ऽभि प्रावे॑पन्त ।

पद-पाठः

इन्द्र॑म् । वृ॒त्रम् । ज॒घ्नि॒वाँस॑म् । मृधः॑ । अ॒भि । प्रेति॑ । अ॒वे॒प॒न्त॒ ।
सः । ए॒तम् । वै॒मृ॒धम् । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑मित्य॑नु-नि॒र्वा॒प्य॑म् । अ॒प॒श्य॒त् ।

भट्टभास्कर-टीका

1इन्द्रं वृत्रमित्यादि ॥ वैमृधस्यैकादशकपालस्य विधिः । वृत्रं हतवन्तमिन्द्रं मृधस्सङ्ग्रामाभिमुख्येन आगत्य प्रकर्षेणावेपयन् ।

सायण-टीका

तत्र प्रथमं तावत्पौर्णमास्याममुनिर्वाप्यं वैमृधं विधित्सुः प्रस्तौति- इन्द्रं वृत्रमिति। अथ य इन्द्रो वृत्र हतवांस्तमिन्द्रं मृधो वृत्रपक्षपातिनो वैरिणोऽभितः समागत्य प्रकर्षेण भयमुत्पाद्याकम्पयन्त।

विश्वास-प्रस्तुतिः

स ए॒तव्ँ वै॑मृ॒धम् पू॒र्णमा॑से ऽनुनिर्वा॒प्य॑म् अपश्यत्
तन् निर॑वपत्
तेन॒ वै स मृधो ऽपा॑हत

Keith

He saw this enemy-dispelling (oblation) to be offered subsequently at the full moon. He offered it, and with it drove away his enemies.

मूलम्

स ए॒तव्ँ वै॑मृ॒धम्पू॒णमा॑सेऽनुनिर्वा॒प्य॑मपश्यत् ।
तन्निर॑वपत् ।
तेन॒ वै स मृधोऽपा॑हत ।

पद-पाठः

सः । ए॒तम् । वै॒मृ॒धम् । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑मित्य॑नु-नि॒र्वा॒प्य॑म् । अ॒प॒श्य॒त् ।
तम् । निरिति॑ । अ॒व॒प॒त् ।
तेन॑ । वै । सः । मृधः॑ । अपेति॑ । अ॒ह॒त॒ ।

भट्टभास्कर-टीका

स एतमित्यादि । विमृदिन्द्रः तस्येदं कर्म वैमृधं प्रधानानन्तरं अनुनिर्वाप्यम् । गतमन्यत् ॥

सायण-टीका

विनाशिता मृधो वैरिणो येन देवेनासौ विमृत्। स देवा यस्यैकादशकपालस्य पुरोडाशस्य सोऽयं वैमृधः। तं पुरोडाशं पूर्णमासयागेऽनुनिर्वाप्यं प्रधानकर्मणः पश्चान्निर्वापयोग्यमपश्यत्।

विश्वास-प्रस्तुतिः

यद् वै॑मृ॒धᳶ पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॒॑ भव॑ति॒
मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हते ।

Keith

In that the enemy-dispelling (oblation) is to be offered subsequently at the full moon, the sacrificer by it drives away his enemies.

मूलम्

यद् वै॑मृ॒धᳶ पू॒र्णमा॑से ऽनुनिर्वा॒प्यो॑ भव॑ति ।
मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हते ।

पद-पाठः

यत् । वै॒मृ॒धः । पू॒र्णमा॑स॒ इति॑ पू॒र्ण-मा॒से॒ । अ॒नु॒नि॒र्वा॒प्य॑ इत्य॑नु-नि॒र्वा॒प्यः॑ । भव॑ति ।
मृधः॑ । ए॒व । तेन॑ । यज॑मानः । अपेति॑ । ह॒ते॒ ।

सायण-टीका

अथ विधत्ते- यद्वैमृध इति।

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत॒ स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रन्दधि॑ [15] तन्निर॑वप॒त्तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यञ्चावा॑रुन्द्ध॒ यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रन्दधि॑ दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्धे

आग्नेयम् अष्टाकपालम्

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश् चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत ।
स ए॒तम् आ॑ग्ने॒यम् अ॒ष्टाक॑पालम् अमावा॒स्या॑याम् अपश्यत् ।
ऐ॒न्द्रन् दधि॒ तन् निर॑वपत् ।
तेन॒ वै स दे॒वता॑श् चेन्द्रि॒यञ् चावा॑रुन्द्ध ।

Keith

Indra, having slain Vrtra, lost the gods and his power. He saw the (offering) to Agni on eight potsherds at the new moon, and the curds for Indra [1]. He offered it, and by it he won the gods and his power.

मूलम्

इन्द्रो॑ वृ॒त्रँ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या॑र्ध्यत ।
स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पालममावा॒स्या॑यामपश्यत् ।
ऐ॒न्द्रन्दधि॒ ।
तन्निर॑वपत् ।
तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यञ्चावा॑रुन्द्ध ।

पद-पाठः

इन्द्रः॑ । वृ॒त्रम् । ह॒त्वा । दे॒वता॑भिः । च॒ । इ॒न्द्रि॒येण॑ । च॒ । वीति॑ । आ॒र्ध्य॒त॒ ।
सः । ए॒तम् । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा-क॒पा॒ल॒म् । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । अ॒प॒श्य॒त् ।
ऐ॒न्द्रम् । दधि॑ ।
तम् । निरिति॑ । अ॒व॒प॒त् ।
तेन॑ । वै । सः । दे॒वताः॑ । च॒ । इ॒न्द्रि॒यम् । च॒ । अवेति॑ । अ॒रु॒न्द्ध॒ ।

भट्टभास्कर-टीका

2इन्द्रो वृत्रं हत्येत्यादि ॥ ऐन्द्राग्नस्य विधिः, ऐन्द्रस्य च दध्नः ॥

सायण-टीका

अथ सांनाय्यनामकमैन्द्रं दधि विधातुं प्रस्तौति- इन्द्रो वृत्रमिति। इन्द्रो वृत्रवधेन भीतो दूरे पलायमानः स्वकीयाभिर्देवताभिश्च स्वकीयेन सामर्थ्येन च व्यृद्धो वियुक्तोऽभूत्।

विश्वास-प्रस्तुतिः

यद् आ॑ग्ने॒यो॒॑ ऽष्टाक॑पालो ऽमावा॒स्या॑या॒म् भव॑त्य् ऐ॒न्द्रन् दधि॑,
दे॒वता॑श् चै॒व तेने॑न्द्रि॒यञ् च॒ यज॑मा॒नोऽव॑ रुन्द्धे ।

Keith

In that at the new moon there is (an offering) to Agni on eight potsherds, and curds for Indra, the sacrificer wins by it the gods and power.

मूलम्

यदा॑ग्ने॒यो॑ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑ति ।
ऐ॒न्द्रन्दधि॑ दे॒वता॑श्चै॒व तेने॑न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्द्धे ।

पद-पाठः यत् । आ॒ग्ने॒यः । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा-क॒पा॒लः॒ । अ॒मा॒वा॒स्या॑या॒मित्य॑मा-वा॒स्या॑याम् । भव॑ति । ऐ॒न्द्रम् । दधि॑ । दे॒वताः॑ । च॒ । ए॒व । तेन॑ । इ॒न्द्रि॒यम् । च॒ । यज॑मानः । अवेति॑ । रु॒न्द्धे॒ ।
सायण-टीका

अथ विधत्ते- यदाग्नेय इति। अत्राऽऽग्नेयो न विधीयते। षष्ठे प्रपाठके यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवतीति कालद्वये विधानात्। अत ऐन्द्राग्नविध्युन्नयनायायमर्थवादः- यदा केवलेनाप्याग्नेयेन देवतानामिन्द्रियस्य चावरोधो भवति तदानीमैन्द्राग्नेन तदवरोध इति किमु वक्तव्यमिति। अनयोः स्तुत्या तद्विधिरुन्नीयते। शाखान्तरे समानप्रकरणे स्पष्टं तद्विधानात्।
ऐन्द्रादधिविधिस्त्वसंदिग्ध एव।

मूलम् (संयुक्तम्)

इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या॑र्च्छ॒त्तदोष॑धयो वी॒रुधो॑ऽभव॒न्त्स प्र॒जाप॑ति॒मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म् [16] पृ॒थि॒वीमनु॒ व्या॑र॒त्तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीदे॒तद॑स्मै॒ सन्न॑य॒तेति॒ तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्त्सम॑नय॒न्तत्प्रत्य॑दुह॒न्यत्स॒मन॑य॒न्तत्सा॑न्ना॒य्यस्य॑ सान्नाय्य॒त्वय्ँयत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम्

सान्नाय्यः

विश्वास-प्रस्तुतिः

इन्द्र॑स्य वृ॒त्रञ् ज॒घ्नुष॑
इन्द्रि॒यव्ँ वी॒र्य॑म् पृथि॒वीम् अनु॒ व्या॑र्च्छत् ।

Keith

When Indra had slain Vrtra, his power and strength went into the earth;

मूलम्

इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या॑र्च्छत् ।

पद-पाठः

इन्द्र॑स्य । वृ॒त्रम् । ज॒घ्नुषः॑ । इ॒न्द्रि॒यम् । वी॒र्य॑म् । पृ॒थि॒वीम् । अनु॑ । वीति॑ । आ॒र्च्छ॒त् ।

भट्टभास्कर-टीका

3इन्द्रस्य वृत्रं जघ्नुष इत्यादिना सान्नाय्यादीनामुत्पत्तिक्रमं दर्शयति - वृत्रं हतवत इन्द्रस्य इन्द्रियं वीर्यं च पृथिवीमनुप्रविश्य व्यार्छत् विविधं व्याप्तमभवत् ।
अर्तेः ‘पाघ्रा ’ इत्यादिना ऋच्छादेशः ।

सायण-टीका

तमेवं विधिं स्तोतुं सांनाय्यनिर्वचनं दर्शयति- इन्द्रस्य वृत्रमिति। जघ्नुषो हतवतः। व्यार्छद् विविधत्वेन प्राप्नोत्।

विश्वास-प्रस्तुतिः

तदोष॑धयो वी॒रुधो॑ऽभवन् ।

Keith

then the plants and roots were born.

मूलम्

तदोष॑धयो वी॒रुधो॑ऽभवन् ।

पद-पाठः

तत् । ओष॑धयः । वी॒रुधः॑ । अ॒भ॒व॒न् ।

भट्टभास्कर-टीका

तच्च पृथिवीमनुप्रविष्टं इन्द्रियं वीर्यं च ओषधयो वीरुधश्च अभवन् तदात्मना परिणतमभूत् -
‘ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः’ इति ।

सायण-टीका

ओषधिवीरुधोर्भेदः पूर्वाचार्यैर्दर्शितः-
“ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः” इति।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑ति॒म् उपा॑धावत् -

वृ॒त्रम् मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँ वी॒र्य॑म् पृ॒थि॒वीमनु॒ व्या॑रत् ।
तद् ओष॑धयो वी॒रुधो॑ ऽभूव॒न्न्

इति॑ ।

Keith

He ran up to Prajapati, (saying), ‘Now that I have slain Vrtra, my power and strength [2] have gone into the earth; then the plants and roots have been born.’

मूलम्

स प्र॒जाप॑ति॒मुपा॑धावत् ।
वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म् पृ॒थि॒वीमनु॒ व्या॑रत् ।
तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॑ ।

पद-पाठः

सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् ।
वृ॒त्रम् । मे॒ । ज॒घ्नुषः॑ । इ॒न्द्रि॒यम् । वी॒र्य॑म् । पृ॒थि॒वीम् । अनु॑ । वीति॑ । आ॒र॒त् ।
तत् । ओष॑धयः । वी॒रुधः॑ । अ॒भू॒व॒न् । इति॑ ।

भट्टभास्कर-टीका

अथेन्द्रः प्रजापतिमुपाधावत् ‘वृत्रं जघ्नुषः’ इत्यादि वदन् ।

सायण-टीका

तदेतदिन्द्रियसामर्थ्यस्यौषध्यादिरूपत्वं प्रजापतेरग्रे कथितवान्।

विश्वास-प्रस्तुतिः

स प्र॒जाप॑तिᳶ प॒शून् अ॑ब्रवीत् -
“ए॒तद् अ॑स्मै॒ सन्न॑य॒ते"ति॑ ।

Keith

Prajapati said to cattle, ‘Collect it for him.’

मूलम्

स प्र॒जाप॑तिᳶ प॒शून॑ब्रवीत् ।
ए॒तद॑स्मै॒ सन्न॑य॒तेति॑ ।

पद-पाठः

सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प॒शून् । अ॒ब्र॒वी॒त् ।
ए॒तत् । अ॒स्मै॒ । समिति॑ । न॒य॒त॒ । इति॑ ।

भट्टभास्कर-टीका

अथ तच्छ्रुत्वा प्रजापतिः पशूनब्रवीत् एतदिन्द्रियादिकमस्मै इन्द्राय संनयत सम्यगिमं प्रापयतेति ।

सायण-टीका

स च प्रजापतिरेतदिन्द्रियसामर्थ्यमिन्द्रार्थं सम्यक्प्रापयतेति पशून् अब्रवीत्।

विश्वास-प्रस्तुतिः

तत् प॒शव॒ ओष॑धी॒भ्यो ऽध्या॒त्मन्त् सम॑नयन् ।

Keith

The cattle collected it from the plants in themselves;

मूलम्

तत्प॒शव॒ ओष॑धी॒भ्योऽध्या॒त्मन्त्सम॑नयन् ।

पद-पाठः

तत् । प॒शवः॑ । ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । अधीति॑ । आ॒त्मन् । समिति॑ । अ॒न॒य॒न् ।

भट्टभास्कर-टीका

पशवश्च ओषधीभ्यः ओषधीनां सकाशात् तृणादिभक्षणद्वारेण तत् इन्द्रियादिकं आत्मन्यधिसमनयन् आत्मनि सम्यगानीतवन्तः ।

सायण-टीका

तत्सामर्थ्यं पशव ओषधीभ्यः सकाशादानीय स्वात्मन्नधि स्वशरीरे सम्यक्स्थापितवन्तः।

विश्वास-प्रस्तुतिः

तत् प्रत्य॑दुहन् ।

Keith

they milked it.

मूलम्

तत्प्रत्य॑दुहन् ।

पद-पाठः

तत् । प्रतीति॑ । अ॒दु॒ह॒न् ।

भट्टभास्कर-टीका

तच्चानुनीतं सञ्जातं प्रत्यदुहन् ओषधीभ्य आत्मनि दुग्धं प्रत्यदुहन् इन्द्राय पुनरदुहन् ।

सायण-टीका

पुनः स्वनिष्ठं तद्वीर्यं क्षीरादिरूपमिन्द्रं प्रति दुग्धवन्तः।

विश्वास-प्रस्तुतिः

यत् स॒मन॑य॒न् -
तत् सा॑न्ना॒य्यस्य॑ सान्नाय्य॒त्वम् ।
यत् प्र॒त्यदु॑ह॒न् -
तत् प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम् ।

Keith

In that they collected it, has the collected oblation (sammayya) its name; in that they milked it, has fresh milk its name (pratidhuk).

मूलम्

यत्स॒मन॑यन् ।
तत्सा॑न्ना॒य्यस्य॑ सान्नाय्य॒त्वम् ।
यत्प्र॒त्यदु॑हन् ।
तत्प्र॑ति॒धुषᳶ॑ प्रतिधु॒क्त्वम् ।

पद-पाठः

यत् । स॒मन॑य॒न्निति॑ सम्-अन॑यन् ।
तत् । सा॒न्ना॒य्यस्येति॑ साम्-ना॒य्यस्य॑ । सा॒न्ना॒य्य॒त्वमिति॑ सान्नाय्य-त्वम् ।
यत् । प्र॒त्यदु॑ह॒न्निति॑ प्रति-अदु॑हन् ।
तत् । प्र॒ति॒धुष॒ इति॑ प्रति-धुषः॑ । प्र॒ति॒धु॒क्त्वमिति॑ प्रतिधुक्-त्वम् ।

भट्टभास्कर-टीका

एवं सन्नयनात् सान्नाय्यत्वं, प्रतिदोहनात् प्रतिधुक्त्वं पयसः ।
प्रतिदुह्यत इति प्रतिधुक्, छान्दसो वर्णविकारः । नयतेर्ण्यति ‘पाय्यसान्नाय्य’ इति निपात्यते, निपातनादेवाभिमतस्वरसिद्धिः ॥

सायण-टीका

यस्मात्पशवः समनयंस्तस्मात् सांनाय्यस्य गोरसस्य सम्यगानयनेन संपन्नमिति व्युत्पत्त्या सान्नाय्य नाम भवति। यस्मादिन्द्रं प्रति दुग्धवन्तस्तस्मात् प्रतिधुषः प्रतिदिनं दुह्यमानस्य क्षीरस्य प्रतिधुग् इति नाम संपन्नम्।

मूलम् (संयुक्तम्)

सम॑नैषु॒ᳶ प्रत्य॑धुक्ष॒न्न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [17] शृ॒तङ्कु॑रु॒तेत्य॑ब्रवी॒त्तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रय॒न्तच्छृ॒तस्य॑ शृत॒त्वँ सम॑नैषु॒ᳶ प्रत्य॑धुक्षन्

विश्वास-प्रस्तुतिः

सम॑नैषु॒ᳶ प्रत्य॑धुक्षन् ।
न तु मयि॑ श्रयत॒

इत्य् अ॑ब्रवीत् ।

Keith

‘They have collected it; they have milked it; but it rests not in me’, he said.

मूलम्

सम॑नैषु॒ᳶ प्रत्य॑धुक्षन् ।
न तु मयि॑ श्रयत॒ इत्य॑ब्रवीत् ।

पद-पाठः

समिति॑ । अ॒नै॒षुः॒ । प्रतीति॑ । अ॒धु॒क्ष॒न् ।
न । तु । मयि॑ । श्र॒य॒ते॒ । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

4अथेन्द्रः प्रजापतिमब्रवीत् मदीयमिन्द्रियादिकं पशवः ओषधीभ्य आत्मनि समनैषुः ।
मह्यं च प्रत्यधुक्षन् । ‘शल इगुपधादनिटः क्सः’ ।
कर्तुमपि न श्रयते न पच्यते न मयि प्रीतिं करोति । श्रिञ् पाके, व्यत्ययेन शप् ।

सायण-टीका

अथ शृतनामनिर्वचनं दर्शयति- समनैषुरिति। भोः प्रजापते त्वदाज्ञया पशवः समनैषुः प्रत्यधुक्षंश्च क्षीररूपं तद्वीर्यं मयि न श्रयते पाकाभावान्मदुदरे तन्न जीर्यत्यर्थमुक्तवान्।

विश्वास-प्रस्तुतिः

ए॒तद् अ॑स्मै शृ॒तङ् कु॑रु॒तेत्य् अ॑ब्रवीत् ।

Keith

‘Make it ready for him’ [3], he replied.

मूलम्

ए॒तद॑स्मै शृ॒तङ्कु॑रु॒तेत्य॑ब्रवीत् ।

पद-पाठः

ए॒तत् । अ॒स्मै॒ । शृ॒तम् । कु॒रु॒त॒ । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

अथ प्रजापतिः पशून् अब्रवीत् एतद अस्मै इन्द्राय शृतं पक्वं कुरुत । यद्वा - न तु मयि श्रयते स्थितिं न करोति । श्रीञ् सेवायाम् ।

सायण-टीका

ततः प्रजापतिः पशून्प्रति शृतं पक्वं कुरुतेत्यब्रवीत्।

विश्वास-प्रस्तुतिः

तद् अ॑स्मै शृ॒तम् अ॑कुर्वन् ।
इ॒न्द्रि॒यव्ँ वावास्मि॑न् वी॒र्य॑न् तद् अ॑श्रयन् ।
तच् छृ॒तस्य॑ शृत॒त्वम् ।

Keith

They made it ready for him; they made power and strength rest in him; verily the ready (milk) has its name (śrta).

मूलम्

तद॑स्मै शृ॒तम॑कुर्वन् ।
इ॒न्द्रि॒यव्ँवावास्मि॑न्वी॒र्य॑न्तद॑श्रयन् ।
तच्छृ॒तस्य॑ शृत॒त्वम् ।

पद-पाठः

तत् । अ॒स्मै॒ । शृ॒तम् । अ॒कु॒र्व॒न् ।
इ॒न्द्रि॒यम् । वाव । अ॒स्मि॒न् । वी॒र्य॑म् । तत् । अ॒श्र॒य॒न् ।
तत् । शृ॒तस्य॑ । शृ॒त॒त्वमिति॑ शृत-त्वम् ।

भट्टभास्कर-टीका

एवमिन्द्रेणोक्ते प्रजापतिरब्रवीत् एतदस्मै शृतं पक्वं कुरुत यथाऽस्मिन् श्रयत इति ।
शृतेति ‘शृतं पाके’ इति निपात्यते ।
यद्वा - शृणोतेः शृतमिति छान्दसं संप्रसारणम् ॥

सायण-टीका

तथा कृते सति तदिन्द्रियसामर्थ्यं पक्वं पयोऽस्मिन्निन्द्रोदरे सम्यगाश्रितमभूत्।
य(त)स्मात् श्रा पाक इत्यस्माच्छ्रिञो वा शृतम् इति नाम निष्पन्नम्।

मूलम् (संयुक्तम्)

शृ॒तम॑क्र॒न्न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त्तद॑स्मै॒ दध्य॑कुर्व॒न्तदे॑नमधिनो॒त्तद्द॒ध्नो द॑धि॒त्वम्

विश्वास-प्रस्तुतिः

“सम॑नैषु॒ᳶ, प्रत्य॑धुक्षन् ।
शृ॒तम् अ॑क्रन्
न तु मा॑ +++(प्रीणने→)+++धिनो॒ती"त्य् अ॑ब्रवीत् ।

Keith

‘They have collected it; they have milked it; they have made it ready; but it does not impel me’, he said.

मूलम्

सम॑नैषु॒ᳶ प्रत्य॑धुक्षन् ।
शृ॒तम॑क्रन् ।
न तु मा॑ धिनो॒तीत्य॑ब्रवीत् ।

पद-पाठः

समिति॑ । अ॒नै॒षुः॒ । प्रतीति॑ । अ॒धु॒क्ष॒न् ।
शृ॒तम् । अ॒क्र॒न् ।
न । तु । मा॒ । धि॒नो॒ति॒ । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

5अक्रन् ॥ लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्’ । धिवि प्रीणने, इदित्वान्नुम्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः ।

सायण-टीका

अथ दधिनामनिर्वचनं दर्शयति— समनैषुः प्रतीति। संनयनप्रतिदोहनशृतत्वानि संपन्नन्येव, किं तु तच्छृतं मां तु न धिनोति न प्रीणयतीत्युक्ते प्रजापतिरातञ्चनकर्तृन्प्रति दधि कुरुतेत्यब्रवीत्।

विश्वास-प्रस्तुतिः

ए॒तद् अ॑स्मै॒ दधि॑ कुरु॒तेत्य् अ॑ब्रवीत् ।

Keith

‘Make it curds for him’, he replied.

मूलम्

ए॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवीत् ।

पद-पाठः

ए॒तत् । अ॒स्मै॒ । दधि॑ । कु॒रु॒त॒ । इति॑ । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

अथ प्रजापतिरब्रवीत् पशूनेतद् अस्मै दधि प्रीणनं कुरुतेति ।

विश्वास-प्रस्तुतिः

तद् अ॑स्मै॒ दध्य् अ॑कुर्वन् ।

Keith

They made it curds for him;

मूलम्

तद॑स्मै॒ दध्य॑कुर्वन् ।

पद-पाठः

तत् । अ॒स्मै॒ । दधि॑ । अ॒कु॒र्व॒न् ।

भट्टभास्कर-टीका

ते चास्मै प्रीणनमकुर्वन् ।

विश्वास-प्रस्तुतिः

तद् ए॑नम् अधिनोत् ।

Keith

that impelled (adhinot) him;

मूलम्

तदे॑नमधिनोत् ।

पद-पाठः

तत् । ए॒न॒म् । अ॒धि॒नो॒त् ।

भट्टभास्कर-टीका

तदेनमित्यादि । गतम् ।

सायण-टीका

तच्च दधिकृत सदेनमिन्द्रमधिनोदप्रीणयत्।

विश्वास-प्रस्तुतिः

तद् द॒ध्नो द॑धि॒त्वम् ।

Keith

verily curds (dadhi) has its name.

मूलम्

तद् द॒ध्नो द॑धि॒त्वम् ।

पद-पाठः

तत् । द॒ध्नः । द॒धि॒त्वमिति॑ दधि-त्वम् ।

भट्टभास्कर-टीका

धिनोतीति दधि । धिनोतेः किः द्विर्वचनादि । दधातिर्वा प्रीणने, (इदित्वान्नुम्,) ‘आदृगमहन’ इति किन्प्रत्ययः ।

दध्न इत्यनङादेशस्योदात्तत्वादुदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥

सायण-टीका

तस्माद्दधि नाम संपन्नम्। अत्रैन्द्रं दधीति विधिर्विस्पष्ट एव।
शृतनामनिर्वचनार्थवादनैन्द्रं पय इति विधिमुन्नयेत्। अन्यथा वक्ष्यमाणशृतावदानविचारानुदयप्रसङ्गात्।

आनुपूर्वी

मूलम् (संयुक्तम्)

ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒ध्नᳶ पूर्व॑स्याव॒देय॑म् [18] दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति यथापू॒र्वमुपै॑ति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति -

द॒ध्नᳶ पूर्व॑स्याव॒देय॑म्
दधि॒ हि पूर्व॑ङ् क्रि॒यत॒

इति॑।

Keith

The theologians say, ‘One should offer curds first, for curds is made first’ [4].

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
द॒ध्नᳶ पूर्व॑स्याव॒देय॑म् ।
दधि॒ हि पूर्व॑ङ् क्रि॒यत॒ इति॑।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
द॒ध्नः । पूर्व॑स्य । अ॒व॒देय॒मित्य॑व-देय॑म् ।
दधि॑ । हि । पूर्व॑म् । क्रि॒यते॑ । इति॑ ।

भट्टभास्कर-टीका

6ब्रह्मवादिन इत्यादि ॥ अन्तिमायामेव रजन्यां दध्युत्पाद्यते उत्तरेद्युः प्रातर्दोह इति दध्नः पूर्वत्वमिति ।

सायण-टीका

तमेव विचारमभित्रेत्य पूर्वपक्षमुपन्यस्यति- ब्रह्मवादिन इति। यस्मात् पूर्वदिने रात्रौ दधि क्रियते तस्माज्जुह्वामवदानेऽवदीयमाने दध्नः स्वरूपमेव पूर्वमवदेयम्।

विश्वास-प्रस्तुतिः

अना॑दृत्य॒ तच् छृ॒तस्यै॒व पूर्व॒स्याव॑द्येत् ।
इ॒न्द्रि॒यम् ए॒वास्मि॑न् वी॒र्यँ॑ श्रि॒त्वा
द॒ध्नोपरि॑ष्टाद् +धिनोति ।
य॒था॒पू॒र्वम् उपै॑ति ।

Keith

One should disregard that and offer ready (milk) first; verily one places power and strength in him and later impels him by curds; and he proceeds in order (of production).

मूलम्

अना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येत् ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रि॒त्वा द॒ध्नोपरि॑ष्टाद्धिनोति ।
य॒था॒पू॒र्वमुपै॑ति ।

पद-पाठः

अना॑दृ॒त्येत्यना॑-दृ॒त्य॒ । तत् । शृ॒तस्य॑ । ए॒व । पूर्व॑स्य । अवेति॑ । द्ये॒त् ।
इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न् । वी॒र्य॑म् । श्रि॒त्वा । द॒ध्ना । उ॒परि॑ष्टात् । धि॒नो॒ति॒ ।
य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । उपेति॑ । ए॒ति॒ ।

भट्टभास्कर-टीका

एतद्दूषयति - अनादृत्येत्यादि । यदिन्द्रस्येन्द्रियादिकमोषधीभ्य आनीय इन्द्राय प्रतिदुग्धं तदिन्द्रे प्रथमं श्रित्वा सेवितं पक्वं वा कृत्वा उपरिष्टादुत्तरकालं दधिभागेन इन्द्रं धिनोति तस्माच्छ्रितस्यैव पूर्वत्वम् । गतमन्यत् ॥

सायण-टीका

तमेवं पूर्वपक्षं दर्शयित्वा सिद्धान्तं विधत्ते— अनादृत्येति। तत्पूर्वं दध्यावदानमनादृत्य क्षीरस्यैव स्वरूपं पूर्वभवदेयम्। तथा सत्यस्मिन्यजमान इन्द्रियरूपमेव क्षीरमवस्याप्योपरिष्टाद्दध्ना प्रीणयति। क्षीरं पूर्वभावि दधि पश्चाद्भावीत्येवषुत्पत्तिक्रममपि प्राप्तवान्भवति।

मूलम् (संयुक्तम्)

यत्पू॒तीकै॑र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्यात्सौ॒म्यन्तद्यत्क्व॑लै राक्ष॒सन्तद्यत्त॑ण्डु॒लैर्वै॑श्वदे॒वन्तद्यदा॒तञ्च॑नेन मानु॒षन्तद्यद्द॒ध्ना तत्सेन्द्र॑न्द॒ध्ना त॑नक्ति [19] से॒न्द्र॒त्वाया॑ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्यै

तञ्चनम्

विश्वास-प्रस्तुतिः

यत् पू॒तीकै॑र् वा पर्ण-व॒ल्कैर् वा॑ त॒ञ्च्यात्
सौ॒म्यन् तत् ।

Keith

If he curdles it with Putika plants or with bark, that is fit for Soma;

मूलम्

यत्पू॒तीकै॑र्वा पर्णव॒ल्कैर्वा॑त॒ञ्च्यात्सौ॒म्यन्तत् ।

पद-पाठः

यत् । पू॒तीकैः॑ । वा॒ । प॒र्ण॒व॒ल्कैरिति॑ पर्ण-व॒ल्कैः । वा॒ । आ॒त॒ञ्च्यादित्या॑-त॒ञ्च्यात् । सौ॒म्यम् । तत् ।

भट्टभास्कर-टीका

7यदित्यादि ॥ पूतीकः सोमसदृशो लताविशेषः । पर्णवल्कः पलाशवृन्तम् ।
आतञ्चनं द्रव्यान्तरसंप्रयोगेन पयसो घनीभावः । तञ्चू सङ्कोचने ।

सायण-टीका

अथाऽऽतञ्चनं विधत्ते— यत्पूतीकैरिति।
सोमवल्लीसमानाया लतायाः खण्डाः पूतीकाः। पलाशवृक्षस्यांशाः पर्णवल्काः। प्रौढबदरफलानि क्वलाः। ईषदम्लतक्रम् आतञ्चतम्। पूतीकादिभिरातञ्चनं सोमादीनां प्रियम्।

विश्वास-प्रस्तुतिः

यत् क्व᳙लै +++(त॒ञ्च्याथ्)+++ - राक्ष॒सन् तत् ।

Keith

if with jujubes, that is for the Raksases;

मूलम्

यत्क्व॑लै राक्ष॒सन्तत् ।

पद-पाठः

यत् । क्व॑लैः । रा॒क्ष॒सम् । तत् ।

भट्टभास्कर-टीका

क्वलः ह्रस्वह्रदः ।

विश्वास-प्रस्तुतिः

यत् त॑ण्डु॒लैर् +++(त॒ञ्च्याथ्)+++ वै॑श्वदे॒वन् तत् ।
यद् आ॒तञ्च॑नेन +++(त॒ञ्च्याथ्)+++ मानु॒षन् तत् ।

Keith

if with rice grains, for the All-gods;
if with rennet, for men;

मूलम्

यत्त॑ण्डु॒लैर्वै॑श्वदे॒वन्तत् ।
यदा॒तञ्च॑नेन मानु॒षन्तत् ।

पद-पाठः

यत् । त॒ण्डु॒लैः । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । तत् ।
यत् । आ॒तञ्च॑ने॒नेत्या॑-तञ्च॑नेन । मा॒नु॒षम् । तत् ।

भट्टभास्कर-टीका

तण्डुलाः - गताः ।

विश्वास-प्रस्तुतिः

यद् द॒ध्ना +++(त॒ञ्च्याथ्)+++ तत् सेन्द्र॑म् ।
द॒ध्ना त॑नक्ति सेन्द्र॒त्वाय॑।

Keith

if with curds, that has Indra.
He curdles it with curds [5] that it may have Indra.

मूलम्

यद्द॒ध्ना तत्सेन्द्र॑म् ।
द॒ध्ना त॑नक्ति सेन्द्र॒त्वाय॑।

पद-पाठः

यत् । द॒ध्ना । तत् । सेन्द्र॒मिति॒ स-इ॒न्द्र॒म् ।
द॒ध्ना । एति॑ । त॒न॒क्ति॒ । से॒न्द्र॒त्वायेति॑ सेन्द्र-त्वाय॑ ।

भट्टभास्कर-टीका

आतञ्चनद्रव्यं दधि प्रसिद्धम् ।
सेन्द्रम् इन्द्रेण देवतया सहितम् ।

सायण-टीका

तथा सत्यत्रेन्द्रप्रीत्यै दध्ना ऽऽतञ्च्यात्।

विश्वास-प्रस्तुतिः

अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒णम् अ॒भ्यात॑नक्ति -
य॒ज्ञस्य॒ सन्त॑त्यै ।

Keith

He curdles the remains of the Agnihotra, for the continuity of the sacrifice.

मूलम्

अग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्यै ।

पद-पाठः

अ॒ग्नि॒हो॒त्रो॒च्छे॒ष॒णमित्य॑ग्निहोत्र-उ॒च्छे॒ष॒णम् । अ॒भ्यात॑न॒क्तीत्य॑भि-आत॑नक्ति । य॒ज्ञस्य॑ । सन्त॑त्या॒ इति॒ सम्-त॒त्यै॒ ।

भट्टभास्कर-टीका

अग्निहोत्रोच्छेषणं अग्निहोत्रशेषः यवागूशेषः । तदभ्यातनक्ति दध्ना आतच्य उपर्यातनक्ति यज्ञस्याविच्छेदाय ॥

सायण-टीका

दध्ना ऽऽतञ्चवनस्योपर्यग्निहोत्रार्थयवागूशेषे (ष) णातञ्चनं विधत्ते— अग्निहोत्रेति। दर्शयागस्याग्निहोत्रेण सहाविच्छेदः संततिः।

मूलम् (संयुक्तम्)

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वता॒ᳶ प्रैष॑मैच्छ॒न्त्सो॑ऽब्रवीत्प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न्तस्मा॑त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते

पितृभ्यः

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म् परा॒वत॑म् अगच्छ॒द् अपा॑राध॒म् इति॒ मन्य॑मानः।

Keith

Indra having slain Vrtra went to a great distance, thinking, ‘I have sinned.’

मूलम्

इन्द्रो॑ वृ॒त्रँ ह॒त्वा परा॑म्परा॒वत॑मगच्छद् अपा॑राध॒मिति॒ मन्य॑मानः ।

पद-पाठः

इन्द्रः॑ । वृ॒त्रम् । ह॒त्वा । परा॑म् । प॒रा॒वत॒मिति॑ परा-वत॑म् । अ॒ग॒च्छ॒त् । अपेति॑ । अ॒रा॒ध॒म् । इति॑ । मन्य॑मानः ।

भट्टभास्कर-टीका

8इन्द्रो वृत्रं हत्वेति ॥ पितृयज्ञविधिः परां परावतमिति । देशमगच्छत् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वनिप् ।
अपाराधं अपारात्सम् । छान्दसस्सिज्लुक् ।
वृत्रं हतवानिति सापराधमात्मानं मन्यमानो दूरात् गन्तुं श्रेय इति निश्चित्यागच्छत् ।

सायण-टीका

अथ पिण्डपितृयज्ञं विधत्ते—इन्द्रो वृत्रमिति। वृत्रवधेन सुरागामपराधं कृतवानस्मीति मन्यमान इन्द्रो भीतोऽत्यन्तं दूरममच्छत्।

विश्वास-प्रस्तुतिः

तन् दे॒वता॒ᳶ प्रैष॑म् ऐच्छन् ।

Keith

The gods sought to start him.

मूलम्

तन्दे॒वता॒ᳶ प्रैष॑मैच्छन् ।

पद-पाठः

तम् । दे॒वताः॑ । प्रैष॒मिति॑ प्र-एष॑म् । ऐ॒च्छ॒न् ।

भट्टभास्कर-टीका

अथ देवास्तं प्रैषं प्राप्तुमैच्छन् । इष गतौ ।

सायण-टीका

तमिन्द्रं प्रति देवता अह्वानमैच्छन्।

विश्वास-प्रस्तुतिः

सो॑ऽब्रवीत् प्र॒जाप॑ति॒र् -
“यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम् भा॑ग॒धेय॒म्” इति॑ ।

Keith

Prajapati said, “He who first finds him will have the first share.”

मूलम्

सो॑ऽब्रवीत् ।

पद-पाठः

सः । अ॒ब्र॒वी॒त् ।

भट्टभास्कर-टीका

सोऽब्रवीदित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

तम्पि॒तरोऽन्व॑विन्दन् ।
तस्मा॑त् पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते ।

Keith

The Pitrs found him; therefore an offering is made to the Pitrs on the day before.

प्रदीपसिंहः

अत्र मूलस्य तथा विश्वासप्रस्तुतेश्च क्रमे विचारः- ?? प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॑ । तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॑ । इति वाक्यं कुत्र भवितव्यमिति न स्पष्टम्।
तम्पि॒तरोऽन्व॑विन्दन् । इति वाक्यद्वयं पूर्वमस्ति । ततः भाष्यमस्ति ।तत्र प्रजापतेः इत्यादि भाष्यव्याख्या नास्ति । अग्रे वर्तते । अतः 1903 मध्ये विद्यमान मूल-भाष्य-पदपाठादि 1007 तः पूर्वं भवितव्यं वा । कथं क्रमस्य पौर्वापर्यं करणीयमिति ।

मूलम्

प्र॒जाप॑ति॒र्यᳶ प्र॑थ॒मो॑ऽनुवि॒न्दति॑ ।
तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॑ ।
तम्पि॒तरोऽन्व॑विन्दन् ।
तस्मा॑त्पि॒तृभ्यᳶ॑ पूर्वे॒द्युᳵ क्रि॑यते ।

पद-पाठः

प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । यः । प्र॒थ॒मः । अ॒नु॒वि॒न्दतीत्य॑नु-वि॒न्दति॑ ।
तस्य॑ । प्र॒थ॒मम् । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । इति॑ ।
तम् । पि॒तरः॑ । अन्विति॑ । अ॒वि॒न्द॒न् ।
तस्मा॑त् । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । पू॒र्वे॒द्युः । क्रि॒य॒ते॒ ।

भट्टभास्कर-टीका

अनुविन्दति अनुक्रमेण लभते ।

पूर्वेद्युः पूर्वस्मिन्नह्नि । ‘सद्यः परुत्’ इत्यादिना निपात्यते ॥

सायण-टीका

देवतानां मध्ये योऽन्विष्य प्रथममिन्द्रं लभते तस्य प्रथमं भागो दीयत इति प्रजापतिनोक्ताः पितरः प्रथममिन्द्रं यस्मादलभन्त तस्मात्पितृभ्य पूर्वेद्युः पिण्डपितृयज्ञं कुर्यात्।
दर्शयागदेवतानाममावास्यायामारम्भः प्रतिपादि तद्यागः। पितृणां त्वमावास्यायामेव पिण्डदानम्।

अमावास्याया ऐन्द्रत्वम्

मूलम् (संयुक्तम्)

सो॑ऽमावा॒स्या॑म्प्रत्याग॑च्छ॒त्तन्दे॒वा अ॒भि सम॑गच्छ॒न्तामा वै नः॑ [20] अ॒द्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वानाव्ँ॒वसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्

विश्वास-प्रस्तुतिः

सो॑ऽमावा॒स्या॒॑म् प्रत्याग॑च्छत् ।

Keith

He approached the new moon night;

मूलम्

सो॑ऽमावा॒स्या॑म्प्रत्याग॑च्छत् ।

पद-पाठः

सः । अ॒मा॒वा॒स्या॑मित्य॑मा-वा॒स्या॑म् । प्रति॑ । एति॑ । अ॒ग॒च्छ॒त् ।

भट्टभास्कर-टीका

9अमावास्यां प्रति, लक्षणे कर्मप्रवचनीयत्वं, अमावास्यया गमनं लक्ष्यते इति ।

सायण-टीका

ननु ब्राह्मणग्रन्थे प्रथमकाण्डस्य तृतीयप्रपाठके ऽन्त्यानुवाके महता प्रपञ्चेन पिण्डपितृयज्ञो विहितः। बाढम्।
एवं तर्हि सांनाय्यप्रशंसार्थमत्र तदनुवादोऽस्तु। तामेव स्तुतिं द्योतयितुममावास्यानिर्वचनं दर्शयति— सोऽमावास्यामिति।
पितृभिरन्विष्य लब्धः स इन्द्रोऽमावास्यायां पलायनदेशात्प्रतिनिवृत्य समागतः।

विश्वास-प्रस्तुतिः

तन् दे॒वा अ॒भि सम॑गच्छन्त - “+अ॒मा वै नो॒ऽद्य वसु॑ वस॒ती"ति॑ ।

Keith

the gods met him, (saying), ‘Our treasure to-day at home [6] dwells’,

मूलम्

तन्दे॒वा अ॒भि सम॑गच्छन्तामा वै नो॒ऽद्य वसु॑ वस॒तीति॑ ।

पद-पाठः

तम् । दे॒वाः । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । अ॒मा । वै । नः॒ । अ॒द्य । वसु॑ । व॒स॒ति॒ । इति॑ ।

भट्टभास्कर-टीका

अथामावास्यायां देवास्तमिन्द्रमभि समगच्छन्त आभिमुख्येन सङ्गता अभवन् ।

कथं वदन्तः? अद्य अस्मिन्नह्नि नः अस्माकं वसु अस्मदीयं धनं इन्द्रो ऽयं अमा सहास्माभिर् वसतीति । एवं देवा वदन्त एनमिन्द्रमभिगताः समागताः ।

सायण-टीका

ते देवास्तमिन्द्रमभिमुखीकर्तुं संप्राप्ताः परस्परमिदमब्रुवन्— अद्य नोऽस्माकं वसु श्रेष्ठं धनम् अमा वसति सह तिष्ठति, सर्वेषां साधारणत्वेन वर्तत इत्यर्थः।

विश्वास-प्रस्तुतिः

इन्द्रो॒ हि दे॒वानाव्ँ॒ वसु॑ ।

Keith

for Indra is the treasure of the gods,

मूलम्

इन्द्रो॒ हि दे॒वानाव्ँ॒वसु॑ ।

पद-पाठः

इन्द्रः॑ । हि । दे॒वाना॑म् । वसु॑ ।

भट्टभास्कर-टीका

इन्द्रो हीति । वसु वरिष्ठं द्रव्यं(वा) ।

सायण-टीका

किं तद्वस्विति तदुच्यते-इन्द्रः खलु सर्वेषां देवानां वसु श्रेष्ठं धनं, तस्मिन्वर्तमाने सति स्वामिलाभात्।

विश्वास-प्रस्तुतिः

तद् अ॑मा-वा॒स्या॑या अमा+++(=सह)+++-वास्य॒त्वम् ।

हिन्दी

and that is why the new moon night has its name (ama-vasya), ‘home dwelling’).

मूलम्

तद॑मावा॒स्या॑या अमावास्य॒त्वम् ।

पद-पाठः

तत् । अ॒मा॒वा॒स्या॑या॒ इत्य॑मा-वा॒स्या॑याः । अ॒मा॒वा॒स्य॒त्वमित्य॑मावास्य-त्वम् ।

भट्टभास्कर-टीका

अमावास्यत्वमिति अमा सह वसन्त्यस्यामिन्द्रो देवताश्चेत्यमावास्या । अधिकरणे ण्यत् ।
इदञ्च व्युत्पत्त्यन्तरं, अमा वसतः सुर्याचन्द्रमसावस्यामिति व्युत्पत्तिदर्शनात् ॥

सायण-टीका

यस्माद्देवा एवमुक्तवन्तस्तस्मादमा वसत्यद्येति व्युत्पत्त्या ऽमावास्यानाम संपन्नम्।

मूलम् (संयुक्तम्)

ब्र॑ह्मवा॒दिनो॑ वदन्ति किन्देव॒त्यँ॑ सान्ना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेति

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
“कि॒न्-दे॒व॒त्यँ॑ सान्ना॒य्यम्” इति॑ ।
“वै॒श्व॒दे॒वम्” इति॑ ब्रूयात् ।
“विश्वे॒ हि तद् दे॒वा भा॑ग॒धेय॑म् अ॒भि स॒मग॑च्छ॒न्ते"ति॑ ।

Keith

The theologians say, What is the deity of the Samnayya?’ ‘The All-gods’, he should reply, ‘for so the All-gods won that as their share.’

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कि॒न्दे॒व॒त्यँ॑ सान्ना॒य्यमिति॑ ।
वै॒श्व॒दे॒वमिति॑ ब्रूयात् ।
विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेति॑ ।

पद-पाठः

ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
कि॒न्दे॒व॒त्य॑मिति॑ किम्-दे॒व॒त्य॑म् । सा॒न्ना॒य्यमिति॑ साम्-ना॒य्यम् । इति॑ ।
वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । इति॑ । ब्रू॒या॒त् ।
विश्वे॑ । हि । तत् । दे॒वाः । भा॒ग॒धेय॒मिति॑ भाग-धेय॑म् । अ॒भीति॑ । स॒मग॑च्छ॒न्तेति॑ सम्-अग॑च्छन्त । इति॑ ।

भट्टभास्कर-टीका

10वैश्वदेवमिति ॥ वृत्रवधादनन्तरमिन्द्रियं वीर्यं च दूरतरं गतम् । पितृभिः प्रत्यानीतमिन्द्रममावास्यायां सान्नाय्येन प्रवृद्धेन्द्रियवीर्यं कर्तुं विश्वेदेवास्तत्सान्नाय्य एवैन्द्रं भागधेयं अभिसमगच्छन्त । तस्माद्वैश्वदेवं भवितुं युक्तमिति ॥

सायण-टीका

ऐन्द्रं दधीति विधिवाक्ये सांनाय्यस्य यदैन्द्रत्वमुक्तं तदेव पूर्वोत्तरपक्षाभ्यां द्रढयति— ब्रह्मवादिन इति।
पितृभिरानीयमानमिन्द्रमभिमुखीकर्तुं सर्वेऽपि देवा यदा समागच्छंस्तदा तत्सांनाय्यलक्षणं भागमभिलक्ष्यैव समागच्छन्निति सांनाय्यं वैश्वदेवमिति केषांचित्पक्षः।

विश्वास-प्रस्तुतिः

अथो॒ खल्व् “ऐ॒न्द्रम्” इत्ये॒व ब्रू॑यात् -
इन्द्रव्ँ॒ वाव ते तद् भि॑ष॒ज्यन्तो॒ ऽभि सम॑गच्छ॒न्तेति॑ ॥

Keith

Or rather he should reply, ‘Indra, for it was in healing Indra that they won it.’

मूलम्

अथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्रव्ँ॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥ [21]

मूलम्

अथो॒ खलु॑ ।
ऐ॒न्द्रमित्ये॒व ब्रू॑यात् ।
इन्द्रव्ँ॒ वाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑ ॥

पद-पाठः

अथो॒ इति॑ । खलु॑ ।
ऐ॒न्द्रम् । इति॑ । ए॒व । ब्रू॒या॒त् ।
इन्द्र॑म् । वाव । ते । तत् । भि॒ष॒ज्यन्तः॑ । अ॒भि । समिति॑ । अ॒ग॒च्छ॒न्त॒ । इति॑ ॥

भट्टभास्कर-टीका

11दूषयति - अथो इति ॥ तदानीं देवा इन्द्रं भिषज्यन्त एवाभिसमगच्छन्त न त्वात्मभागलब्धये । तल्लाभहेतौ शतृप्रत्ययः । इन्द्रभैषज्यार्थमेव अभिसमगच्छन्त ।

तस्माद्विश्वे देवाः प्रसक्ता एवेति । ऐन्द्रमित्येवोत्तरं समीचीनमिति ।
भिषज्यतिः कण्ड्वादिर्यगन्तः ॥

इति द्वितीये पञ्चमे तृतीयोनुवाकः ॥

सायण-टीका

अथोशब्दः पक्षान्तरार्थः। भीत्या दूरदेशं गतमिन्द्रं भिषज्यन्त एव भयनिवारणेन समाधित्सन्त एव ते देवास्त्विन्द्रं समागताः न तु सांनाय्यलिप्सया ।
तस्मात्सांनाय्यम् ऐन्द्रमित्येव बुद्धिमान् ब्रूयात्।