१० पत्नीयोक्त्रविमोकः ...{Loading}...
यथादेवतं कुर्यात्
विश्वास-प्रस्तुतिः
यो वा अय॑थादेवतय्ँ य॒ज्ञम् उ॑प॒चर॑त्य्॒
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान् भवति ।
मूलम्
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॑ति । आ दे॒वता॑भ्यो वृश्च्यते । पापी॑यान्भवति ।
भट्टभास्कर-टीका
1यो वा इत्यादि ॥ यो यस्य देवता तद्यथादेवतं, स्वया देवतया यज्ञं यो नोपचरति स देवताभ्य आवृश्च्यते पापतरश्च भवति । विपर्यये विपर्ययः ।
सायण-टीका
प्रथमं तावद्योक्त्राविमोकमन्त्रस्य पूर्वार्धं व्याचष्टे — “यो वा अयथादेवतं यज्ञमुपचरति। आ देवताभ्यो वृश्च्यते। पापीयान्भवति।
विश्वास-प्रस्तुतिः
+++(उपचरति)+++ यो य॑थादेव॒तन् न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान् भवति ।
मूलम्
यो य॑थादेव॒तम् । न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।
भट्टभास्कर-टीका
वसीयान् वसुमत्तरः । ‘विन्मतोर्लुक्’ ‘टेः’ इति टिलोपः ।
सायण-टीका
यो यथादेवतम्। न देवताभ्य आवृश्च्यते। वसीयान्भवति।
योक्त्र-विमोकः
विश्वास-प्रस्तुतिः
वा॒रु॒णो वै पाशः॑ ।
“इ॒मव्ँ विष्या॑मि॒ वरु॑णस्य॒ पाश॒म्” इत्या॑ह ।
व॒रु॒ण॒पा॒शाद् ए॒वैना॑म् मुञ्चति
सवि॒तृप्र॑सूतो यथा-देव॒तम् ॥ 72॥
मूलम्
वा॒रु॒णो वै पाशः॑ ।
“इ॒मव्ँ विष्या॑मि॒ वरु॑णस्य॒ पाश॒"मित्या॑ह ।
व॒रु॒ण॒पा॒शादे॒वैना॑म्मुञ्चति ।
स॒वि॒तृप्र॑सूतो यथादेव॒तम् ॥ 72॥
सायण-टीका
वारुणो वै पाशः। इमं विष्यामि वरुणस्य पाशमित्याह। वरुणपाशादेवैनां मुञ्चति। सवितृप्रसूतो यथादेवतम्।
विश्वास-प्रस्तुतिः
न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान् भवति ।
मूलम्
न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ।
सायण-टीका
न देवताभ्य आवृश्च्यते। वसीयान्भवति” (ब्रा. का. ३ प्र. ३ अ. १०) इति।
विश्वास-प्रस्तुतिः
“धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क” इत्या॑ह ।
अ॒ग्निर्वै धा॒ता ।
पुण्य॒ङ् कर्म॑ सुकृ॒तस्य॑ लो॒कः ।
अ॒ग्निर् ए॒वैना॑न् धा॒ता ।
पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति ।
मूलम्
“धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क” इत्या॑ह ।
अ॒ग्निर्वै धा॒ता ।
पुण्य॒ङ्कर्म॑ सुकृ॒तस्य॑ लो॒कः ।
अ॒ग्निरे॒वैना॑न्धा॒ता ।
पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति ।
भट्टभास्कर-टीका
इदानीं तां देवतां दर्शयति - वारुणो वा इति । ‘इमं विष्यामि’ इति पत्न्या योक्त्रपाशविमोचनं सवित्राऽनुज्ञात एव यथादेवतमुपचरति ततः एनां पत्नीं वरुणपाशात् मुञ्चति ।
सायण-टीका
तृतीयपादे पदार्थवाक्यार्थौ दर्शयति – “धातुश्च योनौ सुकृतस्य लोक इत्याह। अग्निर्वै धाता। पुण्यं कर्म सुकृतस्य लोकः। अग्निरेवैनां धाता। पुण्ये कर्मणि सुकृतस्य लोके दधाति” [ब्रा. का. ३ प्र. ३ अ. १०] इति।
विश्वास-प्रस्तुतिः
“स्यो॒नम् मे॑ स॒ह पत्या॑ करो॒मी"त्या॑ह ।
आ॒त्मन॑श् च॒ यज॑मानस्य॒ चाना॑त्यै स॒न्त्वाय॑ ।
मूलम्
“स्यो॒नम्मे॑ स॒ह पत्या॑ करो॒मी"त्या॑ह ।
आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना॑त्यै स॒न्त्वाय॑ ।
भट्टभास्कर-टीका
अनात्त्यै अखण्डनाय । द्यतेः ‘अच उपसर्गात्तः’ इति तत्त्वम् । सन्त्वाय नित्यं सङ्गत्वाय ‘सह’ इति मन्त्रपदात् ससाधन-क्रियावद् उपसर्गात् भाव-प्रत्ययः ॥
सायण-टीका
दुःखनाशाय सुखप्राप्तये च चतुर्थपादोक्तिरित्याह — “स्योनं मे सह पत्या करोमीत्याह। आत्मनश्च यजमानस्य चानात्यै संत्वाय” (ब्रा. का. ३ प्र. ३ अ. १०) इति।
समायु॑षा॒
विश्वास-प्रस्तुतिः
“समायु॑षा॒ सम् प्र॒जये"त्या॑ह ॥73॥
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते पूर्ण-पा॒त्रे ।
मूलम्
“समायु॑षा॒ सम्प्र॒जये"त्या॑ह ॥73॥
आ॒शिष॑मे॒वैतामाशा॑स्ते पूर्णपा॒त्रे ।
भट्टभास्कर-टीका
2समायुषेति पूर्णपात्रानयने पत्न्याः जपः ॥ पूर्णपात्रविषयां एतामाशिषमाशास्ते ।
सायण-टीका
पत्न्याः पूर्णपात्रविमोकार्थो यो मन्त्रस्तं व्याचष्टे – “समायुषा सं प्रजयेत्याह। आशिषमेवैतामाशास्ते पूर्णपात्रे” (ब्रा. का. ३ प्र. ३ अ. १०) इति। समानीयमान इति शेषः।
विश्वास-प्रस्तुतिः
अ॒न्त॒तो॑ ऽनु॒ष्टुभा॑ ।
चतु॑ष्प॒द् वा ए॒तच् छन्द॒ᳶ प्रति॑ष्ठित॒म्
पत्नि॑यै+++(त्न्या)+++ पूर्णपा॒त्रे भ॑वति ।
+++(चतुर्भिः पादैः)+++ अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठा॒नीति॑ ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
मूलम्
अ॒न्त॒तो॑ऽनु॒ष्टुभा॑ ।
चतु॑ष्प॒द्वा ए॒तच्छन्द॒ᳶ प्रति॑ष्ठित॒म्पत्नि॑यै पूर्णपा॒त्रे भ॑वति ।
अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठा॒नीति॑ ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
अनुष्टुभेति । ‘समायुषा'12 इत्यनया । पत्न्याः पूर्णपात्रे इदं चतुष्पत् अनुष्टुप् छन्दः प्रतिष्ठितमवस्थितं भवति यतः, तस्याभिप्रायं ब्रूमः - अस्मिन् लोके प्रतिष्ठितो भूयासं इत्यनेनाभिप्रायेण तत्तथा क्रियते, तस्मात् पत्नी अस्मिन् लोके प्रतितिष्ठति अनेन कर्मणा ।
सायण-टीका
मन्त्रगतं छन्दः प्रशंसति – ‘अन्ततोऽनुष्टुभा चतुष्पाद्वा एतच्छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति। अस्मिल्ँ लोके प्रतितिष्ठानीति। अस्मिन्नेव लोके प्रतितिष्ठति’ (ब्रा. का. ३ प्र. ३ अ. १०) इति।
विश्वास-प्रस्तुतिः
अथो॒ वाग् वा अ॑नु॒ष्टुक् +++(मुख्यत्वात्)+++।
वाङ् मि॑थु॒नम्,
+++(ततो ह्य्)+++ आपो॒ रेत॑ᳶ प्र॒जन॑नम् ।
मूलम्
अथो॒ वाग्वा अ॑नु॒ष्टुक् ।
वाङ्मि॑थु॒नम् ।
आपो॒ रेत॑ᳶ प्र॒जन॑नम् ।
भट्टभास्कर-टीका
अथो अपि च सर्वं वाङ्मयं अनुष्टुब् एव मुख्यत्वात् ।
किञ्च - एतस्मादेव कारणात् वागेव आपो रेत इत्येतत् मिथुनं प्रजननं प्रजोत्पत्तिनिमित्तं भवति ।
सायण-टीका
प्रकारान्तरेण प्रशंसति – ‘अथो वाग्वा अनुष्टुक्। वाङ्मिथुनम्। आपो रेतः प्रजननम्।
विश्वास-प्रस्तुतिः
ए॒तस्मा॒द् वै मि॑थु॒नाद् वि॒द्योत॑मानस् स्त॒नय॑न् वर्षति॒
रेत॑स् सि॒ञ्चन्न् ॥74॥
प्र॒जाᳶ प्र॑ज॒नय॑न् ।+++(5)+++
मूलम्
ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानस्स्त॒नय॑न्वर्षति ।
रेत॑स्सि॒ञ्चन्न् ॥74॥
प्र॒जाᳶ प्र॑ज॒नय॑न् ।
भट्टभास्कर-टीका
अत एव कारणात् एतस्मान्मिथुनात् अद्भ्यो रेतसश्च हेतोः विद्योतमानः विद्युतं उत्पादयन् स्तनयन् शब्दायमानो हि वर्षति, तथा रेतस्सिक्त्वा प्रजाः प्रजनयंश्च शब्दायमानो भवति । तदिदं सर्वं पूर्णपात्रस्य अनुप्रतिष्ठितत्वात् भवति ॥
सायण-टीका
एतस्माद्वै मिथुनाद्विद्योतमानः स्तनयन्वर्षति। रेतः सिञ्चन्। प्रजाः प्रजनयन्’ (ब्रा. का. ३ प्र. ३ अ. १०) इति।
अप्-स्पर्शः
विश्वास-प्रस्तुतिः
यद् वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते॒
ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः ।
अ॒द्भिश् शान्तिः॑ ।
विमु॑क्तव्ँ॒ वा ए॒तर्हि॒ योक्त्र॒म् ब्रह्म॑णा ।
मूलम्
यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते॑ ।
ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः ।
अ॒द्भिश्शान्तिः॑ ।
विमु॑क्तव्ँ॒वा ए॒तर्हि॒ योक्त्र॒म्ब्रह्म॑णा ।
भट्टभास्कर-टीका
3यद्वा इत्यादि ॥ ब्रह्मणा मन्त्रेण यज्ञसंबन्धि यद्युज्यते तस्य विमोकोपि ब्रह्मणैव न्याय्यः ।
तत्राद्भिरेव शान्तिः सुखं भवति यागविमोकापचारक्षाळनात् ।
सायण-टीका
विमुक्तयोक्त्रस्य पूर्णपात्रोदकस्य च सहकारः पत्न्या कर्तव्य इत्याह — ‘यद्वै यज्ञस्य ब्रह्मणा युज्यते। ब्रह्मणा वै तस्य विमोकः। अद्भिः शान्तिः। विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा।
विश्वास-प्रस्तुतिः
आ॒दायै॑न॒त् पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै॑ ।
अ॒ञ्ज॒लौ पू॑र्ण-पा॒त्रमा न॑यति ।
रेत॑ ए॒वास्या॑म् प्र॒जान् द॑धाति ।
प्र॒जया॒ हि म॑नु॒ष्य॑ᳶ पू॒र्णः ।
मूलम्
आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै॑ ।
अ॒ञ्ज॒लौ पू॑र्णपा॒त्रमा न॑यति ।
रेत॑ ए॒वास्या॑म्प्र॒जान्द॑धाति ।
प्र॒जया॒ हि म॑नु॒ष्य॑ᳶ पू॒र्णः ।
भट्टभास्कर-टीका
इदानीं च योक्त्रं ब्रह्मणा विमुक्तं तस्मादत्राप्यद्भिः भाव्यमित्याह - आदायेति । एनत् योक्त्रं अञ्जलावादाय तेन सहाप उपगृह्णीते पत्नी, तत् शान्त्यै भवति ।
सायण-टीका
आदायोनत्पत्नी सहाप उपगृह्णीते शान्त्यै’ (ब्रा. का. ३ प्र. ३ अ. १०) इति। यथा मन्त्रेणोपहितानां कपालानां मन्त्रेणैव विमोकः कर्तव्यस्तथा योक्त्रस्यापि योगविमोकवत्या रज्ज्वा कृतस्योपद्रवस्याद्भिः शान्तिर्युक्ता।
योक्त्रं चेदानीं मन्त्रेण मुक्तमतोऽञ्जलौ तद्योक्त्रमादाय तेन सहापो गृह्णीयात्। तद्ग्रहणायाऽनयनं विधत्ते — ‘अञ्जलौ पूर्णपात्रमानयति। रेत एवास्यां प्रजां दधाति। प्रजया हि मनुष्यः पूर्णः’ (ब्रा. का. ३ प्र. ३ अ. १०) इति। शोभत इति शेषः।
विश्वास-प्रस्तुतिः
मुखव्ँ॒ विमृ॑ष्टे ।
अ॒व॒भृ॒थस्यै॒व रू॒पङ् कृ॒त्वोत्ति॑ष्ठति ॥75॥
मूलम्
मुखव्ँ॒विमृ॑ष्टे ।
अ॒व॒भृ॒थस्यै॒व रू॒पङ्कृ॒त्वोत्ति॑ष्ठति ॥75॥
भट्टभास्कर-टीका
उक्तं पूर्णपात्रानयनस्य प्रजाधारणं फलं, तत्र विशेषग्रहणे किं प्रमाणमित्याह - प्रजयेति । प्रजयैव मनुष्यस्य पूरणं भवति न क्षेत्रादिना तस्मादेवमुक्तमिति । अवभृथस्थानीयं मुखविमार्जनं कुत्वा उत्तिष्ठति पत्नी ॥
इति तृतीये तृतीये दशमोऽनुवाकः ॥
सायण-टीका
पूर्णपात्रोदकेन पत्न्या मुखप्रक्षालनं विधत्ते — मुखं विमृष्टे। नवभृथस्यैव रूपं कृत्वोत्तिष्ठति’ (ब्रा. का. ३ प्र. ३ अ. १०) इति। उत्तिष्ठेदिति विधिः।