०९ प्रस्तरप्रहरादिकम् ...{Loading}...
स्रुचाव् व्यूहति
विश्वास-प्रस्तुतिः
अथ॒ स्रुचा॑व् अनु॒ष्टुग्भ्याव्ँ॒ वाज॑वतीभ्याव्ँ॒ व्यू॑हति ।
प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् ।
अन्नव्ँ॒ वाज॒ᳶ प्रति॑ष्ठित्यै,
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
अथ॒ स्रुचा॑वनु॒ष्टुग्भ्याव्ँ॒वाज॑वतीभ्या॒व्व्ँयू॑हति ।
प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् ।
अन्नव्ँ॒वाज॒ᳶ प्रति॑ष्ठित्यै ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
1अथ स्रुचाविसादि ॥ अनुष्टुग्भ्यां ‘वाजस्य’ इत्यादिभ्याम् ।
सायण-टीका
इत्थमिडाभागाद्यनुष्ठानं विधायास्मिन्काण्ड आम्नाताभ्यां वाजस्य मेत्येताभ्यामृग्भ्यां स्रुग्व्यूहनं विधत्ते — “अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति। प्रतिष्ठा वा अनुष्टुक्। अन्नं वाजः प्रतिष्ठित्यै। अन्नाद्यस्यावरुद्ध्यै” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
चतुर्भिः पादैर्गवादीनां प्रतिष्ठितत्वात्तद्वदनुष्टुभः प्रतिष्ठाहेतुत्वम्। वाजशब्दस्यान्नस्वाचित्वात्तद्वत्यावृचावत्तुं योग्यस्यान्नस्यावरोधाय भवतः।
विश्वास-प्रस्तुतिः
प्राची॑ञ् जु॒हूम् ऊ॑हति ।
जा॒तान् ए॒व भ्रातृ॑व्या॒न् प्रणु॑दते ।
प्र॒तीची॑म् उप॒भृत॑म् +++(ऊ॑हति)+++।
ज॒नि॒ष्यमा॑णान् ए॒व प्रति॑नुदते ।
मूलम्
प्राची॑ञ्जु॒हूमू॑हति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते ।
प्र॒तीची॑मुप॒भृत॑म् ।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ।
सायण-टीका
सामान्याकारेण विहितं स्रुग्व्यूहनं विशषाकारेण विशदयति — प्राचीं जुहूमूहति। जातानेव भ्रातृव्यान्प्रणुदते। प्रतीचीमुपभृतम्। जनिष्यमाणानेव प्रतिनुदते।
विश्वास-प्रस्तुतिः
स विषू॑च +++(=सर्वतो-विकीर्णान्)+++ ए॒वापोह्य॑ स॒पत्ना॒न् यज॑मानो
अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठति ॥60॥
मूलम्
स विषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्यज॑मानः ।
अ॒स्मिल्ँ लो॒के प्रति॑तिष्ठति ॥60॥
भट्टभास्कर-टीका
विषूच इति नानादिग्-देश-पलायितान् ॥
सायण-टीका
स विषूच एवापोह्य सपत्नान्यजमानः अस्मिल्लोँके प्रतितिष्ठति” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति। वैरिणः परस्परवियुक्ता विविधदिक्पलायिता एव यथा भवन्ति तथा तानपोह्य प्रतितिष्ठति।
विश्वास-प्रस्तुतिः
द्वाभ्या॑म् +++(वाजवतीभ्याम्)+++।
द्विप्र॑तिष्ठो॒ हि ।
मूलम्
द्वाभ्या॑म्।
द्विप्र॑तिष्ठो॒ हि ।
सायण-टीका
वाजवतीभ्याम् इति द्विवचनार्थमनूद्य प्रशंसति – “द्वाभ्याम्। द्विप्रतिष्ठो हि” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति। द्वाभ्यां पादाभ्यां प्रतिष्ठा यस्यासौ द्विप्रतिष्ठः।
सायण-टीका
वाजवतीभ्याम् इति द्विवचनार्थमनूद्य प्रशंसति – “द्वाभ्याम्। द्विप्रतिष्ठो हि” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति। द्वाभ्यां पादाभ्यां प्रतिष्ठा यस्यासौ द्विप्रतिष्ठः।
परिध्यञ्जनम्
विश्वास-प्रस्तुतिः
“वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स् त्वा ऽऽदि॒त्येभ्य॒स् त्वे"त्या॑ह ।
य॒था॒-य॒जुर् ए॒वैतत् ।
मूलम्
“वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स् त्वा ऽऽदि॒त्येभ्य॒स् त्वे"त्या॑ह ।
य॒था॒य॒जुर् ए॒वैतत् ।
भट्टभास्कर-टीका
2वसुभ्य इति जुह्वा परिध्यञ्जनम् ॥
सायण-टीका
स्पष्टार्थतां दर्शयति — “वसुभ्यस्त्वा रुद्रेभ्यस्त्वाऽऽदित्येभ्यस्त्वेत्याह। यथायजुरेवैतत्” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
प्रस्तराञ्जनम्
विश्वास-प्रस्तुतिः
स्रु॒क्षु प्र॑स्त॒रम् अ॑नक्ति ।
इ॒मे वै लो॒कास् स्रुचः॑ ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानम् ए॒व तेज॑साऽनक्ति ।
मूलम्
स्रु॒क्षु प्र॑स्त॒रम॑नक्ति ।
इ॒मे वै लो॒कास्स्रुचः॑ ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानमे॒व तेज॑साऽनक्ति ।
सायण-टीका
विधत्ते — “स्रुक्षु प्रस्तरमनक्ति। इमे वै लोकाः स्रुचः। यजमानः प्रस्तरः यजमानमेव तेजसाऽनक्ति।
विश्वास-प्रस्तुतिः
+++(अग्र-मध्य-मूल-भागेन)+++ त्रे॒धाऽन॑क्ति ।
त्रय॑ इ॒मे लो॒काः ॥61॥
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ ऽनक्ति ।
मूलम्
त्रे॒धाऽन॑क्ति ।
त्रय॑ इ॒मे लो॒काः ॥61॥
ए॒भ्य ए॒वैनल्ँ॑ लो॒केभ्यो॑ऽनक्ति ।
भट्टभास्कर-टीका
त्रेधेति । अग्र-मध्य-मूल-भागेन ॥
सायण-टीका
त्रेधाऽनक्ति। त्रय इमे लोकाः। एभ्य एवैनं लोकेभ्योऽनक्ति।
विश्वास-प्रस्तुतिः
अ॒भि॒पू॒र्वम् अ॑नक्ति ।
अ॒भि॒पू॒र्वम् ए॒व यज॑मान॒न् तेज॑सा ऽनक्ति ।
मूलम्
अ॒भि॒पू॒र्वम॑नक्ति ।
अ॒भि॒पू॒र्वमे॒व यज॑मान॒न्तेज॑साऽनक्ति ।
सायण-टीका
अभिपूर्वमनक्ति अभिपूर्वमेव यजमानं तेजसाऽनक्ति’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
अभिमुखमग्रं पूर्वं यथा भवति तथा प्रस्तरमञ्ज्यात्। यजमानोऽपि मुख एव सभासु वक्तृत्वेत तेजस्वी भवति।
विश्वास-प्रस्तुतिः
“अ॒क्तँ रिहा॑णा॒” इत्या॑ह ।
तेजो॒ वा आज्य॑म् ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानम् ए॒व तेज॑साऽनक्ति ।
मूलम्
“अ॒क्तँ रिहा॑णा॒” इत्या॑ह ।
तेजो॒ वा आज्य॑म् ।
यज॑मानᳶ प्रस्त॒रः ।
यज॑मानमे॒व तेज॑साऽनक्ति ।
भट्टभास्कर-टीका
3अक्तं रिहाणा इति स्रुक्षु प्रस्तराञ्जनमन्त्रः ॥
सायण-टीका
मन्त्रगतस्याक्तशब्दस्याभिप्रायमाह — ‘अक्तँ रिहाणा इत्याह। तेजो वा आज्यम्। यजमानः प्रस्तरः। यजमानमेव तेजसाऽनक्ति’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
विश्वास-प्रस्तुतिः
“वि॒यन्तु॒ वय॒” इत्या॑ह ।
वय॑ ए॒वैन॑ङ् कृ॒त्वा
सुव॒र्गल्ँ लो॒कङ् ग॑मयति ॥
मूलम्
“वि॒यन्तु॒ वय॒” इत्या॑ह ।
वय॑ ए॒वैन॑ङ्कृ॒त्वा ।
सु॒व॒र्गल्ँ लो॒कङ्ग॑मयति ॥62॥
भट्टभास्कर-टीका
वयः पक्षी ॥
सायण-टीका
विशब्दसूचितं दर्शयति – “वियन्तु वय इत्याह। वय एवैनं कृत्वा। सुवर्गं लोकं गमयति’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
मन्त्रे प्रथमाबहुवचनान्तो विशब्दः पक्षिवाची ब्राह्मणे तु द्वितीयैकवचनान्तो वयःशब्दः।
विश्वास-प्रस्तुतिः
“प्र॒जाय्ँ योनि॒म् मा निर्मृ॑क्ष॒"म् इत्य् आ॑ह -
प्र॒जायै॑ गोपी॒थाय॑ ।
मूलम्
“प्र॒जाय्ँ योनि॒म्मा निर्मृ॑क्ष॒"मित्या॑ह ।
प्र॒जायै॑ गोपी॒थाय॑ ।
सायण-टीका
मा निर्मृक्षम् इत्येतस्याभिप्रायमाह – “प्रजां योनिं मा निर्मृक्षमित्याह। प्रजायै गोपीथाय’ (ब्रा. का. ३ प्र. ३ अ. ९) इति।
आहवनीये प्रहरणम्
विश्वास-प्रस्तुतिः
“आप्या॑यन्ता॒म् आप॒ ओष॑धय॒” इत्या॑ह ।
आप॑ ए॒वौष॑धी॒र् आप्या॑ययति ।
मूलम्
“आप्या॑यन्ता॒माप॒ ओष॑धय॒” इत्या॑ह ।
आप॑ ए॒वौष॑धी॒राप्या॑ययति ।
भट्टभास्कर-टीका
4आप्यायन्तामित्याहवनीये प्रस्तरप्रहरणम् ॥ आपः इति विभक्तिव्यत्ययः ।
सायण-टीका
ओषधय इत्यत्र द्वितीया विवक्षितेत्याह — “आ प्यायन्तामाप ओषधय इत्याह। आप एवौषधीराप्याययति” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
अत्र बहुवचनं द्रष्टव्यम्।
विश्वास-प्रस्तुतिः
“म॒रुता॒म् पृष॑तय॒स् स्थे"त्य् आ॑ह ।
म॒रुतो॒ वै वृष्ट्या॑ ईशते ।
वृष्टि॑म् ए॒वाव॑रुन्धे ।
मूलम्
“म॒रुता॒म्पृष॑तय॒स्स्थे"त्या॑ह ।
म॒रुतो॒ वै वृष्ट्या॑ ईशते ।
वृष्टि॑मे॒वाव॑रुन्धे ।
सायण-टीका
व्याचष्टे – ‘मरुतां पृषतयः स्थेत्याह। मरुतो वै वृष्ट्या ईशते। वृष्टिमेवावरुन्धे।
विश्वास-प्रस्तुतिः
“दिव॑ङ् गच्छ॒ ततो॑ नो॒ वृष्टि॒म् एर॒ये"त्या॑ह ।
वृष्टि॒र् वै द्यौः ।
वृष्टि॑म् ए॒वाव॑रुन्धे ॥ 63॥
मूलम्
“दिव॑ङ्गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒ये"त्या॑ह ।
वृष्टि॒र्वै द्यौः ।
वृष्टि॑मे॒वाव॑रुन्धे ॥ 63॥
सायण-टीका
दिवं गच्छ ततो नो वृष्टिमेरयेत्याह। वृष्टिर्वे द्यौः वृष्टिमेवावरुन्धे।’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
उपस्थानम्
विश्वास-प्रस्तुतिः
याव॒द् वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम् प्र॒हर॑ति॒
ताव॑द् अ॒स्यायु॑र् मीयते+++(=हिंस्यते)+++ ।+++(5)+++
“आ॒यु॒ष्-पा अ॑ग्ने॒ ऽस्यायु॑र् मे पा॒ही"त्या॑ह ।
आयु॑र् ए॒वात्मन् ध॑त्ते ।
मूलम्
याव॒द्वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम्प्र॒हर॑ति ।
ताव॑द॒स्यायु॑र्मीयते ।
“आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒ही"त्या॑ह ।
आयु॑रे॒वात्मन्ध॑त्ते ।
सायण-टीका
आयुश्चक्षुषोः पालनीयतां दर्शयति — ‘यावद्वा अध्वर्युः प्रस्तरं प्रहरति। तावदस्याऽऽयुर्मीयते। आयुष्पा अग्नेऽस्यायुर्मे पाहीत्याह। आयुरेवाऽऽत्मन्धत्ते।
विश्वास-प्रस्तुतिः
याव॒द् वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम् प्र॒हर॑ति॒
ताव॑द् अस्य॒ चक्षु॑र् मीयते ।
“च॒क्षु॒ष्पा अ॑ग्नेऽसि॒
चक्षु॑र्मे पा॒ही"त्य् आ॑ह ।
चक्षु॑र् ए॒वात्मन् ध॑त्ते ।
मूलम्
याव॒द्वा अ॑ध्व॒र्युᳶ प्र॑स्त॒रम्प्र॒हर॑ति । ताव॑दस्य॒ चक्षु॑र्मीयते ।
“च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पा॒ही"त्या॑ह ।
चक्षु॑रे॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
आयुष्पा इत्याहवनीयोपस्थानम् । आयुश्चक्षुश्चाविकलं आत्मनि स्थापयति ॥
सायण-टीका
यावद्वा अध्वर्युः प्रस्तरं प्रहरति। तावदस्य चक्षुर्मीयते। चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्याह। चक्षुरेवाऽऽत्मन्धत्ते’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
भूम्यभिमर्शनम्
विश्वास-प्रस्तुतिः
“ध्रु॒वाऽसी"त्या॑ह॒ प्रति॑ष्ठित्यै ।
मूलम्
“ध्रु॒वाऽसी"त्या॑ह॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
5ध्रुवाऽसीति भूम्यभिमर्शनम् ॥
सायण-टीका
व्याचष्टे – ‘ध्रुवाऽसीत्याह प्रतिष्ठित्यै’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
परिधि-प्रहरणम्
विश्वास-प्रस्तुतिः
“यम् प॑रि॒धिम् प॒र्यध॑त्था॒” इत्य् आ॑ह ॥64॥
य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
“यम्प॑रि॒धिम्प॒र्यध॑त्था॒” इत्या॑ह ॥64॥
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
6यं परिधिमिति मध्यम-परिधि-प्रहरणम् ॥
सायण-टीका
पर्यधत्था इत्येतत्सत्यमित्याह — ‘यं परिधिं पर्यधत्था इत्याह। यथायजुरेवैतत्’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
विश्वास-प्रस्तुतिः
“अग्ने॑ देव प॒णिभि॑र् वी॒यमा॑ण॒” इत्य् आ॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ् करोति ।
मूलम्
“अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒” इत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॒ञ्जुष्ट॑ङ्करोति ।
सायण-टीका
परिधावग्नेः प्रीत्य्-उत्पादनायाग्नि-संबोधनम् इत्याह — ‘अग्ने देव पणिभिर्वीयमाण इत्याह। अग्नय एवैनं जुष्टं करोति’ (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
विश्वास-प्रस्तुतिः
“तन् त॑ ए॒तम् अनु॒ जोष॑म् भरा॒मी"त्य् आ॑ह ।
स॒जा॒तान् ए॒वास्मा॒ अनु॑कान् करोति ।
मूलम्
“तन्त॑ ए॒तमनु॒ जोष॑म्भरा॒मी"त्या॑ह ।
स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति ।
भट्टभास्कर-टीका
अनुकान् अनुरक्तान् ।
सायण-टीका
अनुशब्देन ज्ञातीनामनुरक्तत्वं सूच्यत इत्याह — ‘तं त एतमनु जोषं भरामीत्याह। सजातानेवास्मा अनुकान्करोति’ (ब्रा. का. ३ प्र. ३ अ. ९) इति।
विश्वास-प्रस्तुतिः
“नेद् ए॒ष त्वद् अ॑पचे॒तया॑ता॒” इत्य् आ॒हानु॑ख्यात्यै ।
मूलम्
“नेदे॒ष त्वद॑पचे॒तया॑ता॒” इत्या॒हानु॑ख्यात्यै ।
भट्टभास्कर-टीका
अनुख्यातिः अन्वग्भावेन अवस्थानम् ॥
सायण-टीका
अपरागनिषेध आनुकूल्यार्थ इत्याह — “नेदेष त्वदपचेतयाता इत्याहानुख्यात्यै” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
विश्वास-प्रस्तुतिः
“य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒"म् इत्य् आ॑ह ।
भू॒मान॑म् ए॒वोपै॑ति ।
मूलम्
“य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒"मित्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ।
भट्टभास्कर-टीका
7यज्ञस्येतीतरावुपसमस्यति ॥ भूमानमिति बहुत्वमुपैति बहूनां प्रहरणात्, स्रंप्रस्रावयति जुहूपभृतौ सह प्रकर्षेण स्रावयति जुह्वां उपभृतं स्रावयति ।
सायण-टीका
अनेकयोः परिध्योः सह कथनं बहुदिव्यानुकूल्यायेत्याह- यज्ञस्य पाथ उपसमितमित्याह। भूमानमेवोपैति (ब्रा. का. ३ प्र. ३ अ. ९ ) इति।
विश्वास-प्रस्तुतिः
प॒रि॒धीन्प्रह॑रति । य॒ज्ञस्य॒ समि॑ष्ट्यै ॥65॥
मूलम्
प॒रि॒धीन्प्रह॑रति । य॒ज्ञस्य॒ समि॑ष्ट्यै ॥65॥
सायण-टीका
विधत्ते — परिधीन्प्रहरति। यज्ञस्य समिष्ट्यै’ (ब्रा. का. ३ प्र. ३ अ. ९) इति। समिष्टिः संपूर्तिः।
विश्वास-प्रस्तुतिः
स्रुचौ॒ सम्प्रस्रा॑वयति ।
यद् ए॒व तत्र॑ क्रू॒रन्
तत् तेन॑ शमयति ।
सम्प्रस्रावणम्
मूलम्
स्रुचौ॒ सम्प्रस्रा॑वयति । यदे॒व तत्र॑ क्रू॒रम् । तत्तेन॑ शमयति ।
सायण-टीका
विधत्ते — “स्रुचौ संप्रस्रावयति। यदेव तत्र क्रूरम्। तत्तेन शमयति।
विश्वास-प्रस्तुतिः
जु॒ह्वाम् उ॑प॒भृत॑म् +++(शमयति)+++।
य॒ज॒मा॒न॒-दे॒व॒त्या॒॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒-दे॒व॒त्यो॑प॒भृत् ।
यज॑मानायै॒व भ्रातृ॑व्य॒म् उप॑स्तिङ् करोति ।
मूलम्
जु॒ह्वामु॑प॒भृत॑म् +++(शमयति)+++।
य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिङ्करोति ।
भट्टभास्कर-टीका
उपस्तिः गुणभूतः । व्याख्यातः ॥
सायण-टीका
जुह्वामुपभृतम्। यजमानदेवत्या वै जुहूः। भ्रातृव्यदेवत्योपभृत्। यजमानायैव भ्रातृव्यमुपस्तिं करोति” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
विश्वास-प्रस्तुतिः
“सँ॒स्रा॒व-भा॑गा॒स् स्थे"त्य् आ॑ह ।
वस॑वो॒ वै रु॒द्रा आ॑दि॒त्यास् सँ॑स्रा॒व-भा॑गाः ।
तेषा॒न् तद् भा॑ग॒-धेय॑म् ॥66॥
तान् ए॒व तेन॑ प्रीणाति - वै॒श्व॒दे॒व्यर्चा ।
ए॒ते हि विश्वे॑ दे॒वाः ।
मूलम्
“सँ॒स्रा॒वभा॑गा॒स्स्थे"त्या॑ह ।
वस॑वो॒ वै रु॒द्रा आ॑दि॒त्यास्सँ॑स्रा॒वभा॑गाः ।
तेषा॒न्तद्भा॑ग॒धेय॑म् ॥66॥
ताने॒व तेन॑ प्रीणाति ।
वै॒श्व॒दे॒व्यर्चा । ए॒ते हि विश्वे॑ दे॒वाः ।
भट्टभास्कर-टीका
8संस्रावभागा इति प्रहृतान् परिधीन् संस्रावेणाभिघारयति ॥ वैश्वदेव्यर्चेति । ‘संस्रावभागास्स्थ’ इत्यनया । एते हीति । वस्वादयः ॥
सायण-टीका
व्याचष्टे — “सँस्रावभागाः स्थेत्याह। वसवो वै रुद्रा आदित्याः सँस्रावभागाः। तेषां तद्भागधेयम्। तानेव तेन प्रीणाति” (ब्रा. का. ३ प्र. ३ अ. ९) इति। अस्मिन्मन्त्रे देवतासंबन्धमृचश्छन्दोविशेषं च प्रशंसति – “वैश्वदेव्यर्चा। एते हि विश्वे देवाः।
विश्वास-प्रस्तुतिः
त्रि॒ष्टुग् भ॑वति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।
मूलम्
त्रि॒ष्टुग्भ॑वति ।
इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
सायण-टीका
त्रिष्टुग्भवति। इन्द्रियं वै त्रिष्टुक्। इन्द्रियमेव यजमाने दधाति” (ब्रा. का. ३ प्र. ३ अ. ९) इति। एते वस्वादिरूपाः।
सादनम्
विश्वास-प्रस्तुतिः
“अ॒ग्नेर् वा॒म् अप॑न्न-गृहस्य॒ सद॑सि सादया॒मी"त्या॑ह ।
इ॒यव्ँ वा अ॒ग्निर् अप॑न्न-गृहः ।
अ॒स्या ए॒वैने॒ सद॑ने सादयति ।
मूलम्
“अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मी"त्या॑ह ।
इ॒यव्ँ वा अ॒ग्निरप॑न्नगृहः ।
अ॒स्या ए॒वैने॒ सद॑ने सादयति ।
भट्टभास्कर-टीका
9अग्नेर् वामिति धुरि स्फ्ये वा स्रुचौ सादयति ॥
सायण-टीका
यथोक्तं मन्त्रार्थं दर्शयति — “अग्नेर्वामपन्नगृहस्य सदसि सादयामीत्याह। इयं वा अग्निरपन्नगृहः। अस्या एवैने सदने सादयति।
विश्वास-प्रस्तुतिः
“सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒म्” इत्य् आ॑ह ॥67॥
प्र॒जा वै प॒शव॑स् सु॒म्नम् ।
प्र॒जाम् ए॒व प॒शून् आ॒त्मन् ध॑त्ते ।
मूलम्
“सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒"मित्या॑ह ॥67॥
प्र॒जा वै प॒शव॑स्सु॒म्नम् ।
प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ।
सायण-टीका
सुम्नाय सुम्निनी सुम्ने मा धत्तमित्याह। प्रजा वै पशवः सुम्नम्। प्रजामेव पशूनात्मन्धत्ते।
विश्वास-प्रस्तुतिः
“धु॒रि धु॒र्यौ॑ पात॒म्” इत्य् आ॑ह ।
जा॒या॒प॒त्योर् गो॑पी॒थाय॑ ।
मूलम्
“धु॒रि धु॒र्यौ॑ पात॒"मित्या॑ह ।
जा॒या॒प॒त्योर्गो॑पी॒थाय॑ ।
भट्टभास्कर-टीका
धुर्यौ धुरो वोढारौ धुर्यौ यज्ञस्य नेतारौ ॥
सायण-टीका
धुरि धुर्यौ पातमित्याह। जायापत्योर्गोपीथाय” (ब्रा. का. ३ प्र. ३ अ. ९ ) इति। अत्राऽऽपस्तम्बो मन्त्रभेदमाश्रित्याग्नेर्वामिति शकटस्य पूर्वभागे स्रुचौ सादयित्वा धुरि धुर्यावितित्वा युगधुरोः प्रोहेदिति मन्यते।
विश्वास-प्रस्तुतिः
“अग्ने॑ऽदब्धायोऽशीत-तनो॒” इत्य् आ॑ह ।
य॒था॒-य॒जुर् ए॒वैतत् ।
मूलम्
“अग्ने॑ऽदब्धायोऽशीत-तनो॒” इत्य् आ॑ह ।
य॒था॒-य॒जुर् ए॒वैतत् ।
सायण-टीका
मन्त्रव्याख्यानपूर्वकं होमं विधत्ते — “अग्नेऽदब्धायोऽशीततनो इत्याह। यथायजुरेवैतत्।
विश्वास-प्रस्तुतिः
“पा॒हि मा॒ऽद्य दि॒वᳶ
पा॒हि प्रसि॑त्यै
पा॒हि दुरि॑ष्ट्यै
पा॒हि दु॑र्-अद्म॒न्यै
पा॒हि दुश्च॑रिता॒द्”
इत्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।
मूलम्
“पा॒हि मा॒ऽद्य दि॒वᳶ पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒"दित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।
सायण-टीका
पाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादित्याह। आशिषमेवैतामाशास्ते।
फली-करण-होमः
विश्वास-प्रस्तुतिः
“अवि॑षन् नᳶ पि॒तुङ् कृ॑णु
सु॒षदा॒ योनिँ॒ स्वाहे"ती॑ध्म-सव्ँ॒वृश्च॑नान्य् अन्वाहार्य॒-पच॑ने ऽभ्या॒धाय॑
फली-करण-हो॒मञ् जु॑होति ।
मूलम्
“अवि॑षन्नᳶ पि॒तुङ्कृ॑णु सु॒षदा॒ योनिँ॒ स्वाहे"ती॑ध्मसव्ँ॒ वृश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मञ्जु॑होति ।
भट्टभास्कर-टीका
10अग्नेऽदब्धायो इत्यन्वाहार्यपचने फलीकरणहोमः ॥
सायण-टीका
अविषं नः पितुं कृणु सुषदा योनिँ स्वाहेतीध्मसंवृश्चनान्यन्वाहार्यपचनेऽभ्याधाय फलीकरणहोमं जुहोति।
विश्वास-प्रस्तुतिः
अति॑रिक्तानि॒ वा इ॑ध्म-सव्ँ॒वृश्च॑नानि ॥68॥
अति॑रिक्ताᳶ फली॒कर॑णाः ।
अति॑रिक्तम् आज्योच्छेष॒णम् ।
अति॑रिक्त ए॒वाति॑रिक्तन् दधाति ।
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तम् आ॒प्त्वा ऽव॑रुन्धे ।
मूलम्
अति॑रिक्तानि॒ वा इ॑ध्मसव्ँ॒ वृश्च॑नानि ॥68॥
अति॑रिक्ताᳶ फली॒कर॑णाः ।
अति॑रिक्तमाज्योच्छेष॒णम् ।
अति॑रिक्त ए॒वाति॑रिक्तन्दधाति ।
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑रुन्धे ।
भट्टभास्कर-टीका
अतिरिक्तेन अतिरिक्तमाप्त्वा अभीष्टं फलं लभते ॥
सायण-टीका
अतिरिक्तानि वा इध्मसंवृश्चनानि। अतिरिक्ताः फलीकरणाः। अतिरिक्तमाज्योच्छेषणम्। अतिरिक्त एवातिरिक्तं दधाति। अथो अतिरिक्तेनैवातिरिक्तमाप्त्वाऽवरुन्धे” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
वेदी-सम्मार्गः
विश्वास-प्रस्तुतिः
वेदि॑र् दे॒वेभ्यो॒ निला॑यत ।
ताव्ँ वे॒देनान्व॑विन्दन् ।
मूलम्
वेदि॑र्दे॒वेभ्यो॒ निला॑यत ।
ताव्ँ वे॒देनान्व॑विन्दन् ।
भट्टभास्कर-टीका
11अन्वविन्दन् अनुक्रमेणालभन्त ॥
वेदं दृष्ट्वा वेद्याः संमार्जनं तस्य अनुवित्त्यै क्रमेण लाभाय भवति ।
सायण-टीका
स च प्रदेशान्तरविषयतया विनियुज्यते — “वेदिर्देवेभ्यो निलायत। तां वेदेनान्वविन्दन्।
विश्वास-प्रस्तुतिः - ऋक्
वे॒देन॒ वेदिव्ँ॑ विविदुᳶ पृथि॒वीम् ।
सा प॑प्रथे पृथि॒वी पार्थि॑वानि॒
गर्भ॑म् बिभर्ति॒ भुव॑नेष्व् अ॒न्तः ।
ततो॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑
मूलम्
वे॒देन॒ वेदिव्ँ॑विविदुᳶ पृथि॒वीम् ।
सा प॑प्रथे पृथि॒वी पार्थि॑वानि ।
गर्भ॑म्बिभर्ति॒ भुव॑नेष्व॒न्तः ।
ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒र् …
भट्टभास्कर-टीका
त्रिष्टुबेषा । मन्त्रार्थस्तु - वेदेन दर्भमयेन वेदिं लब्धवन्तो देवाः पृथिवीं विस्तीर्णाम् ।
अथ सा पृथिवी प्रथितवती पार्थिवानि च प्रथितानि ओषध्यादीनि ।
सैव भुवनेषु अन्तर्गर्भं हविर्लक्षणं बिभर्ति ।
ततः हविर्लाभात् यज्ञो जायते ।
विश्वदानिः विश्वस्य श्रेयसो दाता । यद्वा - विश्वस्यानिष्टस्य खण्डयिता भक्षयिता ।
सायण-टीका
वेदेन वेदिं विविदुः पृथिवीम्। सा पप्रथे पृथिवी पार्थिवानि। गर्भं बिभर्ति भुवनेष्वन्तः। ततो यज्ञो जायते विश्वदानिर्
विश्वास-प्रस्तुतिः
इति॑ पु॒रस्ता॑त् स्तम्ब-य॒जुषो॑ वे॒देन॒ वेदिँ॒ सम्मा॒र्ष्ट्य् अनु॑वित्त्यै ॥69॥
अथो॒ यद् वे॒दश् च॒ वेदि॑श् च॒ भव॑तः -
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
मूलम्
इति॑ पु॒रस्ता॑त्स्तम्बय॒जुषो॑ वे॒देन॒ वेदिँ॒ सम्मा॒र्ष्ट्यनु॑वित्त्यै ॥69॥
अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
सायण-टीका
इति पुरस्तात्स्तम्बयजुषो वेदेन वेदिँ संमार्ष्ट्यनुवित्त्यै। अथो यद्वेदश्च वेदिश्च भवतः। मिथुनत्वाय प्रजात्यै” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
आसनम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑ते॒र् वा ए॒तानि॒ श्मश्रू॑णि॒ यद् वे॒दः ।
मूलम्
प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि । यद्वे॒दः ।
सायण-टीका
प्रासङ्गिकं समाप्य प्रकृतमनुसरति – “प्रजापतेर्वा एतानि श्मश्रूणि। यद्वेदः।
विश्वास-प्रस्तुतिः
पत्नि॑या उ॒पस्थ॒ आस्य॑ति ।
मि॒थु॒नम् ए॒व क॑रोति ।
वि॒न्दते॑ प्र॒जाम् ।
मूलम्
पत्नि॑या उ॒पस्थ॒ आस्य॑ति ।
मि॒थु॒नमे॒व क॑रोति ।
वि॒न्दते॑ प्र॒जाम् ।
सायण-टीका
पत्निया उपस्थ आस्यति। मिथुनमेव करोति। विन्दते प्रजाम्” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
स्तरणम्
विश्वास-प्रस्तुतिः
वे॒दँ होताऽऽह॑व॒नीया॑त् स्तृ॒णन्न् ए॑ति ।
य॒ज्ञम् ए॒व तत् सन्त॑नो॒त्य् ओत्त॑रस्माद् अर्ध-मा॒सात् ।
तँ सन्त॑त॒म् उत्त॑रे ऽर्धमा॒स आल॑भते ॥70॥
मूलम्
वे॒दँ होताऽऽह॑व॒नीया॑त्स्तृ॒णन्ने॑ति ।
य॒ज्ञमे॒व तत्सन्त॑नो॒त्योत्त॑रस्मादर्धमा॒सात् ।
तँ सन्त॑त॒मुत्त॑रेऽर्धमा॒स आल॑भते ॥70॥
भट्टभास्कर-टीका
आहवनीयात् स्तृणन् गच्छति यावदुत्तरार्धमासं आलभते कार्त्स्न्ये परिगृह्णाति ।
सायण-टीका
पत्नीसमीपे प्राप्तस्य वेदस्य पुनरास्तरणं विधत्ते – “वेदँ होताऽऽहवनीयात्स्तृणन्नेति। यज्ञमेव तत्संतनोत्योत्तरस्मादर्धमासात्। तँ संततमुत्तरेऽर्धमास आलभते।
विश्वास-प्रस्तुतिः
तङ् का॒लेका॑ल॒ आग॑ते यजते ।
मूलम्
तङ्का॒लेका॑ल॒ आग॑ते यजते ।
भट्टभास्कर-टीका
ततः कालेकाले यागार्हे आगते तं यज्ञं यजते आराधयति ॥
सायण-टीका
तं काले काल आगते यजते” (ब्रा. का. ३ प्र. ३ अ. ९) इति।
देवा गातुविदः
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒-वा॒दिनो॑ वदन्ति॒ -
“स त्व् आ अ॑ध्व॒र्युस् स्या॒द्
यो यतो॑ य॒ज्ञम् प्र॑यु॒ङ्क्ते।
तद् ए॑नम् प्रतिष्ठा॒पयति”
+इति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा अ॑ध्व॒र्युस्स्या॑त् ।
यो यतो॑ य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
तदे॑नम्प्रतिष्ठा॒पय॒तीति॑ ।
भट्टभास्कर-टीका
12ब्रह्मवादिन इत्यादि ॥ यतः यज्ञं प्रयुङ्क्ते तत् तत्रैव यः प्रतिष्ठापयति स एवाध्वर्युः स्यात् भवितुमर्हतीति ब्रह्मवादिनो वदन्ति ।
सायण-टीका
वायुविषयेणानेन मन्त्रेण यज्ञसमाप्तिमुपपादयति – “ब्रह्मवादिनो वदन्ति। स त्वा अध्वर्युः स्यात्। यो यतो यज्ञं प्रयुङ्क्ते तदेनं प्रतिष्ठापयतीति।
विश्वास-प्रस्तुतिः
वाता॒द् वा अ॑ध्व॒र्युर् य॒ज्ञम् प्रयु॑ङ्क्ते ।
“देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुम् इ॒ते"त्या॑ह ।
यत॑ ए॒व य॒ज्ञम् प्र॑यु॒ङ्क्ते
तद् ए॑न॒म् प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र् यज॑मानः ॥71॥
मूलम्
वाता॒द्वा अ॑ध्व॒र्युर्य॒ज्ञम्प्रयु॑ङ्क्ते ।
“देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॒ते"त्या॑ह ।
यत॑ ए॒व य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
तदे॑न॒म्प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥71॥
भट्टभास्कर-टीका
कुतः तर्हि अध्वर्युः यज्ञं प्रयुङ्क्ते? इत्याह - वाताद्वा इति । वातः वायुः सर्वपरिस्पन्दाश्रयः क्रियाशक्तिरीश्वरस्य,
ततः आदाय यज्ञं प्रयुङ्क्ते
‘देवा गातुविदः'11 इति समिष्टयजुर्होममन्त्रे
‘वाते धाः'11 इति वचनात् ।
यतः प्रयुज्यते तत्रैव यज्ञं प्रतिष्ठापयति । ततः प्रजया पशुभिश्च यजमायः प्रतिष्ठितो भवति ॥
इति नवमोऽनवाकः ॥
सायण-टीका
वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते। देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह। यत एव यज्ञं प्रयुङ्क्ते। तदेनं प्रतिष्ठापयति। प्रतितिष्ठति प्रजया पशुभिर्यजमानः” (ब्रा. का. ३ प्र. ३ अ. १०) इति।