१८ इडाभक्षणम्

०८ इडाभक्षणम् ...{Loading}...

अन्तरयण-निषेधः

विश्वास-प्रस्तुतिः

धिष्णि॑या॒ वा ए॒ते॒॑ न्यु॑प्यन्ते॒
यद् ब्र॒ह्मा यद् +धोता॒ यद् अ॑ध्व॒र्युर् यद् अ॒ग्नीद् यद् यज॑मानः ।

मूलम्

धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते । यद्ब्र॒ह्मा । यद्धोता॑ ।
यद॑ध्व॒र्युः । यद॒ग्नीत् । यद्यज॑मानः ।

भट्टभास्कर-टीका

1धिष्णिया वा इति ॥ गतम् ॥

सायण-टीका

एतन्मन्त्रव्याख्यानात्पूर्वमिडाभक्षणादिकं विधीयते। तस्य स्रुग्व्यूहनात्प्रागनुष्ठेयत्वात्। तत्रेडाभागस्य पुरोडाशादपच्छेदं विधत्ते —

“धिष्णिया वा एते न्युप्यन्ते। यद्ब्रह्मा। यद्धोता। यदध्वर्युः। यदग्नीत्। यद्यजमानः।

विश्वास-प्रस्तुतिः

तान् यद् अ॑न्तरे॒याद्
यज॑मानस्य प्रा॒णान्त् सङ्क॑र्षेत् ।
प्र॒मायु॑कस् स्यात् ।

मूलम्

तान्यद॑न्तरे॒यात् । यज॑मानस्य प्रा॒णान्त्सङ्क॑र्षेत् । प्र॒मायु॑कस्स्यात् ।

भट्टभास्कर-टीका

तानिति । तान् ब्रह्मादीन् अन्तरा यदियात् गच्छेत् । छान्दसं गतित्वम् । यजमानस्य प्राणान् संकर्षेत् संगृह्य गच्छेत् । ‘प्राणा वा एते यद्धिष्णियाः’ इति ।
ततः प्रमायुको मरणशीलः स्यात् ।

सायण-टीका

तान्यदन्तरेयात्। यजमानस्य प्राणान्संकर्षेत्। प्रमायुकः स्यात्।

विश्वास-प्रस्तुतिः

पु॒रो॒डाश॑म् अप॒गृह्य॒ सञ्च॑रत्य् अध्व॒र्युः ॥49॥
यज॑मानायै॒व तल् लो॒कँ शिँ॑षति+++(←शिष्)+++ ।
नास्य॑ प्रा॒णान्त् सङ्क॑र्षति
न प्र॒मायु॑को भवति ।

मूलम्

पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यध्व॒र्युः ॥49॥
यज॑मानायै॒व तल्लो॒कँ शिँ॑षति ।
नास्य॑ प्रा॒णान्त्सङ्क॑र्षति ।
न प्र॒मायु॑को भवति ।

भट्टभास्कर-टीका

अपगृह्येति । अपादाय लोकं शिंषति स्थानम् अवशेषयति ।

‘यजमानो वै पुरोडाशः’ इति तस्य स्थितत्वात् ततः प्राणसंकर्षणाभावात् प्रमायुको न भवति ।

सायण-टीका

पुरोडाशमपगृह्य संचरत्यध्वर्युः। यजमानयैव तल्लोकँ शिँषति। नास्य प्राणान्त्संकर्षति। न प्रमायुको भवति” (ब्रा. का. ३ प्र. ३ अ. ८) इति। धिष्णियनामकाः केचन देवाः सोमरक्षकाः।

आदानम्

विश्वास-प्रस्तुतिः

पु॒रस्ता॑त् प्र॒त्यङ्ङ् आसी॑न॒
इडा॑या॒ इडा॒म् आद॑धाति

हस्त्याँ॒ होत्रे॑ ।

मूलम्

पु॒रस्ता॑त्प्र॒त्यङ्ङासी॑नः ।
इडा॑या॒ इडा॒माद॑धाति ।

हस्त्याँ॒ होत्रे॑ ।

सायण-टीका

अवान्तरेडां विधत्ते — “पुरस्तात्प्रत्यङ्ङासीनः। इडाया इडामादधाति। हस्त्याँ होत्रे।

विश्वास-प्रस्तुतिः

प॒शवो॒ वा इडा॑ ।
प॒शव॒ᳶ पुरु॑षः ।
प॒शुष्व् ए॒व प॒शून् प्रति॑ष्ठापयति

मूलम्

प॒शवो॒ वा इडा॑ ।
प॒शव॒ᳶ पुरु॑षः ।
प॒शुष्वे॒व प॒शून्प्रति॑ष्ठापयति ।

सायण-टीका

पशवो वा इडा। पशवः पुरुषः। पशुष्वेव पशून्प्रतिष्ठापयति।

विश्वास-प्रस्तुतिः

इडा॑यै॒ वा ए॒षा प्रजा॑तिः ।। 50 ।। तां प्रजा॑तिय्ँ॒ यज॑मा॒नोऽनु॒ प्र जा॑यते

मूलम्

इडा॑यै॒ वा ए॒षा प्रजा॑तिः ।। 50 ।। तां प्रजा॑ति॒य्यँज॑मा॒नोऽनु॒ प्र जा॑यते ।

सायण-टीका

इडायै वा एषा प्रजातिः। तां प्रजातिं यजमानोऽनु प्रजायते” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

अञ्जनादि

विश्वास-प्रस्तुतिः

द्विर् अ॒ङ्गुला॑व् अनक्ति॒ पर्व॑णोः ।
द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

मूलम्

द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः ।
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

अङ्गुलाविति । होतुः ।

सायण-टीका

होतुः प्रदेशिन्या द्वयोः पर्वणोराज्येनाञ्जनं विधत्ते — “द्विरङ्गुलावनक्ति पर्वणोः। द्विपाद्यजमानः प्रतिष्ठित्यै” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। द्वाभ्यां पादाभ्यां स्थैर्येणावस्थानं प्रतिष्ठितिः।

विश्वास-प्रस्तुतिः

स॒कृद् उप॑ स्तृणाति ।
द्विर् आ द॑धाति ।
स॒कृद् अ॒भि घा॑रयति ।

च॒तुस् संप॑द्यते ।
च॒त्वारि॒ वै प॒शोᳶ प्र॑ति॒ष्ठाना॑नि ।
यावा॑न् ए॒व प॒शुस् तम् उप॑ह्वयते ।। 51 ।।

मूलम्

स॒कृदुप॑ स्तृणाति ।
द्विरा द॑धाति ।
स॒कृद॒भि घा॑रयति ।
च॒तुस्संप॑द्यते ।
च॒त्वारि॒ वै प॒शोᳶ प्र॑ति॒ष्ठाना॑नि ।
यावा॑ने॒व प॒शुः ।
तमुप॑ह्वयते ।। 51 ।।

भट्टभास्कर-टीका

चतुस्संपद्यत इति अवत्तम् ।

प्रतिष्ठानानि चरणानि ।

‘दैव्या अध्वर्यवे उपहूताः’ इति होतुरभिज्ञाय ‘उपहूतः पशुमानसानीति’ इत्यध्वर्युर्जपति । अतोऽध्वर्युयजमानौ द्वावपीति होतोपह्वयते ।

सायण-टीका

अवान्तरेडायां प्रकारविशेषं विधत्ते — “सकृदुपस्तृणाति। द्विरादधाति। सकृदभिघारयति। चतुः संपद्यते। चत्वारि वै पशोः प्रतिष्ठानानि। यावानेव पशुः तमुपह्वयते” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। प्रतिष्ठानं पादः। अनेन चतुरवत्तेन तं चतुष्पादं पशुमुपह्वयते।

उपह्वानम्

विश्वास-प्रस्तुतिः

मुख॑म् इव॒ प्रत्युप॑ह्वयेत । स॒म्मु॒खान् ए॒व प॒शून् उप॑ह्वयते ।

मूलम्

मुख॑मिव॒ प्रत्युप॑ह्वयेत । स॒म्मु॒खाने॒व प॒शूनुप॑ह्वयते ।

सायण-टीका

तदिदं विधत्ते – “मुखमिव प्रत्युपह्वयेत। संमुखानेव पशूनुपह्वयते” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। होतुर्मुखमेवाभिवीक्ष्य पठेदित्यर्यः।

अन्वारम्भः

विश्वास-प्रस्तुतिः

प॒शवो॒ वा इडा॑ । तस्मा॒त् साऽन्वा॒रभ्या॑ । अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च ।

मूलम्

प॒शवो॒ वा इडा॑ । तस्मा॒त्साऽन्वा॒रभ्या॑ । अ॒ध्व॒र्युणा॑ च॒ यज॑मानेन च ।

सायण-टीका

अध्वर्युयजमानयोर् होतृहस्तगतेडा-स्पर्शनं विधत्ते — “पशवो वा इडा। तस्मात्साऽन्वारभ्या। अध्वर्युणा च यजमानेन च” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

उपह्वानम्

विश्वास-प्रस्तुतिः

“उप॑हूतᳶ पशु॒मान् अ॑सा॒नी"त्या॑ह ।
उप॒ ह्य् ए॑नौ॒ +++(अध्वर्यु-यजमानौ)+++ ह्वय॑ते॒ होता॒ -
इडा॑यै दे॒वता॑नाम् उपह॒वे ।

मूलम्

“उप॑हूतᳶ पशु॒मान॑सा॒नी"त्या॑ह ।
उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता॑ ।
इडा॑यै दे॒वता॑नामुपह॒वे ।

सायण-टीका

पाठ्यं मन्त्रान्तरमुत्पादयति — “उपहूतः पशुमानसानीत्याह। उप ह्येनौ ह्वयते होता। इडायै दवेतानामुपहवे” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

उप॑हूतᳶ पशु॒मान् भ॑वति । य ए॒वव्ँ वेद॑ ॥52॥

मूलम्

उप॑हूतᳶ पशु॒मान्भ॑वति । य ए॒वव्ँ वेद॑ ॥52॥

सायण-टीका

तद्वेदनं प्रशंसति — “उपहूतः पशुमान्भवति। य एवं वेद” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

याव्ँ वै हस्त्या॒म् इडा॑म् आ॒दधा॑ति
वा॒चस् सा भा॑ग॒-धेय॑म् ।

याम् उ॑प॒ह्वय॑ते -
प्रा॒णानाँ॒ सा।

वाच॑ञ् चै॒व प्रा॒णाँश् चाव॑रुन्धे ।

मूलम्

याव्ँ वै हस्त्या॒मिडा॑मा॒दधा॑ति । वा॒चस्सा भा॑ग॒धेय॑म् । यामु॑प॒ह्वय॑ते । प्रा॒णानाँ॒ सा । वाच॑ञ्चै॒व प्रा॒णाँश्चाव॑रुन्धे ।

भट्टभास्कर-टीका

तत्तस्मादुपहूत इत्यात्मानमध्वर्युराह ॥

सायण-टीका

अवान्तरेडाया अवदानं तदुपाह्वानं च वाक्प्राणदेवतयोः प्रियमिति स्तौति — “यां वै हस्त्यामिडामादधाति। वाचः सा भागधेयम्। यामुवह्वयते। प्राणानाँ सा। वाचं चैव प्राणाँश्चावरुन्धे” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

बर्हिषि सादनम्, चतुर्धा विभागः

विश्वास-प्रस्तुतिः

अथ॒ वा ए॒तर्ह्य् उप॑हूताया॒म् इडा॑याम्
पुरो॒डाश॑स्यै॒व ब॑र्हि॒-षदो॑ मीमाँ॒सा ।

मूलम्

अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् ।
पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमाँ॒सा ।

भट्टभास्कर-टीका

2इडार्थं देवतानाम् उपहवे क्रियमाणे - मीमांसेति ॥
पुरोडाशस्य बर्हिषत्त्वं किमर्थं क्रियत इति मीमांसा क्रियते यज्ञविद्भिः ।

सायण-टीका

पुरोडाशस्य बर्हिषि स्थापनं विधातुं प्रस्तौति — “अथ वा एतर्ह्युपहूतायामिडायाम्। पुरोडाशस्यैव बर्हिषदो मीमाँसा” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

मूलम्

यज॑मानन्दे॒वा अ॑ब्रुवन् । ह॒विर्नो॒ निर्व॒पेति॑ ।

विश्वास-प्रस्तुतिः

यज॑मानन् दे॒वा अ॑ब्रुवन्न् -
“ह॒विर् नो॒ निर्व॒पे"ति॑ ।
“नाहम् अ॑भा॒गो निर्व॑प्स्या॒मी"त्य् अ॑ब्रवीत् ॥53॥ “न मया॑ ऽभा॒गया +++(यूयम्)+++ ऽनु॑वक्ष्य॒थे"ति॒ वाग् अ॑ब्रवीत् । “नाहम् अ॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मी"ति॑ पुरोनुवा॒क्या॑ ।
“नाहम् अ॑भा॒गा या॒ज्या॑ भविष्या॒मी"ति॑ या॒ज्या॑ ।
“न मया॑ऽभा॒गेन॒ +++(यूयम्)+++ वष॑ट्करिष्य॒थे"ति॑ वषट्का॒रः ।

मूलम्

यज॑मानन्दे॒वा अ॑ब्रुवन्न् -“ह॒विर्नो॒ निर्व॒पे"ति॑ । “नाहम॑भा॒गो निर्व॑प्स्या॒मी"त्य॑ब्रवीत् ॥53॥
“न मया॑ऽभा॒गयाऽनु॑वक्ष्य॒थे"ति॒ वाग॑ब्रवीत् ।
“नाहम॑भा॒गा पु॑रोनुवा॒क्या॑ भविष्या॒मी"ति॑ पुरोनुवा॒क्या॑ ।
“नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मी"ति॑ या॒ज्या॑ ।
“न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थे"ति॑ वषट्का॒रः ।

भट्टभास्कर-टीका

तत्र निर्णयार्थमर्थवादमाह - यजमानमित्यादि । अभागश्चेदहं न हविः निर्वप्स्यामीति यजमानोऽब्रवीत् ।

अभागया मया अनुवचनं न करिष्यथेति वागवोचत् । एवं पुरोऽनुवाक्यादिषु द्रष्टव्यम् ।

सायण-टीका

इडावदानानन्तरं होत्रा तस्यामिडायामुपहूतायां सत्यामवशिष्टस्य पुरोडाशस्यैतस्मिन्नेव काले बर्हिस्थापनसंबन्धिनी काचिन्मीमांसा भवति। किं पुरोडाशो बर्हिषि स्थापनीयो न वेति। तत्र प्रयोजनाभावादस्थापनमिति प्राप्ते प्रयोजनं देवतानां सभागत्वमिति मत्वा विधत्ते — “यजमानं देवा अब्रुवन्। हविर्नो निर्वपेति। नाहमभागो निर्वप्स्यामीत्यब्रवीत्। न मयाऽभागयाऽनुवक्ष्यथेति वागब्रवीत्। नाहमभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या। नाहमभागा याज्या भविष्यामीति याज्या। न मयाऽभागेन वषट्करिष्यथेति वषट्कारः।

विश्वास-प्रस्तुतिः

यद् य॑जमान-भा॒गन् नि॒धाय॑
पुरो॒डाश॑म् बर्हि॒-षद॑ङ् क॒रोति॒ तान् ए॒व तद्-भा॒गिन॑ᳵ करोति ।

मूलम्

यद्य॑जमानभा॒गन्नि॒धाय॑ पुरो॒डाश॑म्बर्हि॒षद॑ङ्क॒रोति॑ । ताने॒व तद्भा॒गिन॑ᳵ करोति ।

भट्टभास्कर-टीका

यदित्यादि । गतम् ।

सायण-टीका

यद्यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति। तानेव तद्भागिनः करोति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

च॒तु॒र्धा क॑रोति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्व् ए॒॑व प्रति॑तिष्ठति ।

मूलम्

च॒तु॒र्धा क॑रोति ।
चत॑स्रो॒ दिशः॑ ।
दि॒क्ष्वे॑व प्रति॑तिष्ठति ।

सायण-टीका

स्थापितस्य विभागं विधत्ते – “चतुर्धा करोति चतस्रो दिशः। दिक्ष्वेव प्रतितिष्ठति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

ब॒र्हि॒-षद॑ङ् करोति ॥54॥
यज॑मानो॒ वै पु॑रो॒डाशः॑ ।
प्र॒जा ब॒र्हिः ।
यज॑मानम् ए॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।
+++(प्राणिषु)+++ तस्मा॑द् अ॒स्थ्ना ऽन्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति +++(←चादिलोपे विभाषा)+++
माँ॒सेना॒न्याः ।

मूलम्

ब॒र्हि॒षद॑ङ्करोति ॥54॥
यज॑मानो॒ वै पु॑रो॒डाशः॑ ।
प्र॒जा ब॒र्हिः ।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।
तस्मा॑द॒स्थ्नाऽन्याᳶ प्र॒जाᳶ प्र॑ति॒तिष्ठ॑न्ति ।
माँ॒सेना॒न्याः ।

भट्टभास्कर-टीका

तस्मादिति । खर-मृदु-संयोगात् काश्चित् प्रजाः गवादयः अस्थ्ना प्रतितिष्ठन्ति, काश्चिन् मनुष्यादयः मांसेन ।

सायण-टीका

पुनः पूर्वविधिमनूद्य प्रशंसति – “बर्हिषदं करोति। यजमानो वै पुरोडाशः। प्रजा बर्हिः। यजमानमेव प्रजासु प्रतिष्ठापयति। तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति। माँसेनान्याः” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

अथो॒ खल्व् आ॑हु॒र् - “दक्षि॑णा॒ वा ए॒ता ह॑विर्-य॒ज्ञस्या॑न्तर्वे॒द्य् अव॑रुध्यन्ते॒
यत् पु॑रो॒डाश॑म् बर्हि॒-षद॑ङ् क॒रोती"ति॑ ।

मूलम्

अथो॒ खल्वा॑हुः । दक्षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्या॑न्तर्वे॒द्यव॑रुध्यन्ते । यत्पु॑रो॒डाश॑म्बर्हि॒षद॑ङ्क॒रोतीति॑ ।

भट्टभास्कर-टीका

प्रकारान्तरेण तमेव विधिं प्रशंसति — “अथो खल्वाहुः। दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्यवरुध्यन्ते। यत्पुरोडाशं बर्हिषदं करोति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।
पुरोडाशहविष्को हविर्यज्ञः।
तस्य बर्हिषि पुरोडाशस्थापनं यत्,
एतास् त्व् ऋत्विजां वेदिमध्ये दक्षिणा एवावरुद्धाः।

सायण-टीका

प्रकारान्तरेण तम् एव विधिं प्रशंसति — “अथो खल्वाहुः। दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्यवरुध्यन्ते। यत्पुरोडाशं बर्हिषदं करोति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।
पुरोडाश-हविष्को हविर्यज्ञः।

विश्वास-प्रस्तुतिः

च॒तु॒र्धा क॑रोति ।
च॒त्वारो॒ ह्य् ए॒॑ते ह॑विर्-य॒ज्ञस्य॒ र्त्विजः॑ ॥55॥ -
ब्र॒ह्मा होता॑ ऽध्व॒र्युर् अ॒ग्नीत् ।

मूलम्

चतु॒र्धा क॑रोति ।
च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑ ॥55॥
ब्र॒ह्मा होता॑ऽध्व॒र्युर॒ग्नीत् ।

सायण-टीका

विध्यन्तरमनूद्य प्रशंसति – “चतुर्धा करोति। चत्वारो ह्येते हविर्यज्ञस्यार्त्विजः। ब्रह्मा होताऽध्वर्युरग्नीत्” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

तम् अ॒भिमृ॑शेद् -

“इ॒दम् ब्र॒ह्मण॑
इ॒दँ होतु॑र्
इ॒दम् अ॑ध्व॒र्योर्
इ॒दम् अ॒ग्नीध॒” इति॑ ।

मूलम्

तम॒भिमृ॑शेत् । इ॒दम्ब्र॒ह्मणः॑ ।
इ॒दँ होतुः॑ । इ॒दम॑ध्व॒र्योः । इ॒दम॒ग्नीध॒ इति॑ ।

भट्टभास्कर-टीका

अथो खल्वित्यादि । गतम् ।

सायण-टीका

तत्तद्भागस्य निर्देशं विधत्ते — “तमभिमृशेत्। इदं ब्रह्मणः। इदँ होतुः। इदमध्वर्योः। इदमग्नीध इति।

विश्वास-प्रस्तुतिः

यथै॒वादस् सौ॒म्ये॑ऽध्व॒रय्
आ॒देश॑म् ऋ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते॑
ता॒दृग् ए॒व तत् ।

मूलम्

यथै॒वादस्सौ॒म्ये॑ऽध्व॒रे । आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते॑ । ता॒दृगे॒व तत् ।

सायण-टीका

यथैवादः सौम्येऽध्वरे। आदेशमृत्विग्भ्यो दक्षिणा नीयन्ते। तादृगेव तत्” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। यथा सोमयागे माध्यंदिनसवने दक्षिणार्थानि द्रव्याणि वेद्यां कृष्णाजिने प्रसार्येदमस्येदमस्येत्यादिश्य दक्षिणा नीयन्ते तद्वदिदं निर्देशनं द्रष्टव्यम्।

अग्नीधे

विश्वास-प्रस्तुतिः

अ॒ग्नीधे॑ प्रथ॒मायाद॑धाति ॥56॥
अ॒ग्निमु॑खा॒ ह्य् ऋद्धिः॑ ।

अ॒ग्निमु॑खाम् ए॒वर्द्धिय्ँ॒ यज॑मान ऋध्नोति ।

मूलम्

यथै॒वादस्सौ॒म्ये॑ऽध्व॒र आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते॑ ता॒दृगे॒व तत् ।
अ॒ग्नीधे॑ प्रथ॒मायाद॑धाति ॥56॥
अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ।

अ॒ग्निमु॑खामे॒वर्द्धिय्ँ॒यज॑मान ऋध्नोति ।

भट्टभास्कर-टीका

यथैवाद इत्यादि । सौम्ये अध्वरे ज्योतिष्टोमे ऋत्विग्भ्यो यथा दक्षिणाः आदेशं आदिश्य इदमस्मा इति नीयन्ते तत्तुल्यमेतत् चतुर्धाकृत्वाऽभिमर्शनम् । दिशेराभीक्ष्ण्ये णमुल् ॥

सायण-टीका

निर्दिष्टानां भागानां यौगपद्यनिवारणाय क्रमं विधत्ते — “अग्नीधे प्रथमायाऽऽदधाति। अग्निमुखा ह्यृद्धिः। अग्निमुखामेवर्द्धि यजमान ऋघ्नोति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। अग्निः कृत्स्नयागहेतुत्वात्समृद्धिहेतुः। तमग्निमिन्ध इत्यग्नीत्। ततोऽस्य प्राथम्यं युक्तम्।

विश्वास-प्रस्तुतिः

स॒कृद् उ॑प॒स्तीर्य॒ द्विर् आ॒दध॑त् ।
उ॒प॒स्तीर्य॒ द्विर् अ॒भिघा॑रयति ।
षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ।
ऋ॒तून् ए॒व प्री॑णाति ।

मूलम्

स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् ।
उ॒प॒स्तीर्य॒ द्विर॒भिघा॑रयति ।
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।

सायण-टीका

आग्नीध्रस्य हस्ते भागाधानप्रकारं विधत्ते — “सकृदुपस्तीर्य द्विरादधत्। उपस्तीर्य द्विरभिघारयति। षट् संपद्यन्ते। षड् वा ऋतवः। ऋतूनेव प्रीणाति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।
अस्य विधेस् तात्पर्यं बौधायन एकप्रकारेणाऽऽह —

“उपहूतायाम् इडायाम् अग्नीध आदधाति
षड्-अवत्तम् उपस्तृणात्य् आदधात्य् अभिघारयति”

इति। आपस्तम्बस् त्व् अन्यथा ब्रूते —

“द्विरुपस्तृणाति। दिरादधाति। द्विरभिघारयति”

इति।

ब्रह्मणे

विश्वास-प्रस्तुतिः

वे॒देन॑ ब्र॒ह्मणे॑ ब्रह्मभा॒गम् परि॑हरति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यो ब्र॒ह्मा ॥57॥ सवि॒ता - य॒ज्ञस्य॒ प्रसू॑त्यै ।

मूलम्

वे॒देन॑ ब्र॒ह्मणे॑ ब्रह्म-भा॒गम् परि॑हरति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यो ब्र॒ह्मा ॥57॥
स॒वि॒ता य॒ज्ञस्य॒ प्रसू॑त्यै ।

भट्टभास्कर-टीका

3सकृदिति ॥ ब्रह्मा नाम यज्ञस्य सविता अनुज्ञाता, तस्मात्तस्य तथा चर्या प्रसूत्यै भवति ।

सायण-टीका

विधत्ते “वेदन ब्रह्मणे ब्रह्मभागं परिहरति। प्राजापत्यो वै वेदः प्राजापत्यो ब्रह्मा। सविता यज्ञस्य प्रसूत्यै” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। परिहारः प्रदानम्।

होत्रे

विश्वास-प्रस्तुतिः

अथ॒ काम॑म् अ॒न्येन॑ ।

मूलम्

अथ॒ काम॑म॒न्येन॑ ।

भट्टभास्कर-टीका

अथ अन्ये कामं यथेष्टं अन्येन पृथक्पात्रेण भागं परिहरन्ति ।

सायण-टीका

वेदव्यतिरिक्तसाधनेन येन केनापि प्रक्रान्तपात्रेण भागान्तरं देयमित्याह – “अथ काममन्येन” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

विश्वास-प्रस्तुतिः

ततो॒ होत्रे॑ ।
मध्यव्ँ॒ वा ए॒तद् य॒ज्ञस्य॒ यद्+धोता॑ ।
म॒ध्य॒त ए॒व य॒ज्ञम् प्री॑णाति ।

मूलम्

ततो॒ होत्रे॑ ।
मध्यव्ँ॒वा ए॒तद्य॒ज्ञस्य॑ ।
यद्धोता॑ । म॒ध्य॒त ए॒व य॒ज्ञं प्री॑णाति ।

सायण-टीका

होतुर्ब्रह्मानन्तर्यं विधत्ते — ततो होत्रे। मध्यं वा एतद्यज्ञस्य। यद्धोता। मध्यत एव यज्ञं प्रीणाति” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। सामिधेनीरारभ्योपरिष्टादेव होतुर्व्यापाराद्यज्ञमध्यत्वम्।

अध्वर्यवे

विश्वास-प्रस्तुतिः

अथा॑ध्व॒र्यवे॑ । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॒ यद् अ॑ध्व॒र्युः ।

मूलम्

अथा॑ध्व॒र्यवे॑ । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ । यद॑ध्व॒र्युः ।

सायण-टीका

अध्वर्योर्होत्रानन्तर्यं विधत्ते – “अथाध्वर्यवे। प्रतिष्ठा वा एषा यज्ञस्य। यदध्वर्युः” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। प्रतिष्ठा समाप्तिः। समिष्टयजुर्होमपर्यन्तं यज्ञमध्वर्युः समापयति।

विश्वास-प्रस्तुतिः

तस्मा॑द् +धविर्-य॒ज्ञस्यै॒ताम् ए॒वावृत॒म् +++(→मीमांसाम्)+++ अन्व्
अ॒न्या दक्षि॑णा नीयन्ते - य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।

मूलम्

तस्मा॑द्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ॥ 58॥

अ॒न्या दक्षि॑णा नीयन्ते । य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

आवृतमिति । यथोक्तमीमांसा-क्रियाम् अनुष्ठायैव
अन्या दक्षिणा नीयन्ते अन्वाहार्यादयः ।

सायण-टीका

आग्नीध्रमारभ्याध्वर्युपर्यन्तं क्रममन्वाहार्यादिदक्षिणायामतिदिशति — “तस्माद्धविर्यज्ञस्यैतामेवाऽऽवृतमनु। अन्या दक्षिणा नीयन्ते। यज्ञस्य प्रतिष्ठित्यै” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति। आवृत्प्रकारः।

सम्मार्गः

विश्वास-प्रस्तुतिः

“अ॒ग्निम् +++(परिधींश् च)+++ अ॑ग्नीत् स॒कृथ्-स॑कृ॒त् सम्मृ॒ड्ढी"त्य् आ॑ह । +++(तेन)+++ परा॑ङ् इव॒ ह्य् ए॒॑तर्हि॑+++(=सद्यः)+++ य॒ज्ञः ।

मूलम्

“अ॒ग्निम॑ग्नीत्स॒कृत्स॑कृ॒त्सम्मृ॒ड्ढी"त्या॑ह । परा॑ङिव॒ ह्ये॑तर्हि॑ य॒ज्ञः ।

भट्टभास्कर-टीका

पराङिवेति । अस्मिन्काले समाप्तभूयिष्ठत्वात् पराङ्मुख इव यज्ञः, तस्मात् अग्निं परिधींश्च सकृत्संमृड्ढीति संप्रेष्यति ॥

सायण-टीका

आग्नीध्रं प्रति प्रैषमुत्पादयति – “अग्निमग्नीत्सकृत्सकृत्संमृढीत्याह। पराङिव ह्येतर्हि यज्ञः” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

सूक्तवाकाय संप्रैषः

विश्वास-प्रस्तुतिः

“इ॒षि॒ता दैव्या॒ होता॑र॒” इत्य् आ॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
“भ॒द्र॒-वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्
सूक्त-वा॒काय॑ सू॒क्ता ब्रू॒ही"त्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“इ॒षि॒ता दैव्या॒ होता॑र॒” इत्या॑ह ।
इ॒षि॒तँ हि कर्म॑ क्रि॒यते॑ ।
“भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षस्सूक्तवा॒काय॑ सू॒क्ता ब्रू॒ही"त्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।

भट्टभास्कर-टीका

4इषिता दैव्या इति सूक्तवाकाय संप्रैषः ॥

सायण-टीका

तमिमं मन्त्रमुत्पाद्य तत्रेषितपदस्य भद्रवाच्यायेति पदस्य च तात्पर्यं व्याचष्टे – “इषिता दैव्या होतार इत्याह। इषितँ हि कर्म क्रियते। भद्रवाच्याय प्रेषितो मानुषः। सूक्तवाकाय सूक्ता ब्रूहीत्याह। आशिषमेवैतामाशास्ते” (ब्रा. का. ३ प्र. ३ अ. ८ ) इति।

शंयुवाकाय

विश्वास-प्रस्तुतिः

“स्व॒गा दैव्या॒ होतृ॑भ्य॒” इत्य् आ॑ह ।
य॒ज्ञम् ए॒व तत् स्व॒गा क॑रोति ।

मूलम्

“स्व॒गा दैव्या॒ होतृ॑भ्य॒” इत्या॑ह ।
य॒ज्ञमे॒व तत्स्व॒गा क॑रोति ।

“स्व॒स्तिर्मानु॑षेभ्य॒” इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।

“शय्ँ॒योर्ब्रू॒ही"त्या॑ह ।
शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति ॥59॥

भट्टभास्कर-टीका

स्वगा दैव्या इति शंयुवाकाय । स्वगाकरणं भागानां यथास्वकरणं आत्मगामीकरणम् ॥

इत्यष्टमोऽनुवाकः ॥

सायण-टीका

अस्मिन्मन्त्रे स्वगाशब्दस्वस्तिशब्दशंयुशब्दानामभिप्रायं क्रमेण दर्शयति – “स्वगा दैव्या होतृभ्य इत्याह। यज्ञमेव तत्स्वगा करोति।

विश्वास-प्रस्तुतिः

“स्व॒स्तिर् मानु॑षेभ्य॒” इत्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“स्व॒स्तिर्मानु॑षेभ्य॒” इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।

सायण-टीका

स्वस्तिर्मानुषेभ्य इत्याह। आशिषमेवैतामाशास्ते। शंयोर्ब्रूहीत्याह।

विश्वास-प्रस्तुतिः

“शय्ँ॒योर् ब्रू॒ही"त्या॑ह ।
शय्ँ॒युम् ए॒व बा॑र्हस्प॒त्यम् भा॑ग॒-धेये॑न॒ सम॑र्धयति ॥59॥

मूलम्

“शय्ँ॒योर्ब्रू॒ही"त्या॑ह ।
शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति ॥59॥

सायण-टीका

शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयति” (ब्रा. का. ३ प्र. ३ अ. ८) इति। शंयुर्बृहस्पतेः पुत्रः।