१७ आघारः

०७ आघारः ...{Loading}...

सम्प्रैषः

विश्वास-प्रस्तुतिः

अ॒ग्निना॒ वै होत्रा॑
दे॒वा असु॑रान् अ॒भ्य॑भवन् ।
“अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒ही"त्य् आ॑ह॒
भ्रातृ॑व्याभिभूत्यै ।

मूलम्

अ॒ग्निना॒ वै होत्रा॑ । दे॒वा असु॑रान॒भ्य॑भवन् ।
अ॒ग्नये॑ समि॒ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ।

भट्टभास्कर-टीका

1अग्निना वा इत्यादि ॥ अग्नये समिध्यमानायेति सामिधेनीसंप्रैषः । भ्रातृव्याभिभूत्या इत्यादि । दासीभारादिर्द्रष्टव्यः ।

सायण-टीका

अस्य मन्त्रस्य द्वितीयाघारशेषत्वादमन्त्रकस्य प्रथमाघारस्य पूर्वमनुष्ठेयत्वात्तं विधित्सुस्ततः पूर्वं होतारं प्रति प्रैषमन्त्रमुत्पादयति — “अग्निना वै होत्रा। देवा असुरानभ्यभवन्। अग्नये समिध्यमानायानुब्रूहीत्याह भ्रातृव्याभिभूत्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

एक॑-विँशतिम्+++(ः)+++ इध्म-दा॒रूणि॑ भवन्ति ।
+++(‘दशहस्त्या अङ्गुलयो दशपद्या अत्मैकविंशः’→)+++ए॒क॒विँ॒शो वै पुरु॑षः ।
पुरु॑ष॒स्याप्त्यै॑ ।

मूलम्

एक॑विँशतिमिध्मदा॒रूणि॑ भवन्ति ।

ए॒क॒विँ॒शो वै पुरु॑षः । पुरु॑ष॒स्याप्त्यै॑ ।

भट्टभास्कर-टीका

एकविंशतिमिति । विभक्तिव्यत्ययः, ‘दशहस्त्या अङ्गुलयो दशपद्या अत्मैकविंशः’ इत्युक्तम् ।

सायण-टीका

संख्याविशिष्टमिध्मं विधत्ते – “एकविँशतिमिध्मदारूणि भवन्ति। एकविँशो वै पुरुषः। पुरुषस्याऽऽप्त्यै “ (ब्रा. का. ३ प्र. ३ अ. ७) इति।

इध्माधानम्

विश्वास-प्रस्तुतिः

पञ्च॑-दशेध्म-दा॒रूण्य् अ॒भ्या द॑धाति । पञ्च॑-दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस् सव्ँ॑वत्स॒र आ॑प्यते ।

मूलम्

पञ्च॑दशेध्मदा॒रूण्य॒भ्या द॑धाति । पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒शस्सव्ँ॑वत्स॒र आ॑प्यते ।

भट्टभास्कर-टीका

अर्धमासशः अर्धमासेनार्धमासेन । ‘संख्यैकवचनाच्च’ इति शस् ।

सायण-टीका

होत्रा प्र वो वाजा अभिद्यव इत्यादिष्वृक्षु सामिधेनीसंज्ञकास्वनूच्यमानासु काष्टानामग्नौ प्रक्षेपं विधत्ते — “पञ्चदशेध्मदारूण्यभ्यादधाति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासशः संवत्सर आप्यते” (ब्रा. का. ३ प्र. ३ अ. ७) इति। कियत्संख्यैरर्धमासैश्चतुर्विंशतिसंख्याकैरित्यर्थः।

विश्वास-प्रस्तुतिः

त्रीन् प॑रि॒धीन् परि॑दधाति ॥38॥
ऊ॒र्ध्वे स॒मिधा॒व् आद॑धाति
अ॒नू॒या॒जेभ्य॑स् स॒मिध॒म् अति॑शिनष्टि

मूलम्

त्रीन्प॑रि॒धीन्परि॑दधाति ॥38॥
ऊ॒र्ध्वे स॒मिधा॒वाद॑धाति । अ॒नू॒या॒जेभ्य॑स्स॒मिध॒मति॑शिनष्टि ।

भट्टभास्कर-टीका

ऊर्ध्वे आघारसमिधौ ।

सायण-टीका

अवशिष्टानां षण्णां काष्ठानां विनियोगमाह — “त्रीन्परिधीन्परिदधाति। ऊर्ध्वे समिधावादधाति। अनूयाजेभ्यः समिधिमतिशिनष्टि।

विश्वास-प्रस्तुतिः

षट्त् सम्प॑द्यन्ते ।
षड् वा ऋ॒तवः॑ ।
ऋ॒तून् ए॒व प्री॑णाति ।

मूलम्

अ॒नू॒या॒जेभ्य॑स्स॒मिध॒मति॑शिनष्टि । षट्त्सम्प॑द्यन्ते ।

षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।

सायण-टीका

षट् संपद्यन्ते। षड् वा ऋतवः। ऋतूनेव प्रीणाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

वेद-सन्दीपनम्

विश्वास-प्रस्तुतिः

वे॒देनोप॑वाजयति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यᳶ प्रा॒णः ।
यज॑मान आहव॒नीयः॑ ।
यज॑मान ए॒व प्रा॒णन् द॑धाति ॥39॥

मूलम्

वे॒देनोप॑वाजयति ।
प्रा॒जा॒प॒त्यो वै वे॒दः ।
प्रा॒जा॒प॒त्यᳶ प्रा॒णः ।
यज॑मान आहव॒नीयः॑ ।
यज॑मान ए॒व प्रा॒णन्द॑धाति ॥39॥

भट्टभास्कर-टीका

उपवाजयति समीपतस् संदीपयति ।

सायण-टीका

अग्निप्रज्वलनाय वायूत्पादनं विधत्ते - “वेदेनोपवाजयति। प्राजापत्यो वै वेदः। प्राजापत्यः प्राणः। यजमान आहवनीयः। यजमान एव प्राणं दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति। वेदस्य प्रजापतिश्मश्रुत्वात्प्राजापत्यत्वम्। प्राणवायोः प्रजापतिसृष्टतया प्राजापत्यत्वम्। आहवनीयस्य प्रस्तरन्यायेन यजमानत्वम्।

विश्वास-प्रस्तुतिः

त्रिर् उप॑वाजयति
त्रयो॒ वै प्रा॒णाः ।
प्रा॒णान् ए॒वास्मि॑न् दधाति

मूलम्

त्रिरुप॑वाजयति । त्रयो॒ वै प्रा॒णाः ।
प्रा॒णाने॒वास्मि॑न्दधाति ।

सायण-टीका

आवृत्तिं विधत्ते — “त्रिरुपवाजयति। त्रयो वै प्राणाः। प्राणानेवास्मिन्दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति। प्राणोऽपानो व्यानश्चेति प्राणानां त्रित्वम्।

आघारः

विश्वास-प्रस्तुतिः

वे॒देनो॑प॒यत्य॑+++(=अधस्ताद् भूत्वा)+++
स्रु॒वेण॑ प्राजाप॒त्यम् आ॑घा॒रम् आघा॑रयति ।
य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञम् ए॒व प्र॒जाप॑तिम् मुख॒त आर॑भते

अथो॑ प्र॒जा-प॑ति॒स् सर्वा॑ दे॒वताः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति

मूलम्

वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमाघा॑रयति ।
य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑तिम्मुख॒त आर॑भते ।

अथो॑ प्र॒जाप॑ति॒स्सर्वा॑ दे॒वताः॑ ।
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ।

भट्टभास्कर-टीका

उपयत्येति । अधस्ताद् भूत्वा ॥

सायण-टीका

अनेकगुणविशिष्टं प्रथमाघारं विधत्ते – “वेदेनोपयत्य स्रुवेण प्रजापत्यमाघारमाघारयति। यज्ञो वै प्रजापतिः। यज्ञमेव प्रजापतिं मुखत आरभते। अथो प्रजापतिः सर्वा देवताः। सर्वा एव देवताः प्रीणाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

उपयत्य वेदस्योपरि स्रुवमवस्थाप्येत्यर्थः। आहुतीनामादित्वादयमाघारो यज्ञस्य मुखम्। तस्मिन्मुखे यज्ञस्रष्टृत्वेन यज्ञरूपं प्रजापतिमेवाऽरब्धवान्भवति।

सम्मार्गः

विश्वास-प्रस्तुतिः

“अ॒ग्निम् अ॑ग्नी॒त् त्रिस्-त्रि॒स् सम्मृ॒ड्ढी“त्या॑ह ।
त्र्य्-आ॑वृ॒द् +धि य॒ज्ञः ॥ 40॥
अथो॒ रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

“अ॒ग्निम॑ग्नी॒त्त्रिस्त्रि॒स्सम्मृ॒ड्ढी"त्या॑ह ।
त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 40॥
अथो॒ रक्ष॑सा॒मप॑हत्यै ।

सायण-टीका

आग्नीध्रं प्रति प्रैषमन्त्रमुत्पादयति- “अग्निमग्नीत्त्रिस्त्रिः संमृड्ढीत्याह। त्र्यावृद्धि यज्ञः। अथो रक्षसामपहत्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

प॒रि॒धीन्त् सम्मा॑र्ष्टि ।
पु॒नात्य् ए॒वैना॑न् ।

मूलम्

प॒रि॒धीन्त्सम्मा॑र्ष्टि ।
पु॒नात्ये॒वैना॑न् ।

सायण-टीका

तद्विधत्ते — “परिधीन्त्संमार्ष्टि। पुनात्येवैनान्” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

त्रिस्-त्रि॒स् सम्मा॑र्ष्टि
त्र्य्-आ॑वृ॒द् +धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।

मूलम्

त्रिस्त्रि॒स्सम्मा॑र्ष्टि । त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।

भट्टभास्कर-टीका

2अग्निमग्नीदिति संप्रैषः ॥ त्रिस्त्रिरिति । वीप्सया परिधीन्परिधींश्चेति गम्यते । हे अग्नीत्! आमन्त्रितानुदात्तत्वम् ।

सायण-टीका

प्रतिपरिधि त्रिरावृत्तिं विधत्ते – “त्रिस्त्रिः संमार्ष्टि। त्र्यावृद्धि यज्ञः। अथो मेध्यत्वाय।

विश्वास-प्रस्तुतिः

अथो॑ ए॒ते वै दे॑वा॒श्वाः । दे॒वा॒श्वान् ए॒व तत् सम्मा॑र्ष्टि - सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

अथो॑ ए॒ते वै दे॑वा॒श्वाः । दे॒वा॒श्वाने॒व तत्सम्मा॑र्ष्टि । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

अपि च एते देवाश्वाः परिधयः स्वर्गप्राप्तिसाधनत्वात् ।

सायण-टीका

अथो एते वै देवाश्वाः। देवाश्वानेव तत्संमार्ष्टि। सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति। देवाश्वत्वेन भाविताः स्वर्गप्राप्तये भवन्ति।

आघारे रथ-योग-कल्पना

विश्वास-प्रस्तुतिः

आसी॑नो॒ ऽन्यम् आ॑घा॒रम् आघा॑रयति ॥41॥
तिष्ठ॑न्न् अ॒न्यम् ।
यथाऽनो॑ वा॒ रथव्ँ॑ वा यु॒ञ्ज्याद्
ए॒वम् ए॒व तद् अ॑ध्व॒र्युर् य॒ज्ञय्ँ यु॑नक्ति +++(→सन्नह्यति, आघाराभ्याम्)+++-
सुव॒र्गस्य॑ लो॒कस्या॒भ्यू॑ढ्यै ।+++(5)+++

मूलम्

आसी॑नो॒ऽन्यमा॑घा॒रमाघा॑रयति ॥41॥
तिष्ठ॑न्न॒न्यम् ।
यथाऽनो॑ वा॒ रथव्ँ॑वा यु॒ञ्ज्यात् ।
ए॒वमे॒व तद॑ध्व॒र्युर्य॒ज्ञय्ँ यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू॑ढ्यै ।

भट्टभास्कर-टीका

आसीनः अन्यं प्रथमं, तिष्ठन् अन्यं द्वितीयं,
आसित्वा स्थित्वा च यथा रथं वहन-सामर्थ्याय युनक्ति युग्यैः
एवं ताभ्यां आघाराभ्यां यज्ञं युनक्ति ।
स्वर्गस्याभ्यूढ्यै स्वर्गाभिमुख्येन दहनाय ॥

सायण-टीका

द्वयोराधारयोः क्रमेण गुणभेदं विधत्ते — “आसीनोऽन्यमाघारमाघारयति। तिष्ठन्नन्यम्। यथाऽनो वा रथं वा युञ्ज्यात्। एवमेव तदध्वर्युर्यज्ञं युनक्ति। सुवर्गस्य लोकस्याभ्यूढ्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।
शकटस्य प्राथमिकं बलीवर्द-युगम् उपर्य् आसीनेन प्रेर्यते।
द्वितीयतृतीयादिकं तु भूमौ स्थितेन।
तद्वदाघाररथः स्वर्गलोकमभिलक्ष्य वहनाय भवति।

विश्वास-प्रस्तुतिः

वह॑न्त्य् एनङ् ग्रा॒म्याᳶ प॒शवो॒
य ए॒वव्ँ वेद॑

मूलम्

वह॑न्त्येनङ्ग्रा॒म्याᳶ प॒शवः॑ । य ए॒वव्ँ वेद॑ ।

सायण-टीका

तद्वदाघाररथः स्वर्गलोकमभिलक्ष्य वहनाय भवति।
एतद्रथवेदनं प्रशंसति – “वहत्येनं ग्राम्याः पशवः। य एवं वेद” (ब्रा. का. ३ प्र. ३ अ. ७) इति। बलीवर्दाश्चादयो ग्राम्याः।

भुव॑नम् असि

विश्वास-प्रस्तुतिः

“भुव॑नम् असि॒, विप्र॑थ॒स्वे"त्य् आ॑ह +++(तिष्ठन्न् आघारयन्)+++।
य॒ज्ञो वै भुव॑नम् ।
य॒ज्ञ ए॒व यज॑मानम् प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति

मूलम्

भुव॑नमसि॒ विप्र॑थ॒स्वेत्या॑ह । य॒ज्ञो वै भुव॑नम् । य॒ज्ञ ए॒व यज॑मानम्प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।

भट्टभास्कर-टीका

3भुवनमसीत्यग्रेण जुहूपभृतौ प्राञ्चमञ्जलिं करोति ॥ यज्ञो वा इति । सर्वार्थभावनार्थत्वात् ॥

सायण-टीका

तिष्ठन्नन्यमिति विहितस्य द्वितीयाघारस्य संबन्धिषु मन्त्रेषु प्रथमं मन्त्रं व्याचष्टे — ‘भुवनमसि वि प्रथस्वेत्याह। यज्ञो वै भुवनम्। यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति।

अग्ने॒ यष्ट॑र्

विश्वास-प्रस्तुतिः

“अग्ने॒ यष्ट॑र् इ॒दन् नम॒” इत्य् आ॑ह ॥42॥
अ॒ग्निर् वै दे॒वानाय्ँ॒ यष्टा॑ ।

य ए॒व दे॒वानाय्ँ॒ यष्टा॑ । तस्मा॑ ए॒व नम॑स् करोति ।

मूलम्

अग्ने॒ यष्ट॑रि॒दन्नम॒ इत्या॑ह ॥42॥
अ॒ग्निर्वै दे॒वानाय्ँ॒यष्टा॑ ।

य ए॒व दे॒वानाय्ँ॒यष्टा॑ । तस्मा॑ ए॒व नम॑स्करोति ।

सायण-टीका

अग्ने यष्टरिदं नम इत्याह। अग्निर्वै देवानां यष्टा। य एव देवानां यष्टा। तस्मा एव नमस्करोति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

पूर्वोक्तनिर्वचनेन भूतोत्पत्तिकारणत्वादग्न्यभिन्नो यज्ञो भुवनम्। यष्टा देवपूजकः। अग्निश्च हव्यवहनेन देवान्पूजयति।

जुह्वेहि

विश्वास-प्रस्तुतिः

“जुह्वेह्य्, अ॒ग्निस् त्वा॑ ह्वयति देव-य॒ज्याया॒
उप॑भृ॒द् एहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒”

इत्य् आ॑ह ।

मूलम्

“जुह्वेह्य॒ग्निस्त्वा॑ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒” इत्या॑ह ।

सायण-टीका

अनयोर्मन्त्रयोरग्निसवितृव्यवस्था युक्तेत्वाह — “जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इत्याह।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्य् उ॑प॒भृत् । ताभ्या॑म् ए॒वैने॒ प्रसू॑त॒ आद॑त्ते ।

मूलम्

आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्यु॑प॒भृत्। ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते ।

भट्टभास्कर-टीका

4जुह्वेहीति जुहूपभृतोराधानमन्त्रौ ॥ ताभ्यामिति । अग्निसवितृभ्यां प्रसूते अनुज्ञाते सती एने आदत्ते ॥

सायण-टीका

आग्नेपी वै जुहूः। सावित्र्युपभृत्। ताभ्यामेवैने प्रसूत आदत्ते” (ब्रा. का. ३ प्र. ३ अ. ७) इति। अग्निसवितारौ जुहूपभृतोः स्रुचोरभिमानिदेवते।

अग्ना॑विष्णू॒

विश्वास-प्रस्तुतिः

“अग्ना॑-विष्णू॒ मा वा॒म् अव॑क्रमिष॒"म् इत्य् आ॑ह ।
अ॒ग्निᳶ पु॒रस्ता॑त् ।
विष्णु॑र् य॒ज्ञᳶ प॒श्चात् ॥43॥

ताभ्या॑म् ए॒व प्र॑ति॒प्रोच्या॒त्याक्रा॑मति ।

मूलम्

“अग्ना॑विष्णू॒ मा वा॒मव॑क्रमिष॒"मित्या॑ह ।
अ॒ग्निᳶ पु॒रस्ता॑त् ।
विष्णु॑र्य॒ज्ञᳶ प॒श्चात् ॥43॥

ताभ्या॑मे॒व प्र॑ति॒प्रोच्या॒त्याक्रा॑मति ।

भट्टभास्कर-टीका

5अग्नाविष्णू इत्याक्रमतो जपः ॥ अग्निः आहवनीयः पुरस्तात्, यज्ञसाधनानि स्रुगादीनि पश्चात् प्रतिप्रोच्य निवेद्य ।

सायण-टीका

यथोक्तमर्थं दर्शयति – “अग्नाविष्णू मा वामव क्रमिषमित्वयाह। अग्निः पुरस्तात्। विष्णुर्यज्ञः पश्चात्। ताभ्यामेव प्रतिप्रोच्यात्याक्रामति।

विजि॑हाथा॒म्

विश्वास-प्रस्तुतिः

विजि॑हाथा॒म् मा मा॒ सन्ता॑प्त॒म्

इत्य् आ॒हाहिँ॑सायै ।

मूलम्

विजि॑हाथा॒म् मा मा॒ सन्ता॑प्त॒म् इत्य् आ॒हाहिँ॑सायै ।

सायण-टीका

वि जिहाथां मा मा संताप्तमित्याहाहिँसायै।

लो॒कम् मे॑

विश्वास-प्रस्तुतिः

“लो॒कम् मे॑ लोक-कृतौ कृणुत॒"म् इत्य् आ॑ह ।
आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ।

मूलम्

“लो॒कम्मे॑ लोककृतौ कृणुत॒"मित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा॑स्ते ।

भट्टभास्कर-टीका

आशिषमिति । स्थानविषयाम् ॥

सायण-टीका

लोकं मे लोककृतौ कृणुतमित्याह। आशिषमेवैतामाशास्ते” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विष्णो॒स् स्थान॑म्

विश्वास-प्रस्तुतिः

“विष्णो॒स् स्थान॑म् अ॒सी"त्य् आ॑ह ।
य॒ज्ञो वै विष्णुः॑ ।

ए॒तत् खलु॒ वै दे॒वाना॒म् अ-प॑राजितम् आ॒यत॑नं यद् य॒ज्ञः।
दे॒वाना॑म् ए॒वाप॑राजित आ॒यत॑ने तिष्ठति

मूलम्

“विष्णो॒स्स्थान॑म॒सी"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।

ए॒तत्खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम् ।
यद्य॒ज्ञो दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति ।

भट्टभास्कर-टीका

6विष्णोरिति स्थानकल्पनम् ॥ यद्यज्ञ इति । यत्र यज्ञस्तिष्ठति । ‘सुपां सुलुक्’ इति सप्तम्या लुक् ॥

सायण-टीका

यज्ञपुरुषप्रयुक्तमतिशयं दर्शयति – “विष्णोः स्थानमसीत्याह। यज्ञो वै विष्णुः। एतत्खलु वै देवानामपराजितमायतनम्। यद्यज्ञः। देवानामेवापराजित आयतने तिष्ठति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

इ॒त इन्द्रो॑

विश्वास-प्रस्तुतिः

“इ॒त इन्द्रो॑ अकृणोद् वी॒र्या॒॑णी"त्य् आ॑ह ॥44॥
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

मूलम्

“इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णी"त्या॑ह ॥44॥
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।

सायण-टीका

इन्द्रशब्दसूचितं दर्शयति — “इत इन्द्रो अकृणोद्वीर्याणीत्याह। इन्द्रियमेव यजमाने दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

“स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒-स्पृश॒"म् इत्य् आ॑ह॒ वृद्ध्यै॑ ।

मूलम्

“स॒मा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒"मित्या॑ह॒ वृद्ध्यै॑ ।

सायण-टीका

ऊर्ध्वशब्देन वृद्धिः सूचितेत्याह — ‘समारभ्योर्ध्वे अध्वरो दिविस्पृशमित्याह वृद्ध्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

आ॒घा॒रम् आ॑घा॒र्यमा॑ण॒म् अनु॑ समा॒रभ्य॑ +
ए॒तस्मि॑न् का॒ले दे॒वास् सु॑व॒र्गल्ँ लो॒कम् आ॑यन् ।
सा॒क्षाद् ए॒व यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानस् सुव॒र्गल्ँ लो॒कम् ए॑ति ।

मूलम्

आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑समा॒रभ्य॑ ।
ए॒तस्मि॑न्का॒ले दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
सा॒क्षादे॒व यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानस्सुव॒र्गल्ँ लो॒कमे॑ति ।

सायण-टीका

समारभ्येतिपदसूचितं दर्शयति – “आघारमाघार्यमाणमनु समारभ्य। एतस्मिन्काले देवाः सुवर्गं लोकमायन्। साक्षादेव यजमानः सुवर्गं लोकमेति। अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकमेति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

“अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒र्” इत्या॒हाना॑र्त्यै ।

मूलम्

अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना॑र्त्यै ।

सायण-टीका

अह्रुतशब्दार्थं दर्शयति — “अह्रुतो यज्ञो यज्ञपतेरित्याहानार्त्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

“इन्द्रा॑वा॒न्त् स्वाहे"त्या॑ह ।
इ॒न्द्रि॒यम् ए॒व यज॑माने दधाति ।

मूलम्

“इन्द्रा॑वा॒न्त्स्वाहे"त्या॑ह ।
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।

भट्टभास्कर-टीका

7इत इन्द्र इति द्वितीयाधारम् ॥ बृहद्भा इति स्रुच उद्ग्रहणम् ।

सायण-टीका

इन्द्रशब्दार्थमाह — इन्द्रावान्त्स्वाहेत्याह। इन्द्रियमेव यजमाने दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

बृ॒हद्भाः

विश्वास-प्रस्तुतिः

“बृ॒हद् भा” इत्या॑ह ॥45॥
सु॒व॒र्गो वै लो॒को बृ॒हद् भाः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

मूलम्

“बृ॒हद्-भा” इत्या॑ह ॥45॥
सु॒व॒र्गो वै लो॒को बृ॒हद्-भाः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।

भट्टभास्कर-टीका

अग्ने बृहद्भा इति स्तुतिः । तादृशस्य स्वर्गस्य सम्यक् प्राप्त्यै भवति ॥

सायण-टीका

अधिकभासनेन स्वर्गः स्मार्यत इत्याह — “बृहद्भा इत्याह। सुवर्गो वै लोको बृहद्भाः।
सुवर्गस्य लोकस्य समष्ट्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

जुहू-संस्पर्श-वारणम्

विश्वास-प्रस्तुतिः

य॒ज॒मा॒न॒दे॒व॒त्या॒॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒-दे॒व॒त्यो॑प॒भृत् ।
प्रा॒ण आ॑घा॒रः ।
यत् सँ॑स्प॒र्शये॒द् भ्रातृ॑व्येऽस्य प्रा॒णन् द॑ध्यात् ।

मूलम्

य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
प्रा॒ण आ॑घा॒रः ।
यत्सँ॑स्प॒र्शये॑त् । भ्रातृ॑व्येऽस्य प्रा॒णन्द॑ध्यात् ।

भट्टभास्कर-टीका

8संस्पर्शयेदिति ॥ जुहूपभृतौ ।

सायण-टीका

जुहूतभृतोः परस्परमसँस्पर्शयन्नविशिष्टं प्रतिनिवृत्याऽऽगमनं विधत्ते — “यजमानदेवत्या वै जुहूः। भ्रातृव्यदेवत्योपभृत्। प्राण आघारः। यत्सँस्पर्शयेत्। भ्रातृव्येऽस्य प्राणं दध्यात्।

विश्वास-प्रस्तुतिः

असँ॑स्पर्शयन्न् अ॒त्याक्रा॑मति ।
यज॑मान ए॒व प्रा॒णन् द॑धाति ।

मूलम्

असँ॑स्पर्शयन्न॒त्याक्रा॑मति ।
यज॑मान ए॒व प्रा॒णन्द॑धाति ।

भट्टभास्कर-टीका

अत्याक्रामति प्रत्याक्रामति ।

सायण-टीका

असँस्पर्शयन्नत्याक्रामति। यजमान एव प्राणं दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

पा॒हि मा॑ऽग्ने॒

विश्वास-प्रस्तुतिः

“पा॒हि मा॑ऽग्ने॒ दुश्च॑रिता॒द्
आ मा॒ सुच॑रिते भ॒जे"त्या॑ह ॥46॥

मूलम्

“पा॒हि मा॑ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जे"त्या॑ह ॥46॥

भट्टभास्कर-टीका

पाहीति उदङ्ङत्याक्रामति ।

सायण-टीका

मन्त्रस्य पदार्थवाक्यार्थौ दर्शयति — “पाहि माऽग्ने दुश्चरितादा मा सुचरिते भजेत्याह।

विश्वास-प्रस्तुतिः

अ॒ग्निर् वाव+++(=वैव)+++ प॒वित्र॑म् ।
वृ॒जि॒नम् अनृ॑त॒न् दुश्च॑रितम् । ऋ॒जु॒-क॒र्मँ स॒त्यँ सुच॑रितम् ।
अ॒ग्निर् ए॒वैनव्ँ॑ वृजि॒नाद् अनृ॑ता॒द् दुश्च॑रितात् पाति
ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति ।
तस्मा॑द् ए॒वम् आशा॑स्ते ।
आ॒त्मनो॑ गोपी॒थाय॑ ।

मूलम्

अ॒ग्निर्वाव प॒वित्र॑म् ।
वृ॒जि॒नमनृ॑त॒न्दुश्च॑रितम् । ऋ॒जु॒क॒र्मँ स॒त्यँ सुच॑रितम् ।
अ॒ग्निरे॒वैनव्ँ॑ वृजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति ।
ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति ।
तस्मा॑दे॒वमाशा॑स्ते ।
आ॒त्मनो॑ गोपी॒थाय॑ ।

भट्टभास्कर-टीका

अग्निर्वावेति । तस्मात्पाहीत्यग्निरुच्यते । वृजिनं कुटिलं कर्म । अनृतं असत्यं भ्रेषरूपत्वात् तत् दुश्चरितं, तद्विपरीतं सुचरितम् ।

ऋजुकर्ममिति । ‘अनसन्तान्नपुंसकात्’ इत्यच् समासान्तः ॥

सायण-टीका

अग्निर्वाव पवित्रम्। वृजिनमनृतं दुश्चरितम्। ऋजुकर्मँ सत्यँ सुचरितम्। अग्निरेवैनं वृजिनादनृताद्दुश्चरितात्पाति। ऋजुकर्मे सत्ये सुचरिते भजति। तस्मादेवमाशास्ते। आत्मनो गोपीथाय” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

कायिकं निषिद्धाचरणं वृजिनं, विहिताचरणमृजुकर्म, वाचिके सत्यानृते।

ध्रुवाञ्जनम्

विश्वास-प्रस्तुतिः

शिरो॒ वा ए॒तद् य॒ज्ञस्य॑ - यद् आ॑घा॒रः ।

आ॒त्मा ध्रु॒वा ॥47॥

आ॒घा॒रम् आ॒घार्य॑ ध्रु॒वाँ सम॑नक्ति ।
आ॒त्मन्न् ए॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑दधाति ।

मूलम्

शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यदा॑घा॒रः ।

आ॒त्मा ध्रु॒वा ॥47॥

आ॒घा॒रमा॒घार्य॑ ध्रु॒वाँ सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिर॒ᳶ प्रति॑दधाति ।

भट्टभास्कर-टीका

9शिरो वा हति ॥ प्राथम्यादविचलितत्वात् ध्रुवाया आत्मत्वम् । गतमन्यत् ॥

सायण-टीका

हे आघारशेष त्वं यज्ञस्य शिरोवदुत्तममङ्गमसि। अतस्त्वद्रूपेण ज्योतिषा ध्रौवाज्यरूपं ज्योतिः समङ्क्तां संयुज्यताम्। समञ्जनं विधत्ते — “शिरो वा एतद्यज्ञस्य। यदाघारः। आत्मा ध्रुवा। आघारमाघार्य ध्रूवाँ समनक्ति। आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

द्विस् सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ ।

मूलम्

द्विस्सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ ।

सायण-टीका

गलाधस्तनो देह आत्मा। पूर्वपक्षत्वेन द्विरावृत्तिं विधत्ते – “द्विः समनक्ति। द्वौ हि प्राणापानौ” (ब्रा. का. ३ प्र. ३ अ. ७) इति।

विश्वास-प्रस्तुतिः

तद् आ॑हुः । त्रिर् ए॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ ।
शिर॑ इवै॒तद् य॒ज्ञस्य॑ ।

अथो॒ त्रयो॒ वै प्रा॒णाः । प्रा॒णान् ए॒वास्मि॑न् दधाति ।

मूलम्

तदा॑हुः । त्रिरे॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ ।
शिर॑ इवै॒तद्य॒ज्ञस्य॑ ।

अथो॒ त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑न्दधाति ।

सायण-टीका

सिद्धान्तमाह — “तदाहुः। त्रिरेव समञ्ज्यात्। त्रिधातु हि शिर इति। शिर एवैतद्याज्ञस्य। अथो त्रयो वै प्राणाः। प्राणानेवास्मिन्दधाति” (ब्रा. का. ३ प्र. ३ अ. ७) इति। त्वगसृगस्थिरूपा विस्पष्टास्त्रयो धातवो यस्य तत्त्रिधातु।

म॒खस्य॒ शिरो॑ऽसि

विश्वास-प्रस्तुतिः

“म॒खस्य॒ शिरो॑ऽसि॒ सञ् ज्योति॑षा॒ ज्योति॑र् अङ्क्ता॒"म् इत्य् आ॑ह।
ज्योति॑र् ए॒वास्मा॑ उ॒परि॑ष्टाद् दधाति
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥48॥

मूलम्

“म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒"मित्या॑ह ।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥48॥

भट्टभास्कर-टीका

10मखस्येति जुह्वा ध्रुवासमञ्जनम् ॥ अनुख्यातिः अनुक्रमेण प्रकाशः ॥

इति तृतीये तृतीये सप्तमोऽनुवाकः ॥

सायण-टीका

मन्त्रगतद्योतिःशब्दविवक्षां दर्शयति — “मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामित्याह। ज्योतिरेवास्मा उपरिष्टाद्दधाति। सुवर्गस्य लोकस्यानुख्यात्यै” (ब्रा. का. ३ प्र. ३ अ. ७) इति। अस्य ध्रौवाज्यशेषस्योपरि स्थपितेनाऽऽघारशेषाज्येनात्युज्ज्वलसत्प्रदीपेनवै स्वर्गलोकः प्रकाशितो भवति।