०४ आज्योत्प्लवनम् ...{Loading}...
आज्य-विधानम्
विश्वास-प्रस्तुतिः
घृ॒तञ् च॒ वै मधु॑ च प्र॒जाप॑तिर् आसीत् ।
मूलम्
घृ॒तञ्च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् ।
सायण-टीका
आज्यभागाङ्गतां विधत्ते — ‘घृतं च वै मधु च प्रजापतिरासीत्।
विश्वास-प्रस्तुतिः
यतो॒ मध्व् आ॑सी॒त्
तत॑ᳶ प्र॒जा अ॑सृजत ।
मूलम्
यतो॒ मध्वा॑सीत् । तत॑ᳶ प्र॒जा अ॑सृजत ।
भट्टभास्कर-टीका
1घृतं चेत्यादि ॥ प्रजापतिः प्रजापतेः स्वरूपमासीत् । यद्वा - धृतं मधुतुल्यमासीत् । तयोर्मध्ये यतः यन्मधुलक्षणं रूपमासीत् ततस्तेन रूपेण प्रजा असृजत ।
सायण-टीका
यतो मध्वासीत्। ततः प्रजा असृजत।
विश्वास-प्रस्तुतिः
तस्मा॒न् मधु॑षि+++(=मधुनि)+++ प्र॒जन॑नम् इवास्ति ।
तस्मा॒न् मधु॑षा॒ न प्रच॑रन्ति +++(यज्ञे)+++ - या॒तया॑म॒ हि +++(पूर्वम् एव प्रयुक्तत्वात्)+++।
आज्ये॑न॒ प्रच॑रन्ति ।
मूलम्
तस्मा॒न्मधु॑षि प्र॒जन॑नमिवास्ति ।
तस्मा॒न्मधु॑षा॒ न प्रच॑रन्ति ।
या॒तया॑म॒ हि ।
आज्ये॑न॒ प्रच॑रन्ति ।
भट्टभास्कर-टीका
तस्मात् मधुषि मधुनि प्रजननं प्रजननद्रव्यमस्ति च, यस्मात् तेन प्रजा असृजत,
तस्मात् प्रजनवत्त्वात् तेन न प्रचरन्ति यज्ञप्रयोगं न कुर्वन्ति
यातयामत्वात् प्रयोगेन गतसारत्वात् ।
सायण-टीका
तस्मान्मधुषि प्रजननमिवास्ति। तस्मान्मधुषा न प्रचरन्ति। यातयामं हि। आज्येन प्रचरन्ति।
विश्वास-प्रस्तुतिः
य॒ज्ञो वा आज्य॑म् । य॒ज्ञेनै॒व य॒ज्ञम् प्रच॑र॒न्त्य् अ-या॑तयामत्वाय ।
मूलम्
य॒ज्ञो वा आज्य॑म् । य॒ज्ञेनै॒व य॒ज्ञम्प्रच॑र॒न्त्यया॑तयामत्वाय ।
सायण-टीका
यज्ञो वा आज्यम्। यज्ञेनैव यज्ञं प्रचरन्त्ययातयामत्वाय’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
अवेक्षणम्
विश्वास-प्रस्तुतिः
पत्न्य् अवे॑क्षते - मिथुन॒त्वाय॒ प्रजा॑त्यै ।
यद् वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ - मिथु॒नन् तत् ।
मूलम्
पत्न्यवे॑क्षते मिथु॒न॒त्वाय॒ प्रजा॑त्यै ।
यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ ।
मि॒थु॒नन्तत् ।
भट्टभास्कर-टीका
यज्ञो वा इति । यज्ञार्थमेवाज्यं अन्यत्रानुपयोगान् तस्मात् यज्ञार्थेनैव यज्ञं प्रचरितुं युक्तम् । अयातयामत्वाय तद्भवति ॥
सायण-टीका
विधत्ते — ‘पत्न्यवेक्षते। मिथुनत्वाय प्रजात्यै। यद्वै पत्नी यज्ञस्य करोति। मिथुनं तत्।
विश्वास-प्रस्तुतिः
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भो ऽन॑वच्छित्त्यै ।
मूलम्
अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या॑न्वार॒म्भोऽन॑वच्छित्त्यै ।
सायण-टीका
अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै’ (ब्रा. का. ३ प्र. ३ अ. ४) इति। यज्ञस्य पुरुषत्वात्तेन सह पत्न्या मिथुनत्वम्। किंच पत्न्या आज्यावेक्षणरूप एष एव यजमानमनु यज्ञारम्भः। दंपत्योर्द्वयोरप्यारम्भे सति यज्ञो न विच्छिद्यते।
गार्हपत्ये श्रयणादि
विश्वास-प्रस्तुतिः
अ॒मे॒ध्यव्ँ वा ए॒तत् क॑रोति यत् पत्न्य् अ॒वेक्ष॑ते॒।
गार्ह॑प॒त्ये ऽधि॑ श्रयति - मेध्य॒त्वाय॑।
मूलम्
अ॒मे॒ध्यव्ँवा ए॒तत्क॑रोति । यत्पत्न्य॒वेक्ष॑ते । गार्ह॑प॒त्येऽधि॑ श्रयति मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
2अमेध्यं वा इत्यादि । । मनुष्यदर्शनात् ।
सायण-टीका
अनुष्ठानविधिपूर्वकं मन्त्रं व्याचष्टे – ‘अमेध्यं वा एतत्करोति। यत्पत्न्यवेक्षते। गार्हपत्येऽधिश्रयति मेध्यत्वाय।
विश्वास-प्रस्तुतिः
आ॒ह॒व॒नीय॑म् अ॒भ्य् उद्द्र॑वति य॒ज्ञस्य॒ सन्त॑त्यै ।
मूलम्
आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति । य॒ज्ञस्य॒ सन्त॑त्यै ।
सायण-टीका
आहवनीयमभ्युद्र्एवति। यज्ञस्य संतत्यै।
विश्वास-प्रस्तुतिः
“तेजो॑ऽसि॒, तेजो ऽनु॒प्रेही"त्या॑ह ॥17॥
तेजो॒ वा अ॒ग्निः ।
तेज॒ आज्य॑म् ।
तेज॑सै॒व तेज॒स् सम॑र्धयति ।
मूलम्
“तेजो॑ऽसि॒ तेजोऽनु॒प्रेही"त्या॑ह ॥17॥
तेजो॒ वा अ॒ग्निः ।
तेज॒ आज्य॑म् ।
तेज॑सै॒व तेज॒स्सम॑र्धयति ।
भट्टभास्कर-टीका
तेजोसि इति गार्हपत्ये अधिश्रयणम् ।
तेजोनुप्रेहि इति हरणम् ।
सायण-टीका
तेजोऽसि तेजोऽनु प्रेहीत्याह। तेजो वा अग्निः। तेज आज्यम्। तेजसैव तेजः समर्धयति।
सादनम्
विश्वास-प्रस्तुतिः
“अ॒ग्निस् ते॒ तेजो॒ मा विनै॒द्” इत्य् आ॒हाहिँ॑सायै । स्फ्यस्य॒ वर्त्म॑न्त् सादयति - य॒ज्ञस्य॒ सन्त॑त्यै ।
मूलम्
“अ॒ग्निस्ते॒ तेजो॒ मा विनै॒"दित्या॒हाहिँ॑सायै । स्फ्यस्य॒ वर्त्म॑न्त्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै ।
भट्टभास्कर-टीका
आग्नेस्त इत्याहवनीयाधिश्रयणम् ।
सायण-टीका
अग्निस्ते तेजो मा वि नैदित्याहाहिँसायै’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
अवेक्षणम्
विश्वास-प्रस्तुतिः
“अ॒ग्नेर् जि॒ह्वाऽसि॑, सु॒भूर् दे॒वाना॒"म् इत्य् आ॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
“अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒"मित्या॑ह । य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
अग्नेर्जिह्वेत्याज्यावेक्षणम् ॥
सायण-टीका
व्याचष्टे — ‘अग्निर्जिह्वाऽसि सुभूर्देवानामित्याह। यथायजुरेवैतत्।
उत्पवनम् आज्यस्य
विश्वास-प्रस्तुतिः
“धाम्ने॑-धाम्ने दे॒वेभ्यो॒ यजु॑षे-यजुषे भ॒वे"त्या॑ह । आ॒शिष॑म् ए॒वैताम् आशा॑स्ते ॥18॥
मूलम्
“धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वे"त्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ॥18॥
सायण-टीका
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवेदित्याह। आशिषमेवैतामाशास्ते’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
तद् वा अत॑ᳶ प॒वित्रा॑भ्याम् ए॒वोत्पु॑नाति । यज॑मानो॒ वा आज्य॑म् ।
मूलम्
तद्वा अत॑ᳶ प॒वित्रा॑भ्याम् ए॒वोत्पु॑नाति । यज॑मानो॒ वा आज्य॑म् ।
सायण-टीका
आज्यस्योत्पवनं विधत्ते – ‘तद्वा अतः पवित्राभ्यामेवोत्पुनाति। यजमानो वा आज्यम्।
विश्वास-प्रस्तुतिः
प्रा॒णा॒पा॒नौ प॒वित्रे॑ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।
मूलम्
प्रा॒णा॒पा॒नौ प॒वित्रे॑ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ।
सायण-टीका
प्राणापानौ पवित्रे। यजमान एव प्राणापानौ दधाति’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
पु॒न॒र् आ॒हार॑म् । ए॒वम् इ॑व॒ हि प्रा॑णापा॒नौ स॒ञ्चर॑तः ।
मूलम्
पु॒न॒रा॒हार॑म् । ए॒वम् इ॑व॒ हि प्रा॑णापा॒नौ स॒ञ्चर॑तः ।
भट्टभास्कर-टीका
3अतः कारणात् अस्मिन्नेव काले पवित्राभ्यामुत्पुनाति अवेक्षणदोषशान्त्यै । पुनराहारमिति पुनराहृत्य पुनराहृत्य प्रागुत्पूय आज्यस्थे एव प्रत्यगाहृत्य त्रिरूत्पुनाति । आभीक्ष्ण्ये णमुल् ।
एवं हि प्राणापानौ सञ्चरतः तयोः गच्छदागच्छद्रूपत्वात् । शुक्रमसीत्याद्यैराज्योत्पवनम् ।
सायण-टीका
प्रकारविशेषं विधत्ते – ‘पुनराहारम्। एवमिव हि प्राणापानौ संचरतः ‘ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
“शु॒क्रम् अ॑सि॒, ज्योति॑र् असि॒, तेजो॒ऽसी"त्या॑ह । रू॒पम् ए॒वास्यै॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
“शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसी"त्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
सायण-टीका
मन्त्राणां स्पष्टार्थतां दर्शयति — ‘शुक्रमसि ज्योतिरसि तेजोऽसीत्याह। रूपमेवास्यैतन्महिमानं व्याचष्टे’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
त्रिर् यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ॥19 ॥
ए॒षाल्ँ लो॒काना॒म् आप्त्यै॑ ।
मूलम्
त्रिर्यजु॑षा ।
त्रय॑ इ॒मे लो॒काः ॥19 ॥
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
सायण-टीका
प्रतिमन्त्रक्रियां विधत्ते — ‘त्रिर्यजुषा। त्रय इमे लोकाः। एषां लोकानामाप्त्यै’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
त्रिः ।
त्र्या॑वृ॒द् +धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
मूलम्
त्रिः । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
त्रिरिति पुनर्वचनं त्रित्वस्य फलान्तरप्रदर्शनार्थम् ।
सायण-टीका
त्रित्वमनूद्यार्थदान्तरमाह – ‘त्रिः। त्र्यावृद्धि यज्ञः। अथो मेध्यत्वाय’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
अपाम् प्रोक्षणम्
विश्वास-प्रस्तुतिः
अथाज्य॑वतीभ्याम् +++(पवित्राभ्याम्)+++ अ॒पः +++(प्रोक्षति)+++।
रू॒पम् ए॒वासा॑म् +++(अपाम्)+++ ए॒तद् वर्ण॑न् दधाति ।
मूलम्
अथाज्य॑वतीभ्याम॒पः ।
रू॒पमे॒वासा॑मे॒तद्वर्ण॑न्दधाति ।
भट्टभास्कर-टीका
अथेति अथ आज्योत्पवनानन्तरं आज्यवतीभ्यां आज्यलिप्ताभ्यां पवित्रतनुभ्यामेव अपः प्रोक्षणीरुत्पुनाति,
पवित्रयोः आज्यलिप्तयोः यद्रूपं
एतदेव आसां अपां पूर्वं विशिष्टम्
अपां वर्णम् इदानीं दधाति ।
सायण-टीका
तदेतदुत्पवनं पवित्रविशिष्टं विधत्ते — ‘अथाऽऽज्यवतीभ्यामपः रूपमेवाऽऽसामोतद्वर्णं दधाति।
विश्वास-प्रस्तुतिः
अपि॒ वा उ॒ताहु॒र् -
“यथा॑ ह॒ वै योषा॑
सु॒वर्णँ॒ हिर॑ण्यम् पेश॒लम् बिभ्र॑ती
रू॒पाण्य् आस्त॑
ए॒वम् ए॒ता ए॒तर्हि॑”
+इति॑ ।
मूलम्
अपि॒ वा उ॒ताहुः॑ । यथा॑ ह॒ वै योषा॑ सु॒वर्णँ॒ हिर॑ण्यम्पेश॒लम्बिभ्र॑ती रू॒पाण्यास्ते॑ । ए॒वमे॒ता ए॒तर्हीति॑ ।
भट्टभास्कर-टीका
अपि खल्वत्र यज्ञविद आहुः वदन्ति यथा काचित् योषा विलासिनी सुवर्णं शोभनवर्णं हिरण्यं हितरमणीयं हिरण्यसमानं वा पेशलं रूपसमृद्धम् । पिश अवयवे, औणादिको लप्रात्ययः ।
सायण-टीका
अपि वा उताऽऽहुः। यथा ह वै योषा सुवर्णँ हिरण्यं पेशलं बिभ्रती रूपाण्यास्ते। एवमेता एतर्हीति’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
विश्वास-प्रस्तुतिः
आपो॒ वै सर्वा॑ दे॒वता॑
ए॒षा हि विश्वे॑षान् दे॒वाना॑न् त॒नूर् यद् आज्य॑म् ।
मूलम्
आपो॒ वै सर्वा॑ दे॒वताः॑ ॥20॥
ए॒षा हि विश्वे॑षान्दे॒वाना॑न्त॒नूः ।
यदाज्य॑म् ।
भट्टभास्कर-टीका
एतानि रूपाणि देहगुणान् बिभ्रती आस्ते अबाधितकान्तिर्वर्तते आज्यलिप्ताभ्यां उत्पूताः शोभन्ते । ‘इदमोर्हिल्’ ‘एतेतौ रथोः’ इत्येतादेशः ॥
सायण-टीका
मन्त्रगतच्छन्दःप्रभृत्यनुसंधेयतया विधत्ते – ‘आपो वै सर्वा देवताः। एषा हि विश्वेषां देवानां तनुः। यदाज्यम्।
अपाम् उत्पवनम्
विश्वास-प्रस्तुतिः
तत्रो॒भयो॑र् मीमाँ॒सा।
जा॒मि स्याद् +++(एव ←चादिलोपे विभाषा)+++
यद् यजु॒षा ऽऽज्यय्ँ॒ यजु॑षा॒ ऽप उ॑त्पुनी॒यात् ।
छन्द॑सा॒ऽप उत्पु॑ना॒त्य् अजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑ ।
मूलम्
तत्रो॒भयो॑र्मीमाँ॒सा । जा॒मि स्यात् । यद्यजु॒षाऽऽज्यय्ँ॒यजु॑षा॒ऽप उ॑त्पुनी॒यात् । छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय । अथो॑ मिथुन॒त्वाय॑ ।
भट्टभास्कर-टीका
4तत्रेति ॥ तथासति उभयोः अबाज्ययोः मीमांसा जिज्ञासा भवति तद्विदाम् । आज्यं अपश्च यदि ‘शुक्रमसि'1 इति यजुषोत्पुनीयात् । तत् जामि आलस्यजननं यत्स्यात्, तत्कथं कर्तव्यमिति? तत्र निर्णयमाह - छन्दसा ‘देवो वः'1 इत्यनेनैव अप उत्पुनाति तदजामित्वाय भवति, मिथुनत्वाय च ।
सायण-टीका
तत्रोभयोर्मीमाँसा। जामिः स्यात्। यद्यजुषाऽज्यं यजुषाऽप उत्पुनीयात्। छन्दसाऽप उत्पुनात्यजामित्वाय। अथो मिथुनत्वाय।
विश्वास-प्रस्तुतिः
सा॒वि॒त्रि॒यर्चा +++(उत्पुनाति)+++ - सवि॒तृ-प्र॑सूतम् मे॒ कर्मा॑ ऽस॒द् इति॑ । स॒वि॒तृ-प्र॑सूतम् ए॒वास्य॒ कर्म॑ भवति ।
मूलम्
सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूतम्मे॒ कर्मा॑स॒दिति॑ ।
भट्टभास्कर-टीका
सावित्रियर्चेति । ‘देवो वः’ इत्यनया उत्पुनीयात् सवित्राऽनुज्ञातं मे कर्मस्यादिति । लेट्याडागमः ।
सायण-टीका
सावित्रियर्चा। सवितृप्रसूतं मे कर्मासदिति।
विश्वास-प्रस्तुतिः
प॒च्छो गा॑यत्रि॒या - त्रि॑ष्-षमृद्ध॒त्वाय॑ +++(उत्पुनाति)+++।
अ॒द्भिर् ए॒वौष॑धी॒स् सन्न॑यति ।
ओष॑धीभिᳶ प॒शून् ।
प॒शुभि॒र् यज॑मानम् ।
मूलम्
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ।
अ॒द्भिरे॒वौष॑धी॒स्सन्न॑यति ।
ओष॑धीभिᳶ प॒शून् ।
प॒शुभि॒र्यज॑मानम्।
भट्टभास्कर-टीका
पच्छ इति । पादेन पादेन गायत्र्या उत्पुनीयात् त्रिष्षमृद्धत्वाय त्रेधा समृद्धत्वं यथा स्यादिति ‘त्रिपदा गायत्री’ इति समृद्ध्यै त्रैविध्यमाह ।
अद्भिरिति । अद्भिः ओषधीभिश्च पशुभिश्च त्रेधा यजमानसमृद्धिः पच्छ उत्पवनात् गायत्र्याः । सन्नयनं संयोजनम् ॥
सायण-टीका
सवितृप्रसूतमेवास्य कर्म भवति। पच्छो गायत्रिया त्रिःषमृद्धत्वाय। अद्भिरेवौषधीः संनयति। ओषधीभिः पशून्। पशुभिर्यजमानम्’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।
आज्यग्रहणम्
विश्वास-प्रस्तुतिः
“शु॒क्रन्त्वा॑ शु॒क्राया॒ञ्, ज्योति॑स् त्वा॒ ज्योति॑ष्य् अ॒र्चिस् त्वा॒ऽर्चिषी"त्य् आ॑ह सर्व॒त्वाय॒, पर्या॑प्त्या॒, अन॑न्तरायाय ॥21॥
मूलम्
“शु॒क्रन्त्वा॑ शु॒क्राया॒ञ्ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषी"त्या॑ह सर्व॒त्वाय॑ । पर्या॑प्त्या॒ अन॑न्तरायाय ॥21॥
भट्टभास्कर-टीका
5शुक्रं त्वेत्याद्याः जुहूप्रभृति ध्रुवासु आज्यग्रहणमन्त्राः ॥ सर्वत्वायेति । ‘धाम्ने धाम्ने'1 इति वचनात् सर्वदेवस्थितिपर्याप्त्याशासनात् कस्यचिद् अप्यन्तरितत्वं लुप्तभागत्वं मा भूदिति ॥
इति तैत्तिरीयब्राह्मणे तृतीये तृतीये चतुर्थोऽनुवाकः ॥
सायण-टीका
त्रिष्वपि मन्त्रेषु सामयजुःशब्दयोर्वीप्सायास्तात्पर्यमाह — ‘शुक्रं त्वा शुक्रायां ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वाऽर्चिषीत्याह सर्वत्वाय। पर्याप्त्या अनन्तरायाय’ (ब्रा. का. ३ प्र. ३ अ. ४) इति।