०२ सम्मार्जनानामग्नौ प्रहरणम् ...{Loading}...
प्रहरणम्
विश्वास-प्रस्तुतिः
दि॒वश् शिल्प॒म् +++(→आपः)+++ अव॑ततम्
पृथि॒व्याᳵ क॒कुभि॑ श्रि॒तम् ।
तेन॑ व॒यँ स॒हस्र॑-वल्शेन
स॒पत्न॑न् नाशयामसि॒
स्वाहा॑
+इति॑ स्रुख्-स॒म्मार्ज॑नान्य् अ॒ग्नौ प्रह॑रति ।
मूलम्
दि॒वश्शिल्प॒मव॑ततम् ।
पृ॒थि॒व्याᳵ क॒कुभि॑ श्रि॒तम् ।
तेन॑ व॒यँ स॒हस्र॑वल्शेन ।
स॒पत्न॑न्नाशयामसि॒ स्वाहेति॑ स्रुक्स॒म्मार्ज॑नान्य॒ग्नौ प्रह॑रति ।
भट्टभास्कर-टीका
1स्रुकसंमार्जनान्यग्नौ प्रहरति - दिवश्शिल्पमित्यनुष्टुभा ॥ दिवः द्युलोकस्य शिल्पं कौशलं अवततं पृथिव्यामुदकभावेन अवतीर्णं दर्भभावेन परिणतं, तदिदं पृथिव्याः ककुभि प्रधानभूते अग्नौ श्रितं मया क्षिप्तमभूत्, तेन सहस्रवल्शेन बहुप्ररोहणेन वयं सपत्नं शत्रुं नाशयामसि नाशयामः । ‘इदन्तो मसि’ स्वाहेति प्रदानार्थः ।
सायण-टीका
मन्त्रमुत्पाद्य विनियुङ्क्ते — ‘दिवः शिल्पमवततम्। पृथिव्याः ककुभि श्रितम्। तेन वयँ सहस्रवल्शेन। सपत्नं नाशयामसि स्वाहेति। स्रुक्संमार्जनान्यग्नौ प्रहरति’ (ब्रा. का. ३ प्र. ३ अ. २) इति।
विश्वास-प्रस्तुतिः
आपो॒ वै द॒र्भाः ।
रू॒पम् ए॒वैषा॑म् ए॒तन्,
म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
आपो॒ वै द॒र्भाः । रू॒पमे॒वैषा॑मे॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
भट्टभास्कर-टीका
आपो वै दर्भा इति ।
अग्नौ प्रक्षिप्यमाणानां दर्भाणां दिवश्-शिल्प-भूतोदक-हेतुत्वात् मन्त्रे ताच्छब्द्यम् इति दर्शयति - एषां दर्भाणां महिमानं दिवश्शिल्पत्वलक्षणं
एतत् मन्त्रलक्षणं रूपमेव व्याचष्टे नास्माभिर् व्याख्येयम् ॥
सायण-टीका
अस्मिन्मन्त्रे संमार्जनानि न प्रतीयन्त इति शङ्कां वारयति — ‘आपो वै दर्भाः। रूपमेवैषामेतन्महिमानं व्याचष्टे’ (ब्रा. का. ३ प्र. ३ अ. २) इति।
ऋक्-प्रयोगः
विश्वास-प्रस्तुतिः
अ॒नु॒ष्टुभा॒ + ऋ॒र्चा +++(संमृज्यात्, प्रहरेद् वा)+++।
आनु॑ष्टुभᳶ प्र॒जा-प॑तिः ।
प्रा॒जा॒प॒त्यो वे॒दः ।
वे॒दस्याग्रँ॑ स्रुख्-स॒म्मार्ज॑नानि ॥6॥
स्वेनै॒वैना॑नि॒ छन्द॑सा॒,
स्वया॑ दे॒वत॑या॒ सम॑र्धयति ।
मूलम्
अ॒नु॒ष्टुभ॒र्चा ।
आनु॑ष्टुभᳶ प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो वे॒दः ।
वे॒दस्याग्रँ॑ स्रुक्स॒म्मार्ज॑नानि ॥6॥
स्वेनै॒वैना॑नि॒ छन्द॑सा ।
स्वया॑ दे॒वत॑या॒ सम॑र्धयति ।
भट्टभास्कर-टीका
2अनुष्टुभेति ॥ ‘दिवश्शिल्पम्’ इत्यस्यानुष्टुप्त्वस्य स्तुतिः ।
सायण-टीका
अस्य मन्त्रस्यानुष्टुप्-छन्दस्त्वम् ऋग्-रूपत्वं चानुसंधेयम् इत्याह – ‘अनुष्टुभर्चा’ (ब्रा. का. ३ प्र. ३ अ. २) इति।
संमृज्याद् इति शेषः।
विधेयम् अनुष्टुप्त्वं स्तौति —
‘आनुष्टुभः प्रजापतिः प्राजापत्यो वेदः। वेदस्याँ स्रुक्संमार्जनानि। स्वेनैवैनानि छन्दसा। स्वया देवतया समर्धयति’ (ब्रा. का. ३ प्र. ३ अ. २) इति।
विश्वास-प्रस्तुतिः
अथो॒ ऋग् वाव योषा॑ ।
द॒र्भो वृषा॑ ।
तन् मि॑थु॒नम् ।
मि॒थु॒नम् ए॒वास्य॒ तद् य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र् यज॑मानः ।
मूलम्
अथो॒ ऋग्वाव योषा॑ ।
द॒र्भो वृषा॑ ।
तन्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।
भट्टभास्कर-टीका
अथो इत्यादिना अस्या ऋक्त्वस्य स्तुतिः ॥
सायण-टीका
न केवलं छन्दसः प्राशस्त्यं किंतु ऋचोऽपीत्याह — ‘अथो ऋग्वाव योषा। दर्भो वृषा। तन्मिथुनम्। मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय। प्रजायते प्रजया पशुभिर्यजमानः’ (ब्रा. का. ३ प्र. ३ अ. २) इति। वृषा सेचनसमर्थः पुमान्।
उत्करे क्षेपः
विश्वास-प्रस्तुतिः
तान्य् एके॒ वृथै॒वापा॑स्यन्ति॒,
तत् तथा॒ न का॒र्य॑म् ।
आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒स् स वि॑+++(=विपरीत)+++-दो॒हः ॥7॥
यद्य् ए॑नानि प॒शवो॑ ऽभि॒तिष्ठे॑यु॒र्
न तत् प॒शुभ्य॒ᳵ कम् ।
मूलम्
तान्येके॒ वृथै॒वापा॑स्यन्ति । तत्तथा॒ न का॒र्य॑म् ।
आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒स्सवि॑दो॒हः ॥7॥
यद्ये॑नानि प॒शवो॑ऽभि॒तिष्ठे॑युः । न तत्प॒शुभ्य॒ᳵ कम् ।
भट्टभास्कर-टीका
3तान्येक इत्यादि ॥ वृथा निष्फलं यत्र क्वापि त्यजन्ति केचित् तद् दूषयित्वा उत्करे न्यासं विदधाति ।
विदोहः विरुद्धफलदोहः
भूतलं दुग्धकल्पं भवेत्
तत् सुखहेतुर्न भवति पशूनाम् ।
सायण-टीका
अत्र स्रुक्संमार्जनानाम् उक्तमन्त्रेणाग्नौ प्रक्षेप इत्येकः पक्षः।
अद्भिः प्रक्षाल्योत्करे परित्यजेदित्यपरः पक्षः।
अत एव सूत्रकारोऽग्नौ प्रहरतीत्य् उक्त्वा
पुनर् अप्य् आहोत्करे वा न्यस्यतीति।
तमिमं पक्षं विधत्ते —
‘तान्येके वृथैवापास्यन्ति। तत्तथा न कार्यम्। आरब्धस्य यज्ञियस्य कर्मणः स विदोहः यद्येनानि पशवोऽभितिष्ठेयुः। न तत्पशुभ्यः कम्।
विश्वास-प्रस्तुतिः
अ॒द्भिर् मा॑र्जयि॒त्वोत्क॒रे॒॑ न्य॑स्येत् ।
मूलम्
अ॒द्भिर्मा॑र्जयि॒त्वोत्क॒रे न्य॑स्येत् ।
भट्टभास्कर-टीका
कथं तर्हि कर्तव्यमित्याह - अद्भिरिति ।
सायण-टीका
अद्भिर्मार्जयित्वोत्करे न्यस्येत्।
मूलम्
यद॒द्भिर्मा॒र्जय॑ति । तेन॑ शा॒न्तम् ।
यदु॑त्क॒रे न्य॒स्यति॑ । प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ॥8॥
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मान
विश्वास-प्रस्तुतिः
यद् वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒
ऽन्यत्राहु॑तीभ्यस् स॒न्तिष्ठ॑त
उत्क॒रो वाव तस्य॑ प्रति॒ष्ठा ।
ए॒ताँ हि तस्मै॑ प्रति॒ष्ठान् दे॒वास् स॒मभ॑रन् ।
यद् अ॒द्भिर् मा॒र्जय॑ति॒
तेन॑ शा॒न्तम् ।
यद् उ॑त्क॒रे न्य॒स्यति॑
प्रति॒ष्ठाम् ए॒वैना॑नि॒ तद् ग॑मयति ॥8॥
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र् यज॑मानः ।
मूलम्
यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यस्स॒न्तिष्ठ॑ते ।
उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा ।
ए॒ताँ हि तस्मै॑ प्रति॒ष्ठान्दे॒वास्स॒मभ॑रन् ।
ए॒ताँ हि तस्मै॑ प्रति॒ष्ठान्दे॒वास्स॒मभ॑रन् । यद॒द्भिर्मा॒र्जय॑ति॒ तेन॑ शा॒न्तम् ।
यदु॑त्क॒रे न्य॒स्यति॑ प्रति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति ॥8॥
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ।
भट्टभास्कर-टीका
हेतुमाह - यद्वा इति । अन्यत्राहुतीभ्यः होतव्यद्रव्याणि मुक्त्वा यत् सन्तिष्ठते कृतकार्यं भवति तस्योत्करः प्रतिष्ठा प्रतिष्ठात्वेन तस्य कल्पितत्वात्, अद्भिर्मार्जनात् शान्तं सुखहेतुः पशूनां, उत्करे न्यासात् प्रतिष्ठां गमयति, यजमानोऽपि प्रजया पशुभिश्च प्रतिष्ठितो भवति ॥
सायण-टीका
यद्वै यज्ञियस्य कर्णोऽन्यत्राऽऽहुतीभ्यः संतिष्ठते। उत्करो वाव तस्य प्रतिष्ठा। एताँहि तस्मै प्रतिष्ठां देवाः सम्भरन्। यदद्भिर्मार्जयति। तेन शान्तम्। यदुत्करे न्यस्यति। प्रतिष्ठामेवैनानि तद्गमयति। प्रतितिष्ठति। प्रजया पशुभिर्यजमानः’ (ब्रा. का. ३ प्र. ३ अ. २) इति।
मूलम्
अथो॑ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् ।
यत्स्रु॑क्स॒म्मार्ज॑नानि ।
स्त॒म्ब॒शो वा ओष॑धयः ।
तासा॑ञ्जरत्क॒क्षे प॒शवो॒ न र॑मन्ते ।
अप्रि॑यो॒ ह्ये॑षाञ्जरत्क॒क्षः ।
याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षᳶ प॑शू॒नाम् । ताव॑दप्रियᳶ पशू॒नाम्भ॑वति ।
अग्नौ प्रहरणस्य प्रशंसा
विश्वास-प्रस्तुतिः
अथो॑ स्त॒म्बस्य॒ वा ए॒तद् रू॒पम्
यत् स्रु॑ख्-स॒म्मार्ज॑नानि।
स्त॒म्ब॒शो वा ओष॑धय॒स् +++(यत्र पशवो रमन्ते)+++,
तासा॑ञ् जरत्-क॒क्षे+++(→मूलमात्रे)+++ प॒शवो॒ न र॑मन्ते ।
अ-प्रि॑यो॒ ह्य् ए॒॑षाञ्+++(→ए॑षाम्)+++ ज॑रत्-क॒क्षः ।
याव॑द्-अप्रियो ह॒ वै ज॑रत्-क॒क्षᳶ प॑शू॒नान्
ताव॑द्-अप्रियᳶ पशू॒नाम् भ॑वति ।
मूलम्
अथो॑ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् ।
यत्स्रु॑क्स॒म्मार्ज॑नानि स्तम्ब॒शो वा ओष॑धय॒स् तासा॑ञ्जरत्क॒क्षे प॒शवो॒ न र॑मन्ते ।
अप्रि॑यो॒ ह्ये॑षाञ्जरत्क॒क्षः ।
याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षᳶ प॑शू॒नान् ताव॑दप्रियᳶ पशू॒नाम्भ॑वति ।
भट्टभास्कर-टीका
4अथो स्तम्बस्येति ॥ स्तम्बः फलमञ्जरी स्रुक्संमार्जनानि नाम तस्य रूपं तद्वत् पशूनां वृद्धिः । ओषधयश्च स्तम्बशः स्तम्बेन-स्तम्बेन पृथग्-विधेन इत्थंभूता । वीप्सायां शस् ।
तासु च स्तम्बवतीषु पशवः रमन्ते,
तासां तु यो जरत्कक्षः फल-पल्लव-शून्यं काष्ठ-मूल-शेषं पुराणारण्यं
तत्र पशवो न रमन्ते, अप्रियत्वात् अन्यत्रेति ।
सायण-टीका
अग्निप्रहरण-पक्षम् एव द्रढयितुमुत्करे परित्यागं दूषयति —
‘अथो स्तम्बस्य वा एतद्रूपम्। यत्स्रुक्संमार्जनानि। स्तम्बशो वा ओषधयः। तासां जरत्कक्षे पशवो न रमन्ते। अप्रियो ह्येषां जरत्कक्षः। यावदप्रियो ह वै जरत्कक्षः पशूनाम्। तावदप्रियः पशूनां भवति।
विश्वास-प्रस्तुतिः
यस्यै॒तान्य् अ॒न्यत्रा॒ग्नेर् दध॑ति
नव॒-दाव्या॑सु॒ +++(=दवानलोत्तरज-तृणेषु)+++ वा ओष॑धीषु प॒शवो॑ रमन्ते।
न॒व॒-दा॒वो॒॑ ह्य् ए॒॑षाम्+++(एषाम्)+++ प्रि॒यः ।
मूलम्
यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति ।
न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ॥9॥
न॒व॒दा॒वो ह्ये॑षाम्प्रि॒यः ।
भट्टभास्कर-टीका
अग्नेरन्यत्र जरत्कक्षवत् स्थापयन्ति यस्य स न कदाचिदपि पशूनां प्रियः स्यात् । ननु अग्नौ प्रहरणे अत्यन्तविनाशात् सुतरामप्रियत्वमित्याह - नवदाव्यास्विति ।
सायण-टीका
यस्यैतान्यत्राग्नेर्दधति’ (ब्रा. का. ३ प्र. ३ अ. २) इति। अथोशब्द उत्करपक्षव्यावृत्त्यर्थः।
अग्निप्रहरणपक्षं द्रढयति – ‘नवदाव्यासु वा ओषधीषु पशवो रमन्ते। नवदावो ह्येषां प्रियः।
विश्वास-प्रस्तुतिः
याव॑त्-प्रियो ह॒ वै न॑व-दा॒वᳶ प॑शू॒नान्
ताव॑त्-प्रियᳶ पशू॒नाम् भ॑वति ।
यस्यै॒तान्य् अ॒ग्नौ प्र॒हर॑न्ति॒
तस्मा॑द् ए॒तान्य् अ॒ग्नाव् ए॒व प्रह॑रेत् ।
मूलम्
याव॑त्प्रियो ह॒ वै न॑वदा॒वᳶ प॑शू॒नाम् । ताव॑त्प्रियᳶ पशू॒नाम्भ॑वति ।
यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति ।
तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् ।
भट्टभास्कर-टीका
नवदावः सद्यः समुत्थितः वनवह्निः यत्र प्रदेशे तत्र तद्दग्धे वने प्ररूढा नवदाव्याः । ‘भवे छन्दसि’ इति यः, छान्दसमुत्तरपदप्रकृतिस्वरत्वम् । तासु ओषधीषु पशवो रमन्ते यस्मात् नवदाव एषां पशूनां प्रियः प्ररोहहेतुत्वात् तत्प्रवृत्तिमाशंसन्ते मेघस्येव चातकाः । तस्मादग्नौ प्रहरणं पशूनां प्रीत्यै भवति, प्ररोहहेतुत्वादग्नेः । मन्त्रलिङ्गं च ‘तेन वयं सहस्रवल्शेन’ इति ।
सायण-टीका
यावत्प्रियो ह वै नवदावः पशूनाम्। तावात्प्रियः पशूनां भवति। यस्तैतान्यग्नौ प्रहरन्ति। तस्मादेतान्यग्नावेव प्रहरेत्।
विश्वास-प्रस्तुतिः
+++(गार्हपत्याहवनीययोर् अन्यतरे→)+++ य॒त॒रस्मि॑न्त् सम्मृ॒ज्यात्
पशू॒नान् धृत्यै॑ ।
मूलम्
य॒त॒रस्मि॑न्त्सम्मृ॒ज्यात् । प॒शू॒नान्धृत्यै॑ ।
भट्टभास्कर-टीका
तस्मात् अग्नेः यतरस्मिन् स्रुचः संमृज्यात् तस्मिन्नग्नौ प्रहरेत्, पशूनामेव धारणाय तद्भवति ॥
सायण-टीका
यतरस्मिन्त्संमृज्यात्। प्रशूनां धृत्यै’ (ब्रा. का. ३ प्र. ३ अ. २) नवः प्रत्यासन्नपूर्वकालभावी दावाग्निर्यस्य कोमलस्यौषधिसमूहस्य सोऽयं नवदावः।
प्रहरणम्
विश्वास-प्रस्तुतिः - ऋक्
यो भू॒ताना॒म् अधि॑पतिः ।
रु॒द्रस् त॑न्ति+++(←तन्→यज्ञ)+++-च॒रो वृषा॑ ।
प॒शून् अ॒स्माक॒म् मा हिँ॑सीः ।
ए॒तद् अ॑स्तु हु॒तन् तव॑
मूलम्
यो भू॒ताना॒मधि॑पतिः ।
रु॒द्रस्त॑न्तिच॒रो वृषा॑ ।
प॒शून॒स्माक॒म्मा हिँ॑सीः ।
ए॒तद॑स्तु हु॒तन्तव॑
भट्टभास्कर-टीका
5अग्निसम्मार्जनान्यग्नौ प्रहरति यो भूतानामित्यनुष्टुभा ॥ यो भूतानां अधिपतिः स्वामी रुद्रः तन्तिचरः तननीयः यज्ञः तन्तिः । यद्वा - पशूनां बन्धनरज्जुश्रेणी तन्तिः ‘वाक्तन्तिः’ इति श्रुतेः, वचनाभिविकल्पिकया पशवो बद्ध्यन्ते । तत्र यश्चरति स तन्तिचरः वृषा देवानां वृषभः प्रधानभूतः सः त्वं अस्माकं पशून् मा हिंसीः तदर्थं एतत् इध्मसंनहनाख्यं दर्भद्रव्यं तव हुतमस्तु । तव हि हुतं वृष्ट्यादिक्रमेण पशूनामभिवृद्धयै भवति । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः ।
सायण-टीका
स्रुक्संमार्जनप्रसङ्गादग्निसंमार्जनानामपि कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते — ‘यो भूतानामधिपतिः। रुद्रस्तन्तिचरो वृषा। पशूनस्माकं मा हिँसी। एतदस्तु हुतं तव
विश्वास-प्रस्तुतिः
“स्वाहे"त्य् अ॑ग्नि-स॒म्मार्ज॑नान्य् अ॒ग्नौ प्रह॑रति ।
मूलम्
स्वाहेत्य॑ग्निस॒म्मार्ज॑नान्य॒ग्नौ प्रह॑रति ।
भट्टभास्कर-टीका
स्वाहेति प्रदानार्थः । अग्निसंमार्जनानि इध्मसंनहनानि ।
सायण-टीका
स्वहेत्यत्यग्निसंमार्जनान्यग्नौ प्रहरति’ (ब्रा. का. ३ प्र. ३ अ. २) इति। तन्तिः कर्मसंतानं तत्र चरतीति तन्तिचरः।
विश्वास-प्रस्तुतिः
ए॒षा +++(दवाग्नि-ज्वाला)+++ वा ए॒तेषाय्ँ॒ +++(→दर्भाणां)+++ योनिः॑ ।
ए॒षा प्र॑ति॒ष्ठा ।
मूलम्
ए॒षा वा ए॒तेषाय्ँ॒योनिः॑ ।
ए॒षा प्र॑ति॒ष्ठा ।
भट्टभास्कर-टीका
एषेति । अग्निरेव दर्भाणां योनिः कारणं वृष्ट्यादिना । स एव प्रतिष्ठा अग्रेऽप्यवस्थानम् ।
सायण-टीका
अग्निदग्धप्रदेशे पुनरुत्पद्य सग्यग्वर्धमानत्वादग्नौ दर्भाणां प्रहरणं युक्तमित्याह — ‘एषा वा एतेषां योनिः। एषा प्रतिष्ठा।
विश्वास-प्रस्तुतिः
स्वाम् ए॒वैना॑नि॒ योनिं॑
स्वाम् प्र॑ति॒ष्ठाङ् ग॑मयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र् यज॑मानः ॥10॥
मूलम्
स्वामे॒वैना॑नि॒ योनि॑म् ।
स्वाम्प्र॑ति॒ष्ठाङ्ग॑मयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥10॥
भट्टभास्कर-टीका
स्वामेवेत्यादि । गतम् ॥
इति तैत्तिरीयब्राह्मणे तृतीयेऽष्टके तृतीये प्रपाठके द्वितीयोऽनुवाकः ॥
सायण-टीका
स्वामेवैनानि योनिम्। स्वां प्रतिष्ठां गमयति। प्रतितिष्ठति प्रजया पशुभिर्यजमानः’ (ब्रा. का. ३ प्र. ३ अ. २) इति।