०८ पुरोडाशनिष्पादनम्

०८ पुरोडाशनिष्पादनम् ...{Loading}...

संवपनम्

दे॒वस्य॑ त्वा ...{Loading}...
विश्वास-प्रस्तुतिः

“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।

Keith

‘On the impulse of the god Savitr thee’, he says, for impelling.

मूलम्

“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।

सायण-टीका

व्याचष्टे- “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।"


अत्र वाक्यपूरणायाग्नय इत्यादिकमध्याहृतमतो यथाम्नातमेवानूद्य व्याचष्टे — “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।"


अत्रानाम्नातमप्यनेनैवाभिप्रायेण व्याचष्टे – “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।"

अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः

“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।

Keith

‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.

मूलम्

“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।

पद-पाठः

अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।

भट्टभास्कर-टीका

अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।

सायण-टीका

अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।

विश्वास-प्रस्तुतिः

“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।

Keith

‘With the hands of Pusan’, he says, for restraint.

मूलम्

“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।

पद-पाठः

पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।

भट्टभास्कर-टीका

यत्यै यमनाय धारणाय ॥

सायण-टीका

पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।

विश्वास-प्रस्तुतिः

“सव्ँव॑पा॒मी"त्या॑ह ।
य॒था॒दे॒व॒तम् ए॒वैना॑नि॒ सव्ँव॑पति ।

मूलम्

“सव्ँव॑पा॒मी"त्य् आ॑ह ।
य॒था॒दे॒व॒तमे॒वैना॑नि॒ सव्ँव॑पति ।

भट्टभास्कर-टीका

1 देवस्येति पिष्टानां संवपनम् ॥ गतम् । ‘अग्रये जुष्टं संवपामि’ इति विशेषः । ‘अग्नये जुष्टम्'14 ‘अग्नीषौमाभ्याम्'14 इति यथादेवतं पात्र्यां संवपति सहप्रक्षिपति ॥

सायण-टीका

संवपामीत्याह। यथादेवतमेवैनानि संवपति” (ब्रा. का. ३ प्र. २ अ. ८) इति।

मूलम्

अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ॒ सम॒द्भिᳶ पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॑ ॥57॥
आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् ।

समापो॑ अ॒द्भिः

विश्वास-प्रस्तुतिः

“समापो॑ अ॒द्भिर् अ॑ग्मत॒
समोष॑धयो॒ रसे॒ने"त्य् आ॑ह
आपो॒ वा ओष॑धीर् जिन्वन्ति
ओष॑धयो॒ ऽपो जि॑न्वन्ति ।+++(water cycle! 4)+++
अ॒न्या वा ए॒तासा॑म् अ॒न्या जि॑न्वन्ति॒
तस्मा॑द् ए॒वम् आ॑ह

मूलम्

समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह ।
आपो॒ वा ओष॑धीर्जिन्वन्ति । ओष॑धयो॒ऽपो जि॑न्वन्ति । अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥56॥
तस्मा॑दे॒वमा॑ह ।

भट्टभास्कर-टीका

2समाप इति प्रणीतामदन्तीनामानीयमानानां प्रतिमन्त्रणम् ॥ द्वयमत्र भवति - आपो वा ओषधीर्जिन्वन्ति ओषधयो हि अपः जिन्वन्ति प्रीणयन्ति । किं बहुना? आसां मध्ये अन्याः अन्याः प्रीणयन्ति अन्याश्चान्याः, न त्वेभ्योऽन्यः कश्चिदापः प्रीणयिता । यद्वा - आसामपामोषधीनां च मध्ये काश्चिदासां काश्चिदपः प्रीणयन्ति, काश्चिच्चौषधयः काश्चिदौषधीः, तस्मात् समापो अद्भिरित्याद्युच्यत इति ।

सायण-टीका

मन्त्रस्य पूर्वभागे जलौषधिसंगमस्य फलमाह — ‘समापो अद्भिरग्मत समोषधयो रसेनेत्याह। आपो वा ओषधीर्जिन्वन्ति। ओषधयोऽपो जिन्वन्ति। अन्या वा एतासामन्या जिन्वन्ति। तस्मादेवमाह” (ब्रा. का. ३ प्र. २ अ. ८) इति। जिन्वन्ति प्रीणयन्ति।

विश्वास-प्रस्तुतिः

“सँ रे॒वती॒र् जग॑तीभि॒र्
मधु॑मती॒र् मधु॑मतीभिस् सृज्यध्व॒म्” इत्य् आ॑ह ।
आपो॒ वै रे॒वतीः॑
प॒शवो॒ जग॑ती॒र्,
ओष॑धयो॒ मधु॑मतीर् ,
आप॒ ओष॑धीᳶ प॒शून् तान् ए॒वास्मा॑ एक॒धा सँ॒सृज्य॒
मधु॑मतᳵ करोति ।

मूलम्

सँ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒मित्या॑ह ।

आपो॒ वै रे॒वतीः॑ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीᳶ प॒शून् । ताने॒वास्मा॑ एक॒धा सँ॒सृज्य॑ । मधु॑मतᳵ करोति ।

भट्टभास्कर-टीका

आपः रेवतीः रेवत्यः धनवत्यः सर्वधनोत्पत्तिहेतुत्वात् ‘रयेर्मतौ बहुलम्’ इति संप्रसारणम् । ‘रैशब्दाच्चोपसंख्यानम्’ इति मतुपो वत्वम् । पशवः जगती जगत्यः जङ्गमस्वभावाः जगति प्रभवा वा, ओषधयः मधुमतीः मधुमत्यः मधुरसवत्यः तान् सर्वान् आप ओषधीः पशूंश्च मधुमतः करोति यजमानाय एकधा संसृज्य करिष्यमाणपिष्टोदकसंसर्गव्याजेन । ‘पुमान् स्त्रियः’ इति पुंसश्शेषः ।

मन्त्रार्थस्तु - हे आपः! रेवत्यः मधुमत्यश्च यूयं जगतीभिः पशुभिः संसृज्यध्वं भोग्यत्वेन परिणामात् मधुमतीभिः ओषधीभिश्च संसृज्यध्वमिति । पर्याप्लावनं तप्ताभिरद्भिः सर्वत आप्लावनम् ।

सायण-टीका

उत्तरभागे माधुर्यसंपादनं फलमाह — “सँरेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिस् सृज्यध्वमित्याह। आपो वै रेवतीः। पशवो जगतीः। ओषधयो मधुमतीः । आप ओषधीᳶ पशून् । तानेवास्मा एकधा सँसृज्य । मधुमतᳶ करोति । (ब्रा. का. ३ प्र. २ अ. ८) इति।

अ॒द्भ्यᳶ परि॒

विश्वास-प्रस्तुतिः

अ॒द्भ्यᳶ परि॒ प्रजा॑तास् स्थ॒
सम् अ॒द्भिᳶ पृ॑च्यध्व॒म्

इति॑ प॒र्याप्ला॑वयति ।

यथा॒ सुवृ॑ष्ट+++(य्)+++ इ॒माम् +++(पृथिवीम्)+++ अ॑नुवि॒सृत्य॒
आप॒ ओष॑धीर् म॒हय॑न्ति
ता॒दृग् ए॒व तत् ।

मूलम्

अ॒द्भ्यᳶ परि॒ प्रजा॑तास्स्थ॒ सम॒द्भिᳶ पृ॑च्यध्व॒मिति॑ प॒र्याप्ला॑वयति । यथा॒ सुवृ॑ष्ट इ॒माम॑नुवि॒सृत्य॒ आप॒ ओष॑धीर्म॒हय॑न्ति ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

यथा सुवृष्टे पर्जन्ये पृथिवीमनुप्रविश्य आपः ओषधीः महयन्ति पूजयन्ति वर्धयन्ति यत्तुल्यं तत्पर्याप्लावनम् । मह पूजायाम्, चुरादिरदन्तः ॥

सायण-टीका

मन्त्रेण परिप्लावनं विधत्ते — ‘अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वमिति पर्याप्लावयति। यथा सुवृष्ट इमामनुविसृत्य। आप ओषधीर्महयन्ति। तादृगेव तत्’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

जन॑यत्यै त्वा॒

विश्वास-प्रस्तुतिः

“जन॑यत्यै त्वा॒ सय्ँयौ॒मी“त्य् आ॑ह
प्र॒जा ए॒वैतेन॑ दाधार

मूलम्

“जन॑यत्यै त्वा॒ सय्ँयौ॒मी"त्या॑ह ।
प्र॒जा ए॒वैतेन॑ दाधार ।

भट्टभास्कर-टीका

3जनयत्यै त्वेत्य् आलोडनम् ॥ अग्नये त्वेत्यादि व्यूहाभिमर्शनम् ।

सायण-टीका

एतदेव विशदयति — ‘जनयत्यै त्वा संयौमीत्याह। प्रजा एवैतेन दाधार’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

अ॒ग्नये॑ त्वा

विश्वास-प्रस्तुतिः

“अ॒ग्नये॑ त्वा॒ऽग्नीषोमा॑भ्या॒म्” इत्य् आ॑ह॒ व्यावृ॑त्त्यै ।

मूलम्

“अ॒ग्नये॑ त्वा॒ऽग्नीषोमा॑भ्या॒"मित्या॑ह॒ व्यावृ॑त्त्यै ।

सायण-टीका

त्वामहं स्पृशामीति शेषः। असांकर्यं मन्त्रद्वयप्रयोजनमित्याह- ‘अग्नये त्वाऽग्नीषोमाभ्यामित्याह व्यावृत्त्वै’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

म॒खस्य॒ शिरो॑ऽसि

विश्वास-प्रस्तुतिः

म॒खस्य॒ शिरो॒ऽसीत्य् आ॑ह ।
य॒ज्ञो वै म॒खस्
तस्यै॒तच् छिरो॒ यत् पु॑रो॒डाश॒स् +++(पिण्डरूपः)+++
तस्मा॑द् ए॒वम् आ॑ह +++(→म॒खस्य॒ शिरो॑ऽसि)+++ ॥58॥

मूलम्

म॒खस्य॒ शिरो॒ऽसीत्या॑ह ।
य॒ज्ञो वै म॒खः ।
तस्यै॒तच्छिरः॑ ।
यत्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ॥58॥

भट्टभास्कर-टीका

मखस्येति पिण्डकरणम् । तस्यैतच्छिरः इति शिर इव प्रधानं साधनम् ।

सायण-टीका

विशदीकृत्य व्याचष्टे — मखस्य शिरोऽसीत्याह। यज्ञो वै मखः। तस्यैतच्छिरः। यत्पुरोडाशः। ‘तस्मादेवमाह’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

घ॒र्मो॑ऽसि

विश्वास-प्रस्तुतिः

“घ॒र्मो॑ऽसि वि॒श्वायु॒र्” इत्य् आ॑ह ।
विश्व॑म् ए॒वायु॒र् यज॑माने दधाति

मूलम्

“घ॒र्मो॑ऽसि वि॒श्वायु॒"रित्या॑ह ।
विश्व॑मे॒वायु॒र्यज॑माने दधाति ।

भट्टभास्कर-टीका

धर्म इत्यधिश्रयणम् ।

सायण-टीका

विश्वमायुर्यस्येति बहुव्रीहेरायुष्प्रदस्त्वमित्येवात्रार्थ इत्याह – ‘घर्मोऽसि विश्वायुरित्याह। विश्वमेवाऽऽयुर्यजमाने दधाति’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

उ॒रु प्र॑थस्व

विश्वास-प्रस्तुतिः

“उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒म्” इत्य् आ॑ह ।
यज॑मानम् ए॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।

मूलम्

“उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिᳶ प्रथता॒"मित्या॑ह ।
यज॑मानमे॒व प्र॒जया॑ प॒शुभि॑ᳶ प्रथयति ।

भट्टभास्कर-टीका

उर्विति प्रथनम् ।

सायण-टीका

यज्ञपतेर्विस्तारं दर्शयति — ‘उरू प्रथस्वोरू ते यज्ञपतिः प्रथतामित्याह। यजमानमेव प्रजया पशुभिः प्रथयति’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

त्वच॑ङ् गृह्णी॒ष्व

विश्वास-प्रस्तुतिः

“त्वच॑ङ् गृह्णी॒ष्वे"त्य् आ॑ह ।
सर्व॑म् ए॒वैनँ॒ +++(पुरोडाशं)+++ स-त॑नुङ् करोति ।

मूलम्

“त्वच॑ङ्गृह्णी॒ष्वे"त्या॑ह ।
सर्व॑मे॒वैनँ॒ सत॑नुङ्करोति ।

सायण-टीका

निम्नोन्नतभावपरिहारेण त्वक्सादृश्ये सति पुरोडाशः सदेहो भवतीत्याह — ‘त्वचं गृह्णीष्वित्याह। सर्वमेवैनँ सदनुं करोति’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

अथा॒प आ॒नीय॒ परि॑मार्ष्टि ।
माँ॒स ए॒व तत् त्वच॑न् दधाति ।
तस्मा॑त् त्व॒चा माँ॒सञ् छ॒न्नम् ।

मूलम्

अथा॒प आ॒नीय॒ परि॑मार्ष्टि ।
माँ॒स ए॒व तत्त्वच॑न्दधाति ।
तस्मा॑त्त्व॒चा माँ॒सञ्छ॒न्नम् ।

भट्टभास्कर-टीका

त्वच इति श्लक्ष्णीकरणमद्भिः । गतमन्यत् ॥

सायण-टीका

श्लक्ष्णीकरणं विधत्ते — ‘अथाप आनीय परिमार्ष्टि। माँस एव तत्त्वचं दधाति। तस्मात्त्वचामाँसं छन्नम्’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

पर्यग्नि करणम्

विश्वास-प्रस्तुतिः

घ॒र्मो वा ए॒षोऽशा॑न्तः ॥59॥
+++(घ॒र्मो)+++ अ॒र्ध॒-मा॒से॑ ऽर्ध-मासे॒ प्रवृ॑ज्यते॒ यत् पु॑रो॒डाशः॑ ।
ई॑श्व॒रो यज॑मानँ शु॒चा प्र॒दहः॒+++(→प्रदग्धुम्)+++।
पर्य॑ग्नि करोति ।
प॒शुम् ए॒वैन॑म् +++(घर्मं)+++ अक॒श् शान्त्या॒ अप्र॑दाहाय ।

मूलम्

घ॒र्मो वा ए॒षोऽशा॑न्तः ॥59॥
अ॒र्ध॒मा॒से॑ऽर्धमासे॒ प्रवृ॑ज्यते । यत्पु॑रो॒डाशः॑ । स ई॑श्व॒रो यज॑मानँ शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय ।

सायण-टीका

तदेतद्विधत्ते — ‘घर्मो वा एषोऽशान्तः। अर्धमासेऽर्धमासे प्रवृज्यते। यत्पुरोडाशः। स ईश्वरो यजमानँ शुचाऽप्रदहः। पर्यग्नि करोति। पशुमेवैनमकः। शान्त्या अप्रदाहाय’
(ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

त्रिᳶ पर्य॑ग्नि करोति । त्र्य्-आ॑वृ॒द् +धि य॒ज्ञः । अथो॒ रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

त्रिᳶ पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै ।

भट्टभास्कर-टीका

4घर्मो वा इति ॥ घर्मः अग्निः अशान्तः अनुपरतः प्रवृज्यते उद्दीप्यते,
प्रस्तरणादिवत् धात्व्-अर्थ-निवृत्तिम् उपसर्ग आह ।
शुचा दीप्त्या यजमानं यदहः प्रकर्षेण दग्धुं स ईश्वरः स्यात् । ‘ईश्वरे तोसुन्कसुनौ’ इति कसुन् ।
पर्यग्निकरणेन पशुकल्पः क्रियत
इति तदस्य शान्त्यै भवति ।
यजमानस्य चाप्रदाहाय करोति । छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुकि लङि वा शपो लुक् ॥

सायण-टीका

आवृत्तिं विधत्ते – ‘त्रिः पर्यग्नि करोति। त्र्यावृद्धि यज्ञः। अथो रक्षसामपहत्यै, (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

“अ॒न्तरि॑तँ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒” इत्या॑ह ॥60॥
रक्ष॑साम् अ॒न्तर्हि॑त्यै ।

मूलम्

“अ॒न्तरि॑तँ॒ रक्षो॒ऽन्तरि॑ता॒ अरा॑तय॒” इत्या॑ह ॥60॥
रक्ष॑साम॒न्तर्हि॑त्यै ।

भट्टभास्कर-टीका

5अन्तरितमिति पर्यग्निकरणम् ॥

सायण-टीका

मन्त्रं व्याचष्टे — ‘अन्तरितँ रक्षोऽन्तरिता अरातय इत्याह। रक्षसामन्तर्हित्यै’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

पु॒रो॒डाशव्ँ॒ वा अधि॑श्रितँ॒ रक्षाँ॑स्य् अजिघाँसन्
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा।
स ए॒वास्मा॒द् रक्षाँ॒स्य् अपा॑हन्

मूलम्

पु॒रो॒डाशव्ँ॒ वा अधि॑श्रितँ॒ रक्षाँ॑स्यजिघाँसन् ।
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा स ए॒वास्मा॒द्रक्षाँ॒स्यपा॑हन् ।

सायण-टीका

सवितृपदस्य नाकपदस्य माऽतिधागित्यस्य चाभिप्रायमाह – पुरोडाशं वा अधिश्रितँ रक्षाँस्यजिघाँसन्। दिवि नाको नामाग्नी रक्षोहा। स एवास्माद्रक्षाँस्यपाहन्।

श्रपणम्

विश्वास-प्रस्तुतिः

“दे॒वस् त्वा॑ सवि॒ता श्र॑पय॒त्व् इ"त्य् आ॑ह
स॒वि॒तृ-प्र॑सूत ए॒वैनँ॑ श्रपयति

मूलम्

“दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वि"त्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैनँ॑ श्रपयति ।

सायण-टीका

देवस्त्वा सविता श्रपयत्वित्याह। सवितृप्रसूत एवैनँ श्रपयति।

विश्वास-प्रस्तुतिः

“वर्षि॑ष्ठे॒ अधि॒ नाक॒” इत्या॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।

मूलम्

“वर्षि॑ष्ठे॒ अधि॒ नाक॒” इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।

भट्टभास्कर-टीका

देवस्त्वेति श्रपणम् ।

सायण-टीका

वर्षिष्ठे अधि नाक इत्याह। रक्षसामपहत्यै।

विश्वास-प्रस्तुतिः

“अ॒ग्निस् ते॑ त॒नुव॒म् माऽति॑धा॒ग्”
इत्य् आ॒हाऽन॑तिदाहाय ।

मूलम्

अ॒ग्निस्ते॑ त॒नुव॒म्माऽति॑धा॒गित्या॒हाऽन॑तिदाहाय ।

सायण-टीका

अग्निस्ते तनुवं माऽतिधागित्याहानतिदाहाय’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

अग्ने॑ ह॒व्यँ ...{Loading}...
विश्वास-प्रसुतिः

“अग्ने॑ ह॒व्यँ र॑क्ष॒स्वे"त्या॑ह॒ गुप्त्यै॑ ॥34॥

मूलम्

“अग्ने॑ ह॒व्यँ र॑क्ष॒स्वे"त्या॑ह॒ गुप्त्यै॑ ॥34॥

भट्टभास्कर-टीका

17अग्ने हव्यमिति गार्हपत्याभिमन्त्रणम् ॥

सायण-टीका

अत्र हविषो रक्षामात्रं विवक्षितमित्याह- ‘अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ४ ) इति।


पूर्ववद्व्याचष्टे – ‘अग्ने हव्यँ रक्षस्वेत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

अवि॑दहन्तश् श्रपय॒त

विश्वास-प्रस्तुतिः

“अवि॑दहन्तश् श्रपय॒ते"ति॒ वाचव्ँ॒ विसृ॑जते +++(संवपने संयताम्)+++।
य॒ज्ञम् ए॒व ह॒वीँष्य् अ॑भिव्या॒हृत्य॒ प्रत॑नुते ।
पु॒रो॒रुच॒म् अवि॑दाहाय॒ शृत्यै॑ करोति ।

मूलम्

अवि॑दहन्तश्श्रपय॒तेति॒ वाचव्ँ॒विसृ॑जते ।
य॒ज्ञमे॒व ह॒वीँष्य॑भिव्या॒हृत्य॒ प्रत॑नुते ।
पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्त्यै॑ करोति ।

भट्टभास्कर-टीका

अविदहन्तः अविदग्धं कुर्वन्तः श्रपयतेति वाचं विसृजते संवपने संयताम् । हविर्गुणाभिव्याहरणव्याजेन यज्ञमेव प्रकर्षेण तनुते ।

किं च - पुरोरुचं प्रथमत एव रोचकं उद्दीपकं वाक्यं अविदाहाय श्रपणाय च करोति ॥

सायण-टीका

अग्नीध्रं प्रति प्रैषमन्त्रमुत्पाद्य व्याचष्टे — ‘अविदहन्तः श्रपयतेति वाचं विसृजते। यज्ञमेव हवीँष्यभिव्याहृत्य प्रतनुते। पुरोरुचमविदाहाय शृत्यै करोति’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

भस्मनाभिवासनम्

विश्वास-प्रस्तुतिः

म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तय्ँ यन् नाभि॑वा॒सये॑द्
आ॒विर् म॒स्तिष्क॑स् स्यात् ।

मूलम्

म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तय्ँयन्नाभि॑वा॒सये॑त् । आ॒विर्म॒स्तिष्क॑स्स्यात् ।

सायण-टीका

पुरोडाशाच्छादनं विधत्ते – मस्तिष्को वै पुरोडाशः। तं यन्नाभिवासयेत्। आविर्मस्तिष्कः स्यात्।

विश्वास-प्रस्तुतिः

अ॒भिवा॑सयति । तस्मा॒द् गुहा॑ म॒स्तिष्को॒
+++(कपाल-स्थानिना)+++ भस्म॑ना॒ ऽभिवा॑सयति

मूलम्

अ॒भिवा॑सयति । तस्मा॒द् गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒ऽभिवा॑सयति ।

भट्टभास्कर-टीका

6मस्तिष्को वा इति ॥ शिरो-मांस-तुल्योऽयं पुरोडाशः, प्राधान्यात् ।
अभिवासनं छादनम् ।
मस्तिष्कस्याविर्भावे म्रियेत
पुरोडाशस्याभिवासनात् सर्वदा मस्तिष्को गुहा गुह्यः गुह्ये वा स्थाने स्थितः ।
‘सुपां सुलुक्’ इत्याकारः ।

सायण-टीका

अभिवासयति। तस्माद्गुहा मस्तिष्कः’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

छादनयोग्यं द्रव्यं विधत्ते ‘भस्मनाऽभिवासयति।

विश्वास-प्रस्तुतिः

तस्मा॑न् माँ॒सेनास्थि॑ च्छ॒न्नव्ँ वे॒देना॒भिवा॑सयति । तस्मा॒त् केशै॒श् शिर॑श् छ॒न्नम्। ॥62॥
अ-ख॑लति-भावुको भवति॒
य ए॒वव्ँ वेद॑ ।

मूलम्

तस्मा॑न्माँ॒सेनास्थि॑ छ॒न्नम् ॥62॥
वे॒देना॒भिवा॑सयति ।

तस्मा॒त्केशै॒श्शिर॑श्छ॒न्नम् । अख॑लतिभावुको भवति । य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

अखलतिभावुकः खलति-भवन-शीलः वेदिता न भवति । छान्दस उकञ् ॥

सायण-टीका

तस्मान्माँसेनास्थि छन्नम्’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

यस्मान्मेदःस्थानीयः पुरोडाशो मांसस्थानीयेन भस्मनाऽऽच्छादितस्तस्माल्लोकेऽप्यस्थिसंश्र्लिष्टं मेदो मांसेन च्छन्नं भवति।

पुरोडाशस्योपरि भस्मनोऽध्यूहने साधनं विधत्ते – ‘वेदेनाभिवासयति। तस्मात्केशैः शिरश्छन्नम्’ (ब्रा. का. ३ प्र. २ अ. ८) इति। दर्भमुष्टिनिर्मितो वेदिसंमार्जनहेतुर्वेदः तस्मिन्दर्भाणां केशैः साम्यम्।

एतद्वेदनं प्रशंसति – ‘अखलतिभावुको भवति। य एवं वेद’ (ब्रा. का. ३ प्र. २ अ. ८) इति। केशरहितशिरोयुक्तः खलतिस्तद्भवनशीलो न भवति।

विश्वास-प्रस्तुतिः

प॒शोर् वै प्र॑ति॒मा पु॑रो॒डाशः॑ ।
स नाय॒जुष्क॑म् अभि॒वास्यः॑ ।
वृथे॑व स्यात् ।
ई॒श्व॒रा यज॑मानस्य प॒शव॒ᳶ प्रमे॑तोः+++(=[स्व]-प्रमरणे)+++ ।

मूलम्

प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ ।
स नाय॒जुष्क॑मभि॒वास्यः॑ ।
वृथे॑व स्यात् ।
ई॒श्व॒रा यज॑मानस्य प॒शव॒ᳶ प्रमे॑तोः ।

भट्टभास्कर-टीका

7पशोर्वा इति ॥ अयजुष्काभिवासने निष्फलं एव पुरोडाशो भवेत् । ईश्वराः यजमानस्य पशवः प्रमेतोः प्रकर्षेण मर्तुं ईश्वराः स्युः । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् ॥

सायण-टीका

समन्त्रकत्वप्रकाशकं मन्त्रमन्वव्यतिरेकाभ्यां व्याचष्टे — ‘पशोर्वै प्रतिमा पुरोडाशः। स नायजुष्कमभिवास्यः। वृथेव स्यात्। ईश्वरा यजमानस्य पशवः प्रमेतोः।

विश्वास-प्रस्तुतिः

“सम्ब्रह्म॑णा पृच्य॒स्वे“त्य् आ॑ह
प्रा॒णा वै ब्रह्म॑ ॥63॥
प्रा॒णाᳶ प॒शवः॑ ।
प्रा॒णैर् ए॒व प॒शून्त् सम्पृ॑णक्ति
न प्र॒मायु॑का भवन्ति ।

मूलम्

“सम्ब्रह्म॑णा पृच्य॒स्वे"त्या॑ह ।
प्रा॒णा वै ब्रह्म॑ ॥63॥
प्रा॒णाᳶ प॒शवः॑ । प्रा॒णैरे॒व प॒शून्त्सम्पृ॑णक्ति ।
न प्र॒मायु॑का भवन्ति ।

भट्टभास्कर-टीका

8सं ब्रह्मणेति भस्मनाऽभिवासनम् ॥ प्राणहेतुः ब्रह्म पशवश्च प्राणाः प्राणवन्तः, प्राणवतां प्राणैस्संपर्कोऽनेन ब्रह्मपुरोडाशसंपर्केण प्रार्थ्यते ।

सायण-टीका

सं ब्रह्मणा पृच्यस्वेत्याह। प्राणा वै ब्रह्म। प्राणाः पशवः। प्राणैरेव पशून्त्संपृणक्ति। न प्रमायुका भवन्ति’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शव॒ᳶ पुरी॑षम् ।
यद् ए॒वम् अ॑भिवा॒सय॑ति॒
यज॑मानम् ए॒व प्र॒जया॑ प॒शुभि॒स् सम॑र्धयति

मूलम्

यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शव॒ᳶ पुरी॑षम् ।
यदे॒वम॑भिवा॒सय॑ति॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒स्सम॑र्धयति ।

भट्टभास्कर-टीका

प्रजा पशवः पुरीषमिति तस्य पूरणम् ॥

सायण-टीका

मन्त्रेण यथा संपर्कस्तथा भस्मनाऽपि संपर्को युक्त एवेत्याह — ‘यजमानो वै पुरोडाशः प्रजा पशवः पुरीषम्। यदेवमभिवासयति। यजमानमेव प्रजया पशुभिः समर्धयति’ (ब्रा. का. ३ प्र. २ अ. ८) इति। पुरीषं भस्म।

पात्र-निर्णेजनम्

विश्वास-प्रस्तुतिः

दे॒वा वै ह॒विर् भृ॒त्वा ऽब्रु॑व॒न्न् -
“कस्मि॑न्न् इ॒दम् म्र॑क्ष्यामह॒” इति॑ । सो॑ऽग्निर॑ब्रवी॒त् -

“मयि॑ त॒नूस् सन्निध॑ध्वम् +++(←धा)+++ ।
अ॒हव्ँ व॒स् तञ् ज॑नयिष्यामि
यस्मि॑न् म्र॒क्ष्यध्व॒

इति॑ ।

मूलम्

दे॒वा वै ह॒विर्भृ॒त्वाऽब्रु॑वन् । कस्मि॑न्नि॒दम्म्र॑क्ष्यामह॒ इति॑ ।

सो॑ऽग्निर॑ब्रवीत् ॥64॥
मयि॑ त॒नूस्सन्निध॑ध्वम् । अ॒हव्ँव॒स्तञ्ज॑नयिष्यामि । यस्मि॑न्म्र॒क्ष्यध्व॒ इति॑ ।

भट्टभास्कर-टीका

9देवा इत्यादि ॥ हविस्संभरणानन्तरं अब्रुवन् इदं हविस्संभरणप्रभवं हिंसादिकं पापं कस्मिन् म्रक्ष्यामहे शोधयाम इति । अथ तच्छ्रुतवान् अग्निः अब्रवीत् देवान्, युष्माकं तनूः मयि संनिधध्वं सह निक्षिपत, ततः अहं तादृशं युष्माकं जनयिष्यामि यस्मिन्निदं पापं म्रक्ष्वध्व इति ।

सायण-टीका

एकतादीनामुत्पत्तिप्रकारमाह — ‘देवा वै हविर्भूत्वाऽब्रुवन्। कस्मिन्निदं म्रक्ष्यामह इति। सोऽग्निरब्रवीत्। मयि तनूः संनिदध्वम्। अहं वस्तं जनयिष्यामि। यस्मिन्म्रक्ष्यध्व’ इति।

मूलम्

यद॒द्भ्योऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् ।

यदा॒त्मभ्योऽजा॑यन्त । तदा॒त्म्याना॑मात्म्य॒त्वम् ।

विश्वास-प्रस्तुतिः

ते दे॒वा अ॒ग्नौ त॒नूस् सन्न्य॑दधत । तस्मा॑द् आहुर् -“अ॒ग्निस् सर्वा॑ दे॒वता॒” इति॑ ।+++(5)+++

मूलम्

ते दे॒वा अ॒ग्नौ त॒नूस्सन्न्य॑दधत । तस्मा॑दाहुः । अ॒ग्निस्सर्वा॑ दे॒वता॒ इति॑ ।

भट्टभास्कर-टीका

ते देवा इत्यादि । गतम् ।

सायण-टीका

ते देवा अग्नौ तनूः संन्यदधत। तस्मादाहुः। अग्निः सर्वा देवता इति।

विश्वास-प्रस्तुतिः

सोऽङ्गा॑रेणा॒पो अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ ऽजायत

स द्वि॒तीय॑म् अ॒भ्य॑पातयत् ॥65॥
ततो॑ द्वि॒तो॑ ऽजायत

स तृ॒तीय॑म् अ॒भ्य॑पातयत् । तत॑स् त्रि॒तो॑ ऽजायत

मूलम्

सोऽङ्गा॑रेणा॒पः । अ॒भ्य॑पातयत् । तत॑ एक॒तो॑ऽजायत ।

स द्वि॒तीय॑म॒भ्य॑पातयत् ॥65॥
ततो॑ द्वि॒तो॑ऽजायत ।

स तृ॒तीय॑म॒भ्य॑पातयत् । तत॑स्त्रि॒तो॑ऽजायत ।

भट्टभास्कर-टीका

अथ सर्वदेवात्मा सः अग्निः अङ्गारेण अङ्गाररूपेण वर्तमानः अपोऽभि अपोऽभिलक्ष्य आत्मानं अपातयत् ।

तत एकतोनामाग्नि-विशेषो ऽजायत
एकस्माद् अभिपातात् जातः एकतः ।
तसिलन्ताच्छान्दसोऽकारप्रत्ययः ।
एतेन द्वितत्रितौ गतौ ।

सायण-टीका

सोऽङ्गारेणापः अभ्यपातयत्। तत एकतोऽजायत। स द्वितीयमभ्यपातयत्। ततो द्वितोऽजायत। स तृतीयमभ्यपातयत्। ततस्त्रितोऽजायत।

विश्वास-प्रस्तुतिः

यद् अ॒द्भ्यो ऽजा॑यन्त॒ -
तद् आ॒प्याना॑म् +++(अग्निविशेषाणाम्)+++ आप्य॒त्वम् ।
यद् आ॒त्मभ्यो ऽजा॑यन्त॒
तद् आ॒त्म्याना॑म् आत्म्य॒त्वम् ।

मूलम्

यद॒द्भ्योऽजा॑यन्त॒ तदा॒प्याना॑माप्य॒त्वम् ।
यदा॒त्मभ्योऽजा॑यन्त॒ तदा॒त्म्याना॑मात्म्य॒त्वम् ।

भट्टभास्कर-टीका

आप्यानामिति । छान्दसो ण्यः । आत्म्यानामिति । छान्दसो यः ॥

सायण-टीका

यदद्भयोऽजायन्त। तदाप्यानामाप्यत्वम्। यदात्मभ्योऽजायन्त। तदात्म्यानामात्म्यत्वम् ‘ (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

ते दे॒वा आ॒प्येष्व् अ॑मृजत,
आ॒प्या अ॑मृजत॒ सूर्या॑भ्युदिते॒,
सूर्या॑भ्युदित॒स् सूर्या॑भिनिम्रुक्ते॒,
सूर्या॑भिनिम्रुक्तᳵ कुन॒खिनि॑,
कुन॒खी श्या॒व-द॑ति,
श्या॒व-द॑न्न् अग्र-दिधि॒षाव् +++(→अग्रजात् पूर्वं विवाहकृत्)+++,
अग्रदिधि॒षुᳶ प॑रिवि॒त्ते +++(→अनुजात् पश्चाद् ऊढः)+++
परिवि॒त्तो वी॑र॒-हणि॑
वीर॒-हा ब्र॑ह्म॒-हणि॑।
तद् ब्र॑ह्म॒-हण॒न् नात्य॑च्यवत

मूलम्

ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या॑भ्युदिते । सूर्या॑भ्युदित॒स्सूर्या॑भिनिम्रुक्ते ॥66॥

सूर्या॑भिनिम्रुक्तᳵ कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षुᳶ प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ । तद्ब्र॑ह्म॒हण॒न्नात्य॑च्यवत ।

अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै । उल्मु॑केना॒भिगृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ॥67॥

भट्टभास्कर-टीका

10ते देवा इत्यादि ॥ ‘एकताय स्वाहा’ इत्यादिभिर्मन्त्रैः स्वरेखासु पात्रनिर्नेजनानां अपां निनयनेन ।
अथैते आप्या देवाः आत्मीयं पापं सूर्याभ्युदिते अमृजत
यम् अकृतसन्ध्यं सूर्योऽभ्युदेति यमभिलक्ष्योदेति स सूर्येणाभ्युदितः अभिलक्ष्योद्यता दूषितः ।
‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
यद्वा - यं सूर्योऽभिमन्यमानः क्रुध्यन्न् उदेति स सूर्येणाभ्युदितः संज्ञैषा ।
सूर्याभिनिम्रुक्त इति । अमृजतेत्येव । एवं सवत्र ।

सूर्याभ्युदितेन सूर्याभिनिम्रुक्तो गतः । निम्रुक्तः अस्तंगतः । म्रुचुम्लुचु स्तेयकरणे ।

कुनखी कुत्सितनखाख्येन व्याधिविशेषेण तद्वान्, व्याधिविशेषेण दूषितनखः । श्यावदन् व्याधिविशेषेण मलिनदन्तः । ‘विभाषा श्यावारोकाभ्याम्’ इति दद्भावः ।

अग्रदिधिषुः यस्यां ज्येष्ठायामनूढायां कनीयसी ऊढा सा अग्रदिधिषुः । तद्भर्तेत्येके ।

परिवित्तः ज्येष्ठात् पर्वूम् ऊढवान्,
अस्यैव ज्येष्ठ इत्येके ।

ब्रह्महा ब्राह्मणं हतवान् । तत् पाप ब्रह्महणं अतिक्रम्य नात्यच्यवत नात्यक्रमत नान्यत्रागच्छत् ।

सायण-टीका

स च लेपः परम्परया व्रीह्यवघातिनि पुरुषे पर्यवसित इत्याह — ‘ते देवा आप्येष्वमृजत। आप्या अमृजत सूर्याभ्युदितः। सूर्याभ्युदितः सूर्याभिनिम्रूक्ते। सूर्याभिनिम्रूक्तः कुनखिनि। कुनखी श्यावदति। श्यावदन्नग्रदिधिषौ। अग्रदिधिषुः परिवित्ते। परिवित्तो वीरहणि। वीरहा ब्रह्महणि। तद्ब्रह्महणं नात्यच्यवत’ (ब्रा. का. ३ प्र. २ अ. ८) इति।

विश्वास-प्रस्तुतिः

अ॒न्त॒र्वे॒दि निन॑य॒त्य् अव॑रुध्यै ।
उल्मु॑केना॒भिगृ॑ह्णाति शृत॒त्वाय॑ ।
शृ॒तका॑मा इव॒ हि दे॒वाः ॥67॥

मूलम्

अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुध्यै ।
उल्मु॑केना॒भिगृ॑ह्णाति शृत॒त्वाय॑ ।
शृ॒तका॑मा इव॒ हि दे॒वाः ॥67॥

भट्टभास्कर-टीका

अन्तर्वेदीत्यादि । निनयनं निपतनं अवरुध्यै कर्मफलस्य लाभाय । अभिग्रहणं उपर्याक्रमणं उल्मुकेनाभितापनं तत् शृतत्वाय भवति शृतं हि देवा कामयन्ते । ‘शीलिकामि’ इत्यादिना णप्रत्ययः । पूर्वपदप्रकृतिस्वरत्वं च ॥

इति तैत्तिरीये ब्राह्मणे तृतीये द्वितीये अष्टमोऽनुवाकः ॥

सायण-टीका

प्रक्षालनोदकस्य लेखासु निनयनं विधत्ते — ‘अन्तर्वेदि निनयत्यवरुद्ध्यै’ (ब्रा. का. ३ प्र. २ अ. ८) इति। एतेन निनयनेन कर्मफलप्रतिबन्धकपापलेपस्यापनीतत्वात्फलसंपादनाभेदं निनयनं संपद्यते।

तस्य जलस्य वह्नितापं विधत्ते – ‘उल्मुकेनाभिगृह्णाति शृतत्वाय। शृतकामा इव हि देवाः’ (ब्रा. का. ३ प्र. २ अ. ८) इति। शृतं पक्वम्। यः शृतः स सदेव इति पूर्वमुदाहृतम्।