०७ कपालोपधानम् ...{Loading}...
धृष्ट्यादानम्
विश्वास-प्रस्तुतिः
“धृष्टि॑र् असि॒ ब्रह्म॑ य॒च्छे"त्य् आ॑ह॒ धृत्यै॑ ।
मूलम्
“धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छे"त्या॑ह॒ धृत्यै॑ ।
भट्टभास्कर-टीका
1धृष्टिरसीति धृष्ट्यादानम् ॥ शत्रूणां धर्षणसामर्थ्यात् धारणाय भवति ॥
सायण-टीका
धृष्टिशब्दो धैर्यद्योतनायेत्याह — “धृष्टिरसि ब्रह्म यच्छेत्याह धृत्यै” (ब्रा. का. ३ प्र. २ अ. ७) इति।
गार्हपत्याभिमन्त्रणम्
विश्वास-प्रस्तुतिः
“अपा॑ ऽग्ने॒, ऽग्निम् आ॒मा+++(=अपक्वा)+++-द॑ञ् जहि +++(, पक्वादं रक्ष)+++
निष्क्र॒व्यादँ॑ से॒धा
दे॑व॒-यजव्ँ॑ व॒हे"त्य् आ॑ह ।
मूलम्
“अपा॑ग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजव्ँ॑व॒हे"त्या॑ह ।
भट्टभास्कर-टीका
2अपाग्न इति गार्हपत्याभिमन्त्रणम् ॥ आमात् अपक्वाशी हविषो विनाशकः । ‘अदोऽनन्ने इति विट् । निष्क्रव्यादमित्यङ्गारनिरसनम् । क्रव्यात् पक्वमांसाशी चिताग्निः । ‘क्रव्ये च’ इति विट् । आदेवयजमित्यङ्गारमन्यमावर्तयति ।
सायण-टीका
यथोक्तस्याग्न्यानयनस्य कपालोपधानार्थतां दर्शयन्प्रशंसति — “अपाग्नेऽग्निमामादं जहि निष्क्रव्यादँ सेधाऽऽदेवयजं वहेत्याह।
विश्वास-प्रस्तुतिः
य ए॒वामात्, क्र॒व्यात् +++(च)+++,
तम् अ॑प॒हत्य॒
मेध्ये॒ऽग्नौ क॒पाल॒म् उप॑दधाति ।
मूलम्
य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति ।
भट्टभास्कर-टीका
मेध्यः मेधार्हः देवयट् नाम हविषां सम्यक् संपादयिता देवानां यष्टा ॥
सायण-टीका
य एवाऽऽमात्क्रव्यात्। तमपहत्य। मेध्येऽग्नौ कपालमुपदधाति” (ब्रा. का. ३ प्र. २ अ. ७) इति।
अङ्गाराधिवर्तनम्
विश्वास-प्रस्तुतिः
“निर्द॑ग्धँ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒” इत्या॑ह ।
रक्षाँ॑स्ये॒व निर्द॑हति ।
मूलम्
“निर्द॑ग्धँ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒” इत्या॑ह ।
रक्षाँ॑स्ये॒व निर्द॑हति ।
भट्टभास्कर-टीका
3निर्दग्धमित्यङ्गाराधिवर्तनम् ॥
सायण-टीका
आम्नामक्रगेण निर्दग्धमन्त्रमादौ व्याचष्टे – “निर्दग्धँरक्षो निर्दग्धा अरातय इत्याह। रक्षाँस्येव निर्दहति” (ब्रा. का. ३ प्र. २ अ. ७) इति।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒वत्य् उप॑दधाति ।
अ॒स्मिन्न् ए॒व लो॒के ज्योति॑र् धत्ते ।
मूलम्
अ॒ग्नि॒वत्युप॑दधाति ।
अ॒स्मिन्नेे॒व लो॒के ज्योति॑र्धत्ते ।
भट्टभास्कर-टीका
अग्निवतीत्यादि । ‘छन्दसीरः’ इति मतुपो वत्वम् । ‘ह्रस्वनुड्भ्याम्’ इति मतुप उदात्तत्वम् । अग्निवति प्रदेशे कपालोपधानात् अस्मिन् पृथिवीलोके ज्योतिर्धत्ते ।
सायण-टीका
कपालानामुपधानं विधत्ते – “अग्निवत्युपदधाति। अस्मिन्नेव लोके ज्योतिर्वत्ते” (ब्रा. का. ३ प्र. २ अ. ७) इति।
यागोक्ताङ्गारयुक्ते प्रदेशे कपालमुपदध्यात्।
विश्वास-प्रस्तुतिः
अङ्गा॑र॒म् अधि॑वर्तयति ॥50॥
अ॒न्तरि॑क्ष ए॒व ज्योति॑र् धत्ते ।
आ॒दि॒त्यम् ए॒वामुष्मिल्ँ॑ लो॒के ज्योति॑र् धत्ते ।
मूलम्
अङ्गा॑र॒मधि॑वर्तयति ॥50॥
अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते ।
आ॒दि॒त्यमे॒वामुष्मिल्ँ॑ लो॒के ज्योति॑र्धत्ते ।
भट्टभास्कर-टीका
कपालेऽङ्गाराधिवर्तनात् अन्तरिक्षं ज्योतिष्मत्करोति अमुष्मिन् द्युलोके आदित्याख्यं ज्योतिः प्रागेव सन्निहितम् ।
सायण-टीका
कपालोपर्यन्यस्याङ्गारस्य स्थापनं विधत्ते – “अङ्गारमविवर्तयति। अन्तरिक्ष एव ज्योतिर्धत्ते” (ब्रा. का. ३ प्र. २ अ. ७) इति।
कपालस्याध ऊर्थ्व च स्थिताभ्यामङ्गाराभ्यां लोकद्वयस्यज्योतिष्मत्त्वे ततोऽप्यूर्ध्वमङ्गारस्य स्थापनासंभवांद्दिवो ज्योतिर्न स्यादिति न शङ्कनीयमित्याह — ‘आदित्यमेवामुष्मिल्ँ लोके ज्योतिर्धत्ते’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
विश्वास-प्रस्तुतिः
ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति॒ य ए॒वव्ँ वेद॑ ।
मूलम्
ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति । य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
अथैवं वेदितुरपि एते त्रयो लोकाः ज्योतिष्मन्तो भवन्ति ॥
सायण-टीका
एतद्वृत्तान्तज्ञानं प्रशंसति — ‘ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति। य एवं वेद’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
ध्रु॒वम् अ॑सि
विश्वास-प्रस्तुतिः
“ध्रु॒वम् अ॑सि, पृथि॒वीन् दृँ॒हे"त्य् आ॑ह ।
पृ॒थि॒वीम् ए॒वैतेन॑ दृँहति ।
मूलम्
“ध्रु॒वम॑सि पृथि॒वीन्दृँ॒हे"त्या॑ह ।
पृ॒थि॒वीमे॒वैतेन॑ दृँहति ।
भट्टभास्कर-टीका
4ध्रुवमिति मध्यमकपालोपधानम् ।
सायण-टीका
क्रमेण मन्त्रान्व्याचष्ट — ‘ध्रुवमसि पृथिवीं दृँहेत्याह। पृथिवीमेवैतेन दृँहति।
विश्वास-प्रस्तुतिः
“ध॒र्त्रम् अ॑स्य् अ॒न्तरि॑क्षन् दृँ॒हे"त्य् आ॑ह ।
अ॒न्तरि॑क्षम् ए॒वैतेन॑ दृँहति ।
मूलम्
“ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृँ॒हे"त्या॑ह ।
अ॒न्तरि॑क्षमे॒वैतेन॑ दृँहति ।
भट्टभास्कर-टीका
धर्त्रमिति पूर्वार्ध्योपधानम् ।
सायण-टीका
धर्त्रमस्यन्तरिक्षं दृँहेत्याह। अन्तरिक्षमेवैतेन दृँहति।
विश्वास-प्रस्तुतिः
“ध॒रुण॑म् असि॒ दिव॑न् दृँ॒हे"त्या॑ह ।
दिव॑म् ए॒वैतेन॑ दृँहति ॥51॥
मूलम्
“ध॒रुण॑मसि॒ दिव॑न्दृँ॒हे"त्या॑ह ।
दिव॑मे॒वैतेन॑ दृँहति ॥51॥
भट्टभास्कर-टीका
धरुणमित्यपरार्ध्योपधानम् ।
सायण-टीका
धरुणंमसि दिवं दृँहेत्याह। दिवमेवैतेन दृँहति।
विश्वास-प्रस्तुतिः
“धर्मा॑सि॒ दिशो॑ दृँ॒हे"त्या॑ह ।
दिश॑ ए॒वैतेन॑ दृँहति ।
इ॒मान् ए॒वैतैर् लो॒कान् दृँ॑हति ।
मूलम्
“धर्मा॑सि॒ दिशो॑ दृँ॒हे"त्या॑ह ।
दिश॑ ए॒वैतेन॑ दृँहति ।
इ॒माने॒वैतैर्लो॒कान्दृँ॑हति ।
भट्टभास्कर-टीका
धर्मासीति दक्षिणार्ध्योपधानम् ॥
सायण-टीका
धर्मासि दिशो दृँहेत्याह। दिश एवैतेन दृँहति’ (ब्रा. का. ३ प्र. २ अ. ७) इति। उपसंहरति — ‘इमानेवैतैर्लोकान्दृँहति’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
विश्वास-प्रस्तुतिः
दृँह॑न्ते ऽस्मा इ॒मे लो॒काᳶ
प्र॒जया॑ प॒शुभि॒र्, य ए॒वव्ँ वेद॑ ।
मूलम्
दृँह॑न्तेऽस्मा इ॒मे लो॒काᳶ प्र॒जया॑ प॒शुभिः॑ । य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
दृंहन्त इति । दृहि वृद्धौ, उदात्तेत्, कर्मकर्तर्यात्मनेपदम् । स्वयमेवात्मानं दृंहयतीति । ‘निश्रन्थि’ इत्यादिना यगभावः, ‘छन्दस्युभयथा’ इति शपः आर्धधातुकत्वात् णिलोपः ॥
सायण-टीका
एतद्वेदनं प्रशंसति — ‘दृँहन्तेऽस्मा इमे लोकाः प्रजया पशुभिः। य एवं वेद’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
सङ्ख्यास्तुतिः
विश्वास-प्रस्तुतिः
त्रीण्य् अग्रे॑ क॒पाला॒न्य् उप॑दधाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒म् आप्त्यै॑ ।
मूलम्
त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒षाल्ँ लो॒काना॒माप्त्यै॑ ।
भट्टभास्कर-टीका
5त्रीण्यग्र इति सङ्ख्यास्तुतिः ॥ त्रीणि मध्यमपूर्वापराणि ।
सायण-टीका
सर्वत्र विधेयार्थं केनापि प्रकारेण स्तुत्वा श्रद्धोत्पादनीयेति व्युत्पादयितुं कपालोपधानं बहुधा स्तौति। तत्रायमेकः प्रकारः — ‘त्रीण्यग्रे कपालान्युपदधाति। त्रय इमे लोकाः। एषां लोकानामाप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ७) इति। मध्यमपूर्वापरकपालगतं त्रित्वमपि प्रशस्तम्।
विश्वास-प्रस्तुतिः
एक॒म् अग्रे॑ क॒पाल॒म् उप॑दधाति ।
एकव्ँ॒ वा अग्रे॑ क॒पाल॒म् पुरु॑षस्य स॒म्भव॑ति ॥52॥
अथ॒ द्वे ।
अथ॒ त्रीणि॑ ।
अथ॑ च॒त्वारि॑ ।
अथा॒ष्टौ ।
तस्मा॑द् अ॒ष्टाक॑पाल॒म् पुरु॑षस्य॒ शिरः॑ ।
मूलम्
एक॒मग्रे॑ क॒पाल॒मुप॑दधाति ।
एकव्ँ॒ वा अग्रे॑ क॒पाल॒म्पुरु॑षस्य स॒म्भव॑ति ॥52॥
अथ॒ द्वे ।
अथ॒ त्रीणि॑ ।
अथ॑ च॒त्वारि॑ ।
अथा॒ष्टौ ।
तस्मा॑द॒ष्टाक॑पाल॒म्पुरु॑षस्य॒ शिरः॑ ।
भट्टभास्कर-टीका
एकमग्र इत्यादि अष्टाकपालावयवसङ्ख्यास्तुतिः । तत्र नानामन्त्रकाणि चत्वारि, पञ्चमादीन्येकमन्त्रकाणि ।
सायण-टीका
अथापरः प्रकारः — ‘एकमग्रे कपालमुपदधाति। एकं वा अग्रे कपालं पुरुषस्य संभवति।
अथ द्वे। अथ त्रीणि। अथ चत्वारि। अथाष्टौ। तस्मादष्टाकपालं पुरषस्य शिरः’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
विश्वास-प्रस्तुतिः
यद् ए॒वङ् क॒पाला॑न्य् उप॒दधा॑ति -
य॒ज्ञो वै प्र॒जाप॑तिः,
य॒ज्ञमे॒व प्र॒जाप॑तिँ॒ सँस्क॑रोति ।
मूलम्
यदे॒वङ्क॒पाला॑न्युप॒दधा॑ति ।
य॒ज्ञो वै प्र॒जाप॑तिः ।
य॒ज्ञमे॒व प्र॒जाप॑तिँ॒ सँस्क॑रोति ।
भट्टभास्कर-टीका
तत्रात्मसमष्टिरूपः प्रजापतिः स्वयं यज्ञः तेन यज्ञसंस्कारण कपालोपधानादिना तद्व्यष्टिभूत आत्मा स्वयं संस्क्रियते ।
सायण-टीका
कपालेषु संख्यां स्तुत्वा तदुपधानं स्तौति — ‘यदेवं कपालान्युपदधाति। यज्ञो वै प्रजापतिः यज्ञमेव प्रजापतिँ सँस्करोति।
विश्वास-प्रस्तुतिः
आ॒त्मान॑म् ए॒व तत् सँस्क॑रोति।
तँ सँस्कृ॑तम् आ॒त्मान॑म् अ॒मुष्मिल्ँ॑ लो॒के ऽनु॒ परै॑ति ।
मूलम्
आ॒त्मान॑मे॒व तत्सँस्क॑रोति ।
तँ सँस्कृ॑तमा॒त्मान॑म् ॥53॥
अ॒मुष्मिल्ँ॑ लो॒केऽनु॒ परै॑ति ।
भट्टभास्कर-टीका
तं तथा संस्कृतं आत्मानं अमुष्मिन् लोकादौ भोगस्थाने अयं पुरुषः अनुपरैति अनुगच्छति । एकस्यैव संस्कृतासंस्कृतरूपेण भेद उपचर्यते ॥
सायण-टीका
आत्मानमेव तत्सँस्करोति। तँसँस्कृतमात्मानम्। अमुष्मिल्ँ लोकेऽनुपरेति’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
अष्टाकपालादीनां छन्दस्त्वेन स्तुतिः
विश्वास-प्रस्तुतिः
यद् अ॒ष्टाव् उ॑प॒दधा॑ति - गायत्रि॒या तत् सम्मि॑तम् ।
यन् नव॑ त्रि॒वृता॒ तत् ।
यद् दश॑ वि॒राजा॒ तत् ।
यद् एका॑दश त्रि॒ष्टुभा॒ तत् ।
यद् द्वाद॑श॒ जग॑त्या॒ तत् ।
मूलम्
यद॒ष्टावु॑प॒दधा॑ति । गा॒य॒त्रि॒या तत्सम्मि॑तम् ।
यन्नव॑ । त्रि॒वृता॒ तत् ।
यद्दश॑ । वि॒राजा॒ तत् ।
यदेका॑दश । त्रि॒ष्टुभा॒ तत् ।
यद्द्वाद॑श ॥54॥
जग॑त्या॒ तत् ।
भट्टभास्कर-टीका
6यदष्टावित्यष्टाकपालादीनां छन्दस्त्वेन स्तुतिः ॥ छन्दस्सम्मितानीति । नवत्वान्वयात् त्रिवृत् अतिबृहत्युपचर्यते । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकतिस्वरत्वम् ।
सायण-टीका
अपरः प्रकारः — ‘यदष्टावुपदधाति। गायत्रिया तत्संमितम्। यन्नव। त्रिवृता तत्। यद्दश। विराजा तत्। यदेकादश। त्रिष्टुभातत्। यद्द्वादश। जगत्या तत्।
विश्वास-प्रस्तुतिः
छन्द॑स्-सम्मितानि॒ स उ॑प॒दध॑त् क॒पाला॑नि
इ॒माल्ँ लो॒कान् अ॑नुपू॒र्वन् दिशो॒ विधृ॑त्यै दृँहति ।
मूलम्
इ॒माल्ँ लो॒कान॑नुपू॒र्वन्दिशो॒ विधृ॑त्यै दृँहति ।
भट्टभास्कर-टीका
इमानिति । इमान् लोकान् दिशश्च विधृत्यै पृथगवस्थानाय दृंहति लोकानां दिशां च छन्दःकारणकत्वात्, आयुरादीनि च यजमाने स्थापयति तत्कारणानां छन्दसां स्थापितत्वात् ।
सायण-टीका
छन्दःसंमितानि स उपदधत्कपालानि इमाल्ँ लोकावनुपर्वं दिशो विधृत्यै दृँहति।
विश्वास-प्रस्तुतिः
अथायु॑ᳶ प्रा॒णान् प्र॒जाम् प॒शून् यज॑माने दधाति ।
स॒जा॒तान् अ॑स्मा अ॒भितो॑ बहु॒लान् क॑रोति ।
मूलम्
अथायु॑ᳶ प्रा॒णान्प्र॒जाम्प॒शून् यज॑माने दधाति ।
स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान्क॑रोति ।
भट्टभास्कर-टीका
सजातान् समानजन्मनश्च पुरुषान् अभितः सेवमानान् बन्धून् चास्य करोति अभितश्छन्दसां स्थापनात् ॥
सायण-टीका
अथाऽऽयुः प्राणान्प्रजां पशून्यजमाने दधाति। सजातानस्मा अमितो बहुलान्करोति’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
चित॒स् स्थ
विश्वास-प्रस्तुतिः
“चित॒स् स्थे"त्य् आ॑ह ।
य॒था॒-य॒जुर् +++(←प्र॒जाम् अ॒स्मै …)+++ ए॒वैतत् ।
मूलम्
“चित॒स्स्थे"त्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
7चितः स्थेत्यन्यकपालोपधानम् ॥ प्रजादिसिद्धिर्यथायजुर्भवत्येव ॥
सायण-टीका
क्रमप्राप्ते मन्त्रे स्पष्टार्थत्वं तर्शयति — ‘चितः स्थेत्याह। यथाषजुरेवैतत्’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
अङ्गाराभिवासनम्
विश्वास-प्रस्तुतिः
“भृगू॑णा॒म् अङ्गि॑रसा॒न् तप॑सा तप्यध्व॒म्” इत्य् आ॑ह ।
दे॒वता॑नाम् ए॒वैना॑नि॒ तप॑सा तपति ।
मूलम्
“भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्व॒"मित्या॑ह ।
दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति ।
सायण-टीका
हे कपालानि देवतातपोरूपेणानेनाग्निना तप्तानि भवत। इममेवार्थं दर्शयति – ‘भृगूणामङ्गिरसां तपसा तप्यध्वमित्याह। देवतानामेवैनानि तपसा तपति’ (ब्रा. का. ३ प्र. २ अ. ७) इति।
यानि॑ घ॒र्मे
विश्वास-प्रस्तुतिः
तानि॒ तत॒स् सँस्थि॑ते॒
यानि॑ घ॒र्मे क॒पाला॑न्य् उपचि॒न्वन्ति॑
“वे॒धस॒” इति॒ चतु॑ष्पदय॒ र्चा वि मु॑ञ्चति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शुष्व् ए॒वोपरि॑ष्टा॒त् प्रति॑तिष्ठति ॥55॥
मूलम्
तानि॒ तत॒स्सँस्थि॑ते ।
यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा वि मु॑ञ्चति ।
चतु॑ष्पादᳶ प॒शवः॑ ।
प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति ॥55॥
भट्टभास्कर-टीका
8भृगूणामित्यङ्गाराभिवासनम् ॥ चतुष्पदयर्चेति । इत्थं ज्ञात्वाऽनुष्ठेयमिति दर्शयति । लोपे समासान्ते ‘टाबृचि’ इति टापि ‘पादः पत्’ इति पद्भावः ॥
इति ब्राह्मणे तृतीये द्वितीये सप्तमः ॥
सायण-टीका
अनेकगुणविशिष्टं विमोकं विधत्ते — ‘तानि ततः सँस्थिते। यानि घर्मे कपालान्युपचिन्दन्ति वेधस इति चतुष्पदयर्चा विमु़ञ्चति। चतुष्पादः पशवः। पशुष्वेवोपरिष्टात्प्रतितिष्ठति’ (ब्रा. का. ३ प्र. २ अ. ७) इति।