०६ तण्डुलपेषणम् ...{Loading}...
अव॑धूतँ॒
अवधूतम् ...{Loading}...
विश्वास-प्रस्तुतिः
“अव॑धूतँ॒ रक्षो ऽव॑धूता॒ अरा॑तय॒” इत्य् आ॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।
मूलम्
“अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
भट्टभास्कर-टीका
अवधूतमिति कृष्णाजिनाधिवसनम् ।
सायण-टीका
प्रत्युष्टमितिवद्व्याचष्टे –”अवधूतँ रक्षोऽवधूर्तां अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“अदि॑त्या॒स् त्वग् अ॒सी"त्य् आ॑ह।
इ॒यव्ँ वा अदि॑तिः ॥39॥
अ॒स्या ए॒वैन॒त् त्वच॑ङ् करोति ।
मूलम्
“अदि॑त्या॒स्त्वग॒सी"त्या॑ह।
इ॒यव्ँ वा अदि॑तिः ॥39॥
अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति ।
भट्टभास्कर-टीका
अदित्या इति कृष्णाजिनोत्तरणम् ।
सायण-टीका
मन्त्रस्योक्तार्थपरत्वं दर्शयति — “अदित्यास्त्वगसीत्याह। इयं वा अदितिः अस्या एवैनत्त्वचं करोति।
विश्वास-प्रस्तुतिः
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
मूलम्
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
सायण-टीका
प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त् प्रती॒चीन॑-ग्रीव॒म् उत्त॑र-लो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
मूलम्
पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
प्रतिष्ठित्या इति । आत्मीयत्वेन पृथिव्या अनुज्ञातत्वात् प्रतिष्ठितत्वम् ॥
सायण-टीका
देशादिगुणविशिष्टमास्तरणं विधत्ते — “पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणति मेध्यत्वाय।
विश्वास-प्रस्तुतिः
तस्मा॑त् पु॒रस्ता॑त् प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒म् उप॑तिष्ठन्ते ।+++(5)+++
तस्मा॑त् +++(उपस्थानात्??)+++ प्र॒जा मृ॒गङ् ग्राहु॑काः ।
मूलम्
तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते ।
तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः ।
भट्टभास्कर-टीका
6पुरस्तादिति ॥ पुरस्ताद् आरभ्य पुरस्ताद्-भसत्कं+++(=??)+++ प्रतीचीन-ग्रीवं उपरि-स्थित-रोमाजिनम् उपस्तृणाति
मेध्यत्वाय यज्ञार्हत्वाय,
तस्मात् पूर्वस्यां दिशि स्थिताः प्रत्यङ्मुखाः पशवः यज्ञं उपतिष्ठन्ते ।
तस्मान् मेध्यत्वाद् एव यज्ञोपयुक्तत्वात्
प्रजा मृगं ग्राहुकाः ताच्छील्येन ग्रहीत्र्यः । छान्दस उकञ् ।
सायण-टीका
तस्मात्पुरतात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते। तस्मात्प्रजा मृगंग्राहुकाः” (ब्रा. का. ३ प्र. २ अ. ५) इति।
यस्मादाहवनीयस्य पूर्वभागे कृष्णाजिनं पश्चिमशिरस्कमूर्ध्वलोमकमास्तृतं तस्मात्तादृशा एव सन्तो यूपे बद्धाः पशवो यज्ञं सेवन्ते। यस्मादयं पशुभिः सेव्यो यज्ञस्तस्मादेव प्रत्यवायभयरहिताः सत्यः प्रजा यज्ञार्थं मृगग्रहणशीला भवन्ति।
विश्वास-प्रस्तुतिः
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ कृष्णो॑ रू॒पङ् कृ॒त्वा ।
मूलम्
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ कृष्णो॑ रू॒पङ्कृ॒त्वा ।
भट्टभास्कर-टीका
कृष्ण इति । कृष्णमृगो भूत्वा रूपं च तदीयं कृत्वा देवेभ्यो यज्ञो निलायत निरगच्छत् । ‘उपसर्गस्यायतौ’ इति लत्वम् ।
सायण-टीका
कृष्णाजिनस्याऽऽदरे हेतुं ब्रुवंस्तद्विशिष्टमवघातं विधत्ते — “यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा।
विश्वास-प्रस्तुतिः
यत् कृ॑ष्णाजि॒ने ह॒विर् अ॑धिपि॒नष्टि॑,
य॒ज्ञाद् ए॒व तद् य॒ज्ञम् प्रयु॑ङ्क्ते
ह॒विषो ऽस्क॑न्दाय ॥
मूलम्
यत्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते । ह॒विषोऽस्क॑न्दाय ॥
भट्टभास्कर-टीका
1अवधूतमित्यादि ॥ गतम् । हविरधिपिनष्टीति विशेषः ॥
सायण-टीका
यत्कृष्णाजिने हविरधिपिनष्टि। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते। हविषोस्कन्दाय” (ब्रा. का. ३ प्र. २ अ. ६) इति।
दि॒वस् स्क॑म्भ॒निर् अ॑सि॒
विश्वास-प्रस्तुतिः
द्यावा॑-पृथि॒वी स॒हास्ता॑म् ।
मूलम्
द्यावा॑पृथि॒वी स॒हास्ता॑म् ।
भट्टभास्कर-टीका
2द्यावापृथिवी सहेत्यादि ॥ सह एकीभूते आस्ताम् ।
सायण-टीका
शम्याया द्युलोकाधारत्वमुपपादयति — “द्यावापृथिवी सहाऽऽस्ताम्।
विश्वास-प्रस्तुतिः
ते श॑म्यामा॒त्रम् एक॒म् अह॒र् व्य्-ऐताँ॑,
शम्या-मा॒त्रम् एक॒म् अहः॑ ।
मूलम्
ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताँ॑ शम्यामा॒त्रमेक॒महः॑ ।
भट्टभास्कर-टीका
एकैकस्मिन् अहनि शम्यामात्रं शम्याप्रमाणं व्यैतां विश्लिष्टे अभूताम् । ‘चादिलोपे विभाषा’ इति निघाताभावः । ‘तिङि चोदात्तवति, इति गतेरनुदात्तत्वे आट उदात्तत्वम् ॥
सायण-टीका
ते शम्यामात्रमेकमहर्व्यैताँ शम्यामात्रमेकमहः।
विश्वास-प्रस्तुतिः
“दि॒वस् स्क॑म्भ॒निर् अ॑सि॒
प्रति॒ त्वाऽदि॑त्या॒स् त्वग् वे॒त्त्व्”
इत्य् आ॑ह ।
द्यावा॑-पृथि॒व्योर् वीत्यै॑ ।
मूलम्
“दि॒वस्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒"त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्योर्वीत्यै॑ ।
भट्टभास्कर-टीका
3दिव इति शम्यानिधानम् ॥ दिवः स्कम्भनिः धारयित्री त्वमसीति ।
पृथिव्या दिवः पृथग्-वचनं द्यावापृथिव्योः वीत्यै भवति विश्लेषाय भवति मध्ये वा तयोश्शम्याऽवस्थापनात् । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
सायण-टीका
दिवः स्कम्भनिरसि प्रति त्वाऽदित्यास्त्वग्वेत्त्वित्याह। द्यावापृथिव्योर्वीत्यै” (ब्रा. का. ३ प्र. २ अ. ६) इति।
धि॒षणा॑ऽसि
विश्वास-प्रस्तुतिः
“+++(हे दृषत्!)+++ धि॒षणा॑ऽसि पर्व॒त्या
प्रति॑ त्वा दि॒वस् स्क॑म्भ॒निर् +++(शम्या)+++ वे॒त्त्व्” इत्या॑ह॒ -
द्यावा॑पृथि॒व्योर् विधृ॑त्यै ॥47॥
मूलम्
“धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वस्स्क॑म्भ॒निर्वे॒त्त्वि"त्या॑ह ।
द्यावा॑पृथि॒व्योर्विधृ॑त्यै ॥47॥
भट्टभास्कर-टीका
4धिषणाऽसीति शम्यायां दृषदोऽत्याधानम् ॥ द्युपृथिव्योः स्कम्भन्या शम्यया चर्मदृषदोर्मध्यस्थया द्यावापृथिव्योः विधृतिः पृथक्त्वेनावस्थानम् । धृङ् अवस्थाने ॥
सायण-टीका
सेयं दृषद् दृढतया लोकद्वयधारणाय कल्पत इत्याह — “धिषणाऽसि पर्वत्या प्रति त्वा दिवः स्कम्भनिर्वेत्त्वित्याह। द्यावापृथिव्योर्विधृत्यै” (ब्रा. का. ३ प्र. २ अ. ६) इति।
विश्वास-प्रस्तुतिः
“+++(उपले!)+++ धि॒षणा॑ऽसि पार्वते॒यी
प्रति॑ त्वा पर्व॒तिर् +++(दृशद्)+++ वे॒त्त्व्” इत्या॑ह ।
द्यावा॑पृथि॒व्योर् धृत्यै॑ ।
मूलम्
“धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वि"त्या॑ह ।
द्यावा॑पृथि॒व्योर्धृत्यै॑ ।
भट्टभास्कर-टीका
5धिषणाऽसि पार्वतेयीति दृषद्युपलात्याधानम् ॥ दृषदुपलयोः द्युपृथिवीस्थानीययोः प्रतिवेदनं उपर्यधोभावेनावस्थानाभ्यनुज्ञानं तद्द्यावापृथिव्योर्धृत्यै धारणाय अच्युतये भवति ॥
सायण-टीका
तथैव व्याचष्टे — “धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्वित्याह। द्यावापृथित्र्योर्धृत्यै” (ब्रा. का. ३ प्र. २ अ. ६) इति।
अधिवपनम्
दे॒वस्य॑ त्वा ...{Loading}...
विश्वास-प्रस्तुतिः
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।
Keith
‘On the impulse of the god Savitr thee’, he says, for impelling.
मूलम्
“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्या॑ह॒ प्रसू॑त्यै ।
सायण-टीका
व्याचष्टे- “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”
अत्र वाक्यपूरणायाग्नय इत्यादिकमध्याहृतमतो यथाम्नातमेवानूद्य व्याचष्टे — “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”
अत्रानाम्नातमप्यनेनैवाभिप्रायेण व्याचष्टे – “देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै।”
अ॒श्विनो॑र् बा॒हुभ्या॒म् ...{Loading}...
विश्वास-प्रस्तुतिः
“अ॒श्विनो॑र् बा॒हुभ्या॒म्” इत्य् आ॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑म् अध्व॒र्यू आस्ता॑म् ।
Keith
‘With the arms of the Aśvins’, he says, for the Aśvins were the Adhvaryus of the gods.
मूलम्
“अ॒श्विनो॑र्बा॒हुभ्या॒"मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मध्व॒र्यू आस्ता॑म् ।
पद-पाठः
अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ॑ । हि । दे॒वाना॑म् । अ॒ध्व॒र्यू इति॑ । आस्ता॑म् ।
भट्टभास्कर-टीका
अध्वर्यू इति । अध्वरस्य नेतारौ मणिबन्धादुपरि वा स्तः ।
सायण-टीका
अश्विनोर्बाहुभ्यामित्याह। अश्विनौ हि देवानामध्वर्यू आस्ताम्।
विश्वास-प्रस्तुतिः
“पू॒ष्णो हस्ता॑भ्या॒"म् इत्य् आ॑ह॒ यत्यै॑ ।
Keith
‘With the hands of Pusan’, he says, for restraint.
मूलम्
“पू॒ष्णो हस्ता॑भ्या॒"मित्या॑ह॒ यत्यै॑ ।
पद-पाठः
पू॒ष्णः । हस्ता॑भ्याम् । इति॑ । आ॒ह॒ । यत्यै॑ । 4 ।
भट्टभास्कर-टीका
यत्यै यमनाय धारणाय ॥
सायण-टीका
पूष्णो हस्ताभ्यामित्याह यत्यै (ब्रा. का.३ प्र.२ अ.९) इति ।
विश्वास-प्रस्तुतिः
“अधि॑वपा॒मी"त्य् आ॑ह ।
य॒था॒दे॒व॒तम् ए॒वैना॒न् अधि॑वपति ।
मूलम्
“अधि॑वपा॒मी"त्या॑ह ।
य॒था॒दे॒व॒तमे॒वैना॒नधि॑वपति ।
भट्टभास्कर-टीका
6देवस्येति पुरोडाशीयाधिवपनम् ॥ ‘अग्नये जुष्टमधिवपामि’ इति विशेषः । तत्र ‘अग्नये जुष्टं निर्वपाम्यग्नीषोमाभ्याम्’ इति वचनात् यथादेवतमेवैनानधिवपति ॥
सायण-टीका
अधिवपामीत्याह। यथादेवतमेवैनानधिवपति” (ब्रा. का. ३ प्र. २ अ. ६) इति।
सायण-टीका
अधिवपामीत्याह। यथादेवतमेवैनानधिवपति” (ब्रा. का. ३ प्र. २ अ. ६) इति।
धा॒न्य॑मसि
विश्वास-प्रस्तुतिः
“धा॒न्य॑म् असि धिनु॒हि दे॒वान् इ"त्य् आ॑ह ।
ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥48॥
याव॒द् एका॑ दे॒वता॑ का॒मय॑ते॒ याव॒द् एका॒
ताव॒द् आहु॑तिᳶ प्रथते ।
मूलम्
“धा॒न्य॑मसि धिनु॒हि दे॒वानि"त्या॑ह ।
ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥48॥
याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका॑ ।
ताव॒दाहु॑तिᳶ प्रथते ।
भट्टभास्कर-टीका
7धान्यमसीत्यधिवपनम् ॥ तत्र धिनुहि प्रीणय देवान् इत्येतन्मन्त्रपदबलेन तावदाहुतिः प्रथते पृथुतरा भवति । कियती? एकैका देवता यावद् यावत् कामयते तावत्तावत् पृथुः प्रथीयसी प्रतिष्ठा भवति । पूर्ववन्निघाताभावः ।
सायण-टीका
देवान्प्रीणयेति यदुक्तं तस्य नास्त्यनुपपत्तिः, आहुतीरूपस्य धान्यस्याल्पत्वेऽपि मन्त्रसामर्थ्येन तदभिवृद्धेरित्याह – “धान्यमसि धिनुहि देवानित्याह। एतस्य यजुषो वीर्येण। यावदेका देवता कामयते यावदेका। तावदाहुतिः प्रथते।
विश्वास-प्रस्तुतिः
न हि तद् अस्ति॒
यत् “ताव॑द् ए॒व स्या॒द्
याव॑ज् जु॒होति॑” +++(अत उक्तं यजुः)+++।
मूलम्
न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ ।
भट्टभास्कर-टीका
ननु अवदानमात्रं हूयते, न च कामस्य समुद्रस्येवान्तो ऽस्ति,
तत्कथं कामानुरूपत्वसिद्धिरित्याह - न हीति । यत्प्रमाणं हूयते तावत्प्रमाणेनैव सर्वदा स्थातव्यमिति न हि तादृशं नियामकवचनमस्ति ॥
सायण-टीका
न हि तदस्ति। यत्तावदेव स्यात्। यावज्जुहोति” (ब्रा. का. ३ प्र. २ अ. ६) इति। वीप्सा सर्वत्रानुगमार्था।
पेषणम्
विश्वास-प्रस्तुतिः
“प्रा॒णाय॑ त्वा ऽपा॒नाय॒ त्वे"त्य् आ॑ह।
प्रा॒णान् ए॒व यज॑माने दधाति ।
मूलम्
“प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वे"त्या॑ह ।
प्रा॒णाने॒व यज॑माने दधाति ।
भट्टभास्कर-टीका
8प्राणायेत्यन्ववेक्षते ॥ देवो व इति कृष्णाजिने पिष्टानि प्रस्कन्दयति । गतमन्यत् ॥
सायण-टीका
एतदेव दर्शयति – “प्राणाय त्वाऽपानाय त्वेत्याह। प्राणानेव यजमाने दधाति” (ब्रा. का. ३ प्र. २ अ. ६) इति।
विश्वास-प्रस्तुतिः
“दी॒र्घाम् अनु॒ प्रसि॑ति॒म् आयु॑षे धा॒म्” इत्य् आ॑ह +++(बाह्वोर् अवेक्षणे)+++।
आयु॑र् ए॒वास्मि॑न् दधाति ।
मूलम्
“दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒"मित्या॑ह ।
आयु॑रे॒वास्मि॑न्दधाति ।
सायण-टीका
तदेतदाह — दीर्घामनु प्रसितिमायुषे धामित्याह। आयुरेवास्मिन्दधाति” (ब्रा. का. ३ प्र. २ अ. ६) इति।
दे॒वो व॑स् सवि॒ता
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षाद् इव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति॒
यानि॑ दृ॒षदः॑ ।
“दे॒वो व॑स् सवि॒ता हिर॑ण्य-पाणि॒ᳶ प्रति॑गृह्णा॒त्व् इ"त्या॑ह॒ प्रति॑ष्ठित्यै
ह॒विषो ऽस्क॑न्दाय ।
मूलम्
अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति॒ यानि॑ दृ॒षदः॑ ।
“दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वि"त्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषोऽस्क॑न्दाय ।
सायण-टीका
पूर्ववद्व्याचष्टे — “अन्तरिक्षादिव वा एतानि प्रस्कन्दन्ति। यानि दृषदः। देवो वः सविता हिरण्यपाणिः प्रति गृह्णात्वित्याह प्रतिष्ठित्यै। हविषोऽस्कन्दाय” (ब्रा. का. ३ प्र. २ अ. ६) इति।
असव्ँ॑वपन्ती
विश्वास-प्रस्तुतिः
“असव्ँ॑वपन्ती पिँषा॒णूनि॑ कुरुता॒द्” इत्य् आ॑ह मेध्य॒त्वाय॑ ॥49॥
मूलम्
“असव्ँ॑वपन्ती पिँषा॒णूनि॑ कुरुता॒"दित्या॑ह मेध्य॒त्वाय॑ ॥49॥
भट्टभास्कर-टीका
9असंवपन्तीति दास्यादेः संप्रैषः ॥ असंवपन्ती पिष्टान्यन्यत्र किञ्चिदप्रक्षिपन्ती पिंष पिण्ढि अणूनि सूक्ष्माणि च पिष्टानि कुरुतात् कुर्विति वचनं मेधार्हत्वाय । पिषेर्लोटि द्विकरणता ॥
इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये षष्ठोऽनुवाकः ॥
सायण-टीका
पत्नीं दासीं वा प्रति पोषमन्त्रमुत्पाद्य व्याचष्टे — “असंवपन्ती पिँषाणूनि कुरूतादित्याह मेध्यत्वाय” (ब्रा. का. ३ प्र. २ अ. ६) इति।