०५ व्रीह्यवघातः ...{Loading}...
उत्पवनम्
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रम् अ॑हन् ।
सो॑ऽपो +अ॒भ्य॑म्रियत ।
तासाय्ँ॒ यन् मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒म् आसी॒त्,
तद् अपोद॑क्रामत् ।
ते द॒र्भा अ॑भवन् ।
मूलम्
इन्द्रो॑ वृ॒त्रम॑हन् ।
सो॑ऽपः ।
अ॒भ्य॑म्रियत ।
तासाय्ँ॒यन्मेध्यय्ँ॑ य॒ज्ञियँ॒ सदे॑व॒मासी॑त् ।
तदपोद॑क्रामत् ।
ते द॒र्भा अ॑भवन् ।
भट्टभास्कर-टीका
1इन्द्रो वृत्रमहन् इत्यादि ॥
अपोऽभि अपो लक्षीकृत्य
मेध्यं मेधार्हं मेधा यागः
यज्ञियं यज्ञार्हं
यज्ञो देवपूजा
सदेवं देवयोग्यं
तद् अपोदक्रामत् ऊर्ध्वमपाक्रामत् ॥
सायण-टीका
प्रोक्षितानामेव व्रीहीणामत्रावघातयोग्यत्वात्प्रोक्षणस्य चोत्पूतोदकसाध्यत्वादुत्पवनमन्त्रस्य चाङ्गभूतस्याङ्गिन्युत्पवने साकाङ्क्षत्वादुत्पवनमन्त्रव्याख्यानात्प्रागेवोत्पवनं विधत्ते — ‘इन्द्रो वृत्रमहन्। सोऽपः। अभ्यम्रियत। तासां यन्मेध्यं यज्ञयँ सदेवमासीत्। तदपोदक्रमात्। ते दर्भा अभवन्।
विश्वास-प्रस्तुतिः
यद् द॒र्भैर् अ॒प उ॑त्पु॒नाति॒
या ए॒व मेध्या॑ य॒ज्ञिया॒स् स-दे॑वा॒ आपः॑ ।
ताभि॑र् ए॒वैना॒ उत्पु॑नाति ।
मूलम्
यद्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेध्या॑ य॒ज्ञिया॒स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति ।
सायण-टीका
यद्दर्भैरप उत्पुनाति। या एव मेध्या यज्ञियाः सदेवा आपः। ताभिरेवैना उत्पुनाति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
द्वाभ्या॒म् उत्पु॑नाति।
द्वि॒-पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
मूलम्
द्वाभ्या॒मुत्पु॑नाति ॥35॥
द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
सायण-टीका
दर्भसंख्यां विधत्ते — ‘द्वाभ्यामुत्पुनाति। द्विपाद्यजमानः प्रतिष्ठित्यै’ (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्व्” इत्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति ।
मूलम्
“दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वि"त्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति ।
भट्टभास्कर-टीका
2देवो व इत्युत्पवनम् ॥ सवितृप्रसूतः सवित्राऽनुज्ञातः । ‘तृतीया कर्मणि’ पूर्वपदप्रकृतिस्वरत्वम् ।
सायण-टीका
यथोक्तं मन्त्रार्थं विशदयति — ‘देवो वः सवितोत्पुनात्वित्याह। सवितृप्रसूत एवैना उत्पुनाति।
विश्वास-प्रस्तुतिः
“अच्छि॑द्रेण प॒वित्रे॒णे"त्य् आ॑ह ।
अ॒सौ वा आ॑दि॒त्यो ऽच्छि॑द्रम् प॒वित्र॑म् ।
तेनै॒वैना॒ उत्पु॑नाति ।
मूलम्
“अच्छि॑द्रेण प॒वित्रे॒णे"त्या॑ह ।
अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रम्प॒वित्र॑म् ।
तेनै॒वैना॒ उत्पु॑नाति ।
विश्वास-प्रस्तुतिः
“वसो॒स् सूर्य॑स्य र॒श्मिभि॒"र् इत्य् आ॑ह ।
प्रा॒णा वा आपः॑ ।
प्रा॒णा वस॑वः ।
प्रा॒णा र॒श्मयः॑ ॥ 36॥
प्रा॒णैरे॒व प्रा॒णान्त् सम्पृ॑णक्ति ।
मूलम्
“वसो॒स्सूर्य॑स्य र॒श्मिभि॒"रित्या॑ह ।
प्रा॒णा वा आपः॑ ।
प्रा॒णा वस॑वः ।
प्रा॒णा र॒श्मयः॑ ॥ 36॥
प्रा॒णैरे॒व प्रा॒णान्त्सम्पृ॑णक्ति ।
भट्टभास्कर-टीका
प्राण-हेतवः आपः वसवः रश्मयश्च,
सायण-टीका
अच्छिद्रेण पवित्रेणेत्याह। असौ वा आदित्योऽच्छिद्रं पवित्रम्। तेनेवैना उत्पुनाति। वसोः सूर्यस्य रश्मिभिरित्याह। प्राणा वा आपः। प्राणा वसवः। प्राणा रश्मयः। प्रणैरेव प्राणान्त्संपृणक्ति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
सा॒वि॒त्रि॒यर्चा सवि॒तृ-प्र॑सूतम् मे॒ कर्मा॑स॒द् इति॑ ।
स॒वि॒तृ-प्र॑सूतम् ए॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्-षमृद्ध॒त्वाय॑ ।
मूलम्
सा॒वि॒त्रि॒यर्चा ।
स॒वि॒तृप्र॑सूतम्मे॒ कर्मा॑स॒दिति॑ ।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ।
भट्टभास्कर-टीका
सावित्रियेति ‘देवो वः’ इत्यनया सवित्रा अनुज्ञातं मम कर्म अस्त्विति ।
पच्छः पादेन पादेन गायत्रीसम्बन्धिना ‘संख्यैकवचनाच्च’ इति शम् ।
त्रिष्षमृद्धं तिसृभिः आवृत्तिभिः समृद्धम् ॥
सायण-टीका
मन्त्रस्य सवितेत्यनेन लिङ्गेन यत्सावित्रत्वं यच्च पादबद्धत्वादृग्रूपत्वं तदुभयमत्र सप्रयोजनामित्याह — “सावित्रियचां। सवितृप्रसूतं मे कर्मासदिति। सवितृप्रसूतमेवास्य कर्म भवति। पच्छो गायत्रिया त्रिष्वमृद्धत्वाय” (ब्रा. का. ३ प्र. २ अ. ५) इति।
प्रोक्षण्य्-अभिमन्त्रणम्
आपो देवीः ...{Loading}...
विश्वास-प्रस्तुतिः
“आपो॑ देवीर् अग्रे-पुवो अग्रे-गुव॒” इत्य् आ॑ह ।
रू॒पम् ए॒वासा॑म् ए॒तन् म॑हि॒मानव्ँ॒ व्याच॑ष्टे ।
मूलम्
“आपो॑ देवीरग्रेपुवो अग्रेगुव॒” इत्या॑ह ।
रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्व्ँयाच॑ष्टे ।
भट्टभास्कर-टीका
3आपो देवीरिति उन्महयन्नुपोत्तिष्ठति ॥ अस्य मन्त्रस्य एतत्स्वरूपमेव आसां अपां महिमानं देवनशीलत्वादिकं व्याचष्टे न व्याख्येयं किंचित् ।
सायण-टीका
ततोऽत्र किंचिद्ध्याख्येयं नास्तीत्याह — “आपो देवीरग्रेपुवो अग्रेगुव इत्याह। रूपमेवाऽऽसा मेतन्महिमानं व्याचष्टे” (ब्रा. का. ३ प्र. २ अ. ५) इति।
ततः पूर्वमापो देवीरित्ययमुदकाभिमन्त्राणमन्त्र आम्नातव्य इत्यभिप्रेत्य पूर्ववद्व्याचष्टे — “आपो देवीरग्रे पुवो अग्रेगुव इत्याह। रूपमेवाऽऽसामेतन्महिमानं व्याचष्टे।
विश्वास-प्रस्तुतिः
“अग्र॑ इ॒मय्ँ य॒ज्ञन् न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒म्” इत्य् आ॑ह ।
अग्र॑ ए॒व य॒ज्ञन् न॑यन्ति ।
अग्रे॑ य॒ज्ञ-प॑तिम् ॥37॥
मूलम्
“अग्र॑ इ॒मय्ँ य॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒"“मित्या॑ह ।
अग्र॑ ए॒व य॒ज्ञन्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ॥37॥
सायण-टीका
मध्यमभागे प्रार्थितं कार्यमापो नोपेक्षन्त इत्याह — “अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह। अग्र एव यज्ञ नयन्ति। अग्रे यज्ञपतिम्” (ब्रा. का. ३ प्र. २ अ. ५) इति।
अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह। अग्र एव यज्ञं नयन्ति। अग्रे यज्ञपतिम्।
विश्वास-प्रस्तुतिः
“यु॒ष्मान् इन्द्रो॑ऽवृणीत वृत्र॒-तूर्ये॑
यू॒यम् इन्द्र॑म् अवृणीध्वव्ँ वृत्र॒-तूर्य॒” इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्न् इन्द्र॒ आपो॑ वव्रे +++(फेनैर् जघानेति पुराणम्)+++।
आपो॒ हेन्द्रव्ँ॑ वव्रिरे ।
सं॒ज्ञाम् ए॒वासा॑म् ए॒तथ् +++(वरणीयत्वम्, यत्)+++ सामा॑नव्ँ॒ व्याच॑ष्टे ।
मूलम्
“यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वव्ँवृत्र॒तूर्य॒” इत्या॑ह ।
वृ॒त्रँ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रव्ँ॑वव्रिरे ।
सं॒ज्ञामे॒वासा॑मे॒तत्सामा॑नव्ँ॒ व्याच॑ष्टे ।
भट्टभास्कर-टीका
संज्ञामेवेति ।
आसां इन्द्रेण यत्सामानं समानत्वं वरणीयत्वं एतदेव आसां संज्ञा । ‘देवीः’ इत्यादिकां बुद्धिसंश्लेषं वा व्याचष्टे ।
अ-तादृग्-गुणत्वे इन्द्रेणावरणीयत्वात् । समान-शब्दः उद्गात्रादिर् द्रष्टव्यः ॥
सायण-टीका
ब्राह्मणान्तरप्रसिद्धं परस्परसापेक्षत्वमेवं तृतीयभागे दर्शयतीत्याह — “युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह। वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे। आपो हेन्द्रं वव्रिरे। संज्ञामेवाऽऽसामेतत्सामानं व्याचष्टे” (ब्रा. का. ३ प्र. २ अ. ५) इति। आपो वव्र इति च्छान्दसो दीर्घः। वृत्राद्भीतायेन्द्राय प्रजापतिर्वज्रमद्भिः प्रक्षाल्य ददावित्यसाविन्द्रस्योदकापेक्षत्वप्रसिद्धिर्वृत्रँ हेतिशब्देन सूच्यते।
युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्याह। वृत्रँ हनिष्यन्निन्द्र आपो वर्वे। आपो हेन्द्रं विव्रिरे। संज्ञामेवाऽऽसामेतत्सामानं व्याचष्टे।
विश्वास-प्रस्तुतिः
“प्रोक्षि॑ता॒स् स्थे"त्य् आ॑ह ।
तेनाप॒ᳶ प्रोक्षि॑ताः ।
मूलम्
“प्रोक्षि॑ता॒स्स्थे"त्या॑ह ।
तेनाप॒ᳶ प्रोक्षि॑ताः ।
भट्टभास्कर-टीका
4प्रोक्षितास्स्थेति प्रोक्षणीप्रोक्षणम् ॥
तेनाप इति ‘प्रोक्षितास्स्थ’ इति वचनादेव आपः प्रोक्षिता भवन्ति,
न त्व् अन्याभिरद्भिः प्रोक्षणम् । उक्तं च ‘ब्रह्मणेति ब्रूयात्’ इति ॥
सायण-टीका
मन्त्रपाठ एवापां प्रोक्षणमित्याह — “प्रोक्षिताः स्थेत्याह। तेनाऽऽपः प्रोक्षिताः” (ब्रा. का. ३ प्र. २ अ. ५) इति।
प्रोक्षिताः स्थेत्याह। तेनाऽऽपः प्रोक्षिताः” (ब्रा. का. ३ प्र. ३ अ. ६) इति।
प्रोक्षणादि
विश्वास-प्रस्तुतिः
“अ॒ग्नये॑ वो॒ जुष्ट॒म् प्रोक्षा॑म्य् अ॒ग्नी-षोमा॑भ्या॒म्” इत्या॑ह ।
य॒था॒दे॒व॒तम् ए॒वैना॒न् +++(पुरोडाशीयान्)+++ प्रोक्ष॑ति ।
मूलम्
“अ॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षा॑म्य॒ग्नीषोमा॑भ्या॒"मित्या॑ह ।
य॒था॒दे॒व॒तमे॒वैना॒न्प्रोक्ष॑ति ।
भट्टभास्कर-टीका
5अग्नय इति पुरोडाशीयानां व्रीहीणां प्रोक्षणम् ॥
सायण-टीका
इदमेव तात्पर्यं दर्शयति — “अग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यामित्याह। यथादेवतमेवैनान्प्रोक्षति (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्+धि य॒ज्ञः ॥38॥
अथो॒ रक्ष॑सा॒म् अप॑हत्यै ।
मूलम्
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्+धि य॒ज्ञः ॥38॥
अथो॒ रक्ष॑सा॒म् अप॑हत्यै ।
विश्वास-प्रस्तुतिः
“+++(पात्राणि!)+++ शुन्ध॑ध्व॒न् दैव्या॑य॒ कर्म॑णे देव-य॒ज्याया॒” इत्य् आ॑ह ।
दे॒व॒-य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
सायण-टीका
आवृत्तिं बिधत्ते — “त्रिः प्रोक्षति। त्र्यावृद्धि यज्ञः। अथो रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति। तिस्र आवृत्तयो यस्य यज्ञस्यासौ त्र्यावृत्। त्रिः प्रथमामन्वाह त्रिरुत्तमामित्यादिश्रौतप्रसिद्धिं हिशब्दो द्योतयति। रक्षोघ्नत्वमपामसकृदुक्तम्।
मूलम्
“शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒” इत्या॑ह ।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
भट्टभास्कर-टीका
शुन्धध्वमिति पात्राणाम् ।
सायण-टीका
पूर्ववद्व्याचष्टे — “शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह। देवयज्याया एवैनानि शुन्धति।
विश्वास-प्रस्तुतिः
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
मूलम्
त्रिᳶ प्रोक्ष॑ति ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेध्य॒त्वाय॑ ।
सायण-टीका
त्रिः प्रोक्षति। त्र्यावृद्धि यज्ञः। अथो मेध्यत्वाय” (ब्रा. का. ३ प्र. २ अ. ५) इति। मेध्यत्वं यज्ञार्हत्वम्।
अव॑धूतँ॒
अवधूतम् ...{Loading}...
विश्वास-प्रस्तुतिः
“अव॑धूतँ॒ रक्षो ऽव॑धूता॒ अरा॑तय॒” इत्य् आ॑ह ।
रक्ष॑सा॒म् अप॑हत्यै ।
मूलम्
“अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑तय॒” इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ।
भट्टभास्कर-टीका
अवधूतमिति कृष्णाजिनाधिवसनम् ।
सायण-टीका
प्रत्युष्टमितिवद्व्याचष्टे –”अवधूतँ रक्षोऽवधूर्तां अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“अदि॑त्या॒स् त्वग् अ॒सी"त्य् आ॑ह।
इ॒यव्ँ वा अदि॑तिः ॥39॥
अ॒स्या ए॒वैन॒त् त्वच॑ङ् करोति ।
मूलम्
“अदि॑त्या॒स्त्वग॒सी"त्या॑ह।
इ॒यव्ँ वा अदि॑तिः ॥39॥
अ॒स्या ए॒वैन॒त्त्वच॑ङ्करोति ।
भट्टभास्कर-टीका
अदित्या इति कृष्णाजिनोत्तरणम् ।
सायण-टीका
मन्त्रस्योक्तार्थपरत्वं दर्शयति — “अदित्यास्त्वगसीत्याह। इयं वा अदितिः अस्या एवैनत्त्वचं करोति।
विश्वास-प्रस्तुतिः
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
मूलम्
प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
सायण-टीका
प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त् प्रती॒चीन॑-ग्रीव॒म् उत्त॑र-लो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
मूलम्
पु॒रस्ता॑त्प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेध्य॒त्वाय॑ ।
भट्टभास्कर-टीका
प्रतिष्ठित्या इति । आत्मीयत्वेन पृथिव्या अनुज्ञातत्वात् प्रतिष्ठितत्वम् ॥
सायण-टीका
देशादिगुणविशिष्टमास्तरणं विधत्ते — “पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणति मेध्यत्वाय।
विश्वास-प्रस्तुतिः
तस्मा॑त् पु॒रस्ता॑त् प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒म् उप॑तिष्ठन्ते ।+++(5)+++
तस्मा॑त् +++(उपस्थानात्??)+++ प्र॒जा मृ॒गङ् ग्राहु॑काः ।
मूलम्
तस्मा॑त्पु॒रस्ता॑त्प्र॒त्यञ्च॑ᳶ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते ।
तस्मा॑त्प्र॒जा मृ॒गङ्ग्राहु॑काः ।
भट्टभास्कर-टीका
6पुरस्तादिति ॥ पुरस्ताद् आरभ्य पुरस्ताद्-भसत्कं+++(=??)+++ प्रतीचीन-ग्रीवं उपरि-स्थित-रोमाजिनम् उपस्तृणाति
मेध्यत्वाय यज्ञार्हत्वाय,
तस्मात् पूर्वस्यां दिशि स्थिताः प्रत्यङ्मुखाः पशवः यज्ञं उपतिष्ठन्ते ।
तस्मान् मेध्यत्वाद् एव यज्ञोपयुक्तत्वात्
प्रजा मृगं ग्राहुकाः ताच्छील्येन ग्रहीत्र्यः । छान्दस उकञ् ।
सायण-टीका
तस्मात्पुरतात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते। तस्मात्प्रजा मृगंग्राहुकाः” (ब्रा. का. ३ प्र. २ अ. ५) इति।
यस्मादाहवनीयस्य पूर्वभागे कृष्णाजिनं पश्चिमशिरस्कमूर्ध्वलोमकमास्तृतं तस्मात्तादृशा एव सन्तो यूपे बद्धाः पशवो यज्ञं सेवन्ते। यस्मादयं पशुभिः सेव्यो यज्ञस्तस्मादेव प्रत्यवायभयरहिताः सत्यः प्रजा यज्ञार्थं मृगग्रहणशीला भवन्ति।
विश्वास-प्रस्तुतिः
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ कृष्णो॑ रू॒पङ् कृ॒त्वा ।
मूलम्
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ कृष्णो॑ रू॒पङ्कृ॒त्वा ।
भट्टभास्कर-टीका
कृष्ण इति । कृष्णमृगो भूत्वा रूपं च तदीयं कृत्वा देवेभ्यो यज्ञो निलायत निरगच्छत् । ‘उपसर्गस्यायतौ’ इति लत्वम् ।
सायण-टीका
कृष्णाजिनस्याऽऽदरे हेतुं ब्रुवंस्तद्विशिष्टमवघातं विधत्ते — “यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा।
विश्वास-प्रस्तुतिः
यत् कृ॑ष्णाजि॒ने ह॒विर् अ॑ध्यव॒हन्ति॑
य॒ज्ञाद् ए॒व तद् य॒ज्ञम् प्रयु॑ङ्क्ते
ह॒विषो ऽस्क॑न्दाय ॥40॥
मूलम्
यत् कृ॑ष्णाजि॒ने ह॒विर॑ध्यव॒हन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञम्प्रयु॑ङ्क्ते ।
ह॒विषोऽस्क॑न्दाय ॥40॥
भट्टभास्कर-टीका
यज्ञादिति । यज्ञादेव तत् यज्ञं प्रयुङ्क्ते । ल्यब्लोपे वा कर्मणि पञ्चमी । यज्ञमेवोपस्तीर्य तत्र यज्ञं प्रयुङ्क्ते तद्धविषोऽस्कन्दाय भवति स्कन्दस्यापि यज्ञ एवानुप्रविष्टत्वात्॥
सायण-टीका
यत्कृष्णाजिने हविरध्यवहन्ति। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते। हविषोऽस्कन्दाय” (ब्रा. का. ३ प्र. २ अ. ५) इति।
अ॒धि॒षव॑णम् असि
विश्वास-प्रस्तुतिः
“अ॒धि॒षव॑णम् असि वानस्प॒त्यम्” इत्या॑ह ।
अ॒धि॒षव॑णम् ए॒वैन॑त् करोति ।
मूलम्
“अ॒धि॒षव॑णमसि वानस्प॒त्य"मित्या॑ह ।
अ॒धि॒षव॑णमे॒वैन॑त्करोति ।
भट्टभास्कर-टीका
7अधिषवणमिति उलूखलाध्यूहनम् ॥ ‘अधिषवणमसि’ इति वचनात् अधिषवणं अधिषवणसमर्थमेनत्करोति ।
सायण-टीका
अवघाताधारं कर्तुमधिषवणविशेषणमित्याह — “अधिषवणमासि वानस्पत्यमित्याह। अधिषवणमेवैनत्करोति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“प्रति॒ त्वाऽदि॑त्या॒स् त्वग् वे॒त्त्व्” इत्या॑ह सय॒त्वाय॑ +++(=संबद्धत्वाय)+++।
मूलम्
प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ ।
भट्टभास्कर-टीका
सयत्वायेति त्वचा संबद्धत्वाय स्वयमेव परिगृहीतत्वाय । षिञ् बन्धने, पचाद्यच् । स्तम्बाग्रककुत्सया? तद्वत् दृढभावाय ॥
सायण-टीका
अविरोधेन संबन्धायेयमाशीरित्याह — “प्रति त्वाऽदित्यास्त्वग्वेत्त्वित्याह सयत्वाय” (ब्रा. का. ३ प्र. २ अ. ५) इति।
अ॒ग्नेस् त॒नूः
विश्वास-प्रस्तुतिः
“अ॒ग्नेस् त॒नूर॒सी"त्या॑ह।
अ॒ग्नेर् वा ए॒षा त॒नूर् यद् ओष॑धयः ।
मूलम्
“अ॒ग्नेस्त॒नूर॒सी"त्या॑ह।
अ॒ग्नेर्वा ए॒षा त॒नूर् यदोष॑धयः ।
भट्टभास्कर-टीका
8अग्नेस्तमूरसीति हविरावपनम् ॥ शारीरवदुद्दीपकत्वात् ओषधीनां तनुत्वम् ।
सायण-टीका
यथोक्तं मन्त्रार्थं दर्शयति — “अग्नेस्तनूरसीत्याह। अग्नेर्वा ऐषा तनूः। यदोषधयः।
विश्वास-प्रस्तुतिः
“वा॒चो वि॒सर्ज॑न॒म्” इत्य् आ॑ह ।
य॒दा हि प्र॒जा ओष॑धीनाम् अ॒श्ञन्ति॑,
अथ॒ वाचव्ँ॒ विसृ॑जन्ते ।
मूलम्
“वा॒चो वि॒सर्ज॑न॒"मित्या॑ह ।
य॒दा हि प्र॒जा ओष॑धीनाम॒श्ञन्ति॑ ।
अथ॒ वाचव्ँ॒विसृ॑जन्ते ।
सायण-टीका
वाचो विसर्जनमित्याह। यदा हि प्रजा ओषधीनामश्नन्ती। अथ वाचं विसृजन्ते।
विश्वास-प्रस्तुतिः
“दे॒व-वी॑तये त्वा गृह्णा॒मी"त्य् आ॑ह ॥41॥
दे॒वता॑भिर् ए॒वैन॒त् सम॑र्धयति ।
मूलम्
“दे॒ववी॑तये त्वा गृह्णा॒मी"त्या॑ह ॥41॥
दे॒वता॑भिरे॒वैन॒त्सम॑र्धयति ।
भट्टभास्कर-टीका
ओषधीनामिति । सुहितार्थयोगे षष्ठी ज्ञापिता ॥
सायण-टीका
देववीतये त्वा गृह्णामीत्याह। देवताभिरेवैनत्समर्धयति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
अद्रि॑र् असि
विश्वास-प्रस्तुतिः
“अद्रि॑र् असि वानस्प॒त्य” इत्या॑ह ।
ग्रावा॑णम् ए॒वैन॑त्करोति ।
मूलम्
“अद्रि॑रसि वानस्प॒त्य” इत्या॑ह ।
ग्रावा॑णमे॒वैन॑त्करोति ।
भट्टभास्कर-टीका
9अद्रिरिति मुसलावधानम् ॥ ग्रावाणमिति । अत्ता त्वमसि इति वचनात् ग्रावाणं निगरणशीलं तुषाणामेतत्करोति । गिरतेः क्वनिपि आडागमो निपात्यते ।
सायण-टीका
एतदेवाभिप्रेत्याऽऽह — “-अद्रिरसि वानस्पत्य इत्याह। ग्रावणमेवैनत्करोति।
विश्वास-प्रस्तुतिः
“स इ॒दन् दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑ शमि॒ष्वे"त्य् आ॑ह॒ शान्त्यै॑ ।
मूलम्
“स इ॒दन्दे॒वेभ्यो॑ ह॒व्यँ सु॒शमि॑ शमि॒ष्वे"त्या॑ह॒ शान्त्यै॑ ।
भट्टभास्कर-टीका
शान्त्या इति सुखहेतुत्वाय भवति ॥
सायण-टीका
स इदं देवेभ्यो हव्यँ सुशमि शमिष्वेत्याह शान्त्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
हवि॑ष्कृ॒द् एहि
विश्वास-प्रस्तुतिः
“हवि॑ष्-कृ॒द् एही"त्या॑ह ।
य ए॒व दे॒वानाँ॑ हवि॒ष्-कृत॒स् तान् ह्व॑यति ।
त्रिर्ह्व॑यति ।
त्रिष॑त्या॒ हि दे॒वाः ।+++(5)+++
मूलम्
“हवि॑ष्कृ॒देही"त्या॑ह ।
य ए॒व दे॒वानाँ॑ हवि॒ष्कृत॒स् तान् ह्व॑यति ।
त्रिर्ह्व॑यति ।
त्रिष॑त्या॒ हि दे॒वाः ।
भट्टभास्कर-टीका
10हविष्कृदेहीति अवहन्तुराह्वानम् ॥ हे हविष्कृत्! षाष्ठिकमाद्युदात्तत्वम् । एहि आगच्छ । एवं वदन् देवानां हविष्कारिण एवाह्वयति ॥
सायण-टीका
मन्त्रमुत्पाद्य लिङ्गसूचितं विनियोगं प्रकटयति — “हविष्कृदेहित्याह। य एव देवानाँ हविष्कृतः। तान्ह्वयति। त्रिर्ह्वयति। त्रिषत्या हि देवाः” (ब्रा. का. ३ प्र. २ अ. ५) इति।
घोषः
विश्वास-प्रस्तुतिः
“इष॒म् आव॒द+ उर्ज॒म् आव॒दे"त्या॑ह ॥ 42॥
इष॑म् ए॒वोर्जय्ँ॒ यज॑माने दधाति ।
“द्यु॒मद् व॑दत व॒यँ स॑ङ्घा॒तञ् जे॒ष्मे"त्य् आ॑ह॒ भ्रातृ॑व्याभिभूत्यै ।
मूलम्
“इष॒माव॒दोर्ज॒माव॒दे"त्या॑ह ॥ 42॥
इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति ।
“द्यु॒मद्व॑दत व॒यँ स॑ङ्घा॒तञ्जे॒ष्मे"त्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ।
भट्टभास्कर-टीका
11इषमिति ॥ वृषारवेण दृषदुपलसमाहननम् ॥
सायण-टीका
अनेन मन्त्रेणेष्टप्राप्तिमनिष्टपरिहारं च दर्शयति- “इषमा वदोर्जमा वदेत्याह। इषमेवोर्जं यजमाने दधाति। द्युमद्वदत वयँ संघातं जेष्मेत्याह। भ्रातृव्याभिभूत्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
मूलम्
मनो॑श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् ।
विश्वास-प्रस्तुतिः
मनो॑श् श्र॒द्धा-दे॑वस्य॒ यज॑मानस्यासुर॒-घ्नी वाग्
य॑ज्ञायु॒धेषु॒ प्रवि॑ष्टा ऽऽसीत् । +++(5)+++
तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑म् उ॒द्वद॑ताम् उ॒पाशृ॑ण्व॒न्न्,
ते परा॑भवन् ।
मूलम्
मनो॑श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाग् य॑ज्ञायु॒धेषु॒ प्रवि॑ष्टाऽऽसीत् ।
तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन् ।
ते परा॑भवन् ।
भट्टभास्कर-टीका
12मनोरिति ॥ श्रद्धादेवस्य श्रद्दधानस्य मनोः प्रभावातिशयेन असुरघ्नी वाक् यज्ञायुधेषु प्रविश्य स्थिता । असुराश्च समाहननप्रभवतदुद्वदनशब्दश्रवणेन नष्टाः ।
सायण-टीका
उपाख्यानेन भ्रातृव्यभिभूतिं द्रढयति — “मनोः श्रद्धा देवस्य यजमानस्यासुरघ्नी वाक्। यज्ञायुधेषु प्रविष्टाऽऽसीत्। तेऽसुरा यावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन्। ते पराभवन्।
विश्वास-प्रस्तुतिः
तस्मा॒त् स्वाना॒म् मध्ये॑ ऽव॒साय॑ यजेत । याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑म् उ॒द्वद॑ताम् उपशृ॒ण्वन्ति॒ ते परा॑भवन्ति ।+++(5)+++
मूलम्
तस्मा॒त्स्वाना॒म्मध्ये॑ऽव॒साय॑ यजेत ।
याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑ ।
ते परा॑भवन्ति ।
भट्टभास्कर-टीका
तस्मात् स्वानां ज्ञातीनां मध्ये देवयजनम् अध्यवसाय
यजनं यज्ञायुधोद्वदन-शब्देनानिष्ट-ज्ञाति-वधाय भवति ।
‘स्वमज्ञातिधनाख्यायाम्’ इति सर्वनामसंज्ञापर्युदासः ।
सायण-टीका
तस्मात्स्वानां मध्येऽवसाय यजेत। यावन्तोऽस्य भ्रातृव्या यज्ञायुधानामुद्वदतामुपशृण्वन्ति। ते पराभवन्ति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
+++(अश्मघातेन)+++ उ॒च्चैस् स॒माह॑न्त॒वा+++(य्)+++ आ॑ह॒ विजि॑त्यै ॥43॥
मूलम्
उ॒च्चैस्स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै ॥43॥
भट्टभास्कर-टीका
उच्चैरिति संप्रैषः । उच्छ्रितं समाहन्तवै समाहन्तुं समाहननाय यथा महान् शब्दो जायते तथा समाहन्तुं अश्मानं गृहाण हे आग्नीध्रेति वचनं अनिष्टज्ञातिविजयाय भवति । तुमर्थे कृत्यार्थे वा तवैप्रत्ययः । ‘अन्तश्च तवैयुगपत्’ इत्याद्युदात्तत्वम् ।
सायण-टीका
प्रेषमन्त्रमुत्पाद्य विनियोगं तात्पर्यं च दर्शयति — “उच्चैः समाहन्त वा आह विजित्यै।
विश्वास-प्रस्तुतिः
वृ॒ङ्क्त ए॑षाम् इन्द्रि॒यव्ँ वी॒र्य॑म् ।
श्रेष्ठ॑ एषाम् भवति ।
मूलम्
वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्ँ वी॒र्य॑म् ।
श्रेष्ठ॑ एषाम्भवति ।
भट्टभास्कर-टीका
किञ्च - एषां इन्द्रियं वीर्यं च वृङ्क्ते, वर्जयति । स्वयं तेषां श्रेष्ठः प्रशस्यतमो भवति ॥
सायण-टीका
वृङ्क्त एषामिन्द्रियं वीर्यम्। श्रेष्ठ एषां भवति” (ब्रा. का. ३ प्र. २ अ. ५) इति।
व॒र्ष-वृ॑द्धम्
विश्वास-प्रस्तुतिः
“व॒र्ष-वृ॑द्धम् असि॒ प्रति॑ त्वा व॒र्षवृ॑द्धव्ँ वे॒त्त्व् इ"त्य् आ॑ह ।
व॒र्ष-वृ॑द्धा॒ वा ओष॑धयः ।
व॒र्ष-वृ॑द्धा इ॒षीका॒स् समृ॑द्ध्यै ।
मूलम्
“व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धव्ँ वे॒त्त्वि"त्या॑ह ।
व॒र्षवृ॑द्धा॒ वा ओष॑धयः ।
व॒र्षवृ॑द्धा इ॒षीका॒स्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
13वर्षवृद्धमिति शूर्पोपोहनम् ॥ तत्रौषधीनामैषीकस्य च शूर्पस्य वर्षवृद्धत्वान् समृद्ध्यै भवति, सदृशयोस्सङ्गतेः ।
सायण-टीका
मन्त्रद्वये वृद्धशब्देन समृद्धिर्द्योत्यत इत्याह- “वर्षवृद्धमसि पति त्वा वर्षवृद्धं वेत्त्वित्याह। वर्षवृद्धा वा ओषधयः। वर्षवृद्धा इषीकाः समृद्ध्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति। इषीका वेणवः।
परा॑पूतँ॒ रक्षः
विश्वास-प्रस्तुतिः
य॒ज्ञँ रक्षाँ॒स्य् अनु॒ प्रावि॑शन् ।
तान्य् अ॒स्ना+++(=रुधिरेण)+++ प॒शुभ्यो॑ नि॒रवा॑दयन्त+++(←दय् हिंसायाम्)+++,
तुषै॒र् ओष॑धीभ्यः ।
मूलम्
य॒ज्ञँ रक्षाँ॒स्यनु॒ प्रावि॑शन् ।
तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त ।
तुषै॒रोष॑धीभ्यः ।
भट्टभास्कर-टीका
तान्यस्नेति । तानि रक्षांसि अस्ना रुधिरेण पशुभ्यः त्यक्तेन पशुभ्यो निरवादयन्त निष्कृष्यातर्पयन् ओषधीभ्यः त्यक्तैः तुषैः ओषधीभ्यो निरवादयन्त । पद्दन्नादिना असृजो असन् भावः ॥
सायण-टीका
रक्षसोऽत्र प्रसङ्गमुपन्यस्य मन्त्रं व्याचष्टे – “यज्ञँ रक्षाँ स्यनुप्रविशन्। तान्यस्ना पशुभ्यो निरवादयन्त तुषैरोषधीभ्यः।
विश्वास-प्रस्तुतिः
“परा॑पूतँ॒ रक्ष॒ᳶ परा॑पूता॒ अरा॑तय॒” इत्या॑ह । रक्ष॑सा॒म् अप॑हत्यै ॥44॥
मूलम्
“परा॑पूतँ॒ रक्ष॒ᳶ परा॑पूता॒ अरा॑तय॒” इत्या॑ह । रक्ष॑सा॒मप॑हत्यै ॥44॥
सायण-टीका
परापुतँ रक्षः परापूता अरातय इत्याह। रक्षसामपहत्यै” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“रक्ष॑साम् भा॒गो॒॑ऽसी"त्य् आ॑ह।
तुषै॑र् ए॒व रक्षाँ॑सि नि॒रव॑दयते +++(←दय् हिंसायाम्)+++।
मूलम्
“रक्ष॑साम्भा॒गो॑ऽसी"त्या॑ह।
तुषै॑रे॒व रक्षाँ॑सि नि॒रव॑दयते ।
भट्टभास्कर-टीका
14परापूतमिति परापवनम् ॥ रक्षसामिति तुषनिरसनम् ।
सायण-टीका
निष्कासनार्थं भागप्रदानमिति दर्शयति — ‘रक्षसां भागोऽसीत्याह। तुषैरेव रक्षाँ सि निरवदयते” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ ।
मूलम्
अ॒प उप॑स्पृशति मेध्य॒त्वाय॑ ।
सायण-टीका
विधत्ते — “अप उपस्पृशति मेध्यत्वाय” (ब्रा. का. ३ प्र. २ अ. ५) इति।
वा॒युर् वा
विश्वास-प्रस्तुतिः
“वा॒युर् वो॒ विवि॑न॒क्त्व् इ"त्य् आ॑ह ।
प॒वित्रव्ँ॒ वै वा॒युः ।
पु॒नात्य् ए॒वैना॑न् ।
मूलम्
“वा॒युर्वो॒ विवि॑न॒क्त्वि"त्या॑ह ।
प॒वित्रव्ँ॒ वै वा॒युः ।
पु॒नात्ये॒वैना॑न् ।
भट्टभास्कर-टीका
वायुर्वा इति विवेचनम् ।
सायण-टीका
हे तण्डुला यो युष्पान्वायुः कणेभ्यः पृथक्करोतु शुद्ध्यापादकत्वेन वा वायावादर इत्याह “वायुर्वो वि विनकित्वत्याह। पवित्रं वै वायुः। पुनात्येवैनान्” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षाद् इव॒ वा ए॒ते प्रस्क॑न्दन्ति॒ ये शूर्पा॑त् ।
मूलम्
अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति॒ ये शूर्पा॑त् ।
भट्टभास्कर-टीका
अन्तरिक्षादिव वा इति तण्डुलानां प्रस्कन्दनम् ।
सायण-टीका
अन्तरिक्षात्पततां वर्षोपलादीनामिवोच्चस्थानस्थिताच्छूर्पात्पततां तण्डुलानामितस्ततः पाते सत्यप्रतिष्ठितत्वेन हविर्विनाशो मा भूदित्यप्रिप्रत्य सवितुः प्रतिग्रह इत्याह — “अन्तरिक्षादिव वा एते प्रस्कन्दन्ति ये शूर्पात्।
विश्वास-प्रस्तुतिः
“दे॒वो व॑स् सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वि"त्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषो ऽस्क॑न्दाय ।
मूलम्
“दे॒वो व॑स् सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णा॒त्वि"त्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषो ऽस्क॑न्दाय ।
सायण-टीका
देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै। हविषोऽवस्कन्दाय” (ब्रा. का. ३ प्र. २ अ. ५) इति।
विश्वास-प्रस्तुतिः
“त्रिष् फ॒ली क॑र्त॒वा” आ॑ह ।
त्र्य्-आ॑वृ॒द् +धि य॒ज्ञः ।
मूलम्
“त्रिष्फ॒लीक॑र्त॒वा” आ॑ह ।
त्र्या॑वृ॒द्धि य॒ज्ञः ।
भट्टभास्कर-टीका
त्रिष्फलीकर्तवा इति संप्रैषः । त्रिष्फलीकर्तुमेहीति पत्न्याद्याह्वानं त्र्यावृतत्वात् यज्ञस्य । तण्डुलानां निष्पीडनं फलीकरणम् ।
सायण-टीका
प्रैषयन्त्रमुत्पादयति — “त्रिष्फली कर्तवा आह। त्र्यावृद्धि प्रज्ञः।
विश्वास-प्रस्तुतिः
अथो॑ मेध्य॒त्वाय॑ ॥45॥
मूलम्
अथो॑ मेध्य॒त्वाय॑ ॥45॥
भट्टभास्कर-टीका
अथो अपि च मेध्यत्वाय हविषो भवति सत्यत्वहेतुत्वात्त्रित्वस्य । पर्वूवत्करोतेः तवैप्रत्ययः ‘ऊर्यादिच्विडाचश्च’ इति च्व्यन्तस्य गतित्वाच्च । ‘अन्तश्च तवै’ इत्याद्युदात्तत्वम् ॥
इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये पौरोडाशिके पञ्चमोऽनुवाकः ॥
सायण-टीका
अथो मेघ्यत्वाय” (ब्रा. का. ३ प्र. २ अ. ५) इति। हे यजमानपत्नि त्वया तण्डुलास्त्रिवारं फलीकर्तव्याः। श्वैत्याच्छादकतुषापनयनं फलोकरणम्।