०३ दोहनम् ...{Loading}...
उपवासः
विश्वास-प्रस्तुतिः
पू॒र्वे॒द्युर् इ॒ध्मा-ब॒र्हिᳵ क॑रोति ।
य॒ज्ञम् ए॒वारभ्य॑ गृही॒त्वोप॑वसति ।
मूलम्
पू॒र्वे॒द्युरि॒ध्माब॒र्हिᳵ क॑रोति ।
य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति ।
भट्टभास्कर-टीका
1पूर्वेद्युरित्यादि ॥ इध्मं च बर्हिश्च इध्माबर्हिः । छान्दस आनङ् । वनस्पत्यादित्वादाद्युदात्तत्वम् ॥
सायण-टीका
द्वाभ्यामनुवाकाभ्याममावस्यायामहनि यत्कर्तव्यं तदुक्तम्। तृतीयेन रात्रौ कर्तव्यो दोह उच्यते। आदौ तावद्ब्राह्मणेन बर्हिषः कालो विधीयते – पूर्वेद्युरिध्माबर्हिः करोति। यज्ञमेवाऽऽरभ्य गृहीत्वोपवसति (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
सान्नाय्योखे
विश्वास-प्रस्तुतिः
प्र॒जा-प॑तिर् य॒ज्ञम् अ॑सृजत ।
तस्यो॒खे+++(=कुम्भ्यौ)+++ अ॑स्रँसेताम् ।
मूलम्
प्र॒जाप॑तिर्य॒ज्ञम॑सृजत ।
तस्यो॒खे अ॑स्रँसेताम् ।
भट्टभास्कर-टीका
2प्रजापतिरित्यादि ॥ सृष्ट्यनन्तरं यज्ञस्य उखे कुम्भ्यौ अस्रंसेतां गलिते अभूतां । ततो यज्ञ एव स्रस्तस्स्यात् ।
सायण-टीका
अथ दोहनार्थं कुम्भीद्वयं विधत्ते — ‘प्रजापतिर्यज्ञमसृजत। तस्योखे अस्त्रँसेताम्। यज्ञो वै प्रजापतिः।
विश्वास-प्रस्तुतिः
य॒ज्ञो वै प्र॒जाप॑तिः ।
यत् सा॑न्नाय्यो॒खे भव॑तो
य॒ज्ञस्यै॒व तद् उ॒खे उप॑दधा॒त्य् अ-प्र॑स्रँसाय ।
मूलम्
य॒ज्ञो वै प्र॒जाप॑तिः ।
यत् सा॑न्नाय्यो॒खे भव॑तः ।
य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रँसाय ।
भट्टभास्कर-टीका
यज्ञो नाम कः? प्रजापतिरेव । ततक्ष प्रजा विनष्टास्स्युः । तत्र सान्नाय्योखे यज्ञस्यैव पूर्वं स्रस्तोखस्य उखे भवतः, तदस्य यज्ञस्य अप्रस्रंसाय भवति सान्नाय्योखे सान्नाय्यकुम्भ्यौ ॥
सायण-टीका
यत्सांनाय्योखे भवतः। यज्ञस्यैव तदुखे उपदधात्यप्रस्त्रँसाय (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। यज्ञो दर्शेष्टिः। सांनाय्यमिति दधिपयसोर्नाम। यज्ञसंबन्धिन्योः कुम्भ्योर्नाशे यज्ञस्य नष्टत्वात्स्रष्टुः प्रजापतेरपि नाशः कुम्भ्योः संपादने यज्ञस्य संपादितत्वात्प्रजापतेरेवाविनाशायैतत्संपद्यते। यदुखे भवत इति यदस्ति तत्तेनोखासंपादनेनेति योज्यम्।
शुन्ध॑ध्व॒न् दैव्या॑य॒
विश्वास-प्रस्तुतिः
“शुन्ध॑ध्व॒न् दैव्या॑य॒ कर्म॑णे देव-य॒ज्याया॒” इत्य् आ॑ह ।
दे॒व॒-य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
मूलम्
“शुन्ध॑ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒” इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ।
भट्टभास्कर-टीका
3शुन्धध्वमिति सान्नाय्यपात्रप्रोक्षणम् ॥
सायण-टीका
विशेषेण प्रयोजनमाह — ‘शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह। देवयज्याया एवैनानि शुन्धति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। शोधयतीत्यर्थः। तेन दानव्रतादिरूपं स्मार्तमपि कर्म दैविकमस्ति तन्मा भूदिति विशेषणम्।
मा॒त॒रिश्व॑नो घ॒र्मः
विश्वास-प्रस्तुतिः
“मा॒त॒रिश्व॑नो घ॒र्मो॒॑ऽसी"त्य् आ॑ह॥16॥
अ॒न्तरि॑क्षव्ँ॒ वै मा॑त॒रिश्व॑नो घ॒र्मः ।
ए॒षाल्ँ लो॒कानाव्ँ॒ विधृ॑त्यै ।
मूलम्
“मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसी"त्या॑ह॥16॥
अ॒न्तरि॑क्षव्ँ॒ वै मा॑त॒रिश्व॑नो घ॒र्मः ।
ए॒षाल्ँ लो॒कानाव्ँ॒विधृ॑त्यै ।
भट्टभास्कर-टीका
4मातरिश्वन इति अङ्गारनिरूहणम् ॥ मातरिश्वनः वायोः घर्मः धरणाधारः सञ्चारस्थानमन्तरिक्षं तदेव त्वमसीति अङ्गारस्य विधारणसामर्थ्यख्यापनं एषां लोकानां विधृत्यै भवति ॥
सायण-टीका
यथोक्तार्थो ब्राह्मणेन विशदी क्रियते – मातारिश्वनो धर्मोऽसीत्याह। अन्तरिक्षं वै मातरिश्वनो धर्मः। एषां लोकानां विधृत्यै।
द्यौर॑सि
विश्वास-प्रस्तुतिः
“द्यौर् अ॑सि पृथि॒व्य् अ॒॑सी"त्य् आ॑ह।
दि॒वश् च॒ ह्य् ए॒॑षा पृ॑थि॒व्याश् च॒ सम्भृ॑ता॒ यद् उ॒खा।
तस्मा॑द् ए॒वम् आ॑ह ।
मूलम्
“द्यौर॑सि पृथि॒व्य॑सी"त्या॑ह।
दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता । यदु॒खा ।
तस्मा॑दे॒वमा॑ह ।
भट्टभास्कर-टीका
5द्यौरसीति सान्नाय्यपात्र्यभिश्रयणं । ॥ द्युप्रभृतीनां कार्यत्वात्, तद्भावेन स्तूयत इति भावः ॥
सायण-टीका
द्यौरसि पृथिव्यसीत्याह। दिवश्च ह्येषा पृथिव्याश्च संभृता। यदुखा। तस्मादेवमाह।
वि॒श्वधा॑या
विश्वास-प्रस्तुतिः
“वि॒श्वधा॑या असि पर॒मेण॒ धाम्ने"त्य् आ॑ह ।
वृष्टि॒र् वै वि॒श्व-धा॑याः ।
वृष्टि॑म् ए॒वाव॑रुन्धे ।+++(5)+++
मूलम्
“वि॒श्वधा॑या असि पर॒मेण॒ धाम्ने"त्या॑ह ।
वृष्टि॒र्वै वि॒श्वधा॑याः ।
वृष्टि॑मे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
6विश्वं दधाति धारयतीति विश्वधाया वृष्टिः । ‘गतिकारकयोरपि’ इत्यमुम् । इह तु लोकाधिवकारादन्तरिक्षं वृष्टिसहचरितमुच्यते तत्र वृष्टेस्संकीर्तनात् वृष्टिमवरुन्धे ॥
सायण-टीका
विश्वधाया असि परमेश धाम्नेत्याह। वृष्टिर्वै विश्वधायाः। वृष्टिमेवादरुन्धे। दृँहस्व मा ह्वारित्याह धृत्यै (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। द्यौरसि पृथिव्यसीति द्वयोर्लोकर्वाचकशब्देनोपात्तत्वात्साहचर्येण धर्मशब्देऽन्तरिक्षपरे सति कुम्भे त्रयाणां लोकानां विशेषेण धारणं सिध्यति। विश्वधाया इत्युच्चारणाद्वृष्टेरवरोधः स्वाधीनता भवति।
दृँह॑स्व॒
दृँह॑स्व॒ ...{Loading}...
विश्वास-प्रस्तुतिः
“दृँह॑स्व॒ मा ह्वा॒र्”+++(=कुटिलीभव)+++ इत्या॑ह॒ धृत्यै॑ ॥17॥
मूलम्
“दृँह॑स्व॒ मा ह्वा॒"र्+++(=कुटिलीभव)+++ इत्या॑ह॒ धृत्यै॑ ॥17॥
सायण-टीका
तृतीयभागे स्वयमप्यारोढुं शकटस्य धैर्यं संपाद्यत इत्याह — “दृँहस्व मा ह्वारित्याह धृत्यै” (ब्रा. का. ३ प्र. २ अ. ४ ) इति।
वसू॑नाम् प॒वित्र॑म्
विश्वास-प्रस्तुतिः
“वसू॑नाम् प॒वित्र॑म् अ॒सी"त्या॑ह।
प्रा॒णा वै वस॑वः ।
तेषाव्ँ॒ वा ए॒तद् भा॑ग॒धेय॑म् ।
मूलम्
“वसू॑नाम्प॒वित्र॑म॒सी"त्या॑ह।
प्रा॒णा वै वस॑वः ।
तेषाव्ँ॒वा ए॒तद्भा॑ग॒धेय॑म् ।
विश्वास-प्रस्तुतिः
यत्प॒वित्र॒म् तेभ्य॑ ए॒वैन॑त्करोति ।
मूलम्
यत्प॒वित्र॑म् ।
तेभ्य॑ ए॒वैन॑त्करोति ।
भट्टभास्कर-टीका
7वसूनामित्युखायां शाखापवित्रनिधानम् ॥ प्राणा वा इति वासहेतुत्वात् । तेषां एष भागः प्रीणनहेतुत्वात् ॥
सायण-टीका
वसुशब्दार्थं षष्ठ्यभिप्रेतं संबन्धविशेषं चाऽऽह – ‘वसूनां पवित्रमसीत्याह। प्राणा वै वसवः। तेषा वा एतद्भागधेयम्। यत्पवित्रम् तेभ्य एवैनत्कारोति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति धनवाचिना वसुशब्देनेह विवक्षितानां क्षीरावयवानां प्राणनिवासलक्षणजीवनहेतुत्वात्प्राणरूपत्वम्। शोधकं प्रवित्रमिति यदस्ति तत्प्राणानामेव संबन्धि। कुतः। प्राणार्थमेव हि सर्वो जनः पिपीलिकामक्षिकाद्यापनयनेन क्षीरशोधनं करोति।
विश्वास-प्रस्तुतिः
“श॒त-धा॑रँ स॒हस्र॑-धार॒म्” इत्य् आ॑ह ।
प्रा॒णेष्व् ए॒वायु॑र् दधाति सर्व॒त्वाय॑ ।
मूलम्
“श॒तधा॑रँ स॒हस्र॑धार॒"मित्या॑ह ।
प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑ ।
भट्टभास्कर-टीका
8बहुवारं पावनत्व-वचनं प्राणेष्व् एवायुषो धारणाय भवति ।
तत्रायुर् एकदेशस्य अन्यथाऽपि सिद्धत्वात्
आयुषस् सर्वत्वाय तत् संपद्यते ॥
सायण-टीका
शतसहस्रशब्दसूचितमर्थमाह – ‘शतधारँ सहस्रधारमित्याह। प्राणेष्वेवाऽऽयुर्दधाति सर्वत्वाय’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। शतायुर्भव सहस्रायुर्भवेत्येवमाशीर्वादो लोके प्रसिद्धः। स चापमृत्युपरिहारेणाऽऽयुषः कार्त्स्न्याय संपद्यते।
विश्वास-प्रस्तुतिः
त्रि॒वृत् प॑लाश-शा॒खाया॑न् दर्भ॒मय॑म् भवति +++(पवित्रम्)+++ ।
त्रि॒वृद् वै प्रा॒णस्,
त्रि॒-वृत॑म् ए॒व प्रा॒णम् म॑ध्य॒तो यज॑माने दधाति ॥
मूलम्
त्रि॒वृत्प॑लाशशा॒खाया॑न्दर्भ॒मय॑म्भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒णम्म॑ध्य॒तो यज॑माने दधाति ॥18॥
भट्टभास्कर-टीका
9पवित्रं विशिनष्टि - त्रिवृदिति ॥ त्रिवृद्गुणं भवति, तत्पवित्रं पलाशशाखायां च निहितं भवति, दर्भमयं च भवति । अथ त्रिवृत्त्वादि स्तौति - त्रिवृद्वा इत्यादि ।
सायण-टीका
गुणत्रयविशिष्टं पवित्रं विधत्ते – ‘त्रिवृत्पलाशशाखायां दर्भमयं भवति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। क्रमेण त्रीनर्थवादानाह — ‘त्रिवृद्वै प्राणः। त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति।
विश्वास-प्रस्तुतिः
सौ॒म्यᳶ प॒र्णस् स॑-योनि॒त्वाय॑ +++(दर्भेण → पवित्रेण)+++ ।
सा॒क्षात् प॒वित्र॑न् द॒र्भाः ।
मूलम्
सौ॒म्यᳶ प॒र्णस्स॑योनि॒त्वाय॑ । सा॒क्षात्प॒वित्र॑न्द॒र्भाः ।
भट्टभास्कर-टीका
सयोनित्वायेति पालाशस्य सौम्यत्वात् ओषधीनामपि सौम्यत्वात् दर्भपलाशयोस्सयोनित्वम् । साक्षात् अव्यवधानेनैव पवित्रं भवति दर्भाः ।
सायण-टीका
सौम्यः पर्णः सयोनित्वाय। साक्षात्पवित्रं दर्भाः’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। प्राणापानव्याननाम कैरूर्ध्वाधोमध्यवृत्तिलक्षणैरवान्तरभेदैः प्राणवायोस्त्रिवृत्त्वम्। कार्ये पलाशे कारणस्य सोमस्यानुगतिर्योनिसहितत्वम्। तदर्थमेवात्र पलाशशाखायामादरः। दर्भास्तु साक्षादेव शुद्धिहेतवो न तु द्रव्यान्तरसंपादनेन। एतच्च संध्यावन्दनादिशास्त्रोषु प्रसिद्धम्। शाखापवित्रस्य निर्माणप्रकारः सूत्रे दर्शितः ‘त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायाँ शिथिलमवसृजति मूले मूलाविशेषेण धारणं सिध्यति। विश्वधाया इत्युच्चारणाद्वृष्टेरवरोधः स्वाधीनता भवति।
विश्वास-प्रस्तुतिः
प्राख् +++(आयतं)+++ सा॒यम् अधि॒ निद॑धाति॒ -
तत् प्रा॑णापा॒नयो॑ रू॒पम् ।
ति॒र्यक् +++(आयतं)+++ प्रा॒तस् - तद् दर्श॑स्य रू॒पम् ।
मूलम्
प्राक्सा॒यमधि॒ निद॑धाति । तत्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । तद्दर्श॑स्य रू॒पम् ।
भट्टभास्कर-टीका
प्राग् इति प्राग्-आयतं सायं निदधाति ।
ति॒र्यक्प्रा॒तस् तद्दर्श॑स्य रू॒पम् ।
तिर्यक् दक्षिणोत्तरायतं उदगग्रं प्रातः ।
तद् दर्शस्य कर्मणो रूपं दध्यादि-साध्यत्वेन तिर्यक्-प्रधानत्वात् ।
सायण-टीका
तस्य शाखापवित्रस्य कालभेदेन कुम्भीमुखे स्थापनप्रकारभेदं विधत्ते – ‘प्राक्सायमधिनि दधाति । तत्प्राणापानयो रूपम् । तिर्यक्प्रातः । तद्दर्शस्य रूपम् ।
विश्वास-प्रस्तुतिः
दा॒र्श्यँ ह्य् ए॒॑तद् अहः॑ ।
मूलम्
दा॒र्श्यँ ह्ये॑तदहः॑ ।
भट्टभास्कर-टीका
दार्श्यं दर्शे कर्मणि साधु । छान्दसो ण्यप्रत्ययः ।
सायण-टीका
दार्श्यँ ह्येतदहः ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै च॒न्द्रमाः॑ ।
अन्न॑म् प्रा॒णाः ।
उ॒भय॑म् +++(पवनेन)+++ ए॒वोपै॒त्य् अजा॑मित्वाय+++(=अनालस्याय)+++ ॥19॥
मूलम्
अन्नव्ँ॒ वै च॒न्द्रमाः॑ ।
अन्न॑म्प्रा॒णाः ।
उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥19॥
भट्टभास्कर-टीका
ततः किमित्याह - अन्नं स्वयं चन्द्रमाः दृशिकर्मभूतः, यस्याप्यायनमिदं कर्म, प्राणाश्चान्नं तद्धेतुकत्वात्, तस्मात् उभयविधम् अप्य् अन्नं उपेति, नान्यतरदेव, तच्च अजामित्वाय अनालस्याय भाति ।
सायण-टीका
अन्नव्वैँ चन्द्रमाः । अन्नं प्राणाः । उभयमेवोपैत्यजामित्वाय ।
विश्वास-प्रस्तुतिः
तस्मा॑द् +++(→अजामित्वाय)+++ अ॒यँ +++(वायुर् अहर्-निशं)+++ स॒र्वत॑ᳶ पवते ।
मूलम्
तस्मा॑द॒यँ स॒र्वत॑ᳶ पवते ।
भट्टभास्कर-टीका
अन्यतरोपगमे ह्यालस्यं स्यात्,
तस्माद् अह्नि रात्रौ च अन्नलाभात् सर्वतः अह्नि रात्रौ च वायुः पवते ॥
सायण-टीका
तस्मादयँ सर्वतᳶ पवते ।’ (ब्रा० का० ३ प्र० २ अ० ३ ) इति ।
हु॒तस् स्तो॒कः
विश्वास-प्रस्तुतिः
“हु॒तस् स्तो॒को हु॒तो द्र॒प्स” इत्य् आ॑ह॒
प्रति॑ष्ठित्यै, ह॒विषो ऽस्क॑न्दाय ।
न हि हु॒तँ स्वाहा॑कृतँ॒ स्कन्द॑ति ।
मूलम्
“हु॒तस्स्तो॒को हु॒तो द्र॒प्स” इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषोऽस्क॑न्दाय । न हि हु॒तँ स्वाहा॑कृतँ॒ स्कन्द॑ति ।
भट्टभास्कर-टीका
10हुत इति स्तोकानुमन्त्रणम् ॥ तत्र हुत इति सङ्कल्पान् विप्रुषां प्रतिष्ठितत्वं अविनाशः, तदपि हविषोऽस्कन्नत्वाय भवति ।
सायण-टीका
ततः स्कन्नदोषो न भवतीत्याह – ‘हुतस्स्तोको हुतो द्रप्स इत्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । न हि हुतँ स्वाहाकृतँ स्कन्दति ।’ (ब्रा० का० ३ प्र० २ अ० ३) इति । हविषोऽग्नौ प्रक्षिप्तत्वं हुतत्वम् ।
विश्वास-प्रस्तुतिः
दि॒वि नाको॒ नामा॒ग्निः ।
तस्य॑ वि॒प्रुषो॑ भाग॒धेय॑म् ।
“अ॒ग्नये॑ बृह॒ते नाका॒ये"त्या॑ह ।
नाक॑म् ए॒वाग्निम् भा॑ग॒धेये॑न॒ सम॑र्धयति ।
“स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒म्” इत्या॑ह ।
द्यावा॑पृथि॒व्योर् ए॒वैन॒त् प्रति॑ष्ठापयति ॥20॥
मूलम्
न हि हु॒तँ स्वाहा॑कृतँ॒ स्कन्द॑ति ।
दि॒वि नाको॒ नामा॒ग्निः ।
तस्य॑ वि॒प्रुषो॑ भाग॒धेय॑म् ।
“अ॒ग्नये॑ बृह॒ते नाका॒ये"त्या॑ह ।
नाक॑मे॒वाग्निम्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
“स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒"मित्या॑ह ।
द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति ॥20॥
भट्टभास्कर-टीका
तत्र हेतुमाह - न हीति । इदानीं नाकायेति मन्त्रपदं व्याचष्टे - दिवीत्यादि ॥ गतम् ॥
सायण-टीका
नाकीयविप्रूषां होममुपपादयति — ‘दिवि नाको नामाग्निः। तस्य विप्रुषो भागधेयम्। अग्नये बृहते नाकायेत्याह। नाकमेवाग्निं भागधेयेन समर्धयति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति। नाकस्य भागः कथं द्यावापृथिवीभ्यां दत्त इत्याशङ्क्य न तयोर्नाकवद्भोक्तृत्वं किंतु स्थित्याधारत्वेन पालकत्वमित्याह — ‘स्वाहा द्यावापृथिवीभ्यामित्याह। द्यावापृथिव्योरवैनत्प्रतिष्ठापयति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
पवित्रवति स्थापनम्
विश्वास-प्रस्तुतिः
प॒वित्र॑व॒त्य् आन॑यति ।
अ॒पाञ् चै॒वौष॑धीनाञ् च॒ रसँ॒ सँसृ॑जति ।+++(4)+++
अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति ।
मूलम्
प॒वित्र॑व॒त्य् आन॑यति ।
अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति ।
अथो॒ ओष॑धीष्वे॒व प॒शून्प्रति॑ष्ठापयति ।
सायण-टीका
सपवित्रे कुम्भे क्षीरसेचनं विधत्ते — ‘पवित्रवत्यानयति। अपां चैवोषधीनां च रसँ सँ सृजति। अथो ओषधीष्वेव पशुन्प्रतिष्ठापयति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
विश्वास-प्रस्तुतिः
+++(कुम्भीम्)+++ अ॒न्वा॒रभ्य॒ वाचय्ँ॑ यच्छति - य॒ज्ञस्य॒ धृत्यै॑।
मूलम्
अ॒न्वा॒रभ्य॒ वाचय्ँ॑ यच्छति ।
य॒ज्ञस्य॒ धृत्यै॑ ।
भट्टभास्कर-टीका
11अन्वारभ्येति कुम्भीम् ॥
सायण-टीका
दोहनकाले कुम्भीस्पर्शनपूर्वकं मौनं विधत्ते – ‘अन्वारभ्य वाचं यच्छति। यज्ञस्य धृत्यै’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
विश्वास-प्रस्तुतिः
धा॒रय॑न्न् आस्ते ।
धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ ।
मूलम्
धा॒रय॑न्न् आस्ते ।
धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ ।
सायण-टीका
पवित्रधारणं विधत्ते — ‘धारयन्नास्ते। धारयन्त इव हि दुहन्ति’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
गो-नाम-कीर्तनम्
विश्वास-प्रस्तुतिः
“काम् अ॑धुक्ष॒” इत्य् आ॒हाऽऽतृ॒तीय॑स्यै ।
त्रय॑ इ॒मे लो॒काः ।
इ॒मान् ए॒व लो॒कान् यज॑मानो दुहे ॥21॥
मूलम्
“काम॑धुक्ष॒” इत्या॒हातृ॒तीय॑स्यै ।
त्रय॑ इ॒मे लो॒काः ।
इ॒माने॒व लो॒कान्यज॑मानो दुहे ॥21॥
भट्टभास्कर-टीका
कामिति । “कां गाम् अधुक्ष” इति आतृतीयस्याः पृच्छति । प्रथमां द्वितीयां तृतीयां चेति यावत् ।
सायण-टीका
गां दुग्ध्वा कुम्भीं प्रति क्षीरमानयन्तं दोग्धारं पृच्छेदिति विधत्ते – ‘कामधुक्ष इत्याहाऽऽतृतीयस्यै (यत्र इमे लोकाः। इमानेव लोकान्प्रजमानो दुहे’ (ब्रा॰ का॰ ३ प्र॰ २ अ॰ ३) इति।
विश्वास-प्रस्तुतिः
“अ॒मूम्” इति॒ नाम॑ गृह्णाति ।
भ॒द्रम् ए॒वासा॒ङ् कर्मा॒विष्क॑रोति ।
मूलम्
“अ॒मू"मिति॒ नाम॑ गृह्णाति ।
भ॒द्रमे॒वासा॒ङ्कर्मा॒विष्क॑रोति ।
भट्टभास्कर-टीका
अमूमिति गङ्गां यमुनामित्यादिनामविशेषं कीर्तयन् प्रत्याह । एवं ह्यासां भद्रं कल्याणं कर्माविष्करोति ॥
सायण-टीका
दोग्धुरुत्तरं विधत्ते– अमूमिति नाम गृह्णाति। भद्रमेवाऽऽसां कर्माऽऽविष्करोति (ब्रा. का. ३ प्र. २ अ. ३) इति।
विश्वास-प्रस्तुतिः
“सा वि॒श्वायु॒स्, सा वि॒श्व-व्य॑चा॒स्, सा वि॒श्वक॒र्मे"त्य् आ॑ह ।
इ॒यव्ँ वै वि॒श्वायुः॑ ।
अ॒न्तरि॑क्षव्ँ वि॒श्व-व्य॑चाः ।
अ॒सौ वि॒श्वक॑र्मा ।
इ॒मान् ए॒वैताभि॑र् लो॒कान् य॑थापू॒र्वन् दु॑हे ।
मूलम्
“सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॒र्मे"त्या॑ह ।
इ॒यव्ँ वै वि॒श्वायुः॑ ।
अ॒न्तरि॑क्षव्ँ वि॒श्वव्य॑चाः ।
अ॒सौ वि॒श्वक॑र्मा ।
इ॒माने॒वैताभि॑र्लो॒कान् य॑थापू॒र्वन्दु॑हे ।
भट्टभास्कर-टीका
12सा विश्वायुरिति प्रथमानतिक्रमेण दुग्धानां गवामभिमन्त्रणम् ॥ इयं वा इत्यादि । विश्वान्नहेतुः विश्वायुः । विश्वगतिर्विश्वव्यचाः । विश्वकर्मफलस्थानं विश्वकर्मा ।
सायण-टीका
पृथिव्यन्तरिक्षद्युलोकामिमानिदेवतानां क्रमेणोक्तगुणोपेतत्वात्तदभेदेन गावः स्तूयन्त इत्यमुं मन्त्राभिप्रायं दर्शयति – ‘सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह। इयं वै विश्वायुः। अन्तरिक्षं विश्वव्यचाः। असौ विश्वकर्मा। इमानेवैतामिर्लोकान्यथापूर्वं दुहे’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
विश्वास-प्रस्तुतिः
अथो॒ यथा॑ प्रदा॒त्रे पुण्य॑म् आ॒शास्त,
ए॒वम् ए॒वैना॑ ए॒तद् उप॑स्तौति ।
मूलम्
अथो॒ यथा॑ प्रदा॒त्रे पुण्य॑मा॒शास्ते॑ ।
ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति ।
भट्टभास्कर-टीका
अथो अपिच यथा लोके कश्चित् लब्धापेक्षः प्रदात्रे पुण्यमाशास्ते एवमेनाः गाः विश्वायुरित्यादिभिः पदैरुपस्तौति ।
सायण-टीका
किंच बहुक्षीरप्रदानेन संतुष्टो विश्वायुष्ट्वादिकमाशीर्वादं प्रयुङ्क्त इत्यभिप्रायान्तरमाह — ‘अथो यथा प्रदात्रे पुण्यमाशास्ते। एवमेवैना एतदुपस्तौति।
विश्वास-प्रस्तुतिः
तस्मा॒त् “प्रादा॒द्” इत्य् उ॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ᳶ प॒शून् दु॑हन्ति ॥22॥
“ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विर्” इति॒ वाचव्ँ॒ विसृ॑जते ।+++(4)+++
मूलम्
तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्त॑ᳶ प॒शून्दु॑हन्ति ॥22॥
ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचव्ँ॒विसृ॑जते ।
भट्टभास्कर-टीका
तस्मादित्यादि लोकवृत्तान्तदर्शनम् । प्रादात् प्रभूतं पय इति स्तुतिहेतुकथनम् ।
सायण-टीका
तस्मात्प्रादादित्युन्नीय वन्दमाना उपस्तुवन्तः पशून्दुहन्ति’ (ब्रा. का. ३ प्र. २ अ. ३) इति। यथा लोके प्रभूतं धनं दत्तवते राज्ञे चिरं जीवेत्याशीर्वादं पुरोधाः करोति। एवमेवैतेन मन्त्रेण गाः स्तौति। यस्माच्छास्त्रीयदोहने स्तुतिराम्नायते तस्माल्लौकिकदोहनेऽपि प्रभूतं क्षीरं पूर्वेद्युरदादिति निश्चित्य हस्तेन वन्दमाना वाचा मम माता मम भगिनीत्येवं गाः स्तुवन्तो दुहन्ति। एतत्काण्डगतेषु मन्त्रेष्वनाम्नातं कंचिन्मन्त्रमुत्पाद्य विनियुङ्क्ते — ‘बहु दुग्धीन्द्राय देवेभ्यो हविरिति वाचं विसृजते।
विश्वास-प्रस्तुतिः
य॒था॒दे॒व॒तम् ए॒व प्रसौ॑ति॒ -
दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै ।
मूलम्
य॒था॒दे॒व॒तमे॒व प्रसौ॑ति । दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्यै ।
भट्टभास्कर-टीका
यथा देवतमिति यथा स्वं देवतार्थम् अनुजानाति । तच्च दैव्यमानुषभोगाय ।
सायण-टीका
यथादेवतमेव प्रसौति। दैव्यस्य च मानुषस्य च व्यावृत्त्यै’
(ब्रा. का. ३ प्र. २ अ. ३) इति।
विश्वास-प्रस्तुतिः
त्रिर् आ॑ह +++(गोदोहनान्तर-वचनानि)+++।
त्रि-ष॑त्या॒ हि दे॒वाः ।
मूलम्
त्रिर् आ॑ह ।
त्रिष॑त्या॒ हि दे॒वाः ।+++(4)+++
भट्टभास्कर-टीका
त्रिराहेति, ‘बहु दुग्धि’ इत्यादिवचनेन त्रिर्वाचं विसृजति । त्रित्वेन सत्यत्वं येषां ते त्रिषत्याः ।
सायण-टीका
मन्त्रावृत्तिं विधत्ते- ‘त्रिराह। त्रिषत्या हि देवाः’ (ब्रा. का. ३ प्र. २ अ. ३) इति। त्रिरुक्ते सत्यत्वबुद्धिर्येषां ते त्रिषत्याः।
विश्वास-प्रस्तुतिः
अ-वा॑चय्ँ-य॒मो ऽन॑न्वार॒भ्योत्त॑राः +++(गा दोग्धि)+++।
अप॑रिमितम् ए॒वाव॑रुन्धे ।
मूलम्
अवा॑चय्ँय॒मोऽन॑न्वार॒भ्योत्त॑राः ।
अप॑रिमितमे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
उत्तराः तिसृभ्यः, दुग्ध इति गम्यते ॥
सायण-टीका
मौनं कुम्भीस्पर्शनं च विनैव तिसृभ्योऽधिका गा दोहयेदिति विधत्ते — ‘अवाचंयमोऽनन्वारभ्योत्तराः। अपरिमितमेवावरून्धे’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
दारु-पात्रम्
विश्वास-प्रस्तुतिः
न दा॑रु-पा॒त्रेण॑ दुह्यात् ।
अ॒ग्नि॒वद् वै दा॑रु-पा॒त्रम् +++(स च हविः-सारं गृह्णीयात्)+++।+++(4)+++
यद् दा॑रु-पा॒त्रेण॑ दु॒ह्याद्
या॒त-या॑म्ना ह॒विषा॑ यजेत ।
अथो॒ खल्व् आ॑हुᳶ -
“पुरो॒डाश॑-मुखानि॒ वै ह॒वीँषि॒,
नेत-इ॑तᳶ पुरो॒डाशँ॑ ह॒विषो॒ यामो॒ऽस्ती"ति॑ ।
काम॑म् ए॒व दा॑रुपा॒त्रेण॑ दुह्यात् ।
मूलम्
न दा॑रुपा॒त्रेण॑ दुह्यात् ।
अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् ।
यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥23॥
या॒तया॑म्ना ह॒विषा॑ यजेत ।
अथो॒ खल्व् आ॑हुः +++(विपरीताभिप्रायम्)+++।
पु॒रो॒डाश॑-मुखानि॒ वै ह॒वीँषि॑ ।
नेत-इ॑तᳶ पुरो॒डाशँ॑ ह॒विषो॒ यामो॒ऽस्तीति॑ ।
+++(यथा)+++ काम॑म् ए॒व दा॑रु-पा॒त्रेण॑ दुह्यात् ।
भट्टभास्कर-टीका
13यातयामेति ॥ तत्रस्थेनाग्निना गृहीत-सारत्वात् गतरसत्वम् ।
नेतइतः पुरोडाशम् इति ।
पुरोडाश-प्रभृति-हविष्ट्वात् ततः प्राग् +घविषो याम-प्राप्तिर् नास्ति । तस्मात् दारुपात्रेण यथाकामं दुह्यादेव । ‘उपर्यादिषु त्रिषु’ इत्यत्र ‘इतइतः’ इति पठितव्यमिति मन्यन्ते । यद्वा - ‘ततोऽन्यत्रापि दृश्यते’ इति द्वितीया ॥
सायण-टीका
पूर्वपक्षत्वेन दारूपात्रं निषेधति — ‘न दारूपात्रेण दुह्यात्। अग्निवद्वैः दारुपात्रम्। यद्दारूपात्रेण दुह्यात्। यातयाम्ना हविषा यजेत’ (ब्रा. का. ३ प्र. २ अ. ३) इति। मन्थनेनाभिव्यञ्जमानोऽग्निः पूर्वं गूढो दारूणि वर्तत इत्यग्निसहितं दारुपात्रं तत्रत्येनाग्निना क्षीरस्य स्वीकृतत्वाद्धविषो गतरसत्वम्। सिद्धान्तरूपत्वेन तत्पात्रं विधत्ते — ‘अथो खल्वाहुः। पुरोडाशमुखानि वै हवीँषि। नेत इतः पुरोडाशँहविषो यामोऽस्तीति। काममेव दारूपात्रेण दुह्यात्’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
शूद्र-निषेधः
विश्वास-प्रस्तुतिः
शू॒द्र ए॒व न दु॑ह्यात् -
अस॑तो॒ वा ए॒ष सम्भू॑तो॒ यच् छू॒द्रः ।
“अह॑विरे॒व तद्” इत्य् आ॑हुर्
“यच् छू॒द्रो दोग्धी"ति॑ ॥24॥
मूलम्
शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष सम्भू॑तः । यच्छू॒द्रः ।
अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ॥24॥
भट्टभास्कर-टीका
11शूद्र एवेति ॥ सर्वमन्यद्यथाकामं कुर्यात् इदं त्वेकं सर्वथा परिहर्तव्यमिति यावत् ।
असत इति । प्रजापतेः पत्तो जातत्वात् । उक्तं च ‘तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ इति ।
सायण-टीका
पुनरप्यन्यं पूर्वपक्षमाह - शूद्र एव न दुह्यात्। असतो वा एष संभूतः। यच्छूद्रः। अहविरेव तदित्याहुः। यच्छूद्रो दोग्धीति’ (ब्रा. का. ३ प्र. २ अ. ३) इति। असतोऽधमावयवात्पादाज्जातः।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒हो॒त्रम् ए॒व न दु॑ह्याच् छू॒द्रः ।
तद्धि नोत्पु॒नन्ति॑ ।
य॒दा खलु॒ वै प॒वित्र॑म् अ॒त्य् एत्य्
अथ॒ तद् +ध॒विर्
इति॑ ।
मूलम्
अ॒ग्नि॒हो॒त्रमे॒व न दु॑ह्याच्छू॒द्रः । तद्धि नोत्पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ ।
भट्टभास्कर-टीका
अग्निहोत्रमेवेति । पक्षान्तरम् ।
यदा खल्विति । शूद्रदुग्धमपि हविर्भवति, यदा तत्पवित्रं अत्येति अत्याक्रामति ॥
सायण-टीका
राद्धान्तमाह — ‘अग्निहोत्रमेव न दुह्याच्छूद्रः। तद्धि नोत्पुनन्ति। यदा खलु वै पवित्रमत्येति। अथ तद्धविरिति’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
सम्पृ॑च्यध्वम्
विश्वास-प्रस्तुतिः
“सम्पृ॑च्यध्वम् ऋतावरी॒"र् इत्य् आ॑ह ।
अ॒पाञ् चै॒वौष॑धीनाञ् च॒ रसँ॒ सँसृ॑जति ।
तस्मा॑द् अ॒पाञ् चौष॑धीनाञ् च॒ रस॒म् उप॑जीवामः ।
“म॒न्द्रा धन॑स्य सा॒तय॒” इत्य् आ॑ह ।
पुष्टि॑म् ए॒व यज॑माने दधाति ।
मूलम्
“सम्पृ॑च्यध्वमृतावरी॒"रित्या॑ह ।
अ॒पाञ्चै॒वौष॑धीनाञ्च॒ रसँ॒ सँसृ॑जति ।
तस्मा॑द॒पाञ्चौष॑धीनाञ्च॒ रस॒मुप॑जीवामः ।
“म॒न्द्रा धन॑स्य सा॒तय॒” इत्या॑ह ।
पुष्टि॑मे॒व यज॑माने दधाति ।
भट्टभास्कर-टीका
15संपृच्यध्वमिति गादोहनसंक्षाळनीयानामपां पयस्यानयनम् ॥
सायण-टीका
सामर्थ्योर्मिमाधुर्यगुणोपन्यासादत्र रससंपर्को विवक्षितः। न तु द्रव्यसंपर्कमात्रमित्याह — ‘संपृच्यध्वमृतावरीरित्याह। अपां चैवौषधीनां च रसँ सँ सृजति। तस्मादपां चौषधीनां च रसमुपजीवामः’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
धनलाभोक्तिप्रयोजनं दर्शयति — ‘मन्द्रा धनस्य सातय इत्याह। पुष्टिमेव यजमाने दधाति’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य
विश्वास-प्रस्तुतिः
“सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधी"त्य् आ॑ह॒ -
सोम॑म् ए॒वैन॑त् करोति ।
यो वै सोम॑म् भक्षयि॒त्वा
सव्ँ॒व॒त्स॒रँ सोम॒न् न पिब॑ति
पुन॒र् भक्ष्यो॑ऽस्य सोम-पी॒थो भ॑वति ।
मूलम्
सोमे॑न॒ त्वात॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥25॥
सोम॑मे॒वैन॑त्करोति ।
यो वै सोम॑म्भक्षयि॒त्वा । सव्ँ॒व॒त्स॒रँ सोम॒न्न पिब॑ति । पु॒न॒र्भक्ष्यो॑ऽस्य सोमपी॒थो भ॑वति ।
भट्टभास्कर-टीका
16सोमेनेति दध्यातञ्चनम् ॥ सोमीकरणस्य प्रयोजनमाह - यो वा इति । पुनर्भक्ष्यः अपीततुल्यत्वात् संवत्सरमपीत सोमस्यापि सान्नाय्ये सोमसम्बन्धः संपद्यते तेन पुनर्भक्ष्यत्वदोषाप्रसङ्गः ॥
सायण-टीका
अत्राऽऽतञ्चने मुख्यं दधिशब्दं परित्यज्य गौणस्य सोमशब्दस्योपादाने प्रयोजनमाह — ‘सोमेन त्वाऽऽतच्मीन्द्राय दधीत्याह। सोममेवैनत्करोति’ (ब्रा. का. २ प्र. २ अ. ३) इति।
सांनाय्यस्य सोमीकरणं प्रयोजनं तस्यापि प्रयोजनमाह — ‘यो वै सोमं भक्षयित्वा संवस्तारँ सोमं न पिबति। पुनर्भक्ष्येऽस्य सोमपीथो भवति।
विश्वास-प्रस्तुतिः
सोम॒ᳵ खलु॒ वै सा॑न्ना॒य्यम् ।
य ए॒वव्ँ वि॒द्वान्त् सा॑न्ना॒य्यम् पिब॑त्य्
अ-पुन॒र्-भक्ष्यो॑ऽस्य सोम-पी॒थो भ॑वति ।
मूलम्
सोम॒ᳵ खलु॒ वै सा॑न्ना॒य्यम् ।
य ए॒वव्ँ वि॒द्वान्त्सा॑न्ना॒य्यम्पिब॑ति ।
अ॒पु॒न॒र्भक्ष्यो॑ऽस्य सोमपी॒थो भ॑वति ।
भट्टभास्कर-टीका
17सोमः खल्विति ॥ ‘सोमेन त्वा’ । इति सोमीकृतत्वात् ॥
सायण-टीका
सोमः खलु वै सांनाय्यम्। य एवं विद्वान्सांनाय्यं पिबति। अपुनर्भक्ष्योऽस्य सोमपीथो भवति’ (ब्रा. का. ३ प्र. २ अ. ३) इति। सोमपीथः पातव्यत्वेन विहितः सोम इत्यर्थः।
पिधानम्
विश्वास-प्रस्तुतिः
न मृ॒न्मये॒नापि॑दध्यात् ।
यन् मृ॒न्मये॑नापिद॒ध्यात्
पितृ-देव॒त्यँ॑ स्यात् ॥26॥
अ॒य॒स्-पा॒त्रेण॑ वा दारु-पा॒त्रेण॒ वाऽपि॑दधाति ।
तद्-धि स-दे॑वम् ।
मूलम्
न मृ॒न्मये॒नापि॑ दध्यात् । यन्मृ॒न्मयो॑नापिद॒ध्यात् । पि॒तृ॒दे॒व॒त्यँ॑ स्यात् ॥26॥ अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑दधाति । तद्धि सदे॑वम् ।
सायण-टीका
कुम्भ्याः पिधानाय पात्रविशेषं विधत्ते – ‘न मृन्मयेनापिदध्यात्। यन्मृन्मयेनापिदध्यात्। पितृदेवत्यँ स्यात्। अयस्पात्रेण वा दारूपात्रेण वाऽपिदधाति। तद्धि सदेवम्’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
विश्वास-प्रस्तुतिः
उ॒द॒न्वद्+++(=उदकवत्)+++ भ॑वति ।
आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒म् अप॑हत्यै ।
मूलम्
उ॒द॒न्वद्भ॑वति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै ।
भट्टभास्कर-टीका
18उदन्वदिति अपिधान-पात्रम् उदकवद् भवति ॥
सायण-टीका
पिधानपात्रस्य सोदकत्वं विधत्ते — ‘उदन्वद्भवति। आपो वै रक्षोघ्नीः। रक्षसामपहत्यै’ (ब्रा. का. ३ प्र. २ अ. ३) इति। स्वाभिमानिदेवतामुखेनापां रक्षोघ्नत्वम्।
विश्वास-प्रस्तुतिः
“अद॑स्तम्+++(=अक्षयम्)+++ असि॒ विष्ण॑वे॒ त्वे॒॑"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒द् अद॑स्तङ् करोति ।
मूलम्
“अद॑स्तमसि॒ विष्ण॑वे॒ त्वे॒"त्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒द् अद॑स्तङ् करोति ।
भट्टभास्कर-टीका
19अदस्तमसीत्यपिधानम् ॥
सायण-टीका
पिधानाय मन्त्रमुत्पाद्य व्याचष्टे — ‘अदस्तमसि विष्णवे त्वेत्याह। यज्ञो वै विष्णुः। यज्ञायैवैनददस्तं करोति’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
निधानम्
विश्वास-प्रस्तुतिः
“विष्णो॑ ह॒व्यँ र॑क्ष॒स्वे"त्य् आ॑ह॒ गुप्त्यै॑
मूलम्
विष्णो॑ ह॒व्यँ र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै॑
सायण-टीका
अत्र रक्षणार्थमेव विष्णुसंबोधनं न त्विन्द्रवद्धविःस्वीकारायेत्यमुमाभिप्रायं विशदयति — ‘विष्णो हव्यँ रक्षस्वेत्याह गुप्त्यै’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
अनधस् सादनम् ...{Loading}...
विश्वास-प्रस्तुतिः
अन॑धस् सादयति॒ -
गर्भा॑णा॒न् धृत्या॒ अप्र॑पादाय+++(=अप्रच्युतये)+++ ।
तस्मा॒द् गर्भा॑ᳶ प्र॒जाना॒म् अप्र॑पादुकाः ।
मूलम्
अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।
भट्टभास्कर-टीका
14अनध इति ॥ कस्मिंश्चिद् आधारे सादयति, गर्भाणां धारणाय,
तदपि अप्रपादाय अप्रच्युतये ।
सायण-टीका
शाखाबर्हिषोरिव सांनाय्येऽपि विधत्ते — ‘अनधः सादयति। गर्भाणां धृत्या अप्रपादाय। तस्माद्गर्भाः प्रजानामप्रपादुकाः।
विश्वास-प्रस्तुतिः
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥
मूलम्
उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥
भट्टभास्कर-टीका
उपरीवेति । ऊर्ध्वायामेव दिशि । इवशब्दोऽवधारणे । उपरितनत्वसामान्यात् तच्छब्दस्य । स्वर्गस्य समष्टयै सम्यक् प्राप्त्यै भवति तस्या उपरिसादनम् ॥
इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये प्रथमोऽनुवाकः ॥
सायण-टीका
उपरीव निदधाति। उपरीव हि सुवर्गो लोकः। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा. का. ३ प्र. २ अ. ३) इति।
भट्टभास्कर-टीका
20अनघ इत्यादि व्याख्यातमेव ॥
इति तैत्तिरीये तृतीये द्वितीये तृतीयोऽनुवाकः ॥