०१ वत्सापाकरणम्

०१ वत्सापाकरणम् ...{Loading}...

शाखा-लक्षणम्

विस्तारः (द्रष्टुं नोद्यम्)

प्राजापत्यकाण्डम्‌ दर्शपूर्णमासेष्टिब्राह्मणम् - पौरोडाशिकम्

विश्वास-प्रस्तुतिः

तृ॒तीय॑स्याम् इ॒तो दि॒वि सोम॑ आसीत् ।

मूलम्

तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् ।

भट्टभास्कर-टीका

1अथ पौरोडाशिकं ब्राह्मणं प्राजापत्यं काण्डमारभ्यते - तृतीयस्यामितो दिवि सोम इत्यादि ॥ इतो लोकादारभ्य तृतीयस्मिन् द्युसंज्ञिके सोम आसीत् ।

सायण-टीका

तत्र पलाशशाखायाः प्राशस्त्यं ब्राह्मणे समाम्नातम् — “तृतीयस्यामितो दिवि सोम आसीत्। तं गायत्र्याहरत्। तस्य पर्णमच्छिद्यत। तत्पर्णोऽभवत्। तत्पर्णस्य पर्णत्वम्” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। द्युशब्दस्याऽऽकाशे प्रसिद्धत्वात्तत्परित्यागेन स्वर्लोकविवक्षां दर्शयितुमितः पृथिवीत आरभ्य तृतीयस्यां दिवि सोमलता पूर्वमासीदित्युक्तम्।

विश्वास-प्रस्तुतिः

तङ् गा॑य॒त्र्य् आऽह॑रत् ।

मूलम्

तङ्गा॑य॒त्र्याऽह॑रत् ।

भट्टभास्कर-टीका

द्युलोकाभिप्रायेण स्त्रीत्वम् । लोकत्रयवचनो वा द्युशब्दः ।

सायण-टीका

गायत्र्याः सोमाहरणं “कद्रूश्च वै सुपर्णी च” [ सं॰ का॰ ६ प्र॰ १ अ॰ ६] इत्यानुवाके “सोमो वै राजा गन्धर्वेष्वासीत्” इति बह्वृचब्राह्मणे च प्रपञ्चितम्।

विश्वास-प्रस्तुतिः

तस्य॑ प॒र्णम् अ॑च्छिद्यत ।

मूलम्

तस्य॑ प॒र्णम॑च्छिद्यत ।

भट्टभास्कर-टीका

पर्णं पत्रं श्येनरूपाया गायत्र्याः ।

सायण-टीका

तदाहरणाभिघातेन सोमस्य पर्णं भूमौ पतितम्। पक्षिरूपाया गायत्र्याः पक्षः पतित इति केचित्।

विश्वास-प्रस्तुतिः

तत् प॒र्णो॑+++(=पलाशः)+++ ऽभवत् ।
तत् प॒र्णस्य॑ पर्ण॒त्वम् ।
ब्रह्म॒ वै प॒र्णः ।

मूलम्

तत्प॒र्णो॑ऽभवत् ।
तत्प॒र्णस्य॑ पर्ण॒त्वम् ।
ब्रह्म॒ वै प॒र्णः ।

भट्टभास्कर-टीका

तत् पर्णः पलाशोऽभवत् । तस्मात्पतनात् पर्णत्वं पतितृत्वाद्वा सर्वोत्कृष्टत्वाद्ब्रह्मत्वं पर्णस्य ।

सायण-टीका

पतितस्य पलाशरूपेणाऽऽविर्भावात्तस्य वृक्षस्य पर्णनाम संपन्नम्। न चात्र पर्णस्य कथं वृक्षत्वं संपन्नमिति विस्मयितव्यं विधातुरीश्वरस्याचिन्त्यशक्तित्वात्, अन्यथा बीजाद्वृक्ष इत्यत्रापि क्व बीजं क्व वृक्ष इत्यपि विस्मयः केन वार्येत। सर्वत्र पर्णेभ्यो वृक्ष इत्ययमतिप्रसङ्गोऽपीश्वरसंकल्पाभावेन परिहर्तव्यः। स च संकल्पः कार्यैकसमधिगम्यः। तस्माद्वेदार्थे कुतर्कैर्न चोदनीयम्। शाखया वत्सापाकरणं विधत्ते – “ब्रह्म वै पर्णः।

मूलम्

यत्प॑र्णशा॒खया॑ व॒त्सान॑पाक॒रोति॑ । ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ।

विश्वास-प्रस्तुतिः

यत् प॑र्णशा॒खया॑ व॒त्सान् अ॑पाक॒रोति॒
ब्रह्म॑णै॒वैना॑न् अ॒पाक॑रोति ।

मूलम्

यत्प॑र्णशा॒खया॑ व॒त्सान॑पाक॒रोति॒ ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ।

भट्टभास्कर-टीका

अपाकरणं मातृभ्यः पृथक्करणम् ॥

सायण-टीका

यत्पर्णशाखया वत्सानपाकरोति। ब्रह्मणैवैतानपाकरोति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। यथा जगन्निष्पादकं ब्रह्म प्रशस्तं तथा यागनिष्पादकस्य पलाशस्य प्रशस्तत्वाद्ब्रह्मत्वेन स्तुतिः। वैशब्देनार्थवादान्तरोपपादिता पलाशस्य ब्रह्मसंबन्धप्रसिद्धिः सूच्यते। देवेषु परस्परं ब्रह्मतत्त्वं निरूपयत्सु पलाशवृक्षस्तत्त्वमशृणोदित्येतादृशो ब्रह्मसंबन्धः। औपानुवाक्यकाण्डे जुह्वाः पर्णमयीत्वाविधिशेषेऽर्थवादे श्रूयते — “देवा वै ब्रह्मन्नवदन्त। तत्पर्ण उपाशृणोत्। सुश्रवा वै नाम। यस्य पर्णमयी जुहूर्भवति। न पापँ॒ श्लोकँ शृणोति” इति। ऐवं यत्र यत्रार्थवादे प्रसिद्धिसूचका वैशब्दहिशब्दादयः पठ्यन्ते तत्र सर्वत्र सति संभवे लौकिकप्रसिद्धिः। अन्यथाऽर्थवादान्तरप्रसिद्धिरिति द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

गा॒य॒त्रो वै प॒र्णः ।
गा॒य॒त्राᳶ प॒शवः॑ ॥1॥
तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ ।
त्रि॒पदा॑ गाय॒त्री ।

मूलम्

गा॒य॒त्रो वै प॒र्णः ।
गा॒य॒त्राᳶ प॒शवः॑ ॥1॥
तस्मा॒त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ ।
त्रि॒पदा॑ गाय॒त्री ।

भट्टभास्कर-टीका

2त्रिपदेति ॥ ‘सङ्ख्यासुपूर्वस्य’ इति लोप समासान्तः, ‘टाबृचि’ इति टाप् । ‘पादः पत्’ इति पद्भावः । ‘द्वित्रिभ्यां पाद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् ।

सायण-टीका

वत्सापाकरण इव गोप्रस्थापनेऽपि शाखां विनियुङ्क्ते — “गायत्रो वै पर्णः। गायत्राः पशवः। तस्मात्त्रीणि त्रीणि पर्णस्य पलाशानि। त्रिपदा गायत्री। यत्पर्णशाखया गाः प्रार्पयति। स्वयैवैना देवतया प्रार्पयति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। पर्णस्य गायत्रीसंबन्धो वेदगम्यः सोमाहरणद्वारतः पूर्वमुदाहृतः। अनुमानगम्योऽप्यपरः संबन्धोऽस्ति गायत्रीशब्देष्विव पलाशपर्णेषु त्रित्वावगमात्। पशूनां च गायत्री देवतेत्ययमर्थोऽन्यत्र द्रष्टव्यः।

विश्वास-प्रस्तुतिः

यत् प॑र्णशा॒खया॒ गाᳶ प्रा॒र्पय॑ति॒,
स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति ।

मूलम्

यत्प॑र्णशा॒खया॒ गाᳶ प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति ।

विश्वास-प्रस्तुतिः

यङ् का॒मये॑ताप॒शुस् स्या॒द् इत्य्
अ॑-प॒र्णान् तस्मै॒ शुष्का॑ग्रा॒म् आह॑रेत् । अ॒प॒शुरे॒व भ॑वति ।

मूलम्

यङ्का॒मये॑ताप॒शुस्स्या॒दिति॑ । अ॒प॒र्णान्तस्मै॒ शुष्का॑ग्रा॒माह॑रेत् । अ॒प॒शुरे॒व भ॑वति ।

विश्वास-प्रस्तुतिः

यङ् का॒मये॑त पशु॒मान्त्स्या॒द् इति॑
बहु-प॒र्णान् तस्मै॑ बहु-शा॒खाम् आह॑रेत् ।
प॒शु॒मन्त॑म् ए॒वैन॑ङ् करोति ॥2।

मूलम्

यङ्का॒मये॑त पशु॒मान्त्स्या॒दिति॑ । ब॒हु॒प॒र्णान्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑मे॒वैन॑ङ्करोति ॥2।

भट्टभास्कर-टीका

प्रार्पणा गोचराय प्रस्थापना । अर्तेर्नो पुगागमः ॥

सायण-टीका

छेद्यायां पलाशशाखायां बहुपर्णत्वप्रागग्रत्वादिगुणान्विधत्ते — “यं कामयेतापशुः स्यादिति। अपर्णां तस्मै शुष्काग्रामाहरेत्। अपशुरेव भवति। यं कामयेत पशुमान्त्स्यादिति। बहुपर्णां तस्मै बहुशाखामाहरेत्। पशुमन्तमेवैनं करोति।

विश्वास-प्रस्तुतिः

यत् प्राची॑म् आ॒ हरे॑द्
देवलो॒कम् अ॒भिज॑येत् ।

यद् उदी॑चीम् +++(आहरेन् )+++ मनुष्यलो॒कम् +++(अभिजयेत् )+++।

प्राची॒म् उदी॑ची॒म् आ ह॑रत्य् उ॒भयो॑र् लो॒कयो॑र् अ॒भिजि॑त्यै ।

मूलम्

यत्प्राची॑मा॒ हरे॑त् । दे॒व॒लो॒कम॒भिज॑येत् ।
यदुदी॑चीम्मनुष्यलो॒कम् ।
प्राची॒मुदी॑ची॒मा ह॑रति । उ॒भयो॑र्लो॒कयो॑र॒भिजि॑त्यै ।

भट्टभास्कर-टीका

3प्राचीमुदीचीमिति ॥ पूर्वोत्तरदिगञ्चिताम् ॥

सायण-टीका

यत्प्राचीमाहरेत्। देवलोकमभिजयेत्। यदुदीचीं मनुष्यलोकम्। प्राचीमुदीचीमाहरति। उभयोर्लोकयोरभिजित्यै” ( ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। यं यजमानमुद्दिश्याध्वर्युः कामयेत। स्पष्टमन्यत्।

इ॒षे त्वो॒र्जे

विश्वास-प्रस्तुतिः

“इ॒षे त्वो॒र्जे त्वे"त्या॑ह । इष॑म् ए॒वोर्जय्ँ॒ यज॑माने दधाति ।

मूलम्

“इ॒षे त्वो॒र्जे त्वे"त्या॑ह । इष॑मे॒वोर्जय्ँ॒यज॑माने दधाति ।

भट्टभास्कर-टीका

4’इषे त्वोर्जे त्वा’ इति शाखाच्छेदनमन्त्रः ॥ इषमेवेति । सान्नाय्यस्य इट्त्वेन ऊर्क्त्वेन च अभिधानात् तदुभयं यजमाने दधात्येव ॥

सायण-टीका

यथोक्तशाखाच्छेदने कं मन्त्रं पठेदित्याशङ्क्योदाहरति — “इषे त्वोर्जे त्वेत्याह” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। अस्मिन्मन्त्रे विनियोगानुसारेण च्छिनद्मीति पदमध्याहृत्य वाक्यं पूरणीयम्। इडित्यन्नं सर्वैः प्राणिभिरिष्यमाणत्वात्। ऊर्ग् बलहेतू रसः। “ऊर्ज बलप्राणनयोः” इति धातुः। ऊर्ज्यते बलं संपाद्यतेऽनया रसरूपयेत्यूर्क्। हे पलाशशाखे देवानां भागरूपदध्यर्थं त्वामाच्छिनद्मि। तस्य देवस्य बलप्रदरसार्थं त्वामाछिनद्मीति वाक्यार्थः। मन्त्रद्वित्वपक्षे विनियोगानुसारेणोर्जे त्वामनुमार्ज्मीत्यध्याहार्यम्। एतन्मन्त्रस्तावकमर्थवादमाह — “इषमेवोर्जं यजमाने दधाति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। एतन्मन्त्रपाठेनाध्वर्युर्भोजनायान्नं बलाय च रसं यजमाने संपादयति। न चात्र प्रत्यक्षविरोध आशङ्कनीयः। ग्रावाणः प्लवन्त इत्यादिवदस्यार्थवादस्य प्रशंसारूपगुणवादत्वाङ्गीकारात्।

वा॒यव॒स् स्थ

विश्वास-प्रस्तुतिः

“वा॒यव॒स् स्थे"त्य् आ॑ह ।
वा॒युर् वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः ।
अ॒न्त॒रि॒क्ष॒-दे॒व॒त्या॑ᳵ खलु॒ वै प॒शवः॑ ॥3॥
वा॒यव॑ ए॒वैना॒न् परि॑ ददाति ।
प्र वा ए॑नान् ए॒तद् आ क॑रोति ।

मूलम्

“वा॒यव॒स्स्थे"त्या॑ह ।
वा॒युर्वा अ॒न्तरि॑क्ष॒स्याध्य॑क्षाः ।

अ॒न्त॒रि॒क्ष॒दे॒व॒त्या॑ᳵ खलु॒ वै प॒शवः॑ ॥3॥
वा॒यव॑ ए॒वैना॒न्परि॑ ददाति ।
प्र वा ए॑नाने॒तदा क॑रोति ।

भट्टभास्कर-टीका

5वायवस्स्थेति वत्सापाकरणमन्त्रः ॥ वायुरन्तरिक्षस्याध्यक्षाः अधिपतिः । वचनव्यत्ययः । अक्षेर्वा ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वं च । पशुदेवताधिदेवतां वायुं संकीर्त्य अपाकरणं कुर्वन् वायव एवैनान् पशून् परिददाति स्वीकरोति,
यस्मात् अयं वायवस्स्थेत्याह ।

सायण-टीका

वायवः स्येति। मन्त्रान्तरविनियोगमाह बौधायन:- “ तया वत्सानपाकरोति वायवः स्थोपायवः स्थेति” इति।
वान्ति गच्छन्तीति वायवो गन्तारः। उप समीपे यजमानगृहे पुनरायन्त्यागच्छन्तीत्युपायवः। हे वत्सास्तृणभक्षणाय प्रथमं मातृसकाशादपेत्य स्वेच्छयैवारण्ये गन्तारो भवत। सायं पुनर्यजमानगृहे समागन्तारो भवत। अथ वा वत्सानां परम्परया वायुदेवताकत्वात्तदभेदविवक्षया वायुरूपत्वं ब्रुवन्नध्वर्युस्तद्रक्षार्थं वत्सान्वायुदेवातायै समर्पयति।

विश्वास-प्रस्तुतिः

यदाह॑ -“वा॒यव॒स् स्थे"त्य् “उ॑पा॒यव॒स् स्थे"त्य् आ॑ह॒
यज॑मानायै॒व प॒शून् उप॑ह्वयते ।

मूलम्

यदाह॑ । वा॒यव॒स्स्थेत्यु॑पा॒यव॒स्स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते ।

भट्टभास्कर-टीका

किञ्च - यदाह वायवस्स्थेति तेनैवैनान् पशून् प्राकरोहि प्रकृष्टाकारवतः करोति वायुदेवत्यत्वप्रकटनात् । प्रकर्षेण वाऽविनष्टानेवाह्वयति । देवताभेदस्याविवक्षितत्वात् ताच्छब्द्यं, मन्त्रे मत्वर्थीयो लुप्यते । अथ उपायवस्स्थेति यदाह उपगन्तृसंकीर्तनात् यजमानायैव पशून् पुनरुपह्वयते समीपे आह्वयति आगमनमनुजानाति ॥

सायण-टीका

अनेनैव प्रकारेण मन्त्रस्य पूर्वभागो ब्राह्मणेन व्याख्यायते — “वायवः स्थेत्याह। वायुर्वा अन्तरिक्षस्याध्यक्षाः। अन्तरिक्षदेवत्याः खलु वै पशवः वायव एवैतान्परिददाति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। अध्यक्षा इति वचनव्यत्ययः। वायुः स्वप्रचारेणान्तरिक्षमधितिष्ठति। अन्तरिक्षे च विस्रम्भसंचाराय बहुलमवकाशं प्रयच्छन्वत्साल्लाँलयति। सेयं प्रत्यक्षप्रसिद्धिरर्थवादान्तरगतः स्वस्वामिभावो वाखलुवैशब्दैर्द्योत्यते। तस्यैव मन्त्रभागस्य प्रकारान्तरेणाभिप्राय आम्नायते - “ प्र वा एनानेतदाकरोति। यदाह। वायवः स्थेति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। अध्वर्युरिमं भागमुच्चारयति यदेतेनोच्चारणेन वत्सान्वायुतादात्म्यलक्षणप्रकृष्टाकारवतः करोति। उत्तरभागं व्याचष्टे - “उपायवः स्थेत्याह। यजमानेनैव पशूनुपह्वयते” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति।

दे॒वो व॑स् सवि॒ता

विश्वास-प्रस्तुतिः

“दे॒वो व॑स् सवि॒ता प्रार्प॑य॒त्व्” इत्य् आ॑ह॒ प्रसू॑त्यै ।

मूलम्

“दे॒वो व॑स्सवि॒ता प्रार्प॑य॒त्वि"त्या॑ह॒ प्रसू॑त्यै ।

भट्टभास्कर-टीका

6देवो व इति प्रस्थापनमन्त्रः ॥ सवित्रा प्राप्यमाणत्व-संकीर्तनं प्रसूत्यै तद्-अनुज्ञालाभाय ॥

सायण-टीका

देवो व इति। विनियोगमाह बौधायनः - “अथैषां मातॄः प्रेरयति देवो वः सविता प्रार्पयत् श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया देहभागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वः स्तेन ईशत माऽघशँसो रुद्रत्य हेतिः परि वो वृणक्त्विति” इति।

आपस्तम्बस्तु त्रीनेतान्मन्त्रानभिप्रेत्य विनियोगत्रयमाह - “दवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति, प्रस्थितानामेकां गां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा-आप्यायध्वमिति, रुद्रस्य हेतिः परि वो वृणकित्वति प्रस्थिता अनुमन्त्रयते” इति।

हे गावः प्रेरको देवोऽन्तर्यामी परमेश्वरोऽत्यन्तश्रेष्ठायेन्द्रदधिरूपाय कर्मणे युष्मानरण्ये घासमत्तुं प्रार्पयतु प्रेरयत्विति प्रथममन्त्रार्थः। तस्य मन्त्रस्य पूर्वभागे स्थितस्य सवितृपदस्य तात्पर्यं व्याचष्टे - “देवो वः सविता प्रार्पयत्वित्याह प्रसृत्यै ” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। प्रेरणायेत्यर्थः।

श्रेष्ठ॑तमाय॒ कर्म॑ण॒

विश्वास-प्रस्तुतिः

“श्रेष्ठ॑तमाय॒ कर्म॑ण॒” इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तम॒ङ् कर्म॑ । तस्मा॑द् ए॒वम् आ॑ह ।

मूलम्

“श्रेष्ठ॑तमाय॒ कर्म॑ण॒” इत्या॑ह । य॒ज्ञो हि श्रेष्ठ॑तम॒ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह ।

भट्टभास्कर-टीका

7यज्ञो हीति ॥ सर्वकामसिद्धिहेतुत्वात् ॥

सायण-टीका

उत्तरभागं व्याचष्टे - “श्रेष्ठतमाय कर्मण इत्याह। यज्ञो हि श्रेष्ठतमं कर्म। तस्मादेवमाह” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति।

आप्या॑यध्वम्

विश्वास-प्रस्तुतिः

“आप्या॑यध्वम् अघ्निया देवभा॒गम्” इत्य् आ॑ह ॥4॥
व॒त्सेभ्य॑श् च॒ वा ए॒ताᳶ पु॒रा म॑नु॒ष्ये॑भ्य॒श् चाप्या॑यन्त ।

मूलम्

“आप्या॑यध्वमघ्निया देवभा॒ग"मित्या॑ह ॥4॥
व॒त्सेभ्य॑श्च॒ वा ए॒ताᳶ पु॒रा म॑नु॒ष्ये॑भ्य॒श्चाप्या॑यन्त ।

भट्टभास्कर-टीका

8अथ ‘देवभागम्’ इति मन्त्रे देवपदोपादानाभिप्रायमाह - वत्सेभ्यश्चेत्यादि ॥

सायण-टीका

द्वितीयमन्त्रस्यायमर्थः - हेऽघ्निया गावो देवस्येन्द्रस्य दधिरूपं भागमाप्यायध्वं प्रभूतघासभक्षणेन प्रवृद्धं कुरत। युष्मानपाहर्तुं स्तेनश्वोरो मेशत शक्तो मा भूत्। कीदृशीर्युष्मानत्यन्तरसा अधिकक्षीरा बह्वपत्याः क्रिमिदोषरहिता रोगान्तरहीनाश्च। अघशँसो भक्षणादिना तीव्रपापेन घातको व्याघ्रादिरपि शक्तो मा भूदिति। अस्य मन्त्रस्य प्रथमभागे देवभागमिति पदस्य तात्पर्यं व्याचष्टे - “ आप्यायघ्वमघ्निया देवभागमित्याह – वत्सेभ्यश्च वा एताः पुरा मनुष्येभ्यश्चाऽऽप्यायन्त। देवेभ्य एवैना इन्द्रायाऽऽप्यायथेति” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति।

विश्वास-प्रस्तुतिः

दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति

मूलम्

दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑ययति ।

भट्टभास्कर-टीका

देवेभ्य एवैना इन्द्रायेति । सर्वदेवतात्मानं इन्द्रमेव मन्त्रे देवशब्द आचष्ट इति प्रतिपादयति सान्नाय्यस्यैन्द्रत्वात् ॥

सायण-टीका

यागार्थप्रवृत्तेः पूर्वं गोग्रासेन वत्साभागो मनुष्यभागश्च प्रवृद्धो भवति। ऊर्ध्वं तु क्षीराज्यरूपो देवान्तरभागो दधिरूप इन्द्रभागश्च प्रवर्धते। एवकारेण मनुष्यभागस्यावृत्तिः।

ऊर्ज॑स्वती॒ᳶ पय॑स्वती॒

विश्वास-प्रस्तुतिः

“ऊर्ज॑स्वती॒ᳶ पय॑स्वती॒"र् इत्य् आ॑ह ।
ऊर्जँ॒ हि पय॑स् स॒म्भर॑न्ति

मूलम्

“ऊर्ज॑स्वती॒ᳶ पय॑स्वती॒"रित्या॑ह ।
ऊर्जँ॒ हि पय॑स्स॒म्भर॑न्ति ।

भट्टभास्कर-टीका

9ऊर्जं हीति ॥ स्मर्तव्यत्वाभिधानं संस्तुत्वैव भवतीति यावत् ॥

सायण-टीका

द्वितीयं भागमुपपादयति - “ऊर्जस्वतीः पयस्वतीरित्याह। ऊर्जँ हि पयः संभरन्ति ” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। प्रभूतघासभक्षणेन रसाधिक्यसंपादनं क्षीराधिक्यसंपादनं च लौकिकदोहे प्रसिद्धमिति हिशब्दस्यार्थः।

प्र॒जाव॑तीर् अनमी॒वा अ॑य॒क्ष्मा

विश्वास-प्रस्तुतिः

“प्र॒जाव॑तीर् अनमी॒वा अ॑य॒क्ष्मा” इत्या॑ह॒ प्रजा॑त्यै ।

“मा व॑स् स्ते॒न ई॑शत॒ माऽघशँ॑स॒” इत्या॑ह॒ गुप्त्यै॑ ।

मूलम्

“प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा” इत्या॑ह॒ प्रजा॑त्यै ।

“मा व॑स्स्ते॒न ई॑शत॒ माऽघशँ॑स॒” इत्या॑ह॒ गुप्त्यै॑ ।

भट्टभास्कर-टीका

10प्रजातिस्सन्तानाविच्छेदः ॥

सायण-टीका

तृतीयभागस्य प्रयोजनमाह - “प्रजावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। वन्ध्यात्वेन क्रिमिदोषेण रोगन्तरेण च नास्ति प्रजोत्पत्तिः। तदभावे तु विद्यते। चतुर्थभागस्य प्रयोजनमाह - “मा वः स्तेन ईशत माऽघशँत इत्याह गुप्त्यै” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति। चोरव्यघ्रादेरशक्तौ गावो रक्षिता भवन्ति।

रु॒द्रस्य॑ हे॒तिᳶ

विश्वास-प्रस्तुतिः

“रु॒द्रस्य॑ हे॒तिᳶ परि॑ वो वृण॒क्त्वि"त्या॑ह ।
रु॒द्राद् ए॒वैना॑स् त्रायते ।

मूलम्

“रु॒द्रस्य॑ हे॒तिᳶ परि॑ वो वृण॒क्त्वि"त्या॑ह ।
रु॒द्रादे॒वैना॑स्त्रायते ।

भट्टभास्कर-टीका

11रुद्रस्येति प्रस्थितानुमन्त्रणम् ॥

सायण-टीका

तृतीयमन्त्रस्यायमर्थः – रुद्रनामकस्य क्रूरदेवस्याऽऽयुघं युष्मान्परिहरत्विति। एतन्मन्त्रपाठफलमाह - “रुद्रस्य हेतिः परि वो वृणक्त्वित्याह। रुद्रादेवैनास्रायते ” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति॥

ध्रु॒वा अ॒स्मिन्

विश्वास-प्रस्तुतिः

“ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वी"रित्या॑ह ।
ध्रु॒वा ए॒वास्मि॑न् ब॒ह्वीᳵ क॑रोति ॥5॥

मूलम्

“ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वी"रित्या॑ह ।
ध्रु॒वा ए॒वास्मि॑न्ब॒ह्वीᳵ क॑रोति ॥5॥

भट्टभास्कर-टीका

12ध्रुवा अस्मिन्निति यजमानगृहेक्षणम् ॥

सायण-टीका

ध्रुवा अस्मिन्निति। बौधायनः - “ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहनभिपर्यावर्तते” इति।

हे गावो भवत्यो भवत्स्वामिनि यजमाने स्थिरा भवत, प्रीतिदानानपहारायुर्भिर्यजमानं मा त्यजत, अपत्यपरम्परया बह्व्यश्च भवत। एतन्मन्त्रपाठं प्रशंसति – “ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्याह। ध्रुवा एवास्मिन्बह्वीः करोति ” (ब्रा॰ का॰ ३ प्र॰ २ अ॰ १) इति।।

यज॑मानस्य प॒शून्पा॒ही

विश्वास-प्रस्तुतिः

“यज॑मानस्य प॒शून् पा॒ही"त्या॑ह ।
प॒शू॒नाङ् गो॑पी॒थाय॑ ।

मूलम्

“यज॑मानस्य प॒शून्पा॒ही"त्या॑ह ।
प॒शू॒नाङ्गो॑पी॒थाय॑ ।

भट्टभास्कर-टीका

13यजमानस्य पशूनिति शाखोपगूहनम् ॥ गोपीथाय गोपनाय ।

सायण-टीका

यजमानस्येति। बौधायनः - “अथैतां शाखामग्रेणाऽऽहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमग्निष्ठेऽनत्युत्तरार्धे वाऽग्न्यागारस्योद्गूहति यजमानस्य पशून्पाहीति” इति।

आपस्तम्बः - “यजमानस्य पशुन्पाहीत्यग्निष्ठेऽनत्यग्न्यागारे वा पुरस्तात्प्रतीचीँ शाखामुपगृहति पश्चात्प्राचीं वा” इति।

अग्निष्ठमनो व्रीहिरूपस्य हविषो वाहकं शकटम्।

विश्वास-प्रस्तुतिः

तस्मा॑त् सा॒यम् प॒शव॒ उप॑स॒माव॑र्तन्ते ।

मूलम्

तस्मा॑त्सा॒यम्प॒शव॒ उप॑स॒माव॑र्तन्ते ।

भट्टभास्कर-टीका

तस्मादिति । पशूनां पात्र्याः शाखायाः सुरक्षितत्वात्पशवः सायमविनष्टा एव गृहमुपागच्छन्ति ॥

सायण-टीका

मन्त्रपाठप्रयोजनमाह - “यजमानस्य पशून्पाहीत्याह। पशूनां गोपीथाय। तस्मात्सायं पशव उपसमावर्तन्ते ” [ब्रा॰ का॰ ३ प्र॰ २ अ॰ १] इति। गोपीथो रक्षणं तस्माच्छाखाया रक्षितत्वाच्छाखाया भूमौ स्थापनं निवार्यते।

अनधस् सादनम्

अनधस् सादनम् ...{Loading}...
विश्वास-प्रस्तुतिः

अन॑धस् सादयति॒ -
गर्भा॑णा॒न् धृत्या॒ अप्र॑पादाय+++(=अप्रच्युतये)+++ ।
तस्मा॒द् गर्भा॑ᳶ प्र॒जाना॒म् अप्र॑पादुकाः ।

मूलम्

अन॑धस्सादयति ।
गर्भा॑णा॒न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒द्गर्भा॑ᳶ प्र॒जाना॒मप्र॑पादुकाः ।

भट्टभास्कर-टीका

14अनध इति ॥ कस्मिंश्चिद् आधारे सादयति, गर्भाणां धारणाय,
तदपि अप्रपादाय अप्रच्युतये ।

सायण-टीका

शाखाबर्हिषोरिव सांनाय्येऽपि विधत्ते — ‘अनधः सादयति। गर्भाणां धृत्या अप्रपादाय। तस्माद्गर्भाः प्रजानामप्रपादुकाः।

विश्वास-प्रस्तुतिः

उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥

मूलम्

उ॒परी॑व॒ निद॑धाति ।
उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥6॥

भट्टभास्कर-टीका

उपरीवेति । ऊर्ध्वायामेव दिशि । इवशब्दोऽवधारणे । उपरितनत्वसामान्यात् तच्छब्दस्य । स्वर्गस्य समष्टयै सम्यक् प्राप्त्यै भवति तस्या उपरिसादनम् ॥

इति तैत्तिरीयब्राह्मणे तृतीये द्वितीये प्रथमोऽनुवाकः ॥

सायण-टीका

उपरीव निदधाति। उपरीव हि सुवर्गो लोकः। सुवर्गस्य लोकस्य समष्ट्यै’ (ब्रा. का. ३ प्र. २ अ. ३) इति।