१३ स्रुग्-व्यूहनादिः

१३ स्रुग्-व्यूहनादिः ...{Loading}...

१-२ अनुष्टुप्
१२ पुरस्तात् ज्योतिस्त्रिष्टुप्
१४ त्रिष्टुप्
प्रजापतिर्ऋषिः

वाजस्य मा ...{Loading}...
भास्करोक्त-विनियोगः

1स्रुचौ व्यूहति - वाजस्येत्यनुष्टुब्भ्यां चतुष्पदाभ्याम् ॥

विश्वास-प्रस्तुतिः - ऋक्

वाज॑स्य+++(=अन्नस्य)+++ मा प्रस॒वेन॑+++(=योनिना)++++उद्ग्रा॒भेण+++(=ग्रहेण [जुह्वा])+++ +उद॑ग्रभीत् ।

Keith

With the impulse of strength,
With elevation he hath lifted me up;

मूलम्

वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् ।

पद-पाठः

वाज॑स्य । मा॒ । प्र॒स॒वेनेति॑ प्र-स॒वेन॑ । उ॒द्ग्रा॒भेणेत्यु॑त्-ग्रा॒भेण॑ । उदिति॑ । अ॒ग्र॒भी॒त् ॥

भट्टभास्कर-टीका

वाजस्य अन्नस्य प्रसवेन उत्पत्तिहेतुना । थाथादिस्वरेणान्तोदात्तत्वम् (पा.सू. 6.2.144) । उद्ग्राभेणानेन जुह्वा ऊर्ध्वग्रहेण मामुदग्रभीत् । ‘छन्दसि लुङ्लङ्लिटः’ (पा.सू. 3.4.6) इति लुङ् । उद्गृह्णातु उपरि स्थापयतु । कः? - इन्द्रः, अर्धर्चान्तरे श्रुतत्वात् । ‘छन्दस्युत्पूर्वादपीष्यते स्रुगुद्यमननिपतनयोः’ (पा.सू. 3.3.35,36 वा 1) इति ग्रहेः घञ्प्रत्ययः, ‘हृग्रहोर्भश्छन्दसि’ (पा.सू. 8.2.32 वा 1) इति भत्वम्, स एव स्वरः ॥


वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच उद्ग्रहणेन मामुदग्रहीदिन्द्रः ।

सायण-टीका

कल्पः - ‘उक्तं वाजवत्योर्व्यूहनम्’ इति।
वाजशब्दोऽस्ति ययोचोस्ते ऋचौ वाजवत्यौ, तयोचोर्यजमानेन जप्यमानयोरध्वर्युर्जुहूपभृतौ द्वे स्रुचौ व्यूहेत्परस्परविपर्यासेनापसारयेत् तत्प्रकारस्त्वस्माभिराध्वर्यवकाण्डे दर्शित इत्यर्थः।
पाठस्तु-
वाजस्य मेति। इन्द्रो वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच ऊर्ध्वग्रहणेन मामुग्रभीदुत्कर्षं प्रापितवात्।


भास्करोक्त-विनियोगः

2एवमनेनार्धर्चेन दक्षिणेन जुहूमुद्गृह्य अर्धर्चान्तरेण सव्येनोपभृतं निगृह्णाति

विश्वास-प्रस्तुतिः

अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे
निग्रा॒भेणाध॑राँ अकः+++(=करोतु)+++ ॥

Keith

Then Indra hath made my enemies
Humble by depression.

मूलम्

अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः ॥

पद-पाठः

अथ॑ । स॒पत्ना॑न् । इन्द्रः॑ । मे॒ । नि॒ग्रा॒भेणेति॑ नि-ग्रा॒भेण॑ । अध॑रान् । अ॒कः॒ ॥

भट्टभास्कर-टीका

अथानन्तरं निग्राभेण सव्येनोपभृतो नीचैर्ग्रहणेन मे मम सपत्नान् शत्रून् इन्द्रः अधरान्निकृष्टान्, अकः करोतु ।

तेनैव लुङ्, ‘मन्त्रे घसह्वर’ (पा.सू. 2.4.80) इत्यादिना च्लेर्लुक्, गुणहल्ङ्यादिलोपौ (पा.सू. 7.3.86), (पा.सू. 6.1.68) । संहितायां ‘निपातस्य च’ (पा.सू. 6.3.136) इत्यथशब्दस्य दीर्घः । ‘व्यन् सपत्ने’ (पा.सू. 4.1.145) इति सपत्नीव सपत्न इत्युपमायामकारः, निपातनात्, ‘परादिश्छन्दसि बहुलम्’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वम् । द्वितीयाबहुवचनसम्बन्धिनो नकारस्य ‘दीर्घादटि समानपादे’ (पा.सू. 8.3.9) इति रुत्वम्, ‘आतोऽटि नित्यम्’ (पा.सू. 8.3.3) इति पूर्वस्यानुनासिकत्वं, ‘भो भगो अघो’ (पा.सू. 8.3.17) इति यत्वम् । ‘अनुनासिकात्परोऽनुस्वारः’ (पा.सू. 8.3.4) इति केचित् ॥


अथ मे सपत्नान् स्रुचो निग्राभेण अधरानकार्षीत्।

सायण-टीका

अथ स्रुचो न्यक्कारेण मम सपत्नानधरान्न्यक्‍कृतानकरोत्।


भास्करोक्त-विनियोगः

3एवं जुहूपभृतोः उद्ग्रहणनिग्रहणे कृत्वा प्राचीं जुहूं व्यूहति - उद्ग्राभं च निग्राभं च देवा इहागताः अवीवृधन्वर्धयन्तु ।

विश्वास-प्रस्तुतिः - ऋक्

+++(जुहूः)+++ उ॒द्ग्रा॒भञ् च॑ +++(उपभृत्)+++ निग्रा॒भञ् च॒ ब्रह्म॑+++(=परिवृढम्)+++ दे॒वा अ॑वीवृधन्+++(=वर्धयन्तु)+++ ।

+++( ‘अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्याम्’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् ॥)+++

Keith

The gods have increased my prayer.
What is elevation and depression;

मूलम्

उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।

पद-पाठः

उ॒द्ग्रा॒भमित्यु॑त्-ग्रा॒भम् । च॒ । नि॒ग्रा॒भमिति॑ नि-ग्रा॒भम् । च॒ । ब्रह्म॑ । दे॒वाः । अ॒वी॒वृ॒ध॒न् ॥

भट्टभास्कर-टीका

‘नित्यं छन्दसि’ (पा.सू. 7.4.8) इति णौ चङ्युपधाया ह्रस्वः ऋकारः ।
ब्रह्म परिबृढं इष्टसाधनसमर्थम् उद्ग्राभं च निग्राभं च । यद्वा - परं वस्तु देवाश्चान्ये वर्धयन्तु इदमुभयमिति ॥


तस्माद् उद्ग्राभं निग्राभं च ब्रह्म परिबृढं कर्म देवा वर्धयन्तु ।

सायण-टीका

देवा ब्रह्म परिवृढं स्रुचोरुद्ग्राहनिग्राहरूपं कर्मद्वयमवर्धयन्।


भास्करोक्त-विनियोगः

4एवं च प्रतीचीमुपभृतं प्रत्यूहति - अथेति ॥

विश्वास-प्रस्तुतिः

अथा॑ स॒पत्ना॑न् इन्द्रा॒ग्नी
मे॑ विषू॒चीना॒न्+++(=विष्वग्-गतान्)+++ व्य॑स्यताम् ॥

Keith

Then do ye, O Indra and Agni,
Scatter my foes on every side.

मूलम्

अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥

पद-पाठः

अथ॑ । स॒पत्ना॑न् । इ॒न्द्रा॒ग्नी इती॑न्द्र-अ॒ग्नी । मे॒ । वि॒षू॒चीना॑न् । वीति॑ । अ॒स्य॒ता॒म् ॥

भट्टभास्कर-टीका

अथ अनन्तरं इन्द्राग्नी मे मम सपत्नान् विषूचीनान् विष्वग्गतान् व्यस्यतां स्वस्थानादितश्चेतश्च विगमयताम् ।

विषु नाना अञ्चतीति ऋत्विगादिना (पा.सू. 3.2.59) क्विन्प्रत्ययः, ‘विभाषाऽञ्चेरदिक्स्त्रियाम्’ (पा.सू. 5.4.8) इति खप्रत्ययस्स्वार्थिकः, अनुनासिकलोपः, ‘अचः’ (पा.सू. 6.4.138) इत्यकारलोपः, ‘चौ’ (पा.सू. 6.3.138) इति दीर्घत्वम् । इन्द्रश्चाग्निश्च । ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति पूर्वोत्तरपदप्रकृतिस्वरत्वे ‘नोत्तरपदेऽनुदात्तादौ’ (पा.सू. 6.2.142) इति विप्रतिषिद्धे समासान्तोदात्तत्वम् । ‘अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्याम्’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् ॥


अथ मम सपत्नानिन्द्राग्नी विषूचीनान् विष्वग्गतीन् व्यस्यतां विनाशयतामिति ॥

सायण-टीका

अथेन्द्राग्नी मम सपत्नान्विषूचीनान्सर्वतः पलायमानान्व्यस्यतां विनाशयेताम्।


भास्करोक्त-विनियोगः

जुह्वा परिधीननक्ति

विश्वास-प्रस्तुतिः

वसु॑भ्यस् त्वा +++(अनज्मि)+++।
रु॒द्रेभ्य॑स्त्वा +++(अनज्मि)+++।
आ॒दि॒त्येभ्य॑स्त्वा +++(अनज्मि)+++।

Keith

To the Vasus thee, to the Rudras thee, to the Adityas thee!

मूलम् (संयुक्तम्)

वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा ।

मूलम्

वसु॑भ्यस्त्वा +++(अनज्मि)+++ ।
रु॒द्रेभ्य॑स्त्वा +++(अनज्मि)+++ ।
आ॒दि॒त्येभ्य॑स्त्वा +++(अनज्मि)+++ ।

पद-पाठः

वसु॑भ्य॒ इति॒ वसु॑-भ्यः॒ । त्वा॒ । रु॒द्रेभ्यः॑ । त्वा॒ । आ॒दि॒त्येभ्यः॑ । त्वा॒ ।

भट्टभास्कर-टीका

5-7जुह्वा परिधीननक्ति - वसुभ्य इति ॥ (वस्वर्थं त्वां) अनज्मीति शेषः । वस्वादितृप्तये त्वामनज्मीति मध्यमदक्षिणोत्तराणां क्रमेण मन्त्राः, वस्वादयश्च वेदिपरिग्रहार्थमागताः एतेन परिध्यञ्जनेन प्रीयन्त इति ॥


भास्करोक्त-विनियोगः

स्रुक्षु प्रस्तरम् अनक्ति।
तत्र जुह्वाम् अग्राण्य् अनक्ति।

विश्वास-प्रस्तुतिः

अ॒क्तँ +++(प्रस्तरं)+++ रिहा॑णा+++(=लिहाना)+++

Keith

Licking the anointed

मूलम् (संयुक्तम्)

अ॒क्तँ रिहा॑णा वि॒यन्तु॒ वयः॑ । प्र॒जाय्ँ योनि॒म्मा निर्मृ॑क्ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयस्स्थ॒ दिव॑म् [22]ग॒च्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य ।

मूलम्

अक्तँ रिहा॑णा …

पद-पाठः

अ॒क्तम् । रिहा॑णाः ।

भट्टभास्कर-टीका

8स्रुक्षु प्रस्तरमनक्ति ; तत्र जुह्वामग्राण्यनक्ति - अक्तमिति परोष्णिहा त्रिपदया भूतेन्द्रियवस्वक्षरया ॥
अक्तं कृताञ्जनमिमं प्रस्तरं रिहाणाः लिहानाः आस्वादयन्तस्ते वक्ष्यमाणाः रश्मयः । लिह आस्वादने, स्वरितेत्, वर्णव्यत्ययेन लकारस्य रेफः, व्यत्ययेनानुदात्तेत्त्वमाश्रित्यात्मनेपदम् (पा.सू. 1.3.12), लसार्वधातुकानुदात्तत्वं (पा.सू. 6.1.186) च कृतमिति मन्यामहे । वृषादिषु (पा.सू. 6.1.203) वाऽयं द्रष्टव्यः ॥


भास्करोक्त-विनियोगः

उपभृति मध्यान्यनक्ति

विश्वास-प्रस्तुतिः

वि॒यन्तु॒+++([पादादित्वान्न निहन्यते स्वरः])+++ वयः॑+++(=पक्षिणः [आदित्य-रश्मयः])+++ ।

Keith

let the birds go asunder.

मूलम्

वि॒यन्तु॒ वयः॑ ।

पद-पाठः

वि॒यन्तु॑ । वयः॑ ॥

भट्टभास्कर-टीका

9उपभृति मध्यान्यनक्ति - वियन्त्विति ॥ वय इति वेर्बहुवचनमिति यास्कः (नि. 2.6) । ‘वेञो डित्’ (वातेर्डिच्च) (उ.सू. 583) इति विधीयमान इण्प्रत्ययो वेतेरपि भवति, डित्त्वाट्टिलोपः (पा.सू. 6.4.143) । वयः प्रजनिष्णवः आदित्यरश्मयः एतल्लेहनेन वियन्तु बृद्ध्यर्थं गर्भं धारयन्तु । पादादित्वान्न निहन्यते । वी गतिप्रजननकान्त्यसनखादनेषु ॥


भास्करोक्त-विनियोगः

ध्रुवायां मूलम् अनक्ति

विश्वास-प्रस्तुतिः

प्र॒जाय्ँ योनि॒म् मा निर्मृ॑क्ष॒म्+++(=विनीनशं)+++ ॥

Keith

May I not brush offspring and the organ.

मूलम्

प्र॒जाय्ँ योनि॒म्मा निर्मृ॑क्षम् ॥

पद-पाठः

प्र॒जामिति॑ प्र-जाम् । योनि॑म् । मा । निरिति॑ । मृ॒क्ष॒म् ।

भट्टभास्कर-टीका

ध्रुवायां मूलमनक्ति - प्रजामिति ॥ अहं प्रजां, योनिं च तत्कारणभूतं अन्नादिकं, मा निर्मृक्षं मा विनीनशं, अपितु वर्धयितुमिच्छामि ; तस्मात्तद्वृद्ध्यर्थं वियन्तु वय इति । मृशेः ‘शल इगुपधादनिटः क्सः’ (पा.सू. 3.1.45) इति च्लेः क्सादेशः । कृदुत्तरपदप्रकृतिस्वरेण (पा.सू. 6.2.139) प्रजाशब्दोऽन्तोदात्तः ॥

अत्र, प्रथमद्वितीयपादावष्टाक्षरौ तृतीयो द्वादशाक्षरो यस्यास्तां परोष्णिहमाचक्षते । इह तु तृतीयोष्टाक्षरः पादः, ‘द्वादशाक्षरः आष्टाक्षरतायाः ; प्रतिक्रामति’ इति ; प्रथमद्वितीयौ पञ्चाक्षरौ, ‘अष्टाक्षर आ चतुरक्षरतायाः प्रतिक्रामति’ इति ॥

प्रदीपसिंहः
  • (तृतीयतुरीयौ द्वादशाक्षरौ यस्यास्तां परोष्णिहेत्याचक्षते । इति….
    अष्टाक्षरः प्रथमः पादः । आचतुरक्षरतायाः प्रतिक्रमन्ति इति प्रथमद्वितीयौ पञ्चाक्षरवभूताम् य़ द्वादशाक्षर अष्टाक्षरतायाः प्रतिक्रामन्तीति तृतीयोष्टाक्षरो भूत् ।
  • मैसूर् पुस्तके-तलटिप्पन्याम् - अष्टाक्षराः आ चतुरक्षरतायाः प्रतिक्रामन्ति इथि प्रथमद्वितीयौ पञ्चाक्षरावभूताम् । द्वादशाक्षराः आ अष्टाक्षरतायाः प्रतिक्रामन्ति इति तृतीयोष्टाक्षरोभूत् -इति पाठान्तराणि सन्ति)

भास्करोक्त-विनियोगः

आहवनीये प्रस्तरं प्रहरति

विश्वास-प्रस्तुतिः

आप्या॑यन्ता॒म् आप॒ ओष॑धयः ।
म॒रुता॒म् पृष॑तयस्+++(=बिन्दुमत्यः [अश्वाः])+++ स्थ। +++(हे प्रस्तर!)+++ दिव॑ङ् गच्छ ।
ततो॑ नो॒ वृष्टि॒म् एर॑य ।+++(5)+++

Keith

Swell, ye waters and plants.
Ye are the spotted steeds of the Maruts.
Fare to the sky [1], thence bring us rain.

मूलम् (संयुक्तम्)

आ प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयस्स्थ॒ दिव॑म् [22]ग॒च्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य

मूलम्

आप्या॑यन्ता॒माप॒ ओष॑धयः ।
म॒रुता॒म्पृष॑तयस्स्थ ।
दिव॑ङ्गच्छ । +++(द्विपदा जगती)+++
ततो॑ नो॒ वृष्टि॒मेर॑य । +++(एकपदा गायत्री)+++

पद-पाठः

एति॑ । प्या॒य॒न्ता॒म् । आपः॑ । ओष॑धयः । 7G । म॒रुता॑म् । पृष॑तयः । स्थ॒ । 8 । दिव॑म् । [22]
1 । ग॒च्छ॒ । ततः॑ । नः॒ । वृष्टि॑म् । एति॑ । ई॒र॒य॒ ॥

भट्टभास्कर-टीका

11आहवनीये प्रस्तरं प्रहरति - आप्यायन्तामिति यजुरादिकया ‘दिवं गच्छ’ इत्येकपदया जगत्या, ‘ततो नः’ इत्येकपदया च गायत्र्या ॥

हे प्रस्तर अनेन त्वत्प्रहरणेन आप ओषधयश्च आप्यायन्तां वर्धन्ताम्, वर्षेण ह्यपामोषधीनां च वृद्धौ प्रजा योनयश्च वर्धयितुं शक्यन्त इति । ओषधिशब्दस्य दासीभारादित्वात् (पा.सू. 6.2.42) पूर्वपदप्रकृतिस्वरत्वम् । ओषशब्दो घञन्तः ।
कथमेतत्प्रहरणेन तासामाप्यायनमित्यत आह - मरुतां पृषतयः अश्वाः स्थ, मरुतामश्वा इव शीघ्रगतिस्त्वमसीति यावत् । अश्वापेक्षया बहुवचनम् । पृषु वृषु सेचने, ‘वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च’ (उ.सू. 250) इत्यतिप्रत्ययान्तो निपातितः, व्यत्ययेन शः, ‘उगितश्च’ (पा.सू. 4.1.6) इति ङीप्, वर्णव्यत्ययेन ह्रस्वत्वम्, लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.186) धातुस्वरः, ‘शतुरनुमः’ (पा.सू. 6.1.173) इत्याद्युदात्तत्वं बहुलवचनादेव न क्रियते शस्वरश्च । वृषादिर्वाऽयं द्रष्टव्यः (पा.सू. 6.1.203) ।

भवत्वेवं शीघ्रगतित्वं, किमेतावता तासां वृद्धिरित्यत आह - दिवमादित्यं शीघ्रं गच्छ ।
ततः किमित्यत आह - ततः आदित्यमण्डलादस्माकं वृष्टिमेरय आगमय । एवं च कृते अपामोषधीनां चाप्यायनं भविष्यति । ततश्च प्रजायोन्योर्वृद्धिश्च भविष्यति । ‘मन्त्रे वृष’ (पा.सू. 3.3.96) इति वृषेः क्तिनः उदात्तत्वं विधीयमानं बहुलवचनान्न क्रियते । यद्वा - वृष्टिहेतुरादित्यरश्मिः वृष्टिः । करणे क्तिन् । तामेरय अस्मदभिमुखं प्रेरय । उदात्तविधौ भावाधिकारादत्र न भवति ॥


भास्करोक्त-विनियोगः

आहवनीयम् उपतिष्ठते

विश्वास-प्रस्तुतिः

आ॒यु॒ष्पा अ॑ग्ने॒ ऽस्य्, आयु॑र् मे पाहि ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि । चक्षु॑र् मे पाहि ।

Keith

Guardian of life art thou, O Agni, guard my life.
Guardian of the eye art thou, O Agni, guard my eye.

मूलम् (संयुक्तम्)

- आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चक्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ध्रु॒वाऽसि॒ यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः

मूलम्

आ॒यु॒ष्पा अ॑ग्ने॒ऽसि ।
आयु॑र्मे पाहि ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि।
चक्षु॑र्मे पाहि ।

पद-पाठः

आ॒यु॒ष्पा इत्या॑युः-पाः । अ॒ग्ने॒ । अ॒सि॒ । आयुः॑ । मे॒ । पा॒हि॒ । 3K । च॒क्षु॒ष्पा इति॑ चक्षुः-पाः । अ॒ग्ने॒ । अ॒सि॒ । चक्षुः॑ । मे॒ । पा॒हि॒ ।

भट्टभास्कर-टीका

12आहवनीयमुपतिष्ठते - आयुष्पा इति ॥ हे अग्ने आयुष्पाः सर्वेषामायुषो रक्षकोसि । पातेर्विच् (पा.सू. 3.2.75), ‘नित्यं समासेऽनुत्तरपदस्थस्य’ (पा.सू. 8.3.45) इति विसर्जनीयस्य सः, ‘आदेशप्रत्यययोः’ (पा.सू. 8.3.59) इति षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । तस्मादायुर्मे पाहि ।

चक्षुषश्च त्वं रक्षितासि तस्मान्मे चक्षुः पाहि अविनष्टं कुरु । ‘यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

भूमिम् अभिमृशति

विश्वास-प्रस्तुतिः

ध्रु॒वाऽसि॑ ।

Keith

Thou art the secure one.

मूलम्

ध्रु॒वाऽसि॑ ।

पद-पाठः

ध्रु॒वा । अ॒सि॒ ।

भट्टभास्कर-टीका

13भूमिमभिमृशति - ध्रुवासीति ॥ धुवा नित्या त्वमसि, तस्मान्मामपि ध्रुवं कुर्विति भावः ॥


भास्करोक्त-विनियोगः

मध्यमं परिधिम् अनुप्रहरति

विश्वास-प्रस्तुतिः ...{Loading}...

यम् प॑रि॒धिम् प॒र्यध॑त्था॒
अग्ने॑ +++(पादादित्वान्न निहन्यते स्वरः)+++ देव +++(दुष्टैः)+++ प॒णिभि॑र् वी॒यमा॑णः+++(=वेष्ट्यमानः)+++ ।
तन् त॑ ए॒तम् अनु॒ जोष॑म्+++(=इष्टम्)+++ भरामि॒
नेद् ए॒ष त्वद्-अ॑पचे॒तया॑तै+++(=अपरक्तचेता भवेत्)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

The fence which thou didst put round thee
When thou wast beset by the Panis, O god Agni,
That do I bring here to thee that thou mayst rejoice in it,
That it be not removed from thee.

मूलम्

यम्प॑रि॒धिम्प॒र्यध॑त्था॒ च अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑णः । +++(वसु-८,रुद्र-११अक्षराणि)+++
तन्त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै ॥ +++(ईश-११, भव-११अक्षराणि)+++

पद-पाठः

यम् । प॒रि॒धिमिति॑ परि-धिम् । प॒र्यध॑त्था॒ इति॑ परि-अध॑त्थाः । अग्ने॑ । दे॒व॒ । प॒णिभि॒रिति॑ प॒णि-भिः॒ । वी॒यमा॑णः ॥ तम् । ते॒ । ए॒तम् । अन्विति॑ । जोष॑म् । भ॒रा॒मि॒ । न । इत् । ए॒षः । त्वत् । अ॒प॒चे॒तया॑ता॒ इत्य॑प-चे॒तया॑तै ।

भट्टभास्कर-टीका

14मध्यमं परिधिमनुप्रहरति - यमिति त्रिष्टुभा पुरस्ताज्ज्योतिषा वसुरुद्रेशभवाक्षरपदया ॥
हे अग्ने । पादादित्वान्न निहन्यते । देव देवनादिगुणयुक्त । ‘नामन्त्रिते समानाधिकरणे’ (पा.सू. 8.1.73) इति पूर्वस्य विद्यमानवत्त्वात् निहन्यत एव । यं परिधिं पर्यधत्थाः परिहितवानसि । ‘यद्वृत्तान्नित्यम्’ (पा.सू. 8.1.66) इति निघाते निषिद्धे अट उदात्तत्वम्, ‘तिङि चोदात्तवति’ (पा.सू. 8.1.71) इति गतेर्निघातः, उदात्तवता तिङा गतिसमासः (पा.सू. 2.2.18) । परिधिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः (पा.सू. 6.2.139) । सः पणिभिः पणिनामभिः असुरैः वीयमाणः वेष्ट्यमानः तेषां निवारणार्थं पर्यधत्थाः । व्येञः कर्मणि लकारः, व्यत्ययेन णकारः । वच्यादिसूत्रेण (पा.सू. 6.1.15) सम्प्रसारणम् ।
तमेतं मध्यमं परिधिं तव जोषमिष्टम् । कर्मणि घञ् (पा.सू. 3.3.19) । अनुभरामि त्वामेवानुगतं हरामि प्रहरामि । ‘हृग्रहोर्भश्छन्दसि’ (पा.सू. 8.2.32 वा 1) इति भत्वम् । युक्तमेव खल्वेवं कर्तुमित्याह - एषः अयं परिधिः एवं नाम तवाभिमतः त्वत्तो हेतोः नेदपचेतयातै नैवापरक्तचित्तो भवेत्; यद्ययं न प्रह्रियेत, उपेक्षितोऽहमनेनाग्निनेति त्वत्तोऽपचेतयेत । तस्मात्त्वय्येवैनमनुप्रहरामि । चित संचेतने, चुरादिः, अनुदात्तेत् (पा.सू. 1.3.2), तस्माल्लेटि ‘लेटोऽडाटौ’ (पा.सू. 3.4.94) इत्याडागमः, ‘वैतोन्यत्र’ (पा.सू. 3.4.96) इत्यैत्वम्, ‘निपातैर्यत्’ (पा.सू. 8.1.30) इत्यादिना निघातप्रतिषेधः, पूर्ववद्गतिनिघातसमासौ, णिचश्चित्त्वादुदात्तत्वम् (पा.सू. 6.1.163) ॥


भास्करोक्त-विनियोगः

इतराव् उपसमस्यति

विश्वास-प्रस्तुतिः

+++(शिष्टौ समिधौ!)+++ य॒ज्ञस्य॒ पाथ॒+++(=अन्नं)+++ उप॒ सम् इ॑तम्+++(=आप्नुतम्)+++ ।

Keith

Go ye two to the place of the gods.

मूलम्

य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तम् ।

पद-पाठः

य॒ज्ञस्य॑ । पाथः॑ । उप॑ । समिति॑ । इ॒त॒म् ।

भट्टभास्कर-टीका

15इतरावुपसमस्यति - यज्ञस्येति ॥ यज्ञस्य साध्यतया सम्बन्धि यत्पाथः अन्नं तद्युवामप्युपसमितं उपसंप्राप्नुतम् । अचेतनानामपि यज्ञोपयुक्तानां फलसम्बन्धः प्रतिपादितो भवति । ‘उदके थुट्च’ (उ.सू. 653) इत्यधिकृत्य ‘अन्ने च’ (उ.सू. 653) इति पातेरसुन् प्रत्ययः ॥


भास्करोक्त-विनियोगः

एतान् संस्रावेणाभिघारयति

विश्वास-प्रस्तुतिः ...{Loading}...

सँस्रा॒व+++(=जुहूपभृद्भ्यां सिच्यमान आज्य-शेषः)+++भा॑गास् स्थ+इ॒षा बृ॒हन्तᳶ॑
प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श् च दे॒वाः ।
+++(स्तोत्ररूपम्)+++ इ॒माव्ँ वाच॑म् अ॒भि विश्वे॑ गृ॒णन्त॑ +++(=प्रशंसन्तः)+++
आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Ye are sharers in the remains (of the oblation), well nourished, mighty
Ye gods that are on the prastara and sit on the strew [2].
Accepting this supplication, do ye all,
Seated on this strew enjoy yourselves.

मूलम् (संयुक्तम्)

सँस्रा॒वभा॑गास्स्थे॒षा बृ॒हन्तᳶ॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च [23]दे॒वा इ॒माव्ँ वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम्

मूलम्

सँस्रा॒वभा॑गास्स्थे॒षा बृ॒हन्तᳶ॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च दे॒वाः ।
इ॒माव्ँ वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

पद-पाठः

सँ॒स्रा॒वभा॑गा॒ इति॑ सँस्रा॒व-भा॒गाः॒ । स्थ॒ । इ॒षाः । बृ॒हन्तः॑ । प्र॒स्त॒रे॒ष्ठा इति॑ प्रस्तरे-स्थाः । ब॒र्हि॒षद॒ इति॑ बर्हि-सदः॑ । च॒ । [23]
1 । दे॒वाः । इ॒माम् । वाच॑म् । अ॒भीति॑ । विश्वे॑ । गृ॒णन्तः॑ । आ॒सद्येत्या॑-सद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ।

भट्टभास्कर-टीका

16एतान्संस्रावेणाभिघारयति - संस्रावभागा इति त्रिष्टुभा चतुष्पदया ॥
संस्राव्यत इति संस्रावः । कर्मणि घञ् (पा.सू. 3.3.19) । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् (पा.सू. 6.2.144) । संस्रावो जुहूपभृद्भ्यां सिच्यमान आज्यशेषो भागो येषां तादृशाः स्थ भवत । लिङर्थे लेट् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.1) । ‘वसवो वै रुद्रा आदित्यास्सँस्रावभागाः’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् । कीदृशाः पुनस्त इत्याह - इषा इच्छावन्तः भा(गं)गान् लब्धुम् । इषेः क्विबन्तादर्शआदित्वादच्प्रत्ययः (पा.सू. 5.2.127) । बृहन्तः महान्तः सर्वैराराधनीयाः ।
‘प्रस्तरेष्ठा बर्हिषदश्च देवाः’ इति द्वितीयः पादः । ये प्रस्तरेष्ठाः । प्रस्तरे तिष्ठन्तीति ‘स्थः क च’ (पा.सू. 3.2.77) इति क्विप्प्रत्ययः, ‘तत्पुरुषे कृति बहुलम्’ (पा.सू. 6.3.14) इत्यलुक्, सुषामादित्वात् (पा.सू. 8.3.98) षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । ये च बर्हिषदः । बर्हिषि सीदन्तीति ‘सत्सूद्विष’ (पा.सू. 3.2.61) इत्यादिना क्विप्, पृषोदरादित्वात्सकारलोपः (पा.सू. 6.3.109) । पूर्ववत् षत्वस्वरौ ।
ते विश्वेपि देवा देवनादिगुणयुक्ता यूयं, इमामस्मदीयां त्वद्विषयां स्तोत्ररूपां वाचं अभिगृणन्तः आभिमुख्येन शब्दयन्तः अहो सम्यगियं स्तुतिः कृतेत्येवं प्रशंसन्तः । ‘अभिरभागे’ (पा.सू. 1.4.91) इति लक्षणादिषु (पा.सू. 1.4.90) कर्मप्रवचनीयत्वम् । अस्मिन् बर्हिषि स्तीर्णे यज्ञे आसद्य उपविश्य मादयध्वं तृप्यत । मद तृप्तियोगे, चौरादिकः, आकुस्मीय आत्मनेपदी (आकुस्मादात्मनेपदिनः - गणसूत्रं - चित संचेतने इति धातौ) । आसद्येति कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना इदमस्सप्तम्या उदात्तत्वम् । ‘स्रुचौ संप्रस्रावयति’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणं । ‘वैश्वदेव्यर्चा’ (तै.ब्रा. 3.3.9) इत्यादि च ॥


भास्करोक्त-विनियोगः

धुरि स्फ्ये वा स्रुचौ विमुञ्चति

विश्वास-प्रस्तुतिः

+++(हे जुहूपभृतौ!)+++ अ॒ग्नेर् वा॒म् अप॑न्न+++(=निश्चल)+++गृहस्य॒ सद॑सि सादयामि ।
+++(यजमान-)+++सु॒म्नाय॑+++(=सुखाय)+++ सुम्निनी +++(जुहूपभृतौ!)+++ +++(स्व-)+++सु॒म्ने मा॑ +++(अध्वर्युं)+++ धत्तम्।
+++(याग-)+++धु॒रि धु॒र्यौ॑ +++(पत्नीयजमानौ)+++ पातम्+++(=रक्षतम्)+++ ।

Keith

I set thee in the seat of Agni whose abode is secure.
For goodwill, O ye two with goodwill, place me in goodwill.
Guard ye the yoke-horses at the yoke.

मूलम्

अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि ।
सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्तम्।
धु॒रि धु॒र्यौ॑ पातम् ।

पद-पाठः

अ॒ग्नेः । वा॒म् । अप॑न्नगृह॒स्येत्यप॑न्न-गृ॒ह॒स्य॒ । सद॑सि । सा॒द॒या॒मि॒ । 3Q । सु॒म्नाय॑ । सु॒म्नि॒नी॒ इति॑ । सु॒म्ने । मा॒ । ध॒त्त॒म् । 4R । धु॒रि । धु॒र्यौ॑ । पा॒त॒म् ।

भट्टभास्कर-टीका

17धुरि स्फ्ये वा स्रुचौ विमुञ्चति - अग्नेरिति ॥ हे जुहूपभृतौ वां युवां अग्नेः अपन्नगृहस्य अपन्नस्थानस्य सदसि सदने निश्चलभूते धुरादौ सादयामि स्थापयामि ।

किमर्थं ? - सुम्नाय सुम्नार्थं यजमानस्य सुखं यथा स्यादिति । हे सुम्निनी सुम्नवत्यौ । ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घत्वम् । मामध्वर्युं सुम्ने धत्तं स्थापयतम् ।

किञ्च - धुरि यागलक्षणायामस्यां वर्तमानौ धुर्यौ अस्या धुरो वोढारौ पत्नीयजमानौ पातं रक्षतम् । ‘धुरो यड्ढकौ’ (पा.सू. 4.4.77) इति यत्प्रत्ययः, ‘तित्स्वरितम्’ (पा.सू. 6.1.185) इति स्वरितत्वम्, ‘यतोऽनावः’ (पा.सू. 6.1.213) इत्याद्युदात्तत्वं बहुलवचनान्न भवति । ‘धुरि धुर्यौ पातमित्याह । जायापत्योर्गोपीथाय’ (तै.ब्रा. 3.3.9) इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

अन्वाहार्य-पचने फली-करण-होमं जुहोति

मूलम् (संयुक्तम्)

अग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒वᳶ पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒त्। अवि॑षन्नᳶ पि॒तुङ्कृ॑णु सु॒षदा॒ योनिँ॒ स्वाहा॒

विश्वास-प्रस्तुतिः

अग्ने॑ ऽदब्धा-ऽऽयो ऽशीत-तनो पा॒हि मा॒ऽद्य दि॒वः।

Keith

O Agni, with life unhurt, with not-cool body, guard me this day from the sky,

मूलम्

अग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒वः।

पद-पाठः

अग्ने॑ । अ॒द॒ब्धा॒यो॒ इत्य॑दब्ध-आ॒यो॒ । अ॒शी॒त॒त॒नो॒ इत्य॑शीत-त॒नो॒ । पा॒हि । मा॒ । अ॒द्य । दि॒वः ।

भट्टभास्कर-टीका

18अन्वाहार्यपचने फलीकरणहोमं जुहोति - अग्न इति यजुरादिकया ‘अविषं नः पितुं कृणु’ इति गायत्र्यैकपदया ‘सुषदा’ इति यजुरन्तया ॥ हे अग्ने अदब्धायो अहिंसितजीवित । ‘छन्दसीणः’ (उ.सू. 2) इत्युण्प्रत्ययः । हे अशीततनो उष्णशरीर । ‘नामन्त्रिते समानाधिकरणे’ (पा.सू. 8.1.73) इति पूर्वस्याविद्यमानत्वनिषेधात् उभयत्राप्याष्टमिको निघातः (पा.सू. 8.1.19) । अद्य अस्मिन् कर्मणि क्रियमाणे मां पाहि । आमन्त्रितत्रयस्याविद्यमानत्वात् ‘तिङ्ङतिङः’ (पा.सू. 8.1.28) इति निघाताभावः ।
दिवः द्युलोकात् द्युलोकवासिभ्यो देवेभ्यः; यथा ते कर्मापराधेन क्रुद्धा न हिंसन्ति तथा कुरु । ‘ऊडिदम्’ (पा.सू. 6.1.171) इति विभक्तेरुदात्तत्वम् ।

विश्वास-प्रस्तुतिः

पा॒हि प्रसि॑त्यै+++(=कर्मनाशात्)+++ ।

Keith

guard from bondage,

मूलम्

पा॒हि प्रसि॑त्यै ।

पद-पाठः

पा॒हि । प्रसि॑त्या॒ इति॒ प्र-सि॒त्यै॒ ।

भट्टभास्कर-टीका

किञ्च - पाहि प्रसित्यै । प्रसितिः प्रकर्षेण नाशः कर्मणोऽत्यन्तलोपः । स्यतेः क्तिनि, ‘द्यतिस्यति’ (पा.सू. 7.4.40) इत्यादिना इत्वम्, ‘क्रियार्थोपपदस्य चकर्मणि स्थानिनः’ (पा.सू. 2.3.14) इति चतुर्थी । प्रसितिं निवारयितुं मां पाहीति । व्यत्ययेन वाऽपादाने चतुर्थी (पा.सू. 3.1.85), (पा.सू. 2.3.28) । अपदात्परत्वात् पाहीति न निहन्यते । ‘तादौ च निति कृत्यतौ’ (पा.सू. 6.2.50) इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

पा॒हि दुरि॑ष्ट्यै ।
पा॒हि दु॑र्-अद्म॒न्यै+++(=भुक्त्यै)+++ ।

Keith

guard from error in sacrifice,
guard from evil food,

मूलम्

पा॒हि दुरि॑ष्ट्यै ।
पा॒हि दु॑रद्म॒न्यै ।

पद-पाठः

पा॒हि । दुरि॑ष्ट्या॒ इति॒ दुः-इ॒ष्ट्यै॒ । पा॒हि । दु॒र॒द्म॒न्या इति॑ दुः-अ॒द्म॒न्यै ।

भट्टभास्कर-टीका

एवं दुरिष्ट्या इत्यत्रापि स्वरचतुर्थ्यौ । दुरिष्टिरेकाङ्गविकलं कर्म । यद्वा - ‘दुर्निन्दायाम्’ (पा.भा. 2.2.18 वा 4) इति प्रादिसमासे अत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । दुरद्मनी दुष्टा भुक्तिः अभोज्यभोजनम् । ‘अदेर्मुट्च’ (उ.सू. 270) इत्यनिप्रत्ययः, गतिसमासः (पा.सू. 2.2.18) प्रादिसमासापवादः, ‘कृदिकारादक्तिनः’ (गणपाठः पा.सू. 4.1.45) इति ङीष्, ‘षितः’ (पा.सू. 3.1.3) इत्युदात्तः, दीर्घः, पूर्ववच्चतुर्थी (पा.सू. 2.3.14) । ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् ।

विश्वास-प्रस्तुतिः

पा॒हि दुश्च॑रितात् ।

Keith

guard from ill deed.

मूलम्

पा॒हि दुश्च॑रितात् ।

पद-पाठः

पा॒हि । दुश्च॑रिता॒दिति॒ दुः-च॒रि॒ता॒त् ।

भट्टभास्कर-टीका

दुश्चरितम् अयथानुष्ठितम् । ‘दुर्निन्दायां’ (पा.भा. 2.2.18 वा 4) इति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । ततो मां पाहि । ‘भीत्रार्थानां’ (पा.सू. 1.4.25) इत्यपादानत्वम् । अनुष्ठितस्य निवारयितुमशक्यत्वात्, तन्निमित्तानर्थपरिहार एव ततो रक्षणम् । गतिसमासपक्षे ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

अवि॑षन् नᳶ पि॒तुङ्+++(=अन्नं)+++ कृ॑णु । +++(गायत्री-एकपदा)+++

Keith

Make our food free from poison,

मूलम्

अवि॑षन्नᳶ पि॒तुङ्कृ॑णु । +++(गायत्री-एकपदा)+++

पद-पाठः

अवि॑षम् । नः॒ । पि॒तुम् । कृ॒णु॒ ।

भट्टभास्कर-टीका

किञ्च - अविषं विषवद्विषं बाधकं, अतोऽन्यदविषम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । पितुं अन्नं कृणु देहि । पितुरित्यन्ननाम (निघण्टु 2.7.6) ।

विश्वास-प्रस्तुतिः

सु॒-षदा॒ +++(हेतुना)+++ योनिँ॒ +++(तुभ्यम् इदं)+++ स्वाहा॑ +++(=इति स्वयं वाग् आह (नि. 8.20))+++ ।

Keith

the lap pleasant to sit in; hail!

मूलम्

सु॒षदा॒ योनिँ॒ स्वाहा॑ ।

पद-पाठः

सु॒षदेति॑ सु-सदा॑ । योनि॑म् । स्वाहा॑ ।

भट्टभास्कर-टीका

पुनश्च विशेष्यते - सुषदा योनिं - सुखेन सदनमवस्थानं सुषत् । ‘सत्सूद्विष’ (पा.सू. 3.2.61) इत्यादिना क्विप्, ‘सदिरप्रतेः’ (पा.सू. 8.3.66) इति षत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.239) । तेन हेतुना योनिं समस्तस्योत्पत्तिस्थानम् । अन्नेन हि सर्वं सुखेन सीदति, यथा ‘अन्नाद्भूतानि जायन्ते’ (तै.आ. 5.14.2) इत्यादि ब्राह्मणम् । तुभ्यमिदं स्वाहा सुखेन हुतमस्तु । यद्वा - इत्थमिदं कर्तव्यमिति सरस्वत्यपि स्वयमेवाह (नि. 8.20)॥


भास्करोक्त-विनियोगः

19समिष्टयजूंषि जुहोति - देवा इति ॥

देवा गातुविदः ...{Loading}...
विश्वास-प्रस्तुतिः

देवा॑ गातुविदो+++(=गतिज्ञाः)+++ गा॒तुव्ँ+++(=मार्गं)+++ वि॒त्वा+++(=लब्ध्वा)+++ गा॒तुम् इ॑त +++(=गच्छत)+++। मन॑सस्पत इ॒मन् नो॑ देव दे॒वेषु॑ य॒ज्ञं +++(धाः)+++ स्वाहा॑।

Keith

O ye gods that know the way, knowing the way, go ye the way.
O lord of mind, this sacrifice for us (place) among the gods, O god, hail!

मूलम् (संयुक्तम्)

देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञँ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ [24]

मूलम्

देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञं +++(धाः)+++ । स्वाहा॑ ।

पद-पाठः

देवाः॑ । गा॒तु॒वि॒द॒ इति॑ गातु-वि॒दः॒ । गा॒तुम् । वि॒त्त्वा । गा॒तुम् । इ॒त॒ । 8V । मन॑सः । प॒ते॒ । इ॒मम् । नः॒ । दे॒व॒ । दे॒वेषु॑ । य॒ज्ञम् । स्वाहा॑ ।

भट्टभास्कर-टीका

हे देवाः गातुविदः गतिज्ञाः । गाङ् गतौ, ‘कमिमनिजनि’ (उ.सू. 72) इत्यादिना तुप्रत्ययः, ‘विभाषितं विशेषवचने बहुवचनम्’ (पा.सू. 8.1.74) इति पूर्वस्याविद्यमानत्वनिषेधात् निहन्यते । गातुं वित्वा मार्गं लब्ध्वा आगमनकाले यत्र स्थिताः ते यूयं गातुमित येन मार्गेणागताः तमेव मार्गं भजत समाप्ते कर्मणि तेनैव प्रतिनिवर्तध्वम् ।

किञ्च, हे मनसस्पते सर्वभूतानामन्तरात्मन् । ‘सुबामन्त्रिते पराङ्गवत्’ (पा.सू. 2.1.2) इति षष्ठ्यन्तस्य परामन्त्रितानुप्रवेशात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् (पा.सू. 6.1.198) । पदात्परत्वाभावान्निघाताभावः, ‘षष्ठ्याः पति’ (पा.सू. 8.3.53) इत्यादिना विसर्जनीयस्य सकारः । हे देव इममस्माकं यज्ञं देवेषु अग्न्यादिषु धाः धेहि स्थापय ।

एवं हि सरस्वत्याह ।


देवा गातुविदः गतिज्ञाः गातुं मार्गं वित्त्वा लब्ध्वा आगमनकाले यत्र स्थितास्ते यूयं गातुमित तमेव मार्गं समाप्ते कमणि गमनाय भजत ।
किञ्च - हे मनसस्पते सर्वभूतानामन्तरात्मतया मनसोपि पते देव इममस्माकं यज्ञं देवेष्व् अग्न्यादिषु धाः धेहि स्थापय ।
एवं हि सरस्वत्याह । तदनन्तरं वाचि वाग्देवतायां शाब्दे ब्रह्मणि धाः स्थापय । ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय, यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । ‘वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते’ इत्यादि ब्राह्मणम् , ‘वासिष्ठो ह सात्यहव्यः’ इत्यादि च ॥

मूलम् (संयुक्तम्)

वा॒चि स्वाहा॒ वाते॑ धाः

विश्वास-प्रस्तुतिः

+++(य॒ज्ञं)+++ वा॒चि +++(धाः)+++ स्वाहा॑ ।

Keith

In speech, hail!

मूलम्

वा॒चि +++(धाः)+++ स्वाहा॑ ।

पद-पाठः

वा॒चि । स्वाहा॑ ।

भट्टभास्कर-टीका

तदनन्तरं वाचि वाग्देवतायां शब्दब्रह्मणि च धाः । ‘सावेकाचः’ (पा.सू. 6.1.168) इति विभक्तेरुदात्तत्वम् ।

वाचि धा इति सरस्वत्याह ।

विश्वास-प्रस्तुतिः

वाते॑ धाः ॥ [24]

Keith

in/or the wind, hail!

मूलम्

वाते॑ धाः ॥ [24]

पद-पाठः

वाते॑ । धाः॒ ॥

भट्टभास्कर-टीका

ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय । यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । ‘वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् । दधातेः लेटि ‘बहुलं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक्, ‘इतश्च लोपः परस्मैपदेषु’ (पा.सू. 3.4.98) इतीकारलोपः ॥

इति त्रयोदशोनुवाकः ।