१२ आघारः ...{Loading}...
१ एकपदा गायत्री, ८ द्विपदा गायत्री । प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
1अग्रेण जुहूप्रभृतौ प्राञ्चमञ्जलिं करोति - भुवनमिति यजुरादिकयैकपदया गायत्र्या ॥
विश्वास-प्रस्तुतिः
भुव॑नम् +++(→यज्ञः)+++ असि। +++(प्र॒जया॑ प॒शुभि॑ᳶ)+++ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑र्, इ॒दन् नमः॑ ।
Keith
Thou art the world, be extended.
O Agni, sacrificer, this reverence.
मूलम्
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑ ।
पद-पाठः
भुव॑नम् । अ॒सि॒ । वीति॑ । प्र॒थ॒स्व॒ । अग्ने॑ । यष्टः॑ । इ॒दम् । नमः॑ ॥
भट्टभास्कर-टीका
हे अग्ने यष्टः यागस्य निर्वर्तक । ‘अग्निर्वै देवानां यष्टा’ (तै.ब्रा. 3.3.7) इति ब्राह्मणम् । पादादित्वादग्न इति न निहन्यते । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ (पा.सू. 8.1.72) इति तस्याविद्यमानत्वात् यष्टरित्यपि न निहन्यते । द्वयोरपि षाष्ठिकमाद्युदात्तत्वम् (पा.सू. 6.1.198) । त्वं भुवनमसि त्वदायत्तत्वात्समस्तभूतजातस्य । तस्मात् विप्रथस्व विस्तीर्णो भव । तुभ्यमिदं नमः, अयमञ्जलिस्त्वां प्रीणयितुं क्रियते ॥
भास्करोक्त-विनियोगः
2दक्षिणेन जुहूमादत्ते - जुह्विति ॥
विश्वास-प्रस्तुतिः
जु॒ह्वेहि॑ ।
अ॒ग्निस् त्वा॑ ह्वयति देवय॒ज्यायै॑ ।
Keith
O juhu, come hither, Agni summons thee for the sacrifice to the gods.
मूलम् (संयुक्तम्)
जुह्वेह्य॒ग्निस्त्वा॑ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्यायै ।
मूलम्
जु॒ह्वेहि॑ ।
अ॒ग्निस्त्वा॑ ह्वयति देवय॒ज्यायै॑ ।
पद-पाठः
जुहु॑ । एति॑ । इ॒हि॒ । अ॒ग्निः । त्वा॒ । ह्व॒य॒ति॒ । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ ।
भट्टभास्कर-टीका
हे जुहु एहि अस्मद्धस्तमागच्छ । यतोग्निस्त्वां देवयज्यायै देवयागार्थमाह्वयति । ‘छन्दसि निष्टर्क्य’ (पा.सू. 3.1.123) इत्यत्र देवयज्याशब्दो यप्रत्ययान्तो निपातितः । ‘आग्नेयी वै जुहूः’ (तै.ब्रा. 3.3.7) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
3सव्येनोपभृतमादत्ते - उपभृदिति ॥
विश्वास-प्रस्तुतिः
उप॑भृ॒द् एहि॑ ।
दे॒वस् त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्यायै॑ ।
Keith
O upabhrt, come hither, the god Savitr summons thee for the sacrifice to the gods.
मूलम्
उप॑भृ॒देहि॑ ।
दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्यायै॑ ।
पद-पाठः
उप॑भृ॒दित्युप॑-भृ॒त् । एति॑ । इ॒हि॒ । दे॒वः । त्वा॒ । स॒वि॒ता । ह्व॒य॒ति॒ । दे॒व॒य॒ज्याया॒ इति॑ देव-य॒ज्यायै॑ ।
भट्टभास्कर-टीका
हे उपभृत् एहि । यतस्सर्वस्य प्रेरकस्सविता देवयज्यायै आह्वयति । ‘सावित्र्युपभृत्’ (तै.ब्रा. 3.3.7) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
अत्याक्रामं जपति - अग्नाविष्णू इति ॥
विश्वास-प्रस्तुतिः
अग्ना॑विष्णू॒+++(→आहवनीय-यज्ञौ)+++ मा वा॒म् अव॑ क्रमिषम् ।
+++(यज्ञश् चान्तर्वेदि स्रुचामग्रत आस्ते।)+++
Keith
O Agni and Visnu, let me not step down upon you.
मूलम् (संयुक्तम्)
अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषव्ँ॒वि जि॑हाथा॒म्मा मा॒ सन्ता॑प्तल्ँ लो॒कम्मे॑ लोककृतौ कृणुतम्
मूलम्
अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषम् …
पद-पाठः
अग्ना॑विष्णू॒ इत्यग्ना॑-वि॒ष्णू॒ । मा । वा॒म् । अवेति॑ । क्र॒मि॒ष॒म् ।
भट्टभास्कर-टीका
4अग्निराहवनीयः, विष्णुर्यज्ञः, यज्ञश्चान्तर्वेदि स्रुचामग्रत आस्ते ; तावाह हे अग्नाविष्णू युवामहं मावक्रमिषम् अवक्रम्य मा गाम् । ‘नेटि’ (पा.सू. 7.2.4) इत्यादिना वृद्धिप्रतिषेधः ।
विश्वास-प्रस्तुतिः
+++(मार्गदानाय)+++ वि जि॑हाथाम्+++(=विगच्छतम्)+++ ।
Keith
Be ye parted,
मूलम्
वि जि॑हाथाम् …
पद-पाठः
वीति॑ । जि॒हा॒था॒म् ।
भट्टभास्कर-टीका
तदर्थं युवां विजिहाथां मम मार्गप्रदानार्थं विगच्छतम् ।
विश्वास-प्रस्तुतिः
मा मा॒ सन्ता॑प्तम् ।
लो॒कम् मे॑ +++(हे)+++ लोककृतौ +++( वां)+++ कृणुतम् ।
Keith
consume me not.
Make ye a place for me, ye place-makers.
मूलम्
मा मा॒ सन्ता॑प्तम् …
लो॒कम्मे॑ लोककृतौ कृणुतम् ।
पद-पाठः
मा । मा॒ । समिति॑ । ता॒प्त॒म् । लो॒कम् । मे॒ । लो॒क॒कृ॒ता॒विति॑ लोक-कृ॒तौ॒ । कृ॒णु॒त॒म् ।
भट्टभास्कर-टीका
मा मां च मा सन्ताप्तं सन्तप्तं मा कार्ष्टम् । ‘झलो झलि’ (पा.सू. 8.2.26) इति सिचो लोपः, ‘वदव्रज’ (पा.सू. 7.2.3) इति वृद्धिः ।
वां लोककृतौ स्थानप्रदौ मम च लोकं स्थानं कृणुतं कुरुतम् । ‘धिन्विकृण्व्योरच’ (पा.सू. 3.1.80) इत्युप्रत्ययः । ‘अतो लोपः’ (पा.सू. 6.4.48) ॥
भास्करोक्त-विनियोगः
स्थानं कल्पयति
विश्वास-प्रस्तुतिः
विष्णो॒स् +++(→यज्ञस्य)+++ स्थान॑म् असि ।
Keith
Thou art the abode of Visnu.
मूलम्
विष्णो॒स्स्थान॑मसि ।
पद-पाठः
विष्णोः॑ । स्थान॑म् । अ॒सि॒ ।
भट्टभास्कर-टीका
5स्थानं कल्पयति - विष्णोरिति ॥ विष्णोर्यज्ञात्मनः स्थानमसि, अतः प्रशस्तेऽस्मिन् स्थाने स्थित्वा यागं निर्वर्तयामीति भावः ॥
भास्करोक्त-विनियोगः
आघारम् आघारयति
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒त +++(अस्माद् आघारात्)+++ इन्द्रो॑ अकृणोद् वी॒र्या॑णि समा॒रभ्य॑
+++(अयम् आघार)+++ ऊ॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॑म् ।
+++(आघारवद्)+++ अह्रु॑तो+++(=अकुटिलः)+++ य॒ज्ञो य॒ज्ञप॑ते॒र् इन्द्रा॑वा॒न् ।
सर्वाष् टीकाः ...{Loading}...
Keith
Hence Indra wrought mighty deeds.
Great, grasping the sky, imperishable.
The sacrifice of the lord of the sacrifice is undisturbed.
Offered to Indra, hail!
मूलम् (संयुक्तम्)
इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्त्स्वाहा॑
मूलम्
इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णि समा॒रभ्य॑
ऊ॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॑म्।
अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न् ।
पद-पाठः
इ॒तः । इन्द्रः॑ । अ॒कृ॒णो॒त् । वी॒र्या॑णि । 10K । स॒मा॒रभ्येति॑ सम्-आ॒रभ्य॑ । ऊ॒र्ध्वः । अ॒ध्व॒रः । दि॒वि॒स्पृश॒मिति॑ दिवि-स्पृश॑म् । 11L । अह्रु॑तः । य॒ज्ञः । य॒ज्ञप॑ते॒रिति॑ य॒ज्ञ-प॒तेः॒ । इन्द्रा॑वा॒नितीन्द्र॑-वा॒न् ।
भट्टभास्कर-टीका
6आघारमाघारयति - इत इति ॥ इतः अस्मादाघारात् समारभ्य इन्द्रो वीर्याणि वृत्रवधादीनि अकृणोत् करोति स्म । ‘अनुदात्ते च कुधपरे’ (पा.सू. 6.1.120) इति प्रकृतिभावः । पूर्ववदुप्रत्ययः ।
किञ्च - अयमाघार ऊर्ध्वः ऊर्ध्वलोकगामी भूत्वा अध्वरः अध्वर्यः । ‘नञ् सुभ्याम्’ (पा.सू. 6.2.172) इत्युत्तरपदान्तोदात्तत्वम् । पूर्ववत्प्रकृतिभावः । हिंसकरहितः केनचिदप्यहिंसितश्च भूत्वा तमिन्द्रं दिविस्पृशमकरोत् । ‘स्पृशोनुदके क्विन्’ (पा.सू. 6.2.58), ‘तत्पुरुषे कृति बहुलम्’ (पा.सू. 6.3.14) इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरः (पा.सू. 6.2.139) । ‘आघारमाघार्यमाणमनु समारभ्य’ (तै.ब्रा. 3.3.7) इत्यादि ब्राह्मणम् ।
कोस्य विशेषः यत एवमकरोत् ? इत्याह - इन्द्रावान् इन्द्रेण देवतया तद्वान् । ‘अन्येषामपि दृश्यते’ (पा.सू. 6.3.137) इति दीर्घः । यतोयमाघार इन्द्रावान् तस्मादयमेव खलु यज्ञपतेर्यजमानस्य । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति पूर्वपदप्रकृतिस्वरत्वम् । अह्रुतः अकुटिलः निश्चितफलो यज्ञः ।
विश्वास-प्रस्तुतिः
स्वाहा॑ ।
मूलम्
स्वाहा॑ ।
पद-पाठः
स्वाहा॑ ।
भट्टभास्कर-टीका
स्वाहा स्वयमेवेत्थं सरस्वत्याह । अह्रुत इति ‘ह्रु ह्वरेश्छन्दसि’ (पा.सू. 7.2.31) इति ह्रुभावः । होमपक्षे स्वाहेति प्रक्षेपार्थो निपातः ॥
भास्करोक्त-विनियोगः
स्रुचमुद्गृह्णाति
विश्वास-प्रस्तुतिः
बृ॒हद् भाः ।
Keith
Great light.
मूलम्
बृ॒हद्भाः ।
भट्टभास्कर-टीका
7स्रुचमुद्गृह्णाति - बृहदिति ॥ क्रियाविशेषणम् । भासत इति भाः । ‘भ्राजभास’ (पा.सू. 3.2.177) इत्यादिना क्विप् । यस्मादयमग्निरनेनाघारेण भृशं भासते ज्वलति तस्मात्स्रुचमुद्गृह्णामीति भावः ॥
भास्करोक्त-विनियोगः
उदङ्ङ् अत्याक्रामं जपति
विश्वास-प्रस्तुतिः
पा॒हि मा॑ग्ने॒ दुश्च॑रितात् ।
आ मा॒ सुच॑रिते भज+++(=स्थापय)+++ ।
Keith
Guard me, O Agni, from misfortune, place me in good fortune.
मूलम् (संयुक्तम्)
पा॒हि मा॑ग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज ।
मूलम्
पा॒हि मा॑ग्ने॒ दुश्च॑रितात् ।
आ मा॒ सुच॑रिते भज ।
भट्टभास्कर-टीका
8उदङ्ङत्याक्रामं जपति - पाहीति द्विपदया गायत्र्या ॥
हे अग्ने नः दुश्चरितात् प्रमादकृतनिन्दिताच्चरितात् कर्मापराधान्मां पाहि यथा कर्मापराधो न भवति तथा कुरु । ‘दुर्निन्दायां’ (पा.भा. 2.2.18 वा 4) इति प्रादिसमासः । दुश्शब्देन चरितं विशेष्यते, न तु चरणम्; तेन गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ।
किञ्च - सुचरिते शोभनचरिते कर्मणि मा मां भज स्थापय । विद्यमानोप्यपराधो गुणत्वेन ग्रहीतव्य इति भावः । ‘सुः पूजायाम्’ (पा.सू. 1.4.94) इति कर्मप्रवचनीयत्वात् यद्यपि ‘प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः’ (पा.भा. 2.2.18 वा 1) इत्यस्ति, तथापि ‘स्वती पूजायाम्’ (पा.सू. 2.2.18 वा 4) इति प्रादिसमासः, तेन गतित्वाभावात् ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इत्यस्यापवादः, ‘सूपमानात् क्तः’ (पा.सू. 6.2.145) इत्युत्तरपदान्तोदात्तत्वम् न प्रवर्तते, तेन पूर्ववदव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । ‘अग्निर्वाव पवित्रं । वृजिनमनृतं दुश्चरितम्’ (तै. ब्रा. 3.3.7) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
जुह्वा ध्रुवां समनक्ति
विश्वास-प्रस्तुतिः
+++(हे निर्वर्तिताघारा जुहूः!)+++ म॒खस्य॒ शिरो॑ऽसि ।
+++(अतस् ते)+++ सञ् ज्योति॑षा॒ +++(घृतेन ध्रौवं)+++ ज्योति॑र् अङ्क्ताम्+++(=संगच्छताम्)+++ ॥ [21]
Keith
Thou art the head of Makha,
be light united with light.
मूलम् (संयुक्तम्)
- म॒खस्य॒ शिरो॑ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ॥ [21]
मूलम्
म॒खस्य॒ शिरो॑ऽसि ।
सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ॥ [21]
भट्टभास्कर-टीका
9जुह्वा ध्रुवां समनक्ति - मखस्येति ॥ निर्वर्तिताघारा जुहूरभिमन्त्र्यते । हे जुहु मखस्य यज्ञस्य शिरः शिर इव उत्तमाङ्गमसि । तस्मात्तव ज्योतिषा घृतेन इदं ध्रौवं ज्योतिर्घृतं समङ्क्तां संगच्छताम् । व्यत्ययेनात्मनेपदम् । ‘शिरो वा एतद्यज्ञस्य । यदाघारः’ (तै.ब्रा. 3.3.7) इति ब्राह्मणम् ॥
इति द्वादशोनुवाकः