१० हविर्ग्रहणम्

१० हविर्ग्रहणम् ...{Loading}...

७, ८. १० अनुष्टुप्, ९ त्रिष्टुप्, २० गायत्री ।
प्रजापतिर्ऋषिः

भास्करोक्त-विनियोगः

गार्हपत्ये स्रुवादीन् प्रतितपति

प्रत्युष्टं रक्षः ...{Loading}...
विश्वास-प्रस्तुतिः

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ, प्रत्यु॑ष्टा॒ अरा॑तयः+++(=अदातारः)+++।

Keith

The Raksas is burned up, the evil spirits are burned up.

मूलम् (संयुक्तम्)

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तयः

मूलम्

प्रत्यु॑ष्टँ॒ रक्षः॑ ।
प्रत्यु॑ष्टा॒ अरा॑तयः ।

पद-पाठः

प्रत्यु॑ष्ट॒मिति॒ प्रति॑-उ॒ष्ट॒म् । रक्षः॑ । प्रत्यु॑ष्टा॒ इति॒ प्रति॑-उ॒ष्टाः॒ । अरा॑तयः ।

भट्टभास्कर-टीका

2गार्हपत्ये प्रतितपति - प्रत्युष्टमिति ॥ केचित्तु - ‘प्रत्युष्टा अरातयः’ इति गायत्र्येकपदा यजुरादिकेत्याहुः । रक्षेरसुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा । यदत्र छिद्रान्वेषि रक्षस्तदनेन प्रतितपनेन प्रत्युष्टं प्रतिमुखीकृत्य दग्धमस्तु । उष दाहे । ‘आदितश्च’ (पा.सू. 7.2.16) इति चकारादाश्वस्तादिवदिट्प्रतिषेधः । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ।

किञ्च, अरातयोपि प्रत्युष्टास्सन्तु । रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥

भट्टभास्कर-टीका

1गार्हपत्ये स्रुवादीन् प्रतितपति - प्रत्युष्टमिति ॥ व्याख्यातम् (तै.सं. 1.1.2)

विश्वास-प्रस्तुतिः

अ॒ग्नेर् व॒स् तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि ।

Keith

With Agni’s keenest flame I burn you.

मूलम्

अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि ।

पद-पाठः

अ॒ग्नेः । वः॒ । तेजि॑ष्ठेन । तेज॑सा । निरिति॑ । त॒पा॒मि॒ ।

भट्टभास्कर-टीका

तेजिष्ठेन तेजितृतमेन तीक्ष्णतमेनाग्नेस्तेजसा वो युष्मान् निष्टपामि निष्कृष्य दोषेभ्यस्तपामि । ‘निसस्तपतावनासेवने’ (पा.सू. 8.3.102) इति षत्वम् । तेजितृशब्दात् ‘तुश्छन्दसि’ (पा.सू. 5.3.59) इतीष्ठनि ‘तुरिष्ठेमेयस्सु’ (पा.सू. 6.4.154) इति तृशब्दलोपः ॥


स्रुक्, स्रुवः
भास्करोक्त-विनियोगः

स्रुवं सम्मार्ष्टि

विश्वास-प्रस्तुतिः

+++(स्रुङ्-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ गो॒ष्ठम् मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ ।
+++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हँ+++(=अभिभवितारं)+++ सम्मा॑र्ज्मि ।

Keith

May I not brush the place of the cattle, I brush thee that art strong and overcomest foes.

मूलम् (संयुक्तम्)

गोष्ठम्मा निर्मृ॑क्षव्ँ वा॒जिन॑न्त्वा सपत्नसा॒हँ सम्मा॑र्ज्मि

मूलम्

गो॒ष्ठम्मा निर्मृ॑क्षम् ।
वा॒जिन॑न्त्वा सपत्नसा॒हँ सम्मा॑र्ज्मि ।

पद-पाठः

गो॒ष्ठमिति॑ गो-स्थम् । मा । निरिति॑ । मृ॒क्ष॒म् ।
वा॒जिन॑म् । त्वा॒ । स॒प॒त्न॒सा॒हम् इति॑ सपत्न-सा॒हम् । समिति॑ । मा॒र्ज्मि॒ ।

भट्टभास्कर-टीका

2स्रुवं सम्मार्ष्टि - गोष्ठमिति ॥ गावस् तिष्ठन्ति यत्र स गोष्ठो देशः । ‘घञर्थे कविधानम्’ (पा.सू. 3.3.58 वा 4) इति कः, थाथादिसूत्रेण (पा.सू. 6.2.144) अन्तोदात्तत्वम् । ‘अम्बाम्ब’ (पा.सू. 8.3.97) इत्यादिना षत्वम् ।

यस्माद् अहं गवां स्थानं (इत्यादि…) मा निर्मृक्षम् मा विनीनशं इति प्रार्थ्यसे, … तस्माद् वाजिनम् अन्नवन्तं अन्न-साधन-भूतं स-पत्न-साहं(सपत्नसाहीं वा) सपत्नानां शत्रूणां अभिभवितारं त्वां सम्मार्ज्मि शोधयामि ।

स्रुवादि-सम्मार्गाभावे यागाभावेन वृष्ट्य्-अभावाद् गवादयो विनश्येयुर् इति भावः ।
निर्मृक्षमिति मृशतेर्लुङि ‘शल इगुपधादनिटः क्स’ (पा.सू. 3.1.45) इति च्लेः क्सादेशः । सपत्नसाहमिति कर्मण्यणन्तोन्तोदात्तः ॥


जुहू
भास्करोक्त-विनियोगः

जुहूं सम्मार्ष्टि

विश्वास-प्रस्तुतिः

+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ वाच॑म् [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवित्रीं)+++ सम्मा॑र्ज्मि ।]।
+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ प्रा॒णम् [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवित्रीं)+++ सम्मा॑र्ज्मि ।]

Keith

Speech, breath (may I not brush, I brush thee that art strong and overcomest foes).

मूलम् (संयुक्तम्)

वाच॑म्प्रा॒णञ्चक्षु॒श्श्रोत्र॑म्प्र॒जाय्ँ योनि॒म्मा निर्मृ॑क्षव्ँ वा॒जिनी॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि

मूलम्

वाच॑म् [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।
प्रा॒णम् [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।

पद-पाठः

वाच॑म् । प्रा॒णमिति॑ प्र-अ॒नम् ।

भट्टभास्कर-टीका

3जुहूं सम्मार्ष्टि - वाचमिति ॥ अत्र मा निर्मृक्षमित्यादि वक्ष्यमाणमनुषज्यते । थाथादिस्वरेण (पा.सू. 6.2.144) प्राणशब्दोन्तोदात्तः ॥


उपभृत्
भास्करोक्त-विनियोगः

उपभृतं सम्मार्ष्टि

विश्वास-प्रस्तुतिः

+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ चक्षुः॑ [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवितारं)+++ सम्मा॑र्ज्मि ।]
+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ श्रोत्र॑म् [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवित्रीं)+++ सम्मा॑र्ज्मि ।]

Keith

eye, ear, may I not brush, I brush thee that art strong and overcomest foes.

मूलम्

चक्षुः॑ [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।
श्रोत्र॑म् [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।

पद-पाठः

चक्षुः॑ । श्रोत्र॑म् ।

भट्टभास्कर-टीका

4उपभृतं सम्मार्ष्टि - चक्षुरिति ॥ पूर्ववद् वक्ष्यमाणस्यानुषङ्गः ॥


ध्रुवा
भास्करोक्त-विनियोगः

ध्रुवां सम्मार्ष्टि

विश्वास-प्रस्तुतिः

+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ प्र॒जाम् [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवित्रीं)+++ सम्मा॑र्ज्मि ।]
+++(दर्वी-मार्जनाभावाद् यागाभावाद् वृष्ट्यभावाद् …)+++ योनि॒म् [मा निर्मृ॑क्षम्+++(=विनीनशम्)+++ । +++(अतः)+++ वा॒जिन॑न्+++(=अन्नवन्तम्)+++ त्वा सपत्न-सा॒हीँ+++(=अभिभवित्रीं)+++ सम्मा॑र्ज्मि ।]

Keith

offspring, the organ of generation may I not brush,
I brush thee that art strong and overcomest foes.

मूलम्

प्र॒जाम् [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।
योनि॒म् [ मा निर्मृ॑क्षम् । वा॒जिन॑न्त्वा सपत्नसा॒हीँ सम्मा॑र्ज्मि ]।

पद-पाठः

प्र॒जामिति॑ प्र-जाम् । योनि॑म् ।

भट्टभास्कर-टीका

5ध्रुवां सम्मार्ष्टि - प्रजामिति ॥ सपत्नसाहीमिति उदात्तनिवृत्तिस्वरेण (पा.सू. 6.1.161) ङीप उदात्तत्वम् ॥


भास्करोक्त-विनियोगः

पत्नीं योक्त्रेण सन्नह्यति, तदा पत्नी वदति-

०७ आशासाना सौमनसम् ...{Loading}...

आ॒शासा॑ना सौमन॒सं
प्र॒जां सौभा॑ग्यं तनूम्।
अ॒ग्नेर् अनु॑व्रता भू॒त्वा +++(तिष्ठति/ तिष्ठामि)+++,
+++(तां)+++ सं न॑ह्ये सुकृ॒ताय॒ कम् +++(=सुखम् [यथा])+++।

Keith

Beseeching favour, offspring, prosperity, in devotion to Agni,
I gird my body for good action.

मूलम्

आ॒शासा॑ना सौमन॒सम्प्र॒जाँ सौभा॑ग्यन्त॒नूम् ।
अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम् ॥

पद-पाठः

आ॒शासा॒नेत्या॑-शासा॑ना । सौ॒म॒न॒सम् । प्र॒जामिति॑ प्र-जाम् । सौभा॑ग्यम् । त॒नूम् ॥ अ॒ग्नेः । अनु॑व्र॒तेत्यनु॑-व्र॒ता॒ । भू॒त्वा । समिति॑ । न॒ह्ये॒ । सु॒कृ॒तायेति॑ सु-कृ॒ताय॑ । कम् ॥

भट्टभास्कर-टीका

6पत्नीं योक्त्रेण सन्नह्यति - आशासानेति चतुष्पदयानुष्टुभा ॥
सन्नह्ये इत्युत्तमपुरुषश्रवणात्पत्नी मन्त्रं ब्रवीति । आशासाना प्रार्थयमाना । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वम् (पा.सू. 6.1.186), कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । किं? सौमनसं शोभनं मनस्सौमनसम् । ‘प्रज्ञादिभ्यश्च’ (पा.सू. 5.4.38) इति मनश्शब्दात्स्वार्थे विधीयमानोण्प्रत्ययस्तदन्तादपि भवति, छन्दसि दृष्टानुविधानात् (पा.सू. 1.1.6 वा 1) । प्रजामपत्यं (पुत्रादिकाम्) । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । सौभाग्यं भर्तुरिष्टत्वम् । ‘सुभग मन्त्रे’ (पा.सू. 5.1.129 उद्गात्रादिगणे गणसूत्रम्) इति विधीयमानस्यौद्गात्रादिलक्षणस्याञोऽभावे ष्यञेव क्रियते । ञित्त्वादाद्युदात्तत्वम्, ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ (पा.सू. 7.3.19) इत्युभयपदवृद्धिः । तनूं शरीरम् अविनाशाम् । ‘कृषिचमितनि’ (उ.सू. 84) इत्यादिना ऊप्रत्ययः । अग्नेः परिचरणलक्षणानि यानि व्रतानि तैरनुगता अनुव्रता । ‘अवादयः क्रुष्टाद्यर्थे तृतीयया’ (पा.भा. 2.2.18 वा 4) इति तत्पुरुषः । ‘तत्पुरुषे तुल्यार्थ’ (पा.सू. 6.2.2) इत्यादिनाऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । सुकृताय शोभनाय कर्मणे सन्नह्ये बध्ये । शोभनं कर्म सुकृतम् । भावे निष्ठा । ‘सूपमानात् क्तः’ (पा.सू. 6.2.145) इत्युत्तरपदान्तोदात्तत्वम् । कं सुखं यथा भवति तथा बध्ये । कर्मणि लकारः । यद्वा - कमात्मानं संनह्ये बध्नामि । नह्यतिः स्वरितेत् । ‘एतद्वै पत्नियै व्रतोपनयनम्’ (तै.ब्रा. 3.3.3) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

7पत्नी गार्हपत्यमुपसीदति - सुप्रजस इति चतुष्पदयानुष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒-प्र॒जस॑स् त्वा व॒यँ
सु॒-पत्नी॒र् उप॑ सेदिम
अग्ने॑ सपत्न॒-दम्भ॑न॒म् +++(त्वां)+++
अ-द॑ब्धासो॒ अ-दा॑भ्यम् ॥

सर्वाष् टीकाः ...{Loading}...
Keith

With fair offspring, with noble husbands,
We are come to thee,
O Agni, to thee that deceivest the foe,
The undeceivable, we that are not deceived.

मूलम्

सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑ [16] सेदिम ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ॥

पद-पाठः

सु॒प्र॒जस॒ इति॑ सु-प्र॒जसः॑ । त्वा॒ । व॒यम् । सु॒पत्नी॒रिति॑ सु-पत्नीः॑ । उपेति॑ । [16]
1 । से॒दि॒म॒ ॥ अग्ने॑ । स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न-दम्भ॑नम् । अद॑ब्धासः । अदा॑भ्यम् ॥

भट्टभास्कर-टीका

सुप्रजसः शोभनापत्याः । ‘नित्यमसिच्प्रजामेधयोः’ (पा.सू. 5.4.122) इति समासान्तः । सुपत्नीः सुपत्न्यः । ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घः, शोभनः पतिर्यासामिति बहुव्रीहौ ‘विभाषा सपूर्वस्य’ (पा.सू. 4.1.34) इति नकारोन्तादेशः, ‘ऋन्नेभ्यो ङीप्’, (पा.सू. 4.1.5) ‘आद्युदात्तं द्व्यच्छन्दसि’ (पा.सू. 6.2.119) इत्युत्तरपदाद्युदात्तत्वम् पतिशब्दस्याद्युदात्तत्वात् । ईदृश्यो वयं हे अग्ने त्वामुपसेदिम उपसीदामः । ‘छन्दसि लुङ्लङ्लिटः’ (पा.सू. 3.4.6) इति वर्तमाने लिङ् ।
कीदृशं - सपत्नदम्भनं शत्रूणां विनाशसाधनम् । करणे ल्युटि, कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । यस्मादीदृशस्त्वं तस्मात् त्वामुपसीदामः । अदब्धासः त्वत्प्रसादेन केनाप्यहिंसिताः । ‘आज्जसेरसुक्’ (पा.सू. 7.1.50) । अदाभ्यं केनचिदप्यनभिभवनीयं त्वाम् । दभिः प्रकृत्यन्तरमस्तीति केचिदाहुः । ‘दभेश्चेति वक्तव्यम्’ (पा.सू. 3.1.124 वा 3) इति ण्यत्, उभयत्राप्यव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) ॥


भास्करोक्त-विनियोगः

8योक्त्रं पत्नी विमुञ्चति - इममिति त्रिष्टुभा चतुष्पदया ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मव्ँ विष्या॑मि॒+++(=प्रमुञ्चामि)+++ वरु॑णस्य॒+++(=छादकस्य [वस्त्रस्य/ वरुणस्य वा])+++ पाशय्ँ॒ +++(योक्त्ररूपम्)+++
यम् अब॑ध्नीत सवि॒ता सु॒केतः॑ ।
धा॒तुश्+++(→अग्नेः)+++ च॒ योनौ॑, सुकृ॒तस्य॑ लो॒के
स्यो॒नम् मे॑ स॒ह पत्या॑ करोमि

सर्वाष् टीकाः ...{Loading}...
Keith

I loosen this bond of Varuna,
Which Savitr the kindly hath bound,
And in the birthplace of the creator, in the place of good action,
I make it pleasant for me with my husband.

मूलम्

इ॒मव्ँ विष्या॑मि॒ वरु॑णस्य॒ पाशय्ँ॒यमब॑ध्नीत सवि॒ता सु॒केतः॑ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि ॥

पद-पाठः

इ॒मम् । वीति॑ । स्या॒मि॒ । वरु॑णस्य । पाश॑म् । यम् । अब॑ध्नीत । स॒वि॒ता । सु॒केत॒ इति॑ सु-केतः॑ ॥ धा॒तुः । च॒ । योनौ॑ । सु॒कृ॒तस्येति॑ सु-कृ॒तस्य॑ । लो॒के । स्यो॒नम् । मे॒ । स॒ह । पत्या॑ । क॒रो॒मि॒ ॥

भट्टभास्कर-टीका

सन्नहन-प्रसङ्गादिहाम्नातोप्ययं मन्त्रः सामर्थ्यादुत्कृष्यते । वृणोति छादयतीति वरुणं वस्त्रम् । ‘कृवृतृदारिभ्य उनन्’ (उ.सू. 340) इत्युनन्प्रत्ययः । तस्य धारण-हेतुर् यः पाशस् तम् इमं योक्त्रं विष्यामि प्रमुञ्चामि । षोऽन्तकर्मणि, ‘उपसर्गात्सुनोति’ (पा.सू. 8.3.65) इत्यादिना षत्वम् । कीदृशं पाशं? - सविता सर्वस्य प्रेरकः यमबध्नीत बद्धवान् । बध्नाते(र्व्यत्ययेना)रात्मनेपदम् (पा.सू. 3.1.85) । सुकेतः सुज्ञानः । कित ज्ञाने, घञ्, ‘आद्युदात्तं द्व्यच्छन्दसि’ (पा.सू. 6.2.119) इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - अनेन योक्त्रविमोकेन मम वरुणपाशं तमोरूपं ईश्वरेण बद्धं विमुञ्चामि ।
किञ्च - धातुः प्रजापतेरपि योनौ स्थाने सुकृतस्य लोके शोभनकर्मसम्बन्धिनि लोके पत्या सह मे स्योनं सुखं करोमि, योक्त्रविमोकेन सम्यग्यज्ञनिष्पत्तेः । सुकृतशब्दोऽन्तोदात्तस्वरः ॥


भास्करोक्त-विनियोगः

सयोक्त्रे ऽञ्जलौ उद-पात्र आनीयमाने पत्नी गार्हपत्यम् उपतिष्ठते

विश्वास-प्रस्तुतिः ...{Loading}...

सम् आयु॑षा॒ सम् प्र॒जया॒
सम् अ॑ग्ने॒ वर्च॑सा॒ पुनः॑ ।
सम्पत्नी॒ पत्या॒ ऽहङ् ग॑च्छे॒
सम् आ॒त्मा त॒नुवा॒ मम॑ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

With life, with offspring,
O Agni, with splendour again,
As wife with my husband I am united.
United be my spirit with my body.

मूलम्

समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ ।
सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ ॥

पद-पाठः

समिति॑ । आयु॑षा । समिति॑ । प्र॒जयेति॑ प्र-जया॑ । समिति॑ । अ॒ग्ने॒ । वर्च॑सा । पुनः॑ ॥ समिति॑ । पत्नी॑ । पत्या॑ । अ॒हम् । ग॒च्छे॒ । समिति॑ । आ॒त्मा । त॒नुवा॑ । मम॑ ॥

भट्टभास्कर-टीका

9सयोक्त्रेऽञ्जलौ उदपात्र आनीयमाने पत्नी गार्हपत्यमुपतिष्ठते - समिति चतुष्पदयानुष्टुभा ॥ हे अग्ने गार्हपत्य, यदिदमुदपात्रेण योक्त्रं संगच्छते, तेनाहमायुषा तावत्संगच्छे संगता भूयासं । ‘आशंसायां भूतवच्च’ (पा.सू. 3.3.132) इति लट्, ‘समो गमृच्छिभ्याम्’ (पा.सू. 1.3.29) इत्यात्मनेपदम् । किञ्च - प्रजया अपत्येन वर्चसा बलेन च संगच्छे । पुनः उपर्युपरि ।
किञ्च - अहं पत्नी भूत्वा पत्या सह संगच्छे न वियोक्ष्ये ।
किञ्च - ममात्मा क्षेत्रज्ञस्तनुवा अविकलेन्द्रियेण शरीरेण संगच्च्छताम् । अनेन कर्मणा एतत्सर्वं ममास्त्विति । तनुवेति ‘तन्वादीनां छन्दसि बहुलम्’ (पा.सू. 6.4.77 वा 1) इत्युवङादेशः । ममेति ‘युष्मदस्मदोर्ङसि’ (पा.सू. 6.1.211) इत्याद्युदात्तत्वम् ॥


भास्करोक्त-विनियोगः

आज्यं निर्वपति

मूलम् (संयुक्तम्)

म॒ही॒नाम्पयो॒ऽस्योष॑धीनाँ॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ निः [17]व॒पा॒मि

महीनाम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(आज्य!)+++ म॒ही॒नाम् +++(गवां)+++ पयो॑ ऽसि ।
ओष॑धीनाँ॒ रसः॑।

Keith

Of the great ones thou art the milk,
of plants the sap.

मूलम्

म॒ही॒नाम्पयो॑ऽसि ।
ओष॑धीनाँ॒ रसः॑ +++(असि)+++ ।

पद-पाठः

म॒ही॒नाम् । पयः॑ । अ॒सि॒ । ओष॑धीनाम् । रसः॑ ।

भट्टभास्कर-टीका

10आज्यं निर्वपति - महीनामिति ॥ महीनां गवां पयोसि । पयसो घृतात्मना परिणतत्वात् कारणरूपेण घृतं व्यपदिश्यते । भवति हि विकारे प्रकृतिशब्दः, यथा ‘शालीन् भुङ्क्ते’ (पाभा 4.3.155 वा 2) इति ओदने शालिशब्दः । ‘ङ्याश्छन्दसि बहुलम्’ (पा.सू. 6.1.178) इति नामुदात्तः ।

किञ्च - ओषधीनां रसोसि रसभूतमसि, भक्षिततृणादिपरिणामत्वात्तस्य । दासीभारादित्वात् (पा.सू. 6.2.42) ओषधिशब्दस्य पूर्वपदप्रकृतिस्वरत्वम् । ‘नामन्यतरस्याम्’ (पा.सू. 6.1.177), इति वचनादत्र नाम उदात्तत्वं न भवति ।

विश्वास-प्रस्तुतिः

तस्य॑ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि ।

Keith

Of thee that art the imperishable I make the offering.

मूलम्

तस्य॑ तेऽक्षी॑यमाणस्य॒ निर्व॑पामि ।

पद-पाठः

तस्य॑ । ते॒ । अक्षी॑यमाणस्य । निरिति॑ । [17]
1 । व॒पा॒मि॒ ।

भट्टभास्कर-टीका

तस्यैतादृशस्य ते तव अक्षीयमाणस्य निर्वपामि आज्यराशेर्निष्कृष्य स्थाल्यां प्रक्षिपामि । यागार्थं हि निरुप्तम् अक्षय्यं सम्पद्यते अत एवम् उक्तम् । अव्यय-पूर्वपद-प्रकृति-स्वरत्वम् । अत्र ‘क्रियाग्रहणं च कर्तव्यम्’ (पा.भा. 1.4.32) इति घृतस्य संप्रदानत्वात्, ‘चतुर्थ्यर्थे बहुलं छन्दसि’ (पा.सू. 2.3.62) इति षष्ठी ॥

__

भास्करोक्त-विनियोगः

पत्नी आज्यमवेक्षते

महीनाम् ...{Loading}...
विश्वास-प्रस्तुतिः

+++(आज्य!)+++ म॒ही॒नाम् +++(गवां)+++ पयो॑ ऽसि ।
ओष॑धीनाँ॒ रसः॑।

Keith

Of the great ones thou art the milk,
of plants the sap.

मूलम्

म॒ही॒नाम्पयो॑ऽसि ।
ओष॑धीनाँ॒ रसः॑ +++(असि)+++ ।

पद-पाठः

म॒ही॒नाम् । पयः॑ । अ॒सि॒ । ओष॑धीनाम् । रसः॑ ।

भट्टभास्कर-टीका

10आज्यं निर्वपति - महीनामिति ॥ महीनां गवां पयोसि । पयसो घृतात्मना परिणतत्वात् कारणरूपेण घृतं व्यपदिश्यते । भवति हि विकारे प्रकृतिशब्दः, यथा ‘शालीन् भुङ्क्ते’ (पाभा 4.3.155 वा 2) इति ओदने शालिशब्दः । ‘ङ्याश्छन्दसि बहुलम्’ (पा.सू. 6.1.178) इति नामुदात्तः ।

किञ्च - ओषधीनां रसोसि रसभूतमसि, भक्षिततृणादिपरिणामत्वात्तस्य । दासीभारादित्वात् (पा.सू. 6.2.42) ओषधिशब्दस्य पूर्वपदप्रकृतिस्वरत्वम् । ‘नामन्यतरस्याम्’ (पा.सू. 6.1.177), इति वचनादत्र नाम उदात्तत्वं न भवति ।

मूलम् (संयुक्तम्)

म॒ही॒नाम्पयो॒ऽस्योष॑धीनाँ॒ रसः

भट्टभास्कर-टीका

11पत्नी आज्यमवेक्षते - महीनामिति ॥ रसान्तं व्याख्यातम् (तै.सं. 1.1.10)

विश्वास-प्रस्तुतिः

अद॑ब्धेन त्वा॒ चक्षु॒षा ऽवे॑क्षे सुप्रजा॒स्त्वाय॑ ।

Keith

with undeceived eye I gaze on thee
for fair offspring.

मूलम्

अद॑ब्धेन त्वा॒ चक्षु॒षाऽवे॑क्षे सुप्रजा॒स्त्वाय॑ ।

पद-पाठः

अद॑ब्धेन । त्वा॒ । चक्षु॑षा । अवेति॑ । ई॒क्षे॒ । सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः-त्वाय॑ ।

भट्टभास्कर-टीका

अदब्धेन तिमिरादिभिरनुपहतेन चक्षुषा त्वामवेक्षे पश्यामि, सुप्रजास्त्वाय शोभनापत्यत्वाय । ‘नित्यमसिच्प्रजामेधयोः’ (पा.सू. 5.4.122) इति समासान्तः । ‘अत्वसन्तस्य च’ (पा.सू. 6.4.14) इति विधीयमानं दीर्घत्वं व्यत्ययेन त्वेऽपि भवति ॥


भास्करोक्त-विनियोगः

गार्हपत्येधिश्रयति

विश्वास-प्रस्तुतिः

तेजो॑ ऽसि ।
+++(‘अमेध्यं वा एतत्करोति’ (तै.ब्रा. 3.3.4) इत्यादि ब्राह्मणम् ॥)+++

Keith

Thou art brilliance;

मूलम् (संयुक्तम्)

तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा विनै॑द॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव

मूलम्

तेजो॑ऽसि ।

पद-पाठः

तेजः॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

12गार्हपत्येधिश्रयति - तेजोसीति ॥ तेजः उज्ज्वलम् । असि एधि । पञ्चमलकारे रूपम् । ‘अमेध्यं वा एतत्करोति’ (तै.ब्रा. 3.3.4) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

आहरति

विश्वास-प्रस्तुतिः

+++(आहवनीय-)+++तेजो ऽनु॒ प्रेहि॑ ।

Keith

follow thou brilliance;

मूलम्

तेजोऽनु॒ प्रेहि॑ ।

पद-पाठः

तेजः॑ । अनु॑ । प्रेति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

13आहरति - तेज इति ॥ ते तव आहवनीयाख्यं तेजोनुप्रेहि अनुक्रमेण गच्छ ॥


भास्करोक्त-विनियोगः

आहवनीयेऽधिश्रयति

विश्वास-प्रस्तुतिः

अ॒ग्निस् ते॒ तेजो॒ मा विनै॑त्+++(=विनैषीत्)+++ ।

Keith

may Agni not take away the brilliance.

मूलम्

अ॒ग्निस्ते॒ तेजो॒ मा विनै॑त् ।

पद-पाठः

अ॒ग्निः । ते॒ । तेजः॑ । मा । वीति॑ । नै॒त् ।

भट्टभास्कर-टीका

14आहवनीयेऽधिश्रयति - अग्निरिति ॥ ते तव तेजः औज्ज्वल्यं अग्निः मा विनैत् मा विनैषीत् । माङि नयतेर्लुङि, ‘बहुलं छन्दसि’ (पा.सू. 7.3.97) इतीडभावे, सिचि वृद्धौ, ‘स्कोस्संयोगाद्द्योरन्ते च’ (पा.सू. 8.2.29) इति सलोपः ॥


भास्करोक्त-विनियोगः

आज्यम् अवेक्षते

विश्वास-प्रस्तुतिः

अ॒ग्नेर् जि॒ह्वा ऽसि॑ ।
सु॒भूर् दे॒वाना॒न्,
धाम्ने॑धाम्ने+++(=धारणेधारणे)+++ दे॒वेभ्यो॒ यजु॑षेयजुषे भव ।

Keith

Thou art the tongue of Agni,
the good one of the gods.
Be thou (good) for every sacrifice, for the gods, for every prayer.

मूलम्

अ॒ग्नेर्जि॒ह्वाऽसि॑ ।
सु॒भूर् दे॒वाना॒न्, धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव ।

पद-पाठः

अ॒ग्नेः । जि॒ह्वा । अ॒सि॒ । सु॒भूरिति॑ सु-भूः । दे॒वाना॑म् । धाम्ने॑धाम्न॒ इति॒ धाम्ने॑-धा॒म्ने॒ । दे॒वेभ्यः॑ । यजु॑षेयजुष॒ इति॒ यजु॑षे-य॒जु॒षे॒ । भ॒व॒ ।

भट्टभास्कर-टीका

15आज्यमवेक्षते - अग्नेरिति ॥ अग्नेस्त्वं जिह्वासि, जिह्वास्थानीयज्वालाहेतुत्वात् । सुभूः सुष्ठु भूतं जातं सर्वोत्कर्षेणोत्पन्नम् । देवानां स्वभूतं, देवार्थं वा जातम् । यस्मात्त्वमीदृशं, तस्माद्देवेभ्यः देवानाम् । षष्ठ्यर्थे चतुर्थी (पा.सू. 2.3.62 वा 1) । देवार्थं वा ।

धाम्नेधाम्ने सर्वस्मै धारणाय । ‘अनुदात्तं च’ (पा.सू. 8.1.3) इति द्वितीयस्याम्रेडितस्य अनुदात्तत्वम् । यथायथं स्वस्वपदस्थितये देवानां प्रभूतं भव । तदर्थं यजुषेयजुषे भव पर्याप्तं सम्भव । पूर्वपदाम्रेडितस्यानुदात्तत्वम् ।

‘शुक्रं त्वा शुक्रायाम्’ इत्यादिना येन येन यजुषा पुनर्ग्रहीष्यते, येन चावद्यते, तस्मै सर्वस्मै यजुषे प्रभूतं भव । यदि च यजुषेयजुषे प्रभवेत्, ततो धाम्नेधाम्ने प्रभवतीति भावः । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि’ (तै.ब्रा. 3.3.5) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

उत्पुनाति

विश्वास-प्रस्तुतिः

शु॒क्रम्+++(=शुद्धम्)+++ अ॑सि ।
ज्योति॑र् असि ।
तेजो॑ऽसि ।

Keith

Thou art the shining, the radiance, the brilliance.

मूलम् (संयुक्तम्)

शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि

मूलम्

शु॒क्रम॑सि ।
ज्योति॑रसि ।
तेजो॑ऽसि ।

पद-पाठः

शु॒क्रम् । अ॒सि॒ । ज्योतिः॑ । अ॒सि॒ । तेजः॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

16उत्पुनाति - शुक्रमिति ॥ शुक्रं शुद्धं पूर्वमेवासि । यद्वा - शुक्रं भव । पञ्चमो लकारः ।

ज्योतिरसि दीप्तमसि ।

तेजोसि तेजनं दीपनं देवानामसि । ‘तद्वा अतः पवित्राभ्याम्’ (तै.ब्रा. 3.3.4) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

प्रोक्षणीरुत्पुनाति

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वो व॑स् सवि॒तोत्पु॑ना॒त्व्
अच्छि॑द्रेण प॒वित्रे॑ण +++(सूर्येण)+++ ।
वसो॒स्+++(=वासहेतोः)+++ सूर्य॑स्य र॒श्मिभिः॑ ॥+++(५)+++

+++(‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।)+++

देवो वस् सविता ...{Loading}...
Keith

Let the god Savitr purify you,
with a filter that has no flaw,
with the rays of the bright sun.

मूलम्

दे॒वो व॑स्सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण ।
वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥

पद-पाठः

दे॒वः । वः॒ । स॒वि॒ता । उदिति॑ । पु॒ना॒तु॒ । अच्छि॑द्रेण । प॒वित्रे॑ण । वसोः॑ । सूर्य॑स्य । र॒श्मिभि॒रिति॑ र॒श्मि-भिः॒ ।

भट्टभास्कर-टीका

हे आपः देवस्सविता सर्वस्य प्रेरकः, वः युष्मान् उत्पुनातु ऊर्ध्वं शोधयतु ।

अच्छिद्रेण ...{Loading}...

अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन;
छिन्नं छिद्रम्, अतोन्यद् अच्छिद्रं अविच्छेदेन वर्तमानं । अव्यय-पूर्व-पद-प्रकृति-स्वरत्वं । ‘पुवस्संज्ञायाम्’ (पा.सू. 3.2.185) इति पुनातेरित्रप्रत्ययः । ‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।

वसोर् जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धि-हेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, (उ.सू. 10) स च नित् ।

भट्टभास्कर-टीका

17प्रोक्षणीरुत्पुनाति - देव इति गायत्र्या त्रिपदया ॥
सा च व्याख्याता (तै.सं. 1.1.5)

‘अथाज्यवतीभ्याम्’ (तै.ब्रा. 3.3.4) इत्यादि ब्राह्मणम् । ‘तत्रोभयोर्मीमाँसा’ (तै.ब्रा. 3.3.4) इत्यादि च ॥


भास्करोक्त-विनियोगः

जुह्वाम् आज्यं गृह्णाति

विश्वास-प्रस्तुतिः

+++(आघारार्थत्वात्, प्रयाजार्थत्वाच् च ‘धाम्नेधाम्ने’ इत्याद्युपपद्यते ।)+++
शु॒क्रन्+++(=शुद्धं)+++ त्वा॑ शु॒क्राया॑म् +++(जुह्वां, सर्व॒त्वाय॒)+++ …

Keith

I grasp thee shining in the shining,

मूलम् (संयुक्तम्)

शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ [18]

मूलम्

शु॒क्रन्त्वा॑ शु॒क्राया॑न् …

पद-पाठः

शु॒क्रम् । त्वा॒ । शु॒क्राया॑म् ।

भट्टभास्कर-टीका

18जुह्वामाज्यं गृह्णाति - शुक्रमिति ॥ शुक्रं शुद्धं त्वां शुक्रायां शुद्धायां जुह्वां गृह्णामि । शिष्टं व्याख्यातम् ।

आघारार्थत्वात्, प्रयाजार्थत्वाच्च ‘धाम्नेधाम्ने’ इत्याद्युपपद्यते । एवमुपभृद्ध्रुवयोरपि वेदितव्यम्॥

धाम्ने धाम्ने ...{Loading}...
विश्वास-प्रस्तुतिः

… धाम्ने॑धाम्ने+++(=धारणेधारणे)+++ दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

Keith

for every sacrifice, for the gods, for every prayer.

मूलम्

धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

पद-पाठः

धाम्ने॑धाम्न॒ इति॒ धाम्ने॑-धा॒म्ने॒ । दे॒वेभ्यः॑ । यजु॑षेयजुष॒ इति॒ यजु॑षे-य॒जु॒षे॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका
  • [धाम्नेधाम्ने सर्वस्मै धारणाय । ‘अनुदात्तं च’ (पा.सू. 8.1.3) इति द्वितीयस्याम्रेडितस्य अनुदात्तत्वम् । यथायथं स्वस्वपदस्थितये देवानां प्रभूतं भव । तदर्थं यजुषेयजुषे भव पर्याप्तं सम्भव । पूर्वपदाम्रेडितस्यानुदात्तत्वम् । … यदि च यजुषेयजुषे प्रभवेत्, ततो धाम्नेधाम्ने प्रभवतीति भावः । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि’ (तै.ब्रा. 3.3.5) इत्यादि ब्राह्मणम् ॥]
``

भास्करोक्त-विनियोगः

उपभृति गृह्णाति

विश्वास-प्रस्तुतिः

ज्योति॑स् त्वा॒ ज्योति॑षि +++(उपभृति पर्या॑प्त्या॒)+++…

Keith

I grasp thee shining in the shining,

मूलम्

ज्योति॑स्त्वा॒ ज्योति॑षि

पद-पाठः

ज्योतिः॑ । त्वा॒ । ज्योति॑षि ।

भट्टभास्कर-टीका

19उपभृति गृह्णाति - ज्योतिरिति ॥ ज्योतिः दीप्तं त्वां, ज्योतिषि दीप्तायामुपभृति गृह्णामि । ‘धाम्नेधाम्ने’ इत्यनुषज्यते ॥

Keith

I grasp thee radiance in the radiance,

धाम्ने धाम्ने ...{Loading}...
विश्वास-प्रस्तुतिः

… धाम्ने॑धाम्ने+++(=धारणेधारणे)+++ दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

Keith

for every sacrifice, for the gods, for every prayer.

मूलम्

धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

पद-पाठः

धाम्ने॑धाम्न॒ इति॒ धाम्ने॑-धा॒म्ने॒ । दे॒वेभ्यः॑ । यजु॑षेयजुष॒ इति॒ यजु॑षे-य॒जु॒षे॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका
  • [धाम्नेधाम्ने सर्वस्मै धारणाय । ‘अनुदात्तं च’ (पा.सू. 8.1.3) इति द्वितीयस्याम्रेडितस्य अनुदात्तत्वम् । यथायथं स्वस्वपदस्थितये देवानां प्रभूतं भव । तदर्थं यजुषेयजुषे भव पर्याप्तं सम्भव । पूर्वपदाम्रेडितस्यानुदात्तत्वम् । … यदि च यजुषेयजुषे प्रभवेत्, ततो धाम्नेधाम्ने प्रभवतीति भावः । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि’ (तै.ब्रा. 3.3.5) इत्यादि ब्राह्मणम् ॥]
``

भास्करोक्त-विनियोगः

ध्रुवायां गृह्णाति

विश्वास-प्रस्तुतिः

अ॒र्चिस् त्वा॒ ऽर्चिषि॑ +++(ध्रुवायाम्, अन॑न्तरायाय)+++

Keith

I grasp thee resplendent in the resplendence

मूलम्

अ॒र्चिस्त्वा॒ऽर्चिषि॑

पद-पाठः

अ॒र्चिः । त्वा॒ । अ॒र्चिषि॑ ।

भट्टभास्कर-टीका

20ध्रुवायां गृह्णाति - अर्चिरिति ॥ अर्चिषो हेतुत्वादर्चिश्शब्देनोच्यते । तादृशं त्वां अर्चिषि देवानामर्चनसाधने ध्रुवायां गृह्णामि । शिष्टं स्पष्टम् (तै.सं. 1.1.10) ॥

धाम्ने धाम्ने ...{Loading}...
विश्वास-प्रस्तुतिः

… धाम्ने॑धाम्ने+++(=धारणेधारणे)+++ दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

Keith

for every sacrifice, for the gods, for every prayer.

मूलम्

धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि।

पद-पाठः

धाम्ने॑धाम्न॒ इति॒ धाम्ने॑-धा॒म्ने॒ । दे॒वेभ्यः॑ । यजु॑षेयजुष॒ इति॒ यजु॑षे-य॒जु॒षे॒ । गृ॒ह्णा॒मि॒ ।

भट्टभास्कर-टीका
  • [धाम्नेधाम्ने सर्वस्मै धारणाय । ‘अनुदात्तं च’ (पा.सू. 8.1.3) इति द्वितीयस्याम्रेडितस्य अनुदात्तत्वम् । यथायथं स्वस्वपदस्थितये देवानां प्रभूतं भव । तदर्थं यजुषेयजुषे भव पर्याप्तं सम्भव । पूर्वपदाम्रेडितस्यानुदात्तत्वम् । … यदि च यजुषेयजुषे प्रभवेत्, ततो धाम्नेधाम्ने प्रभवतीति भावः । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि’ (तै.ब्रा. 3.3.5) इत्यादि ब्राह्मणम् ॥]
``

इति दशमोनुवाकः