०७ कपालोपधानम् ...{Loading}...
१२ अनुष्टुप् । प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
1धृष्टिमादत्ते - धृष्टिरिति ॥
विश्वास-प्रस्तुतिः
+++(हे उपवेष!)+++ धृष्टि॑र् असि॒, ब्रह्म॑ यच्छ ।
Keith
Bold art thou, support our prayer.
मूलम्
धृष्टि॑रसि॒ ब्रह्म॑ यच्छ ।
पद-पाठः
धृष्टिः॑ । अ॒सि॒ । ब्रह्म॑ । य॒च्छ॒ ।
भट्टभास्कर-टीका
धृष्टिरुपवेषः । धृष्टिर्धर्षणे समर्थासि शत्रूणाम् । अतो ब्रह्म हविर्लक्षणमन्नं यच्छ देहि । किं हि नाम त्वया न शक्यते कर्तुमिति ॥
भास्करोक्त-विनियोगः
2गार्हपत्यमभिमन्त्रयते - अपेति ॥
विश्वास-प्रस्तुतिः
अपा॑ ऽग्ने॒, ऽग्निम् आ॒मा+++(=अपक्वा)+++-द॑ञ् जहि +++(, पक्वादं रक्ष)+++ ।
Keith
O Agni, drive off the fire that eats raw flesh,
मूलम्
अपा॑ऽग्ने॒ऽग्निमा॒माद॑ञ्जहि ।
पद-पाठः
अपेति॑ । अ॒ग्ने॒ । अ॒ग्निम् । आ॒माद॒मित्या॑म-अद॑म् । ज॒हि॒ ।
भट्टभास्कर-टीका
हे अग्ने गार्हपत्य यस्त्वयि आमात् अग्निः तं जहि नाशय । आमात् अपक्वाशी हविषो विनाशकः । ‘अदोऽनन्ने’ (पा.सू. 3.2.68) इति विट्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) ॥
भास्करोक्त-विनियोगः
3अङ्गारं निरस्यति - निरिति ॥
विश्वास-प्रस्तुतिः
निष् क्र॒व्यादँ॑ से॒ध+++(=गमय)+++ ।
Keith
send away the corpse-eating one
मूलम्
निष्क्र॒व्यादँ॑ से॒ध ।
पद-पाठः
निरिति॑ । क्र॒व्याद॒मिति॑ क्रव्य-अद॑म् । से॒ध॒ ।
भट्टभास्कर-टीका
क्रव्यादं अग्निं निस्सेध निष्कृष्य बहिरपनय । षिधू गत्यां, भौवादिकः । आममांसभक्षकः क्रव्यात् चिताग्निः । ‘क्रव्ये च’ (पा.सू. 3.2.69) इति विट्प्रत्ययः, पूर्वपदप्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
4अङ्गारम् अन्यम् आवर्तयति – एति +++(आ इति इति च्छेदः)+++ ॥
विश्वास-प्रस्तुतिः
आ दे॑व॒यजव्ँ॑ वह ।
Keith
bring hither the fire that sacrifices to the gods.
मूलम्
आ दे॑व॒यजव्ँ॑वह ।
पद-पाठः
एति॑ । दे॒व॒यज॒मिति॑ देव-यज॑म् । व॒ह॒ ।
भट्टभास्कर-टीका
देवान् यजतीति देवयट्, हविषां सम्यक्सम्पादकः । ‘अन्येभ्योपि दृश्यते’ (पा.सू. 3.2.178) इति क्विप्प्रत्ययः । स एव प्रकृतिस्वरः । देवयजं अग्निम् आवह आनय । ‘य एवामात्क्रव्यात्’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
5अङ्गारमधिवर्तयति - निर्दग्धमिति ॥
विश्वास-प्रस्तुतिः
निर्द॑ग्धँ॒ रक्षो॒,
निर्द॑ग्धा॒ अरा॑तयः ।
Keith
The Raksas is burnt, the evil spirits are burnt.
मूलम्
निर्द॑ग्धँ॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयः ।
पद-पाठः
निर्द॑ग्ध॒मिति॒ निः-द॒ग्ध॒म् । रक्षः॑ । निर्द॑ग्धा॒ इति॒ निः-द॒ग्धाः॒ । अरा॑तयः ।
भट्टभास्कर-टीका
प्रत्युष्टादिना व्याख्यातम् (तै.सं. 1.1.2) ।
‘अग्निवत्युपदधाति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ॥
रक्षोऽराती ...{Loading}...
रक्षेर् असुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा ।
रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥
भास्करोक्त-विनियोगः
6मध्यमं कपालमुपदधाति - ध्रुवमिति ॥
विश्वास-प्रस्तुतिः
+++(पुरोडाशस्य)+++ ध्रु॒वम् अ॑सि ।
पृ॒थि॒वीन् दृँ॑ह।
आयु॑र् दृँह ।
प्र॒जान् दृँ॑ह ।
Keith
Thou art firm; make firm the earth, make life firm, make offspring firm,
मूलम् (संयुक्तम्)
ध्रु॒वम॑सि पृथि॒वीन्दृँ॒हायु॑र्दृँह प्र॒जान्दृँ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह
मूलम्
ध्रु॒वम् अ॑सि ।
पृ॒थि॒वीन् दृँ॑ह।
आयु॑र् दृँह ।
प्र॒जान् दृँ॑ह ।
पद-पाठः
ध्रु॒वम् । अ॒सि॒ । पृ॒थि॒वीम् । दृँ॒ह॒ । आयुः॑ । दृँ॒ह॒ । प्र॒जामिति॑ प्र-जाम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
ध्रुवं निश्चलं मध्यमं सर्वकपालानामसि । सर्वं तद्वत् ।
पृथिवीं दृंह दृढां कुरु । दृह दृहि वृद्धौ, अन्तर्भावितण्यर्थः । पृथिवीशब्दो ङीषन्तोऽन्तोदात्तः ।
यजमानस्यायुः प्रजां च दृंह । प्रजाशब्दः कृदुत्तरप्रकृतिस्वरेण (पा.सू. 6.2.139) अन्तोदात्तः ।
सजातान् अस्मै ...{Loading}...
विश्वास-प्रस्तुतिः
सजा॒तान् अ॒स्मै यज॑मानाय॒ पर्यू॑ह ।
+++(‘सजातान् अस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ।)+++
Keith
make his follows subordinate to this sacrificer.
मूलम्
सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ।
पद-पाठः
स॒जा॒तानिति॑ स-जा॒तान् । अ॒स्मै । यज॑मानाय । परीति॑ । ऊ॒ह॒ ।
भट्टभास्कर-टीका
किञ्च अस्मै यजमानाय । षष्ठ्यर्थे चतुर्थ्यौ (पा.सू. 2.3.62 वा 1) । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ‘सजातानस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् । ‘समानस्य छन्दसि’ (पा.सू. 6.3.84) इत्यादिना सभावः । ‘वा जाते’ (पा.सू. 6.2.171) इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अस्मा इति विभक्तेरुदात्तत्वम् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.176) यजमाने धातुस्वरः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ (पा.सू. 1.3.29 वा 3) इत्यूह्यतेः परस्मैपदत्वम् ॥
भास्करोक्त-विनियोगः
7पूर्वार्धमुपदधाति - धर्त्रमिति ॥
विश्वास-प्रस्तुतिः
+++(पुरोडाशस्य)+++ ध॒र्त्रम्+++(=धारकम्)+++ अ॑सि ।
अ॒न्तरि॑क्षन् दृँह ।
प्रा॒णन् दृँ॑ह ।
अपा॒नन् दृँ॑ह ।
Keith
Thou art a supporter, make firm the atmosphere, make expiration firm, make inspiration firm
मूलम् (संयुक्तम्)
ध॒र्त्रम॑स्य॒न्तरि॑क्षन्दृँह प्रा॒णन्दृँ॑हापा॒नन्दृँ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह
मूलम्
ध॒र्त्रम॑सि ।
अ॒न्तरि॑क्षन्दृँह ।
प्रा॒णन्दृँ॑ह ।
अपा॒नन्दृँ॑ह ।
पद-पाठः
ध॒र्त्रम् । अ॒सि॒ । अ॒न्तरि॑क्षम् । दृँ॒ह॒ । प्रा॒णमिति॑ प्र-अ॒नम् । दृँ॒ह॒ । अ॒पा॒नमित्य॑प-अ॒नम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
धर्त्रं धारकं पुरस्तात्पुरोडाशस्यासि । ‘धृञ् धारणे’, ‘गुधृविपचि’ (उ.सू. 606) इत्यादिना त्रप्रत्ययः । अन्तरिक्षादिकं दृंह निश्चलं धारय ।
- [दृंह दृढां कुरु । दृह दृहि वृद्धौ, अन्तर्भावितण्यर्थः]
प्राणापानशब्दौ थाथादिस्वरेण (पा.सू. 6.2.144) अन्तोदात्तौ । समानमन्यत् ॥
सजातान् अस्मै ...{Loading}...
विश्वास-प्रस्तुतिः
सजा॒तान् अ॒स्मै यज॑मानाय॒ पर्यू॑ह ।
+++(‘सजातान् अस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ।)+++
Keith
make his follows subordinate to this sacrificer.
मूलम्
सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ।
पद-पाठः
स॒जा॒तानिति॑ स-जा॒तान् । अ॒स्मै । यज॑मानाय । परीति॑ । ऊ॒ह॒ ।
भट्टभास्कर-टीका
किञ्च अस्मै यजमानाय । षष्ठ्यर्थे चतुर्थ्यौ (पा.सू. 2.3.62 वा 1) । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ‘सजातानस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् । ‘समानस्य छन्दसि’ (पा.सू. 6.3.84) इत्यादिना सभावः । ‘वा जाते’ (पा.सू. 6.2.171) इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अस्मा इति विभक्तेरुदात्तत्वम् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.176) यजमाने धातुस्वरः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ (पा.सू. 1.3.29 वा 3) इत्यूह्यतेः परस्मैपदत्वम् ॥
भास्करोक्त-विनियोगः
8अपरार्धमुपदधाति - धरुणमिति ॥
विश्वास-प्रस्तुतिः
+++(पुरोडाशस्य)+++ ध॒रुण॑म्+++(=धारकम्)+++ असि ।
दिव॑न् दृँह ।
चक्षु॑र् दृँह ।
श्रोत्र॑न् दृँह ।
Keith
Thou are supporting, make the heaven firm, make the eye [1] firm, make the ear firm,
मूलम् (संयुक्तम्)
ध॒रुण॑मसि॒ दिव॑न्दृँह॒ चक्षुः॑ [10]दृँ॒ह॒ श्रोत्र॑न्दृँह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह
मूलम्
ध॒रुण॑मसि ।
दिव॑न्दृँह ।
चक्षु॑र्दृँह ।
श्रोत्र॑न्दृँह ।
पद-पाठः
ध॒रुण॑म् । अ॒सि॒ । दिव॑म् । दृँ॒ह॒ । चक्षुः॑ । दृँ॒ह॒ । श्रोत्र॑म् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
धरुणं धारकं अपरतः पुरोडाशस्यासि । ‘धारेर्णिलुक्च’ इति उनन्प्रत्ययः । तत्त्वं द्युप्रभृतीनि दृंह । समानमन्यत् ।
- [दृंह दृढां कुरु । दृह दृहि वृद्धौ, अन्तर्भावितण्यर्थः]
सजातान् अस्मै ...{Loading}...
विश्वास-प्रस्तुतिः
सजा॒तान् अ॒स्मै यज॑मानाय॒ पर्यू॑ह ।
+++(‘सजातान् अस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ।)+++
Keith
make his follows subordinate to this sacrificer.
मूलम्
सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ।
पद-पाठः
स॒जा॒तानिति॑ स-जा॒तान् । अ॒स्मै । यज॑मानाय । परीति॑ । ऊ॒ह॒ ।
भट्टभास्कर-टीका
किञ्च अस्मै यजमानाय । षष्ठ्यर्थे चतुर्थ्यौ (पा.सू. 2.3.62 वा 1) । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ‘सजातानस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् । ‘समानस्य छन्दसि’ (पा.सू. 6.3.84) इत्यादिना सभावः । ‘वा जाते’ (पा.सू. 6.2.171) इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अस्मा इति विभक्तेरुदात्तत्वम् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.176) यजमाने धातुस्वरः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ (पा.सू. 1.3.29 वा 3) इत्यूह्यतेः परस्मैपदत्वम् ॥
भास्करोक्त-विनियोगः
9दक्षिणार्धमुपदधाति - धर्मेति ॥
विश्वास-प्रस्तुतिः
धर्मा॑+++(=धारकम्)+++ ऽसि ।
दिशो॑ दृँह ।
योनि॑न् दृँह।
प्र॒जान् दृँ॑ह ।
Keith
Thou art a support, make the quarters firm, make the organ firm, make offspring firm,
मूलम् (संयुक्तम्)
धर्मा॑ऽसि॒ दिशो॑ दृँह॒ योनि॑न्दृँह प्र॒जान्दृँ॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह-
मूलम्
धर्मा॑ऽसि ।
दिशो॑ दृँह ।
योनि॑न्दृँह।
प्र॒जान्दृँ॑ह ।
पद-पाठः
धर्म॑ । अ॒सि॒ । दिशः॑ । दृँ॒ह॒ । योनि॑म् । दृँ॒ह॒ । प्र॒जामिति॑ प्र-जाम् । दृँ॒ह॒ ।
भट्टभास्कर-टीका
धर्म धारकं दक्षिणतः पुरोडाशस्यासि । ध्रिञो मनिन् । अत्र तु प्रजननशक्तिः प्रजा ॥
- [दृंह दृढां कुरु । दृह दृहि वृद्धौ, अन्तर्भावितण्यर्थः]
सजातान् अस्मै ...{Loading}...
विश्वास-प्रस्तुतिः
सजा॒तान् अ॒स्मै यज॑मानाय॒ पर्यू॑ह ।
+++(‘सजातान् अस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ।)+++
Keith
make his follows subordinate to this sacrificer.
मूलम्
सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ।
पद-पाठः
स॒जा॒तानिति॑ स-जा॒तान् । अ॒स्मै । यज॑मानाय । परीति॑ । ऊ॒ह॒ ।
भट्टभास्कर-टीका
किञ्च अस्मै यजमानाय । षष्ठ्यर्थे चतुर्थ्यौ (पा.सू. 2.3.62 वा 1) । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ‘सजातानस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् । ‘समानस्य छन्दसि’ (पा.सू. 6.3.84) इत्यादिना सभावः । ‘वा जाते’ (पा.सू. 6.2.171) इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अस्मा इति विभक्तेरुदात्तत्वम् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.176) यजमाने धातुस्वरः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ (पा.सू. 1.3.29 वा 3) इत्यूह्यतेः परस्मैपदत्वम् ॥
भास्करोक्त-विनियोगः
10अन्यान्य् उपदधाति - चित इति ॥
विश्वास-प्रस्तुतिः
चित॑स् स्थ ।
+++(प्रत्येकमभिधानादेकवचनम्)+++
प्र॒जाम् अ॒स्मै [यज॑मानाय॒ पर्यू॑ह ] ।
र॒यिम् अ॒स्मै [यज॑मानाय॒ पर्यू॑ह ] ।
Keith
Ye are gatherers, bring offspring to this sacrificer, wealth to him,
मूलम् (संयुक्तम्)
चित॑स्स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह
मूलम्
चित॑स्स्थ ।
प्र॒जाम् अ॒स्मै [यज॑मानाय॒ पर्यू॑ह ] ।
र॒यिम् अ॒स्मै [यज॑मानाय॒ पर्यू॑ह ] ।
पद-पाठः
चितः॑ । स्थ॒ । प्र॒जामिति॑ प्र-जाम् । अ॒स्मै । र॒यिम् । अ॒स्मै ।
भट्टभास्कर-टीका
चीयन्ते उपचीयन्ते इति चितः चितयः । यस्माच्चितः स्थ, तस्मादस्य यजमानस्य प्रजार्थं पर्यूहत परितश्चिनुत । प्रत्येकमभिधानादेकवचनम् । शिष्टं स्पष्टम् ॥
सजातान् अस्मै ...{Loading}...
विश्वास-प्रस्तुतिः
सजा॒तान् अ॒स्मै यज॑मानाय॒ पर्यू॑ह ।
+++(‘सजातान् अस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ।)+++
Keith
make his follows subordinate to this sacrificer.
मूलम्
सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ।
पद-पाठः
स॒जा॒तानिति॑ स-जा॒तान् । अ॒स्मै । यज॑मानाय । परीति॑ । ऊ॒ह॒ ।
भट्टभास्कर-टीका
किञ्च अस्मै यजमानाय । षष्ठ्यर्थे चतुर्थ्यौ (पा.सू. 2.3.62 वा 1) । अस्य यजमानस्य सजातान् समानजन्मनः पर्यूह परितस्सेवमानान् कुरु । ‘सजातानस्मा अभितो बहुलान् करोति’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् । ‘समानस्य छन्दसि’ (पा.सू. 6.3.84) इत्यादिना सभावः । ‘वा जाते’ (पा.सू. 6.2.171) इत्युत्तरपदान्तोदात्तत्वम् । जात्यादिग्रहणं नानुवर्तिष्यते । ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना अस्मा इति विभक्तेरुदात्तत्वम् । लसार्वधातुकानुदात्तत्वे (पा.सू. 6.1.176) यजमाने धातुस्वरः । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ (पा.सू. 1.3.29 वा 3) इत्यूह्यतेः परस्मैपदत्वम् ॥
भास्करोक्त-विनियोगः
11अङ्गारैरभिवासयति - भृगूणामिति ॥
विश्वास-प्रस्तुतिः
भृगू॑णा॒म् अङ्गि॑रसा॒न् तप॑सा तप्यध्वम् ।
Keith
Be ye heated with the heat of the Bhrgus and the Angirases.
मूलम्
भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यध्वम् ।
पद-पाठः
भृगू॑णाम् । अङ्गि॑रसाम् । तप॑सा । त॒प्य॒ध्व॒म् ।
भट्टभास्कर-टीका
भृगवोङ्गिरसश्च तपस्विनः प्रसिद्धाः । तेषां तपसा तप्यध्वं तप्तानि भवत । कर्मणि लकारः । ‘देवतानामेव’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
12कपालानि विमुञ्चति - यानीति ॥ इष्टिसंस्थानकालभाविनोपि विमोकमन्त्रस्य प्रासङ्गिकमिहाम्नानम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
यानि॑ घ॒र्मे क॒पाला॑न्य्
उपचि॒न्वन्ति॑ वे॒धसः॑+++(=अध्वर्यवः)+++ ।
पू॒ष्णस् तान्य् अपि॑ +++(श्रपण-)+++व्र॒त+++(य् समाप्ते)+++
इ॑न्द्र-वा॒यू वि मु॑ञ्चताम् ॥ [11]
यानि घर्मे ...{Loading}...
Keith
The potsherds which wise men collect for the cauldron,
these are in Pusan’s guardianship.
Let Indra and Vayu set them free.
The potsherds for the cauldron [3],
Which wise men collect,
These are in Pusan’s guardianship;
Indra and Vayu set them free.
मूलम्
यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धसः॑ ।
पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥ [11]
पद-पाठः
यानि॑ । घ॒र्मे । क॒पाला॑नि । उ॒प॒चि॒न्वन्तीत्यु॑प-चि॒न्वन्ति॑ । वे॒धसः॑ ॥ पू॒ष्णः । तानि॑ । अपीति॑ । व्र॒ते । इ॒न्द्र॒वा॒यू इती॑न्द्र-वा॒यू । वीति॑ । मु॒ञ्च॒ता॒म् ॥
भट्टभास्कर-टीका
इयं चतुष्पदानुष्टुप् ; यणादेशाकरणेन प्रथमतृतीयौ पूरणीयौ । विधायको वेधाः अध्वर्युः । विध विधाने, असुन्प्रत्ययः (उ.सू. 664) । उञ्छादित्वात् (पा.सू. 6.1.160) अन्तोदात्तः, व्यत्ययेन बहुवचनम्, एको ह्यध्वर्युरुपदधाति ।
यानि कपालानि घर्मे अङ्गारे वेधसः उपचिन्वन्ति उपहितवन्तः । वर्तमानसामीप्ये लट् (पा.सू. 3.3.131) ।
तानि कपालानि इन्द्रवायू विमुञ्चताम्; ध्रुवमसीत्यादिमन्त्रैरुपहितानां तावेव विमोचकाविति भावः ।
‘नोत्तरपदेनुदात्तादौ’ (पा.सू. 6.2.142) इत्युभयपदप्रकृतिस्वरत्वे निषिद्धे समासान्तोदात्तत्वम् । किमुपधानं विमोकार्थं ? इत्यत आह - पूष्णः पोषकस्याग्नेः । उदात्तनिवृत्तिस्वरेण (पा.सू. 6.1.161) विभक्तेरुदात्तत्वम् ।
तस्य व्रते हविश्श्रपणलक्षणे कर्मणि अपीते समाप्ते इदानीं विमुञ्चतामिति ।
‘सं ते मनसा मनः’ (तै.सं. 1.3.10) इत्यादिवदपीत्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते ।
उपचिन्वन्तीत्यत्र ‘सतिशिष्टेपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते’ इति वचनाल्लसार्वधातुकाद्युदात्तत्वम् । ‘चतुष्पदयर्चा’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ॥
यानि कपालानि घर्मे अग्नौ वेधसो ऽध्वर्यवः उपचिन्वन्ति उपदधति तानि पूष्णः पुष्टिकारणस्याग्नेर् व्रते कर्मणि अपीते समाप्ते । इदानीम् इन्द्रवायू विमुञ्चताम्; न ह्य् अन्यस्तानि विमोक्तुं शक्नोतीति ॥
सायण-टीका
कल्पः — “उभौ कपालविमोचनं जपतः” इति। उभावप्यध्वर्युयजमानौ।
मन्त्रपाठस्तु -
यानि घर्म इति। अयं मन्त्रोऽप्यध्वर्युकाण्ड आम्नातत्वात्प्रथमप्रपाठके व्याख्यातः। वेधसो ब्रह्मसमाः पूष्णः पोषका ऋत्विजो यानि कपालानि वह्ना वुपस्थापयन्ति तानि सर्वाण्यपि व्रते समाप्ते सतीन्द्रवायू विमुञ्चताम्।
इति सप्तमोनुवाकः