०६ व्रीहिपेषणम्

०६ व्रीहिपेषणम् ...{Loading}...

१० एकपदा त्रिष्टुप् प्रजापतिर्ऋषिः


अवधूतम् ...{Loading}...
भास्करोक्त-विनियोगः

कृष्णाजिनम् अवधूनोति

विश्वास-प्रस्तुतिः

अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑त॒यः ।

Keith

The Raksas is shaken off, the evil spirits are shaken off.

मूलम्

अव॑धूतँ॒ रक्षोऽव॑धूता॒ अरा॑त॒यः ।

पद-पाठः

अव॑धूत॒मित्यव॑-धू॒त॒म् । रक्षः॑ । अव॑धूता॒ इत्यव॑-धू॒ताः॒ । अरा॑तयः ।

भट्टभास्कर-टीका

6कृष्णाजिनमवधूनोति - अवधूतमिति यजुरादिकयैकपदया गायत्र्या ॥ अवधूतं विनाशितम् । शिष्टं व्यख्यातं प्रत्युष्टादि मन्त्रेण (तै.सं. 1.1.2) । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ॥

रक्षोऽराती ...{Loading}...

रक्षेर् असुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा ।

रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥


भास्करोक्त-विनियोगः

कृष्णाजिनम् अवस्तृणाति

विश्वास-प्रस्तुतिः

अदि॑त्या॒स् त्वग॑सि ।
प्रति॑ +++(तादृशीं)+++ त्वा॒+++(ं)+++ पृ॒थि॒वी +++(स्वस्या उपरि)+++ वे॑त्तु ।

Keith

Thou art the skin of Aditi, may the earth’ recognize thee [1].

मूलम् (संयुक्तम्)

अदि॑त्या॒स्त्वग॑सि प्रति॑ त्वा॒ [7]पृ॒थि॒वी वे॑त्तु ।

मूलम्

अदि॑त्या॒स्त्वग॑सि ।
प्रति॑ त्वा॒ पृ॒थि॒वी वे॑त्तु ।

पद-पाठः

अदि॑त्याः । त्वक् । अ॒सि॒ । प्रतीति॑ । त्वा॒ । पृ॒थि॒वी । वे॒त्तु॒ ।

भट्टभास्कर-टीका

7कृष्णाजिनमवस्तृणाति - अदित्या इति ॥ अदितिः अखण्डनीया । कर्मणि क्तिन्, अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । अखण्डितायाः पृथिव्यास्त्वगिव प्रियतममसि, अतस्त्वामास्तीर्णां पृथिवी प्रतिवेत्तु आत्मन उपरि तवावस्थानमनुजानातु न न्यक्कारयतु । सा तु माऽवमंस्त । पृथिवीशब्दो ङीषन्तोन्तोदात्तः ॥

विश्वास-प्रस्तुतिः

अदि॑त्या॒स्त्वग॑सि॒,
प्रति॑ त्वा पृथि॒वी वे॑त्तु

Keith

b. Thou art the skin of Aditi, may the earth recognize thee.

मूलम्

अदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वी वे॑त्तु

मूलम्

अदि॑त्याः । त्वक् । अ॒सि॒ । प्रतीति॑ । त्वा॒ । पृ॒थि॒वी । वे॒त्तु॒ ।

भट्टभास्कर-टीका

1-2अवधूननोपस्तरणमन्त्रौ व्याख्यातौ (तै.सं. 1.1.5) ॥


भास्करोक्त-विनियोगः

शम्यां निदधाति

विश्वास-प्रस्तुतिः

दि॒वस् स्क॑म्भ॒निर्+++(=धारयित्र्य्)+++ अ॑सि ।
प्रति॒ त्वा ऽदि॑त्या॒स् त्वँ +++(स्वस्या उपरि)+++ वे॑त्तु । +++(‘द्यावापृथिवी सहास्ताम्’ (तै.ब्रा. 3.2.6) इत्यादि ब्राह्मणम् ॥)+++

Keith

Thou art a bowl of rock, may the supporter of the sky recognize thee.

मूलम्

दि॒वस्स्क॑म्भ॒निर॑सि । प्रति॒ त्वाऽदि॑त्या॒स्त्वँवे॑त्तु ।

पद-पाठः

दि॒वः । स्क॒म्भ॒निः । अ॒सि॒ । प्रतीति॑ । त्वा॒ । अदि॑त्याः । त्वक् । वे॒त्तु॒ ।

भट्टभास्कर-टीका

3शम्यां निदधाति - दिव इति ॥ ‘ऊडिदम्’ (पा.सू. 6.1.171) इत्यादिना विभक्तेरुदात्तत्वम् । दिवो यागसाधनद्वारेण स्कम्भनिरसि धारयित्र्यसि । स्कभ्नातेः करणे ल्युटि (पा.सू. 3.3.117) ङीपि वर्णव्यत्ययेन ह्रस्वत्वम् । ‘गर्भिणयो भवन्ति’ (तै.सं. 2.1.2) इति यथा । यद्वा - ‘वृतेश्च’ (उ.सू. 263) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् स्कभ्नातेरनिप्रत्ययः । सर्वत्रोञ्छादित्वात् (पा.सू. 6.1.160) अन्तोदात्तत्वम् ।

हे शम्ये अदित्यास्त्वक्, एवंभूतां त्वां, अदित्यास्त्वँभूतं कृष्णाजिनं प्रतिवेत्तु अनुजानातु आत्मोपरि तवावस्थानम् । ‘द्यावापृथिवी सहास्ताम्’ (तै.ब्रा. 3.2.6) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

शम्यायां दृषदम् अत्यादधाति

विश्वास-प्रस्तुतिः

+++(हे दृषत्!)+++ धि॒षणा॑+++(=धृष्टा = लवने समर्था)+++ ऽसि पर्व॒त्या +++(पर्वतमर्हतीति)+++ ।
प्रति॑ त्वा दि॒वस् स्क॑म्भ॒निर् +++(शम्या)+++ वे॑त्तु ।

Keith

Thou art a bowl of rock, may the supporter of the sky recognize thee.

मूलम्

धि॒षणा॑ऽसि पर्व॒त्या ।
प्रति॑ त्वा दि॒वस् स्क॑म्भ॒निर् वे॑त्तु ।

पद-पाठः

धि॒षणा॑ । अ॒सि॒ । प॒र्व॒त्या ।
प्रतीति॑ । त्वा॒ । दि॒वः । स्क॒म्भ॒निः । वे॒त्तु॒ ।

भट्टभास्कर-टीका

4शम्यायां दृषदमत्यादधाति - धिषणेति ॥ धिषणा धृष्टा त्वमसि । हे दृषत् पर्वत्या । पर्वतमर्हतीति पर्वतशब्दात् ‘छन्दसि च’ (पा.सू. 5.1.67) इति यत्प्रत्ययः । धिषणाशब्दो व्युत्पादितः प्राक् (तै.सं. 1.1.2) ।

  • [धिषणा धृष्टा लवने समर्था । ‘धृषेर्धिष् च संज्ञायां’ (उ.सू. 249) इति क्युप्रत्ययः ।]

त्वामीदृशीं दिवस्कम्भनिः शम्या प्रतिवेत्तु अनुजानातु उपरिनिधानम् ॥


भास्करोक्त-विनियोगः

दृषद्य् उपलाम् अत्यादधति

विश्वास-प्रस्तुतिः

+++(उपले!)+++ धि॒षणा॑ऽसि पार्वते॒यी ।
प्रति॑ त्वा पर्व॒तिर् +++(=परिपूर्णा शिला = दृषत्)+++ वे॑त्तु ।

Keith

Thou art a bowl made of the rock, may the rock recognize thee.

मूलम् (संयुक्तम्)

धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॑त्तु ।

मूलम्

धि॒षणा॑ऽसि पार्वते॒यी ।
प्रति॑ त्वा पर्व॒तिर्वे॑त्तु ।

पद-पाठः

धि॒षणा॑ । अ॒सि॒ । पा॒र्व॒ते॒यी । प्रतीति॑ । त्वा॒ । प॒र्व॒तिः । वे॒त्तु॒ ।

भट्टभास्कर-टीका

5दृषद्युपलामत्यादधति - धिषणेति ॥ धिषणा धृष्टासि हे उपले पार्वतेयी । पर्वतिः परिपूर्णा महाशिला दृषल्लक्षणा । पूर्व पर्व मर्व पूरणे, ‘वहिवस्यर्तिभ्यश्चित्’ (उ.सू. 500) इति वहतिर्वसतिररतिरिति विधीयमानोतिप्रत्ययो बहुलवचनात्पर्वतेरपि भवति । तस्यापत्यं पार्वतेयी । (शुभ्रादेः) आकृतिगणत्वात् (पा.सू. 4.1.123) ढकि ‘कितः’ (पा.सू. 6.1.165) इत्यन्तोदात्तत्वम्, उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् (पा.सू. 6.1.161) । शिलापुत्रकवदपत्यत्वमुपचर्यते ।
यस्मात्त्वं धिषणासि पार्वतेयी, तस्मात्त्वां दुहितृस्थानीयां सा पर्वतिः दृषत् प्रतिवेत्तु, त्वां मातेव दुहितरमुत्सङ्गस्थामनुजानातु ॥


भास्करोक्त-विनियोगः

पुरोडाशीयानधिवपति

देवस्य त्वा सवितुः ...{Loading}...

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…

पद-पाठः

दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

… अधि॑वपामि।

Keith

I pour thee out.

मूलम् (संयुक्तम्)

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒मधि॑वपामि

मूलम्

… अधि॑वपामि।

पद-पाठः

अधीति॑ । व॒पा॒मि॒ ।

भट्टभास्कर-टीका

6पुरोडाशीयानधिवपति - देवस्य त्वेति ॥ सावित्रो व्याख्यातः (तै.सं. 1.1.4) । अधिवपनं दृषदि प्रक्षेपणम् ॥

विश्वास-प्रस्तुतिः

धा॒न्य॑म्+++(=धा+यत्)+++ असि ।
धि॒नु॒हि+++(=प्रीणय)+++ दे॒वान् ।

Keith

Thou art stimulating, stimulate the gods.

मूलम्

धा॒न्य॑मसि ।
धि॒नु॒हि दे॒वान् ।

पद-पाठः

धा॒न्य॑म् । अ॒सि॒ । धि॒नु॒हि । दे॒वान् ।

भट्टभास्कर-टीका

7अधिवपति - धान्यमिति ॥ धान्यं पोषकमसि । दधातेः पोषणकर्मणः ‘दधातेर्यन्नुट्च’ (उ.सू. 726) इति यत्प्रत्ययः, बहुलवचनात् ‘यतो नावः’ (पा.सू. 6.1.213) इत्याद्युदात्तत्वं बाधित्वा तित्स्वरितत्वम् (पा.सू. 6.1.185) । यद्वा - ‘तिल्यशिक्यमर्त्यकाष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः’ (फि.सू. 76) इति अन्तस्वरितत्वम् । धिनोत्यर्थे प्रीणने वा दधातिर्वर्तते ।

यस्मात्त्वमीदृशमसि तस्माद्देवानां धिनुहि प्रीणय । यद्वा - धान्यं पोषणशीलं वर्धिष्णुस्वभावं हव्यमसि । तस्माद्देवान् यावदभिलाषं प्रथित्वा प्रीणय । ‘एतस्य यजुषो वीर्येण’ (तै.ब्रा. 3.2.6) इत्यादि ब्राह्मणम् । हिवि दिवि धिवि जिवि प्रीणनार्थाः । ‘धिन्विकृण्व्योर च’ (पा.सू. 3.1.80) इत्युप्रत्ययः । ‘अतो लोपः’ (पा.सू. 6.4.48), ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्’ (पा.सू. 6.4.10 वा 1) इति हेर्लुङ्न क्रियते, पित्त्वनिषेधात् (पा.सू. 3.4.87) । ङित्त्वादुदात्तत्वं च हेः ॥


भास्करोक्त-विनियोगः

पिनष्टि

विश्वास-प्रस्तुतिः

प्रा॒णाय॑ त्वा +++(प्राचीनं पिनष्मि)+++।
अ॒पा॒नाय॑ त्वा +++(प्रतीचीनं)+++।
व्या॒नाय॑ त्वा +++(तिरश्चीनं)+++।

Keith

For expiration thee, for inspiration thee, for through-breathing thee (I pound).

मूलम् (संयुक्तम्)

प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा

मूलम्

प्रा॒णाय॑ त्वा ।
अ॒पा॒नाय॑ त्वा ।
व्या॒नाय॑ त्वा ।

पद-पाठः

प्रा॒णायेति॑ प्र-अ॒नाय॑ । त्वा॒ । अ॒पा॒नायेत्य॑प-अ॒नाय॑ । त्वा॒ । व्या॒नायेति॑ वि-अ॒नाय॑ । त्वा॒ ।

भट्टभास्कर-टीका

8पिनष्टि - प्राणाय त्वेति ॥ प्राणार्थं त्वां प्राचीनं पिनष्मि, अपानार्थं प्रतीचीनं, व्यानार्थं तिरश्चीनं; प्राणादिवृत्तीनामेवंरूपत्वात् । सर्वत्र थाथादिस्वरेणान्तोदात्तत्वम् (पा.सू. 6.2.144) । घञर्थे कः, घञ् वा । बहुलमिति वचनाद्वृद्ध्यभावः । व्याने संहितायां छान्दसं दीर्घत्वम् ॥


भास्करोक्त-विनियोगः

बाहू अन्ववेक्षते

विश्वास-प्रस्तुतिः

दी॒र्घाम् अनु॒ +++(बाह्वोः)+++ प्रसि॑ति॒म्+++(=प्रबन्धम्)+++ आयु॑षे धाम्+++(=दधामि)+++ ।

Keith

May I extend for long the life (of the sacrificer).

मूलम्

दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धाम् ।

पद-पाठः

दी॒र्घाम् । अन्विति॑ । प्रसि॑ति॒मिति॒ प्र-सि॒ति॒म् । आयु॑षे । धा॒म् ।

भट्टभास्कर-टीका

9बाहू अन्ववेक्षते - दीर्घामन्विति त्रिष्टुभैकपदया ॥ प्रसितिः प्रबन्धः कर्मसन्तानः । षिञ् बन्वने, ‘तादौ च निति कृत्यतौ’ (पा.सू. 6.2.50) इति पूर्वपदप्रकृतिस्वरत्वम् । दीर्घामविच्छिन्नां प्रसितिमनु युवां धां दधामि अविच्छिन्नेन कर्मसन्तानेन युवां सम्बध्नामि । ‘तृतीयार्थे’ (पा.सू. 1.4.85) इत्यनोः कर्मप्रवचनीयत्वम् । धामिति दधातेर्लेट्, ‘इतश्च लोपः परस्मैपदेषु’, (पा.सू. 3.4.97), ‘बहुलं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक् । आयुषे आयुरर्थं, यजमानस्याविच्छिन्नमायुर्भूयादिति । यद्वा - आयुरन्नं पुरोडाशलक्षणं, तत्सिद्ध्यर्थम् ॥


भास्करोक्त-विनियोगः

कृष्णाजिने पिष्टानि प्रस्कन्दयति

देवो वस् सविता ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वो व॑स् सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑गृह्णातु ॥ [8]

Keith

Let the god Savitr of golden hands, seize you.

मूलम्

दे॒वो व॑स्सवि॒ता हिर॑ण्यपाणि॒ᳶ प्रति॑ गृह्णातु ॥ [8]

पद-पाठः

दे॒वः । वः॒ । स॒वि॒ता । हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य-पा॒णिः॒ । प्रतीति॑ । गृ॒ह्णा॒तु॒ ॥

भट्टभास्कर-टीका

17तण्डुलान् प्रस्कन्दयति - देवो व इति ॥ देवस्सविता सर्वस्य प्रेरकः हिरण्यपाणिः हिरण्याभरणपाणिः युष्मान् प्रतिगृह्णातु प्रतिगृह्य रक्षतु । हिरण्यस्य विकारो वलयाङ्गुलीयकादिः पाण्योर्य स्येति समुदायविकारषष्ठ्या (पा.सू. 2.2.24 वा 13) विगृह्य ‘सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च’ (पा.सू. 2.2.24 वा 12) इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्’ (फि.सू. 67) इति हिरण्यशब्द आद्युदात्तः । ‘अन्तरिक्षादिव’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ॥

भट्टभास्कर-टीका

10कृष्णाजिने पिष्टानि प्रस्कन्दयति - देव इति ॥ व्याख्यातम् (तै.सं. 1.1.5 । ‘अन्तरिक्षादिव वै’ (तै.ब्रा. 3.2.6) इत्यादि ब्राह्मणम् ॥

इति षष्ठोनुवाकः