०२ बर्हिरास्तरणम्

०२ बर्हिरास्तरणम् ...{Loading}...

३ त्रिष्टुप् , ८ एकपदा त्रिष्टुप् १८ एकपदा गायत्री । प्रजापतिर्ऋषिः

भास्करोक्त-विनियोगः

1अश्वपर्शुमसिदं वाभिमन्त्रयते - यज्ञस्येति ॥

विश्वास-प्रस्तुतिः

+++(बर्हिर् लवन-द्वारेण)+++ य॒ज्ञस्य॑ +++(रयिर्←)+++ घो॒षद् अ॑सि +++(असिद!)+++।

Keith

Thou art the substance of the sacrifice.

मूलम्

य॒ज्ञस्य॑ घो॒षद॑सि ।

पद-पाठः

य॒ज्ञस्य॑ । घो॒षत् । अ॒सि॒ ।

भट्टभास्कर-टीका

‘चतुर्थ्यर्थे बहुळं छन्दसि’ (पा.सू. 2.3.62) इति तादर्थ्ये षष्ठी । घुषेर्ण्यन्ताच्छतरि ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति शप आर्धधातुकत्वाण्णिलोपः । ‘अदुपदेशात्’ (पा.सू. 6.1.186) इति शतुरनुदात्तत्वम् । उदात्तनिवृत्तिस्वरेण (पा.सू. 6.1.161) शप उदात्तत्वम् ।

असिदाश्वपर्श्वोः वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम् । लिङ्गव्यत्ययो वा ।

बर्हिर्लवन-द्वारेण मयैव शीघ्रं यज्ञं सम्पादयस्वेति यज्ञार्थम् आघोषयत् असीति स्तुतिः । घोषद् इति धननामेति केचित् ॥


भास्करोक्त-विनियोगः

गार्हपत्ये प्रतितपति

प्रत्युष्टं रक्षः ...{Loading}...

विश्वास-प्रस्तुतिः

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ, प्रत्यु॑ष्टा॒ अरा॑तयः+++(=अदातारः)+++।

Keith

The Raksas is burned up, the evil spirits are burned up.

मूलम् (संयुक्तम्)

प्रत्यु॑ष्टँ॒ रक्ष॒ᳶ प्रत्यु॑ष्टा॒ अरा॑तयः

मूलम्

प्रत्यु॑ष्टँ॒ रक्षः॑ ।
प्रत्यु॑ष्टा॒ अरा॑तयः ।

पद-पाठः

प्रत्यु॑ष्ट॒मिति॒ प्रति॑-उ॒ष्ट॒म् । रक्षः॑ । प्रत्यु॑ष्टा॒ इति॒ प्रति॑-उ॒ष्टाः॒ । अरा॑तयः ।

भट्टभास्कर-टीका

2गार्हपत्ये प्रतितपति - प्रत्युष्टमिति ॥ केचित्तु - ‘प्रत्युष्टा अरातयः’ इति गायत्र्येकपदा यजुरादिकेत्याहुः । रक्षेरसुनि अर्थविपर्यासः । ‘क्षर मूर्छने’ इत्यस्य वर्णविपर्यासो वा । यदत्र छिद्रान्वेषि रक्षस्तदनेन प्रतितपनेन प्रत्युष्टं प्रतिमुखीकृत्य दग्धमस्तु । उष दाहे । ‘आदितश्च’ (पा.सू. 7.2.16) इति चकारादाश्वस्तादिवदिट्प्रतिषेधः । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ।

किञ्च, अरातयोपि प्रत्युष्टास्सन्तु । रातयो धनस्य दातारस्सुहृदः । ‘कृत्यल्युटो बहुळम्’ (पा.सू. 3.3.113) इति बहुलवचनात्कर्तरि क्तिन् । अतोन्येऽरातयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) ॥


भास्करोक्त-विनियोगः

3गार्हपत्यप्रदेशादाहवनीयं गच्छति - प्रेयमिति त्रिष्टुभा ॥
वेदिं प्रत्यवेक्षमाणो मन्त्रशेषं ब्रवीति - “इह बह्रिर् आसदे”।

विश्वास-प्रस्तुतिः ...{Loading}...

प्र+इ॒यम् +++(अश्वपर्शोर् धारा)+++ अ॑गाद्, धि॒षणा॑+++(=धृष्टा [लवने], धीः)+++ ब॒र्हिर् अच्छ॒ +++(आप्तुं)+++
मनु॑ना कृ॒ता, स्व॒धया॒+++(→अश्वमांसेन)+++ वित॑ष्टा॒+++(=वितनूकृता)+++।
त +++(कवयो बर्हिर्)+++ आव॑हन्ति क॒वयᳶ॑ पु॒रस्ता॑द् +++(→पूर्वस्माद् यज्ञारम्भाय)+++
+++(ब॒र्हिष॒स् समृ॑द्ध्यै॒, कर्म॒णोऽन॑पराधाय→)+++ दे॒वेभ्यो॒ जुष्ट॑म्, इ॒ह +++(वेद्यां)+++ ब॒र्हिर् आ॒सदे॑+++(=आसादयितव्यम्)+++।

सर्वाष् टीकाः ...{Loading}...
Keith

The Vedi hath come to the sacrificial straw,
Made by Manu, fashioned with the Svadha call.
The sages fetch it from in front,
The delightful straw for the gods to sit on here.

मूलम् (संयुक्तम्)

प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वयᳶ॑ पु॒रस्ता॑द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सदे॑

मूलम्

प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा ।
त आव॑हन्ति क॒वयᳶ॑ पु॒रस्ता॑द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सदे॑ ॥

पद-पाठः

प्रेति॑ । इ॒यम् । अ॒गा॒त् । धि॒षणा॑ । ब॒ऱ्हिः । अच्छ॑ ।
मनु॑ना । कृ॒ता । स्व॒धयेति॑ स्व-धया॑ । वित॒ष्टेति॒ वि-त॒ष्टा॒ ।
ते । एति॑ । व॒ह॒न्ति॒ । क॒वयः॑ । पु॒रस्ता॑त् ।
दे॒वेभ्यः॑ । जुष्ट॑म् । इ॒ह । ब॒ऱ्हिः । आ॒सद॒ इत्या॑-सदे॑ ।

भट्टभास्कर-टीका

इयम् अश्वपर्शुः प्रागात् प्राचीं गच्छति ।
‘छन्दसि लुङ्लङ्लिटः’ (पा.सू. 3.4.6) इति लुङ् ।

(किंविशिष्टा?)
धिषणा धृष्टा लवने समर्था ।
‘धृषेर्धिष् च संज्ञायां’ (उ.सू. 249) इति क्युप्रत्ययः ।

बर्हिर् अच्छ आप्तुं मनुना प्रजापतिना सर्वस्य कर्त्रा कृता

स्वधया अन्नेन मांसलक्षणेन करणेन मनुना कर्त्रा कृता
दधातेः ‘आतोनुपसर्गे कः’ (पा.सू. 3.2.3) । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) ।

वितष्टा विशेषेण तनूकृता अतिनिशिता ।
‘यस्य विभाषा’ (पा.सू. 7.2.15) इतीट्प्रतिषेधः । ‘गतिरनन्तरः’ (पा.सू. 6.2.49) इति पूर्वपदप्रकृतिस्वरत्वम् ।
कस्मात् पुनरियं प्राचीं गच्छतीत्याह - त इति ॥
ते खलु कवयो मेधाविनः यज्ञकर्मविदः
पुरस्तात् पूर्वस्या दिशः बर्हिर् आवहन्ति
पञ्चम्यन्तादस्तातिः (पा.सू. 5.3.27) ।
देवेभ्यः ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’ (पा.सू. 2.3.62 वा 1) ।
देवेभ्यो जुष्टं, एवं हि क्रियमाणे देवानां प्रियं भवतीति ।
‘नित्यं मन्त्रे’ (पा.सू. 6.1.210) इति जुष्टशब्द आद्युदात्तः ।

वेदिं प्रत्यवेक्षमाणो मन्त्रशेषं ब्रवीति - इह अस्यां खलु वेद्यां, तत् लविष्यमाणं बर्हिः, आसदे आसादयितव्यम् । एवम् इदम् अर्हति ।

सदेर्ण्यन्तात् ‘कृत्यार्थे तवैकेन्’ (पा.सू. 3.4.14) इति केन्प्रत्ययः । ‘बहुळं संज्ञाछन्दसोः’ (उ.सू. 190) इति णेर्लुक् । ‘न लुमता’ (पा.सू. 1.1.63) इति वृद्ध्यभावः । कृदुत्तरपदप्रकृतिस्वरेण (‘ञ्नित्यादिः’ (पा.सू. 6.1.197) इति) नित्त्वात् आद्युदात्तः ॥


भास्करोक्त-विनियोगः

4प्रस्तरार्थान् दर्भान्प्रतिगृह्णाति - देवानामिति ॥

विश्वास-प्रस्तुतिः

दे॒वाना॑म् परि-षू॒तम् अ॑सि +++(अतोऽनुमन्यस्व, नास्मद्-अपराधः)+++।

Keith

Thou art impelled by the gods.

मूलम्

दे॒वाना॑म्परिषू॒तम॑सि ।

पद-पाठः

दे॒वाना॑म् । प॒रि॒षू॒तमिति॑ परि-सू॒तम् । अ॒सि॒ ।

भट्टभास्कर-टीका

चतुर्थ्यर्थे षष्ठी (पा.सू. 2.3.62) । देवार्थं परिषूतं परिगृहीतमसि, नात्मार्थम् । अतो मामयं वृथैव हनिष्यतीति नोद्वेजितव्यम् । प्रवृद्धादेराकृतिगणत्वादुत्तरपदान्तोदात्तत्वम् (पा.सू. 6.2.147) । ‘परेरभितोभावि मण्डलम्’ (पा.सू. 6.2.182) इति वा । ‘अथो यथा वस्यसे’ (तै.ब्रा. 3.2.2) इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

5दर्भस्तम्बमुन्मार्ष्टि - वर्षवृद्धमसीति ॥

वर्षवृद्धम् ...{Loading}...
विश्वास-प्रस्तुतिः

व॒र्ष-वृ॑द्धम् असि।

विस्तारः (द्रष्टुं नोद्यम्)

Thou art made to grow by the rains.

मूलम्

व॒र्षवृ॑द्धमसि ।

पद-पाठः

व॒र्षवृ॑द्ध॒मिति॑ व॒र्ष-वृ॒द्ध॒म् । अ॒सि॒ ।

भट्टभास्कर-टीका

वर्षेण वर्धितमसि । पूर्ववण्णिलुक् (उ.सू. 190) । ‘तृतीया कर्मणि’ (पा.सू. 6.2.48) इति पूर्वपदप्रकृतिस्वरत्वम् । वर्षशब्द उञ्छादित्वादन्तोदात्तः (पा.सू. 6.1.160) ॥


भास्करोक्त-विनियोगः

असिदादिना बर्हिस् संश्लेषयति

विश्वास-प्रस्तुतिः

देव॑बर्हि॒र्! मा त्वा॒ +++(पर्वणो)+++ ऽन्वङ्+++(=ऽधस्तात्)+++ मा ति॒र्यक् +++(ऽच्छिदम् अहिंसायै)+++ ।

Keith

O divine straw, let me not hit thee either across or along,

मूलम्

देव॑बर्हि॒र्मा त्वा॒ऽन्वङ् मा ति॒र्यक् ।

पद-पाठः

देव॑बऱ्हि॒रिति॒ देव॑-ब॒र्,हिः॒ । मा । त्वा॒ । अ॒न्वक् । मा । ति॒र्यक् ।

भट्टभास्कर-टीका

6असिदादिना बर्हिस्संश्लेषयति - देवबर्हिरिति ॥ देवानां बर्हिः तल्पभूतम् । षाष्ठिकं ‘आमन्त्रितस्य’ (पा.सू. 6.1.198) इत्याद्युदात्तत्वम् । प्रत्ययलक्षणं तत्र नास्तीति चेत् सोः व्यत्ययेन ‘हल्ङ्याभ्यः’ (पा.सू. 6.1.68) इति लोपः करिष्यते । अन्वक् पर्वणोऽधस्तात् । तिर्यक् तिरश्चीनम् । यत्र क्वापि एवं त्वा माच्छिदम् । ‘अहिंसायै’ (तै.ब्रा. 3.2.2) इति ब्राह्मणदर्शनात्, ‘आच्छेत्ता’ इति वक्ष्यमाणत्वाच्च माशब्देन छेदनं निषिध्यते इति वेदितव्यम् ।

+++(कस्मात्पुनरन्वक् छेदादि वर्ज्यत इत्याह)+++
पर्व॑+++(=प्ररोहस्थानं)+++ ते +++(पुनरपि प्ररोहार्थं)+++ +++(आ)+++राध्यासम् +++(अहिंसायाय्, ऋद्ध्यै)+++।

Keith

Let me hit thy joints,

मूलम्

पर्व॑ ते राध्यासम् ।

पद-पाठः

पर्व॑ । ते॒ । रा॒ध्या॒स॒म् ।

भट्टभास्कर-टीका

कस्मात्पुनरन्वक् छेदादि वर्ज्यत इत्याह - पर्वेत्यादि । ते तव खलु पर्व प्ररोहस्थानं राध्यासं पुनरपि प्ररोहार्थं अविनष्टं स्थापयमीतीयमाशीः ॥

____
भास्करोक्त-विनियोगः

आच्छिनत्ति

विश्वास-प्रस्तुतिः

आ॒च्छे॒त्ता ते॒ मा रि॑षम्

Keith

Let me come to no harm in cutting thee.

मूलम्

आ॒च्छे॒त्ता ते॒ मा रि॑षम् ।

पद-पाठः

आ॒च्छे॒त्तेत्या॑-छे॒त्ता । ते॒ । मा । रि॒ष॒म् ।

भट्टभास्कर-टीका

7आच्छिनत्ति - आच्छेत्तेति ॥ कृदुत्तरपदप्रकृतिस्वरत्वम् । मर्यादायामाकारः । मर्यादा च विधानम् । यस्मादहं विधानेन तव छेत्ता, न तु वृथा, तस्मादहं मा रिषं विनाशं मा गाम् । रिषेर्लुङि व्यत्ययेन च्लेरङादेशः । केचिदस्य पुषादित्वमिच्छन्ति, यथा ‘तेन गच्छन्नरिष्यति’ (मनु. 4.178) इति । तदा पुषादित्वादेवाङ् सिद्धः (पा.सू. 3.1.55) ॥


भास्करोक्त-विनियोगः

आच्छिन्नान् अभिमृशति

विश्वास-प्रस्तुतिः

देव॑बर्हिश्! श॒त-व॑ल्शव्ँ॒+++(=प्ररोहं)+++ वि रो॑ह

Keith

O divine straw, rise with a hundred shoots,

मूलम्

देव॑बर्हिश्श॒तव॑ल्शव्ँ॒वि रो॑ह ।

पद-पाठः

देव॑बऱ्हि॒रिति॒ देव॑-ब॒र्,हिः॒ । श॒तव॑ल्,श॒मिति॑ श॒त-व॒ल्,श॒म् । वीति॑ । रो॒ह॒ ।

भट्टभास्कर-टीका

8आच्छिन्नानभिमृशति - देवबर्हिरिति ॥ हे देवानां बर्हिः शतवल्शं अनेकप्ररोहणं यथा तथा विरोह । एकत्र पूर्वपदामन्त्रिताद्युदात्तत्वम् । अन्यत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.1) ॥

भास्करोक्त-विनियोगः

आत्मानं प्रत्यभिमृशति

सहस्र-वल्शाः ...{Loading}...
विश्वास-प्रस्तुतिः

स॒हस्र॑-वल्शाः॒+++(=प्ररोहाः)+++ वि व॒यँ रु॑हेम ।

Keith

Let us rise with a thousand shoots.

मूलम्

स॒हस्र॑वल्शाः॒ [2] विव॒यँ रु॑हेम ।

पद-पाठः

स॒हस्र॑वल्‌शा॒ इति॑ स॒हस्र॑-व॒ल्‌शाः॒ । वीति॑ । व॒यम् । रु॒हे॒म॒ ।

भट्टभास्कर-टीका

9आत्मानं प्रत्यभिमृशति - सहस्रवल्शा इति त्रिष्टुभैकपदया ॥
वयमपि सहस्रवल्शाः पुत्रपौत्राद्यनेकप्ररोहवन्तो विरुहेम विरूढा भूयास्म । ‘लिङ्याशिष्यङ्’ (पा.सू. 3.1.86) इत्यङ्प्रत्ययः । यासुडादि (पा.सू. 3.4.103) । ‘छन्दस्युभयथा’ (पा.सू. 3.4.117) इति सार्वधातुकत्वादिय् । यस्य लोपः (पा.सू. 6.1.66) ॥


भास्करोक्त-विनियोगः

10प्रस्तरं निदधाति - पृथिव्या इति ॥

पृथिव्याः ...{Loading}...
विश्वास-प्रस्तुतिः

पृ॒थि॒व्यास् स॒म्पृच॑ᳶ पाहि ।

Keith

Guard from the contact of earth.

मूलम्

पृ॒थि॒व्यास् स॒म्पृच॑ᳶ पाहि ।

पद-पाठः

पृ॒थि॒व्याः । स॒म्पृच॒ इति॑ सम्-पृचः॑ । पा॒हि॒ ।

भट्टभास्कर-टीका

ङीष उदात्तत्वात् ‘उदात्तयणो हल्पूर्वात्’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् । संपृचन्तीति संपृचः । ‘क्विप्च’ (पा.सू. 3.2.76) इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.139) । नित्यसमासत्वाद्विभक्तिस्वराभावः । पृथिवीसम्पृक्तानस्मान्पाहि । दिविष्ठस्त्वम्, उपरि निधानात् ॥


भास्करोक्त-विनियोगः

निधनानि +++(=तृणगुच्छविशेषाणि)+++ सम्भरति

विश्वास-प्रस्तुतिः

सु॒स॒म्भृता॑ +++(रज्ज्वा)+++ त्वा॒ सम्भ॑रामि +++(इतरम् उष्टिभिस् सह, ब्रह्म॑णै॒वैन॒त् सम्भ॑रामि)+++ ।

Keith

I gather thee with good gathering.

मूलम्

सु॒स॒म्भृता॑ त्वा॒ सम्भ॑रामि ।

पद-पाठः

सु॒स॒म्भृतेति॑ सु-स॒म्भृता॑ । त्वा॒ । समिति॑ । भ॒रा॒मि॒ ।

भट्टभास्कर-टीका

11(निधनानि) सम्भरति - सुसंभृतेति ॥ सुष्ठु सम्भ्रियतेऽनयेति सुसंभृत् । पूर्ववत्क्विप् । तादृश्या रज्ज्वा त्वा त्वां सम्भरामि इतरमुष्टिभिस्सह भरामि । भृञ् भरणे, भौवादिकः ॥


भास्करोक्त-विनियोगः

12रास्नां करोति - अदित्या इति ॥

विश्वास-प्रस्तुतिः

अदि॑त्यै॒ रास्ना॑+++(=रशना/ रश्मी)+++ ऽसि ।

Keith

Thou art the girdle of Aditi

मूलम्

अदि॑त्यै॒ रास्ना॑ऽसि ।

पद-पाठः

अदि॑त्यै । रास्ना॑ । अ॒सि॒ ।

भट्टभास्कर-टीका

षष्ठ्यर्थे चतुर्थी (पा.सू. 2.3.62 वा 1) । कर्मणि क्तिन् । अखण्डनीया पृथिवी अदितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् (पा.सू. 6.2.2) । रास्ना शुल्बं अदित्याः रास्ना त्वमसि, यामदितिरकरोदिति स्तुतिः । सामर्थ्याच्चायं मन्त्रस्सम्भरणमन्त्रात्पूर्वो द्रष्टव्यः ॥


भास्करोक्त-विनियोगः

13सन्नह्यति - इन्द्राण्या इति ॥

विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ण्यै+++(→ण्याः)+++ स॒न्नह॑नम् +++(= शुल्बान्तयोस्संश्लेषणम् एव)+++ ।
+++(इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑नाँ॒ सम॑नह्यत । साऽऽर्ध्नो॑त् । स्नाव॑-सन्तताᳶ प्र॒जा जा॑यन्ते।)+++

Keith

the cord of Indrani.

मूलम्

इ॒न्द्रा॒ण्यै स॒न्नह॑नम् ।

पद-पाठः

इ॒न्द्रा॒ण्यै । स॒न्नह॑न॒मिति॑ सं-नह॑नम् ।

भट्टभास्कर-टीका

सैव चतुर्थी । इन्द्रस्य पत्न्यास्सन्नहनं संयमनमसीति स्तुतिः । ‘इन्द्राणी वा अग्रे देवतानां समनह्यत’ (तै.ब्रा. 3.2.2) इति ब्राह्मणम् । ‘प्रथमे उदात्तयणः’ (पा.सू. 6.1.174) इति विभक्तेरुदात्तत्वम् । द्वितीये कृदुत्तरपदप्रकृतिस्वरेण ‘लिति’ (पा.सू. 6.1.193) प्रत्ययात्पूर्वमुदात्तत्वम् । सन्नहनं च शुल्बान्तयोस्संश्लेषणम्; ग्रन्थिकरणस्य विधास्यमानत्वात् ॥


भास्करोक्त-विनियोगः

14ग्रन्थिं करोति - पूषेति ॥

विश्वास-प्रस्तुतिः

पू॒षा ते॑ ग्र॒न्थिङ् ग्र॑थ्नातु +++(पुष्ट्यै)+++ ।

Keith

Let Pusan tie a knot for thee,

मूलम्

पू॒षा ते॑ ग्र॒न्थिङ्ग्र॑थ्नातु ।

पद-पाठः

पू॒षा । ते॒ । ग्र॒न्थिम् । ग्र॒थ्ना॒तु॒ ।

भट्टभास्कर-टीका

पूषा आदित्यस्स ते तव ग्रन्थिं ग्रथ्नातु करोतु । सामान्यग्रन्थेः विशेषग्रन्थिः कर्म ॥


भास्करोक्त-विनियोगः

15शुल्बान्तमुपगूहति - स ते इति ॥

विश्वास-प्रस्तुतिः

स +++(ग्रन्थिः)+++ ते॒ मा +++(प॒श्चात्)+++ ऽऽस्था॑त् +++(प्राञ्च॒मुप॑गूहामि, रेतस्-सेकवत्)+++।

Keith

that knot shall mount me.

मूलम्

स ते॒ माऽऽस्था॑त् ।

पद-पाठः

सः । ते॒ । मा । एति॑ । स्था॒त् ।

भट्टभास्कर-टीका

सः ते तव ग्रन्थिः मा स्थात्, मा प्रदेशान्तरमातिष्ठतु यावद्विमोकं शिथिलो मा भूत् । ‘गातिस्था’ (पा.सू. 2.4.77) इति सिचो लुक् ॥


भास्करोक्त-विनियोगः

16बर्हिरुद्यच्छते - इन्द्रस्येति ॥

विश्वास-प्रस्तुतिः

इन्द्र॑स्य त्वा बा॒हुभ्या॒म् उद्य॑च्छे +++(इ॒न्द्रि॒याय)+++।

Keith

I hold thee up with the arms of Indra,

मूलम्

इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे ।

पद-पाठः

इन्द्र॑स्य । त्वा॒ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । उदिति॑ । य॒च्छे॒ ।

भट्टभास्कर-टीका

इन्द्रस्य बाहुभ्यां त्वा त्वां उद्यच्छे उत्क्षिपामि नात्मीयाभ्यामिति स्तुतिः । ‘समुदाङ्भ्यो यमोऽग्रन्थे’ (पा.सू. 1.3.75) इत्यात्मनेपदम् ॥


भास्करोक्त-विनियोगः

17शीर्षन्नधिनिधत्ते - बृहस्पतेरिति ॥

विश्वास-प्रस्तुतिः

बृह॒स्पते॑र् मू॒र्ध्ना ह॑रामि +++(ततो ब्रह्म॑णै॒वैन॑द् धरामि)+++।

Keith

I seize thee with the head of Brhaspati.

मूलम्

बृह॒स्पते॑र्मू॒र्ध्ना ह॑रामि ।

पद-पाठः

बृह॒स्पतेः॑ । मू॒र्ध्ना । ह॒रा॒मि॒ ।

भट्टभास्कर-टीका

बृहस्पतेरेव मूर्ध्ना त्वां हरामि नात्मीयेनेति स्तुतिः । ‘उभे वनस्पत्यादिषु युगपत्’ (पा.सू. 6.2.140) इति युगपदुभयोः प्रकृतिस्वरत्वम् । बृहच्छब्दो वृत्तिविषये आद्युदात्त इष्यते, पतिशब्दश्च । प्रत्ययाद्युदात्तत्वेन मूर्धन्शब्दोन्तोदात्तः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥


भास्करोक्त-विनियोगः

प्रत्यागच्छति

उर्वन्तरिक्षम् ...{Loading}...

भास्करोक्त-विनियोगः

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव ।

विश्वास-प्रस्तुतिः

उ॒र्व् अ᳙न्तरि॑क्ष॒म् अन्वि॑हि ।
+++(महान् पन्थाः, सुखेन गच्छेति भावः ॥)+++

Keith

Fare along the wide atmosphere.

मूलम्

उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि ।

पद-पाठः

उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ ।

भट्टभास्कर-टीका

18प्रत्यागच्छति - उर्विति गायत्र्यैकपदया ॥ उरु विस्तीर्णमन्तरिक्षं अन्विहि अनुगच्छ । महान् पन्थाः, सुखेन गच्छेति भावः ॥

भट्टभास्कर-टीका

16एति - उर्वन्तरिक्षमन्विहीति ॥ व्याख्यातमेव । हे वपे उत्खेदनविबाधिते अधुना महान्तमन्तरिक्षाख्यं पन्थानं अनुगच्छेति विशेषः । ‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदति’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

19उपरि सादयति - देवंगममसीति ॥

विश्वास-प्रस्तुतिः

+++(श्वो हविषो धारणाद्, अग्नौ प्रहरिष्यमाणत्वात् च)+++ दे॒व॒ङ्-ग॒मम् अ॑सि ॥ [3]

Keith

Thou art going to the gods.

मूलम्

दे॒व॒ङ्ग॒मम॑सि । [3]

पद-पाठः

दे॒व॒ङ्ग॒ममिति॑ देवं-ग॒मम् । अ॒सि॒ ॥

भट्टभास्कर-टीका

देवान् गच्छतीति देवंगमम् । ‘गमश्च’ (पा.सू. 3.2.47) इति खच् । श्वो देवगामि असि भवितासि । वर्तमानसामीप्ये (पा.सू. 3.3.131) लट् । तत्र हविषो धारणाद्बर्हिषो देवंगमत्वं भविता; प्रस्तरस्य त्वग्नौ प्रहरिष्यमाणत्वात् । ‘दिवं गच्छ’ (तै.सं. 1.4.43) इति च मन्त्रलिङ्गम् । ‘अनधस्सादयति’ (तै.ब्रा. 3.2.2) इति ब्राह्मणम् ॥

इति द्वितीयोनुवाकः