०१ शाखाहरणादिः ...{Loading}...
४ द्विपदा विराड् गायत्री, ५ मध्ये ज्योतिस्त्रिष्टुप्, ६-७ एकपदा त्रिष्टुप् । प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
1तत्रामावास्यायां सन्नयतश्शाखामाच्छिनत्यध्वर्युः - इषे त्वोर्जेत्वेति ॥ ‘उभावामिन्द्राग्नी’ (तै.सं. 1.1.14) इत्यतः प्रागितः प्रभृति ये मन्त्रास्तेषां प्रजापतिः काण्डर्षिः । अत्र केचित् युष्मच्छब्दद्वयाद्द्वे यजुषी आहुः । तदानीं छेदने द्वयोस्समुच्चयः । अपरे तु द्वितीयेन सन्नमनादि कुर्वन्ति ।
विश्वास-प्रस्तुतिः
+++(हे शाखे!)+++ इ॒षे+++(=अन्नाय सवैरिष्टाय [सन्नायलक्षणाय])+++ त्वा॑ ।+++(र५)+++
ऊ॒र्जे त्वा॑ ।
Keith
For food thee, for strength thee!
मूलम् (संयुक्तम्)
इ॒षे त्वो॒र्जे त्वा॑
मूलम्
इ॒षे त्वा॑ ।
ऊ॒र्जे त्वा॑ ।
पद-पाठः
इषे । त्वा । ऊर्जे । त्वा ।
भट्टभास्कर-टीका
मन्त्रार्थस्तु - इडन्नं सर्वैरेषणीयत्वात् । इह तु सान्नाय्यलक्षणं गृह्यते । ऊर्क् रसः बलप्राणयोरुद्दीपकः । इषु इच्छायाम्, ऊर्ज बलप्राणनयोः, आभ्यां कर्मणि करणे च सम्पदादिलक्षणस्स्त्रियां क्विप्प्रत्ययः (पा.सू. 3.3.108 वा.9), उभयत्र तादर्थ्ये चतुर्थी, ‘सावेकाचः’ (पा.सू. 6.1.168) इति विभक्तेरुदात्तत्वम् । हे शाखे इडर्थं त्वां छिनद्मि । ऊर्गर्थं त्वां छिनद्मि । एवं योग्यक्रियां सम्पाद्य अध्याहारेण व्याख्येयम् । प्रयोगकाले तु तदर्थस्मृतिमात्रमेव । ऊहप्रवरनामधेयेषु श्रुतपदस्थाने योग्यपदान्तरप्रयोगो युज्यत एव ॥
भास्करोक्त-विनियोगः
2वत्सानपाकरोति - वायवस्स्थेति ॥
विश्वास-प्रस्तुतिः
+++(हे वत्साः! धेनोः सकाशाद्)+++ वा॒यव॑स् +++(=गन्तारः)+++ स्थ +++(अन्तरिक्ष-देवत्यत्वात्)+++।
उ॒पा॒यव॑स् +++(=उपगन्तारः)+++ स्थ +++(दोहनकाले)+++।+++(र५)+++
Keith
Ye are winds, ye are approachers.
मूलम् (संयुक्तम्)
वा॒यव॑स्स्थोपा॒यव॑स्स्थ
मूलम्
वा॒यव॑स्स्थ ।
उ॒पा॒यव॑स्स्थ ।
पद-पाठः
वायवः । स्थ । उपायव इत्युप-आयवः । स्थ । 3C ।
भट्टभास्कर-टीका
केचित् आख्यातवृत्त्या द्वे यजुषी आचक्षते । वायवः गन्तारः । वातेर्गतिकर्मणः ‘कृवापाजि’ (उ.सू. 1) इत्युण्प्रत्ययः । उपायवः उपगन्तारः । उपपूर्वादिणः ‘छन्दसीणः’ (उ.सू. 2) इत्युण्प्रत्ययः, उभयत्र प्रत्ययस्वरेणान्तोदातत्वम्, उत्तरत्र गतिसमासे कृदुत्तरपदकृतिस्वरत्वम् । स्थेति अस्तेः पञ्चमलकाररूपम् । हे वत्साः मातृसकाशाद्गन्तारो भवत, पुनर्दोहकाले उपगन्तारो भवतेति । वायुशब्देनैषामभिधानं वाय्वधिष्ठातृकत्वमेषां प्रदर्शयितुम् । ‘वायुर्वा अन्तरिक्षस्याध्यक्षाः’ (तै.ब्रा. 3.2.1) इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
3गोचराय गाः प्रस्थापयति - देवो व इत्यादिभिस्तिसृभिः ऋग्भिः । तत्र प्रथमया सवितारमभ्यर्थयते ।
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो व॑स् सवि॒ता +++(प्रसूत्या)+++ प्रार्प॑यतु॒+++(=प्रस्थापयतु)+++
श्रेष्ठ॑तमाय॒ कर्म॑णे +++(यज्ञाय)+++। +++(र५)+++
सर्वाष् टीकाः ...{Loading}...
Keith
Let the god Savitr impel you to the most excellent offering.
मूलम्
दे॒वो व॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ।
पद-पाठः
देवः । वः । सविता । प्रेति । अर्पयतु । श्रेष्ठतमायेति श्रेष्ठ-तमाय । कर्मणे । 4D ।
भट्टभास्कर-टीका
इयं च द्विपदा विराड्गायत्री जागतगायत्रपादत्वादिति । षू प्रेरणे । देवस्सविता सर्वस्य प्रेरकः, येन विना तृणाग्रमपि न चलति, स युष्मान् प्रार्पयतु प्रस्थापयतु । अर्तेर्णौ पुगागमः (पा.सू. 7.3.36) । किमर्थम्? श्रेष्ठतमाय कर्मणे यज्ञाय । ‘यज्ञो हि श्रेष्ठतमं कर्म’ (तै.ब्रा. 3.2.1) । प्रकर्षवतामपि पुनःप्रकर्षविवक्षायां द्वितीय आतिशायनिको भवत्येव । तृणादिभक्षणेन सान्नाय्यनिष्पत्यर्थत्वाद्यज्ञार्थं प्रेरणम् ।
भास्करोक्त-विनियोगः
4अथ प्रस्थाप्यमाना गा एव प्रार्थयते द्वितीयया।
विश्वास-प्रस्तुतिः ...{Loading}...
+++(वत्सैर्)+++ आ प्या॑यध्वम् अघ्निया+++(=अहननार्हाः)+++ देव-भा॒गम्।
ऊर्ज॑स्वती॒ᳶ पय॑स्वतीᳶ
प्र॒जा-व॑तीर् अन्-अमी॒वा अ॑-य॒क्ष्मा
मा व॑स् स्ते॒न ई॑शत॒+++(=स्ववशं कुर्यात्)+++ माऽघशँ॑सः।+++(र४)+++
सर्वाष् टीकाः ...{Loading}...
Keith
O invincible ones, swell with the share for the gods,
Full of strength, of milk, rich in offspring, free from sickness, from disease.
Let no thief, no evil worker, have control over you.
मूलम्
आ प्या॑यध्वमघ्निया देवभा॒गम् ।
ऊर्ज॑स्वती॒ᳶ पय॑स्वतीᳶ
प्र॒जाव॑तीर् अनमी॒वा अ॑य॒क्ष्मा
मा व॑स् स्ते॒न ई॑शत॒ माऽघशँ॑सः।
पद-पाठः
एति । प्यायध्वम् । अघ्नियाः । देवभागमिति देव-भागम् । ऊर्जस्वतीः । पयस्वतीः । प्रजावतीरिति प्रजा-वतीः । अनमीवाः । अयक्ष्माः । 5E ।
मा । वः । स्तेनः । ईशत । मा । अघशँस इत्यघ-शँसः । 6F ।
भट्टभास्कर-टीका
इयं च भववसुरुद्रेशपादत्वात् मध्येज्योतिस्त्रिष्टुप् ॥ हे अघ्नियाः गावः अहननार्हाः । अहननं अघ्नः ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ (पा.सू. 3.3.58 वा.4) इति हन्तेः कः । अघ्नमर्हन्तीति ‘छन्दसि च’ (पा.सू. 5.1.67) इति घप्रत्ययः । यद्वा - ‘अघ्न्यादयश्च’ (उ.सू. 561) इति यक्प्रत्ययान्तो निपात्यते । इकारश्छान्दसः । तदा गवामियं संज्ञा । सर्वदा प्रत्ययोदात्तत्वम् । इह तु आष्टमिकं ‘आमन्त्रितस्य च’ (पा.सू. 8.1.19) इति सर्वानुदात्तत्वम् । देवस्येन्द्रस्य भागं सान्नाय्यलक्षणं यूयमाप्यायध्वं आप्याययत । अन्तर्भावितण्यर्थात् प्यायतेर्ण्यन्ताद्वा लोट्, ‘बहुलमन्यत्रापि संज्ञाछन्दसोः’ (उ.सू. 190) इति णेर्लुक् । अण्यन्तस्याचित्तवत्कर्तृकात् ‘अणावकर्मकात्’ (पा.सू. 1.3.88) इति परस्मैपदाभावः । ‘ऐन्द्रं दध्यमावास्यायां’ (तै.सं. 2.5.4) इति सान्नाय्यस्यैन्द्रत्वम् । ‘वत्सेभ्यश्च वै’ (तै.ब्रा. 3.2.1) इत्यादि ब्राह्मणम् । ऊर्जस्वत्त्वादिगुणयुक्ता यूयमाप्यायध्वम् ।
यद्वा ऊर्जस्वत्त्वादि-गुण-युक्तान् युष्मान् स्तेनो मा ईशतेति । शेषत्वविवक्षायां ‘अधीगर्थ’ (पा.सू. 2.3.52) इति षष्ठ्यभावः ।
प्रथमपक्षे ‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घः ।
ऊर्जस्वत्यो बलवत्यः, बहुरसा वा । पयस्वत्यः बहुपयस्काः । असुन्नन्तस्याद्युदात्तत्वम् । मतुब्ङीपोरनुदात्तत्वम् । प्रजावत्यः बह्वपत्याः । ‘उपसर्गे च संज्ञायाम्’ (पा.सू. 3.2.99) इति डप्रत्ययस्योदात्तत्वात् कृदुत्तरपदप्रकृतिस्वरेण प्रजाशब्दोन्तोदात्तः । अनमीवाः अरोगाः । ‘शेवयह्वजिह्वाग्रीवाप्वामीवाः’ (उ.सू. 160) इति वन्प्रत्ययान्तो मिनोतेरङ्पूर्वस्यामीवशब्दो निपातितः । अमीवा उदरव्याधिः । तद्रहिता अनमीवाः । अयक्ष्माः, यक्ष्मा व्याधिः तद्रहिताः । पृथगुपादानं प्राधान्यात् । ‘डाबुभाभ्यामन्यतरस्याम्’ (पा.सू. 4.1.13) इति (बहुव्रीहेः) डापि उभयत्र ‘नञ्सुभ्याम्’ (पा.सू. 6.2.172) इति (बहुव्रीहौ (पा.सू. 6.2.162)) उच्यमानं उत्तरपदान्तोदात्तत्वम् । स्तेनः । स्तेन चौर्ये, इति चुरादेरच् । अपहर्ता । मा युष्माकं ईशत ईशिष्ट, स्ववशाः युष्मान् मा कार्षीत् । व्यत्ययेन च्लेरङादेशः ।
किञ्च - अघशंसोपि युष्मान् मेशिष्ट मा वो जिघांसीत् । अघे पापे भक्षणलक्षणे शंसा अभिलाषो यस्य [स्या] नियोगेन सोघशंसः पापतत्परः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अघशब्दोयमन्तोदात्तोप्यस्ति, यथा ‘अप॑ न॒श्शोशु॑चद॒घम्’ (तै.आ. 4.11) इति । अङ्घते गच्छति दानादिना । आगमशास्त्रस्यानित्यत्वात् (व्याडिपरिभाषा 76) न नुम् । पचादित्वादच् (पा.सू. 3.1.134), प्रत्ययस्वरेणान्तोदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
रु॒द्रस्य॑ हे॒तिःᳶ
परि॑ वो वृणक्तु+++(=वर्जयतु)+++।+++(र४)+++
Keith
Let Rudra’s dart avoid you.
मूलम्
रु॒द्रस्य॑ हे॒तिᳶ परि॑ वो वृणक्तु ।
पद-पाठः
रुद्रस्य । हेतिः । परीति । वः । वृणक्तु । 7G ।
भट्टभास्कर-टीका
5अथ न केवलं मनुष्य एव, अपि तु देवोपि युष्मान् मा हिंसीदिति तृतीयया आशास्ते - रुद्रस्येति ॥ इयं चैकपदा त्रिष्टुप्, ‘एकद्वित्रिचतुष्पदीत्युक्तपादम्’ (पि.सू. 3.7) इति वचनात् । हेतिः आयुधम् । ‘ऊति यूति’ (पा.सू. 3.3.97) इत्यादिना क्तिन्नन्तोऽन्तोदात्तो निपातितः । सा रुद्रस्य हेतिः युष्मान् परिवृणक्तु सर्वतो वर्जयतु ॥
भास्करोक्त-विनियोगः
6यजमानं ध्यायति ईक्षते वा - ध्रुवा अस्मिन्नित्यृचा त्रिष्टुभैकपदया ॥
विश्वास-प्रस्तुतिः
+++(हे गावः!)+++ ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीः।+++(र४)+++
Keith
Abide ye, numerous, with this lord of cattle.
मूलम्
ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीः ।
पद-पाठः
ध्रुवाः । अस्मिन् । गोपताविति गो-पतौ । स्यात । बह्वीः ।
भट्टभास्कर-टीका
गवां पतिर्गोपतिः यजमानः । ‘पत्यावैश्वर्ये’ (पा.सू. 6.2.18) इति पूर्वपदप्रकृतिस्वरत्वम् । अस्मिन् यजमाने । ध्रुवाः अविनाशाः । स्यात भवत ।
बह्व्यश् च सन्तानवृद्ध्या भवत ।
‘वा छन्दसि’ (पा.सू. 6.1.106) इति पूर्वसवर्णदीर्घता ॥
भास्करोक्त-विनियोगः
7शाखामुपगूहति - यजमानस्येति ।
विश्वास-प्रस्तुतिः
+++(हे शाखे)+++ यज॑मानस्य प॒शून् पा॑हि ॥
Keith
Do thou protect the cattle of the sacrificer.
मूलम्
यज॑मानस्य प॒शून्पा॑हि॥ [1]
पद-पाठः
यज॑मानस्य । प॒शून् । पा॒हि॒ ।
भट्टभास्कर-टीका
हे शाखे यजमानस्य पशून् पाहि रक्ष । ‘तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः’ (पा.सू. 6.1.186) इति लसार्वधातुकानुदात्तत्वे यजमाने धातुस्वरः । ‘तस्मात्सायं पशवः’ (तै.ब्रा. 3.2.1) इत्यादि ब्राह्मणम् ॥
इति प्रथमोनुवाकः