१७

त्वष्टा सुदत्रो विदधातु रायो ऽनु नो मार्ष्टु तन्वो यद् विरिष्टम् ॥म्स्_४,१४।१७॥

शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्य् अध्वरं शुचिभ्यः ।
ऋतेन सत्यम् ऋतसाप आयञ् शुचिजन्मानः शुचयः पावकाः ॥

या वः शर्म शशमानाय सन्ति ॥

अंसेष्व् आ मरुतः खादयो वो वक्षःसु रुक्मा उपशिश्रियाणाः ।
वि विद्युतो न वृष्टिभी रुचाना अनु स्वधाम् आयुधैर् यछमानाः ॥

ऋष्टयो वो मरुतो अंसयोर् अधि ॥

इमे तुरं मरुतो रामयन्तीमे सहः सहसा आनमन्ति ।
इमे शंसं वनुष्यतो निपान्ति गुरु द्वेषो अररुषे दधन्ति ॥

अरा इवेद् अचरमा अहेव प्रप्रजायन्ते अकवा महोभिः ॥

पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सम्मिमिक्षुः ॥

अग्नीषोमा इमं युवम् एतानि ॥

अग्नीषोमा यो अद्य वाम् इदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥

आन्यं दिवो मातरिश्वा जभारामथ्नाद् अन्यं परि श्येनो अद्रेः ।
अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उलोकम् ॥

अग्नीषोमा य आहुतिं यो वां दाशाद् धविष्कृतिम् ।
स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥

अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥

आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
स्तुतः श्रवस्यन्न् अवसोप मद्रिग् युक्त्वा हरी वृषणायाह्य् अर्वाक् ॥

विवेष यन् मा धिषणा जजान ॥

तं सध्रीचीर् ऊतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुर् इन्द्रम् ।
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा आविशन्ति ॥

सत्यम् इत् तन् न त्वावं अन्यो ऽस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्न् अहिं परिशयानम् अर्णो ऽवासृजो अपो अछा समुद्रम् ॥

प्रससाहिषे पुरुहूत शत्रून् ॥

स शेवृधम् अधिधा द्युम्नम् अस्मे महि क्षत्रं जनाषाड् इन्द्र तव्यम् ।