अष्ट्रां पूषा शिथिराम् उद्वरीवृजत् सञ्चक्षाणो भुवना देव ईयते ॥म्स्_४,१४।१६॥
यद् देवा देवहेडनं यद् वाचानृतम् ओदिम ।
आदित्यास् तस्मान् मुञ्चतर्तस्य त्व् एनम् आमुतः ॥
देवा जीवनकाम्या यद् वाचानृतम् ओदिम ।
तस्मान् न इह मुञ्चत विश्वे देवाः सजोषसः ॥
ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति ।
कृतान् नः पाह्य् अंहसो यत् किञ्चानृतम् ओदिम ॥
इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः ।
ते नो मुञ्चन्त्व् एनसो यत् किञ्चानृतम् ओदिम ॥
सजातशंसाद् उत जामिशंसाज् ज्यायसः शंसाद् उत वा कनीयसः ।
अनाधृष्टं देवकृतं यद् एनस् तस्मात् त्वम् अस्मान् जातवेदो मुमुग्धि ॥
यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम ।
अग्निर् नस् तस्माद् एनसो गार्हपत्यः प्रमुञ्चतु दुरितानि यानि कानि च चकृम ॥
येन त्रितो अर्णवान् निर्बभूव येन सूर्यं तमसो निरमोचि ।
येनेन्द्रो विश्वा अजहाद् अरातीस् तेनाहं ज्योतिषा ज्योतिर् आनशान अयाक्षि ॥
यद् दैव्यम् ऋणम् अहं बभूव धिप्स्यं वा सञ्चकर जनेभ्यः ।
अग्निर् नस् तस्माद् इन्द्रश् च संविदानौ प्रमुञ्चताम् ॥
यत् कुसीदम् अप्रतीतं मयेह येन यमस्य निधिना चरावः ।
एतत् तद् अग्ने अनृणो भवामि जीवन्न् एव प्रति हस्तानृणानि ॥
यद् धस्ताभ्यां चकर किल्बिषान्य् अक्षाणां वग्मुम् अवजिघ्रम् आपः ।
उग्रं पश्याच् च राष्ट्रभृच् च तान्य् अप्सरसाम् अनुदत्तानृणानि ॥
उग्रं पश्येद् राष्टभृत् किल्बिषानि यद् अक्षवृत्तम् अनुदत्तम् एतत् ।
नेम् न ऋणान् ऋणवान् ईप्समानो यमस्य लोके निधिर् अजराय ॥
इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।
त्वाम् अवस्युर् आचके ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशम्स मा ना आयुः प्रमोषीः ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः ।
क्षयन्न् अस्मभ्यम् असुर प्रचेता राजन्न् एनांसि शिश्रथः कृतानि ॥
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्य् अस्मत् ॥
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो न एधि ॥
सङ्कसुको विकसुको निरृतो यश् च निस्वनः ।
ते ऽस्मद् यक्ष्मम् अनागसो दूराद् दूरम् अचीचतम् ॥
निर् यक्ष्मम् अचीचते कृत्यां निरृतिं चकार ।
तेन यो ऽस्मत् समृछातै तम् अस्मै प्रसुवामसि ॥
दुःशंसानुशंसाभ्यां घनेनानुघनेन च ।
तेन यो ऽस्मत् समृछातै तम् अस्मै प्रसुवामसि ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सं शिवेन ।