त्वं देवानाम् असि यह्व होता स एनान् यक्षीषितो यजीयान् ॥म्स्_४,१४।१५॥
अग्ने दा दा नो अग्ने ऽग्निर् ददात्य् अन्नपते अन्नस्य नो देह्य् अग्निना रयिम् अश्नवत् संसम् इद् युवसे वृषन् यास् ते ॥
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुर् एना जज्ञानाः पथ्या अनु स्वाः ॥
प्रेहि प्रेहि पथिभिः पूर्वेभिर् यत्रा नः पूर्वे पितरः परेताः ।
उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥
अङ्गिरोभिर् आगहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व ।
विवस्वन्तं हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥
इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः ।
यांश् च देवा वावृधुर् ये च देवान्त् स्वाहान्ये स्वधयान्ये मदन्ति ॥
परेयिवांसं प्रवतो महीर् अनु बहुभ्यः पन्थाम् अनुपस्पशानम् ।
वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य ॥
यास् ते पूषन् नावो अन्तः समुद्रे हिरण्ययीर् अन्तरिक्षे चरन्ति ।
ताभिर् यासि दूत्यं सूर्यस्य कामेन कृतः श्रव इछमानः ॥
शुक्रं ते अन्यद् यजतं ते अन्यत् ॥
पूषेमा आशा अनुवेद सर्वाः सो अस्मं अभयतमेन मेषत् ।
स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुछन् पुर एतु प्रजानन् ॥
प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
पूषा सुबन्धुर् दिव आ पृथिव्या इडस् पतिर् मघवा दस्मवर्चाः ।
यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥
अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः ।