१४

यदा चरिष्णू मिथुना अभूताम् आद् इत् प्रापश्यन् भुवनानि विश्वा ॥म्स्_४,१४।१४॥

वयम् उ त्वा गृहपते जनानाम् अग्ने अकर्म समिधा बृहन्तम् ।
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस् तेजसा संशिशाधि ॥

अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे ।
यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ॥

तेजिष्ठा यस्यारतिर् वनेराट् तोदो अध्वन् न वृधसानो अद्यौत् ।
अद्रोघो न द्रविता चेतति त्मन्न् अमर्त्यो ऽवर्त्र ओषधीषु ॥

आ यद् इषे नृपतिं तेजा आनट् शुचि रेतो निषिक्तं द्यौर् अभीके ।
अग्निः शर्धम् अनवद्यं युवानं स्वाध्यं जनयत् सूदयच् च ॥

स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥

स इद् अस्तेव प्रतिधाद् असिष्यञ् शिशीत तेजो ऽयसो न धाराम् ।
चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजंहाः ॥

हव्यवाड् अग्निर् अजरः पिता नः ॥

मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ॥

अयं स यस्य शर्मन्न् अवोभिर् अग्नेर् एधते जरिताभिष्टौ ।
ज्येष्ठेभिर् यो भानुभिर् ऋभूणां पर्येति परिवीतो विभावा ॥

अदिद्युतत् स्व् अपाको विभावाग्ने यजस्व रोदसी उरूची ।
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥

स नो विभावा चक्षणिर् न वस्तोर् अग्निर् वन्दारु वेद्यश् चनो धात् ।
विश्वायुर् यो अमृतो मर्त्येषु पर्य् अभूद् अतिथिर् जातवेदाः ॥

यो भानुभिर् विभावा विभात्य् अग्निर् देवेभिर् ऋतावाजस्रः ।
आ यो विवाय सख्या सखिभ्यो ऽपरिह्वृतो अत्यो न सप्तिः ॥

यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥

एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
शकेम रायः सुधुरो यमं ते ऽधि श्रवो देवभक्तं दधानाः ॥

वि पृक्षो अग्ने मघवानो अश्युर् वि सूरयो ददतो विश्वम् आयुः ।
सनेम वाजं समिथेष्व् अर्यो भागं देवेषु श्रवसे दधानाः ॥

आ नो गहि सख्येभिः शिवेभिर् महान् महीभिर् ऊतिभिः सरण्यन् ।
अस्मे रयिं बहुलं सन्तरुत्रं सुवाचं भागं यशसं कृधी नः ॥

कुर्मस् ता आयुर् अजरं यद् अग्ने यथा युक्तो जातवेदो न रिष्याः ।
अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥

हविषीव भजमानो ना आभाग् देवेभ्यः शिक्षन्न् उत मानुषेभ्यः ।