सं वज्रेणाभिनद् वृत्रम् इन्द्रः प्र स्वां मतिम् अतिरञ् शाशदानः ॥म्स्_४,१४।१३॥
त्वम् अपो वि दुरो विषूचीर् इन्द्र दृढम् अरुजः पर्वतस्य ।
राजाभवो जगतश् चर्षणीनां साकं सूर्यं जनयन् द्याम् उषासम् ॥
इन्द्रो राजा जगतश् चर्षणीनाम् अधि क्षमि विषुरूपं यद् अस्ति ।
ततो ददाति दाशुषे वसूनि चोदद् राध उपस्तुतश् चिद् अर्वाक् ॥
स्वादोर् इत्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर् दस्रा मदन्ति शोभसे वस्वीर् अनु स्वराज्यम् ॥
युध्मस्य ते वृषभस्य स्वराज्ञ उग्रस्य यूनः स्थविरस्य घृष्वेः ।
अजूर्यतो वज्रिणो वीर्याणीन्द्रः श्रुतस्य महतो महानि ॥
इदं नमो वृषभाय स्वराज्ञ उक्थशुष्माय तवसे ऽवाचि ।
अस्मिन्न् इन्द्र वृजने सर्ववीराः स्मत् सूरिभिस् तव शर्मन्त् स्याम ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेषु ॥
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन ।
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
न दक्षिणा विचिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा ।
पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥
धारयन्तः ॥
तिस्रो भूमीर् धारयंस् त्रीन्र् उत द्यूंस् त्रीणि व्रता विदथे अन्तर् एषाम् ।
ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥
यज्ञो देवानां प्रत्येतु सुम्नम् ॥
शुचिर् अपः सूयवसा अदब्धा उपक्षयन्ति वृद्धवयाः सुवीरः ।
नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानां भवति प्रणीतौ ॥
आदित्यो देव उदगात् पुरस्ताद् विश्वा भूतानि प्रति मोदमानः ।
तस्य देवाः प्रसवं यन्ति सर्वे यत्रास्य नाम परमं गुहा विदुः ॥
यस्य भान्ति केतवो यस्य रश्मयो यस्येमा विश्वा भुवनानि सर्वा ।
तस्यादित्यस्य प्रसवं मनामहे यस् तेजसा प्रथमजा विभाति ॥
विभाति केतुर् अरुणः पुरस्ताद् आदित्यो विश्वा भुवनानि सर्वा ।
सुगं नु पन्थाम् अन्वेति प्रजानन् पिता देवानाम् असुरो विपश्चित् ॥
व्रतेन यं व्रतिनो वर्धयन्ति देवा मनुष्याः पितरश् च सर्वे ।
तस्यादित्यस्य प्रसवं मनामहे यस् तेजसा प्रथमजा विभाति ॥
आदित्यः शुक्र उदगात् पुरस्ताज् ज्योतिः कृण्वन् वि तमो बाधमानः ।
आभासमानः प्रदिशो नु सर्वा भद्रस्य कर्ता रोचमाना आगात् ॥
यदेद् एनम् अदधुर् यज्ञियासो दिवि देवाः सूर्यम् आदितेयम् ।