स नो हविः प्रतिगृभ्णातु रातये देवानां देवो निधिपा नो अव्यात् ॥म्स्_४,१४।१२॥
इन्द्रो वृत्रम् अतरद् वृत्रतूर्ये ऽनाधृष्यो मघवा शूरा इन्द्रः ।
अन्व् एनं विशो अमदन्त पूर्वीर् अयं राजा जगतश् चर्षणीनाम् ॥
स एव वीरः स उ वीर्यावान्त् स एकराजो जगतः परस्पाः ।
यदा वृत्रम् अतरञ् शूरा इन्द्रो अथैकराजो अभवज् जनानाम् ॥
इन्द्रो यज्ञं वर्धयन् विश्ववेदाः पुरोडाशस्य जुषतां हविर् नः ।
वृत्रं तीर्त्वा दानवं वज्रबाहुर् दिशो ऽदृंहद् दृंहिता दृंहणेन ॥
इमं यज्ञं वर्धयन् विश्ववेदाः पुरोडाशं प्रतिगृभ्णात्व् इन्द्रः ।
यदा वृत्रम् अतरञ् शूरा इन्द्रो अथाभवद् दमिताभिक्रतूनाम् ॥
अहन् वृत्रम् ॥
इन्द्रो देवाञ् शम्बरहत्य आवद् इन्द्रो देवानाम् अभवत् पुरोगाः ।
इन्द्रो यज्ञे हविषा वावृधानो वृत्रतूर् नो अभयं शर्म यंसत् ॥
इन्द्रस्य वृष्णो जनिष्ठा उग्र इन्द्र एषां नेता भूरि चकर्थ ॥
त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभिः स्तवस इन्द्र देवैर् विद्यामेषं वृजनं जीरदानुम् ॥
यः सप्त सिन्धूंर् अदधात् पृथिव्यां यः सप्त लोकान् अकृणोद् दिशश् च ।
इन्द्रो हविष्मान्त् सगणो मरुद्भिर् वृत्रतूर् नो यज्ञम् इहोपयासत् ॥
समिद्धा इन्द्रो ऽनवस् ते ॥
इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥
अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रम् अवजग्मुर् आपः ॥
इन्द्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेद् उ राजा क्षयति चर्षणीनाम् अरान् न नेमिः परि ता बभूव ॥
अभि सिध्मो अजिगाद् अस्य शत्रून् वि तिग्मेन वृषभेणा पुरो ऽभेत् ।