वैश्वानरं बिभ्रती भूमिर् अग्निम् इन्द्र ऋषभा द्रविणं नो दधातु ॥म्स्_४,१४।११॥
आ वां मित्रावरुणा हव्यदातिं नमसा देवा अवसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥
ऋतस्य गोपा अधितिष्ठथो रथं सत्यधर्माणा परमे व्योमन् ।
यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ॥
वाचं सु मित्रावरुणा ऋतावरीं पर्जन्यश् चित्रां वदति त्विषीमतीम् ।
अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ॥
वसत : फ़्न् पद। एद्।: वसथ
सम्राजा अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी विचरन्ति तन्यवः ॥
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर् गव्यूतिम् उक्षतम् इडाभिः ।
प्रति वाम् अत्र वरम् आ जनाय पृणीतम् उद्नो दिव्यस्य चारोः ॥
सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी ।
चित्रेभिर् अभ्रैर् उपतिष्ठतो रवं द्यां वर्षयतो असुरस्य मायया ॥
आ ते महो यो जात एवाभि गोत्राणि ॥
आभिः स्पृधो मिथतीर् अरिषण्यन्न् अमित्रस्य व्यथया मन्युम् इन्द्र ।
आभिर् विश्वा अभियुजो विषूचीर् आर्याय विशो ऽवतारीर् दासीः ॥
अयं शृण्वे अध जयन्न् उत घ्नन्न् अयम् उत प्रकृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युम् इन्द्रो विश्वं दृढं भयता एजद् अस्मात् ॥
अनु स्वधाम् अक्षरन्न् आपो अस्यावर्धत मध्या आ नाव्यानाम् ।
सध्रीचीनेन मनसा तम् इन्द्रा ओजिष्ठेन हन्मनाहन्न् अभि द्यून् ॥
इन्द्रस् तरस्वान् अभिमातिहोग्रो हिरण्यवर्ण इषिरः स्वर्षाः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
हिरण्यवर्णो अभयं कृणोत्व् अभिमातिहेन्द्रः पृतनासु जिष्णुः ।
स नः शर्म त्रिवरूथं वियंसद् यूयं पात स्वस्तिभिः सदा नः ॥
इन्द्रं स्तुहि वज्रिणं सोमपृष्ठं पुरोडाशस्य जुषतां हविर् नः ।
हत्वाभिमातीः पृतनाः सहस्वान् अथाभयं कृणुहि विश्वतो नः ॥
स्तुहि शूरं वज्रिणम् अप्रतीकं वृत्रहणं पुरुहूतम् इन्द्रम् ।
य एका इञ् शतपतिर् जनेषु तस्मा इन्द्राय हविषा जुहोत ॥
इन्द्रो देवानाम् अधिपाः पुरोहितो विशां पतिर् अभवद् वाजिनीवान् ।
अभिमातिहा तविषस् तुविष्मान् अस्मभ्यं चित्रं वृषणं रयिं दात् ॥
य इमे द्यावापृथिवी महित्वा बलेनादृंहद् अभिमातिहेन्द्रः ।