प्र बाहवा ॥म्स्_४,१४।१०॥
आ नो विश्वा आस्क्रा गमन्त देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन् यथा नो विश्वे वृधासः करन्त् सुषाहा विथुरं न शवः ॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिर् अस्तु ।
शम् अभिषाचः शम् उ रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥
ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद् गोमद् अप्नो दधातन द्रविणं चित्रम् अस्मे ॥
सुगा वो देवा विश्वे देवाः ॥
द्यौः पितः पृथिवि मातर् अध्रुग् अग्ने भ्रातर् वसवो मृडता नः ।
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वियन्त ॥
द्यौः : फ़्न् एद्।: द्यौः। च्फ़्। नोते १०
ईडे अग्निं स्ववसं नमोभिर् इह प्रसत्तो विचयत् कृतं नः ।
रथैर् इव प्रभरे वाजयद्भिः प्रदक्षिणिन् मरुतां स्तोमम् अश्याम् ॥
त्विषीमन्तो अध्वरस्येव दिद्युत् त्रिषुच्यवसो जुह्वो नाग्नेः ।
अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
अग्ने याहि दूत्यं मा रिषण्यो देवं अछा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापो यक्षि देवान् रत्नधेयाय विश्वान् ॥
प्र चित्रम् अर्कं गृणते तुराय ॥
ये अग्नयो न शोशुचन्न् इधाना द्विर् यत् त्रिर् मरुतो वावृधन्त ।
अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश् च भूवन् ॥
आ वो यन्तूदवाहासो अद्य ॥
सत्यं बृहद् ऋतम् उग्रं दीक्षा तपो ब्रह्म यज्ञाः पृथिवीं धारयन्ति ।
सा नो भूतस्य भुवनस्य पत्न्य् उरुं लोकं पृथिवी नः कृणोतु ॥
असम्बाधा या मध्यतो मानवेभ्यो यस्या उद्वतः प्रवतः समं महत् ।
नानारूपा ओषधीर् या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥
यां रक्षन्त्य् अस्वप्ना विश्वदानीं देवा भूमिं पृथिवीम् अप्रमादम् ।
सा नो मधु घृतं दुहाम् अथो उक्षतु वर्चसा ॥
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
या बिभर्ति बहुधा प्राणद् एजत् सा नो भूमिः पूर्वपेयं दधातु ॥
यास् ते प्राचीः प्रदिशो या उदीचीर् याश् च भूम्य् अधराग् याश् च पश्चा ।
शिवास् ता मह्यं चरते भवन्तु मा निपप्तं भुवने शिश्रियाणः ॥
विश्वम्भरा वसुधानी पुरुक्षुद् धिरण्यवर्णा जगतः प्रतिष्ठा ।