मूर्धानं दिवः पृष्टो दिवि वैश्वानरस्य सुमतौ स्याम त्वम् अग्ने शोचिषा शोशुचानो ऽग्निः प्रातः सवनाद् विश्वं विव्याच ॥म्स्_४,१४।९॥
आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर् यात्व् अश्वैः ।
घृतवर्तनिः पविभी रुचान इषां वोढा नृपतिर् वाजिनीवान् ॥
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसायातु युक्तः ।
विशो येन गछथो देवयन्तीः कुत्रा चिद् यामम् अश्विना दधाना ॥
स्वश्वा यशसायातम् अर्वाग् दस्रा निधिं मधुमन्तं पिबाथः ।
वि वां रथो वध्वा यादमानो ऽन्तान् दिवो बाधते वर्तनिभ्याम् ॥
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नः शं योर् उषसो व्युष्टौ न्य् अश्विना वहतं यज्ञे अस्मिन् ॥
युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
यद् देवयन्तम् अवथः शचीभिः परि घ्रंसम् ओमना वां वयो गात् ॥
युवं भुज्युम् अवविद्धं समुद्र उदूहथुर् अर्णसो अस्रिधानैः ।
पतत्रिभिर् अश्रमैर् अव्यथिभिर् दंसनाभिर् अश्विना पारयन्ता ॥
ब्रह्मणस्पते त्वम् अस्य यन्ता ॥
स ईं सत्येभिः सखिभिः शुचद्भिर् गोधायसं वि धनसैर् अदर्दः ।
ब्रह्मणस्पतिर् वृषभिर् वराहैर् घर्मस्वेदेभिर् द्रविणं व्यानट् ॥
ब्रह्मणस्पतेर् अभवद् यथावशं सत्यो मन्युर् महि कर्मा करिष्यतः ।
यो गा उदाजत् स दिवे वि चाभजन् महीव रीतिः शवसासरत् पृथक् ॥
इन्धानो अग्निं वनवद् वनुष्यतः कृतब्रह्मा शूशुवद् रातहव्या इत् ।
जातेन जातम् अति स प्रसर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
ब्रह्मणस्पते सूयमस्य विश्वहा ॥
स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजं भरते धना नृभिः ।
देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥
आयातं मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना ।
सं या अप्नःस्थो अपसेव जनाञ् श्रुधीयतश् चिद् यतथो महित्वा ॥
युवं वस्त्राणि पीवसा वसाथे युवोर् अछिद्रा मन्तवो ह सर्गाः ।
अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
को नु वां मित्रावरुणा ऋतायन् दिवो वा महः पार्थिवस्य वा दे ।
ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो नु वाजान् ॥
तत् सु वां मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे ।
विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आववर्त ॥
यद् बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा ।
तेन नो मित्रावरुणा अविष्टं सिषासन्तो जिगीवांसः स्याम ॥
गोपा : फ़्न् बेन्, पद। ह्, ब्ब्: गोपाः