०८

दस्युहनं पूर्भिदम् इन्द्र सत्यम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥म्स्_४,१४।८॥

त्वष्टा पत्नीभिर् इह नः सजोषा देवो देवीभिर् हविषो जुषाणः ।
उपो रयिं बहुलं विष्यता नः शृणोत नः सुमतिं यज्ञियासः ॥

रेतोधा यस्य भुवनस्य देवः ससाद योनौ जनिता जनिष्ठः ।
रूपाणि कृण्वन् विदधद् वपूंषि त्वष्टा पत्नीभिश् चरति प्रजानन् ॥

त्वष्टा पत्नीभिर् अनु मंहनेवाग्रेयावा धिषणे यं दधाते ।
विश्वा वसु हस्तयोर् आदधानो ऽन्तर् मही रोदसी याति साधन् ॥

आ नो वीरेभिर् जनिता मतीनां गोभिर् अश्वेभिर् वसुभिर् वसूयन् ।
समञ्जानो धामभिर् विश्वरूपैस् त्वष्टा पत्नीभिश् चरति प्रजानन् ॥

त्वष्टा रेतो भुवनस्य पत्नीर् विकृण्वानास् तनयं भूरि पश्वः ।
ग्ना वो देवी रोदसी तञ् शृणोता नो रयिं जनत विश्ववारम् ॥

यज्ञं च नस् तन्वं च प्रजां च रयिं च नो जनत विश्वरूपम् ।
योनौ रेतो दधद् अस्मे नु त्वष्टा देवीः पत्नीर् जनत जीवसे नः ॥

वि मञ् श्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य ।
मा तन्तुश् छेदि वयतो धियं मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥

पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् ।
अव्युष्टा इन् नु भूयसीर् उषासा आ नो वीरान् वरुण तासु शाधि ॥

अपो षु म्यक्ष वरुण भियसं मत् सम्राड् ऋतावो ऽनु नो गृभाय ।
दामेव वत्साद् विमुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥
विमुमुग्ध्य् : फ़्न् एमेन्देद्। एद्।: विमुमुग्ध्य्।

यो मे राजन् युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यम् आह ।
स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥

मा नो वधैर् वरुण ये त इष्टा एनः कृण्वन्तम् अरुण भ्रीणन्ति ।
मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥

क्व त्यानि नौ सख्या बभूवुः सचावहै यद् अवृकं पुरा चित् ।
बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥