०७

पारावतघ्नीम् अवसे सुवृक्तिभिः सरस्वतीम् आविवासेम धीतिभिः ॥म्स्_४,१४।७॥

शुचिं नु स्तोमं श्नथद् वृत्रम् उभा वाम् इन्द्राग्नी प्र चर्षणिभ्य आ वृत्रहणा गीर्भिर् विप्रस् त्वष्टा दधत् तन् नस् तुरीपं त्वष्टा वीरम् ॥

पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा विष्यतु नाभिम् अस्मे अधा देवानाम् अप्येतु पाथः ॥

देव त्वष्टः ॥

आविष्ट्यो वर्धते चारुर् आसु जिह्मानाम् ऊर्ध्वः स्वयशा उपस्थे ।
उभे त्वष्टुर् बिभ्यतुर् जायमानात् प्रतीची सिंहं प्रतिचेतयेते ॥

जगृह्मा ते दक्षिणम् इन्द्र हस्तम् ॥

सुब्रह्माणं देववन्तं महान्तम् उरुं गभीरं पृथुबुध्नम् इन्द्र ।
श्रुतऋषिम् उग्रम् अभिमातिषाहम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

वनीवानो मम दूतासा इन्द्रं स्तोमाश् चरन्ति सुमतीर् इयाणाः ।
हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
चर्कृत्यं शंस्यं भूरिवारम् उग्रम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजम् इन्द्र ।
भद्रव्रातं विप्रवीरं स्वर्षाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

सनद्वाजं विप्रवीरं तरुत्रं धनुस्पृतं शूशुवांसं सुदक्षम् ।