०६

या ओषधयो ऽश्वावतीम् ओषधीर् इति मातरो ऽति विश्वाः परिष्ठा यद् ओषधयः सङ्गछन्ते ऽन्या वो अन्याम् ॥म्स्_४,१४।६॥
वो : फ़्न् एमेन्देद्। एद्।: वो

मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिर् अर्कैः ।
यत् सीं वरिष्ठे बृहती विमिन्वन् रुवद् धोक्षा पप्रथानेभिर् एवैः ॥

प्र पूर्वजे ॥

स इत् स्वपा भुवनेष्व् आस य इमे द्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥

भूरि द्वे अचरन्ती चरन्तं पद्वन्तं गर्भम् अपदी दधाते ।
नित्यं न सूनुं पित्रोर् उपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् ।
भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥

उर्वी पृथ्वी बहुले दूरेअन्ते उपब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

इन्द्रो भूतस्य भुवनस्य राजेन्द्रो दाधार पृथिवीम् उतेमाम् ।
इन्द्रे ह विश्वा भुवना श्रितानीन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रः पृणन्तं पपुरिं चेन्द्रा इन्द्रः स्तुवन्तं स्तवितारम् इन्द्रः ।
दधाति शक्रः सुकृतस्य लोक इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो द्यौर् उर्व्य् उत भूमिर् इन्द्रा इन्द्रः समुद्रो अभवद् गभीरः ।
उर्व् अन्तरिक्षं स जनासा इन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो वृत्रं वज्रेणावधीद् धीन्द्रो व्यंसम् उत शुष्णम् इन्द्रः ।
इन्द्रः पुरः शम्बरस्याभिनद् धीन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो बभूव ब्रह्मणा गभीर इन्द्रा आभूतः परिभूष्व् इन्द्रः ।
इन्द्रो भविष्यद् उत भूतम् इन्द्रा इन्द्रं मन्ये पितरं मातरं च ॥

इन्द्रो ऽस्मं अवतु वज्रबाहुर् इन्द्रे भूतानि भुवनानीन्द्रे ।
अस्माकम् इन्द्रो भवतु प्रसाह इन्द्रं मन्ये पितरं मातरं च ॥

उत स्या नः सरस्वती जुषाणोपश्रुवत् सुभगा यज्ञे अस्मिन् ।
द्युतद्युभिर् नमस्यैर् इयाणा राया युजा चिद् उत्तरा सखिभ्यः ॥

प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः ।
प्र बाधमाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥

एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्या आ समुद्रात् ।
रायश् चेतन्ती भुवनस्य भूरेर् घृतं पयो दुदुहे नाहुषाय ॥

इदम् अददाद् रभसम् ऋणच्युतं दिवोदासं वध्रीयश्वाय दाशुषे ।
या शस्वन्तम् आचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥

अयम् उ ते सरस्वति वसिष्ठो द्वारा ऋतस्य सुभगे व्यावः ।
वर्ध शुभ्रे स्तुवते रासि वाजान् यूयं पात स्वस्तिभिः सदा नः ॥

इयं शुष्मेभिर् बिसखा इवारुजत् सानु गिरीणां तविषेभिर् ऊर्मिभिः ।