०५

रिणग् रोधांसि कृत्रिमान्य् एषां सोमस्य ता मदा इन्द्रश् चकार ॥म्स्_४,१४।५॥

विष्णुं देवं वरुणम् ऊतये भगं मेदसा देवा वपया यजध्वम् ।
ता नो यज्ञम् आगतं विश्वधेना प्रजावद् अस्मे द्रविणेह धत्तम् ॥

मेदसा देवा वपया यजध्वं विष्णुं च देवं वरुणं च रातिम् ।
ता नो अमीवाम् अपबाधमाना इमं यज्ञं जुषमाणा उपेतम् ॥

विष्णूवरुणा युवम् अध्वराय नो विशे जनाय महि शर्म यछतम् ।
दीर्घप्रयज्यू हविषा वृधाना ज्योतिषारातीर् दहतं तमांसि ॥

ययोर् ओजसा स्कभिता रजांसि वीरेभिर् वीरतमा शविष्ठा ।
या पत्येते अप्रतीता सहोभिर् विष्णू अगन् वरुणा पूर्वहूतिम् ॥

विष्णूवरुणा अभिशस्तिपावा देवा यजन्त हविषा घृतेन ।
अपामीवां सेधतं रक्षसश् चाथा धत्तं यजमानाय शं योः ॥

अंहोमुचा वृषभा सुप्रतूर्ती देवानां देवतमा शविष्ठा ।
विष्णूवरुणा प्रतिहर्यतं न इदं नरा प्रयतम् ऊतये हविः ॥

आ देवो याति सविता सुरत्नो ऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ् च प्रसुवञ् च भूम ॥

अभीवृतं कृशनैर् विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
आस्थाद् रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥

स घा नो देवः सविता सहावासाविषद् वसुपतिर् वसूनि ।
विश्रयमाणो अमतिम् उरूचीं मर्तभोजनम् अध रासते नः ॥

आ कृष्णेन रजसा वामम् अद्य ॥

भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्यात् ।
आये वामस्य सङ्गथे रयीणां प्रिया देवस्य सवितुः स्याम ॥