०४

विष्टम्भो दिवः स्तीर्णं बर्हिः ॥म्स्_४,१४।४॥

विष्णोर् नु कं तद् अस्य प्र तद् विष्णुः ॥

परो मात्रया तन्वा वृधान न ते महित्वम् अन्वश्नुवन्ति ।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥

विचक्रमे पृथिवीम् एष एतां क्षेत्राय विष्णुर् मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥

त्रिर् देवः पृथिवीम् एष एतां विचक्रमे शतर्चसं महित्वा ।
प्र विष्णुर् अस्तु तवसस् तवीयांस् त्वेषं ह्य् अस्य स्थविरस्य नाम ॥

इन्द्रं नरो नेमधिता युजे रथम् ॥

जगृह्मा ते दक्षिणम् इन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
विद्मा हि त्वा गोपतिं शूर गोनाम् अस्मभ्यं चित्रं वृषणं रयिं दाः ॥

तवेदं विश्वम् अभितः पशव्यं यत् पश्यसि चक्षसा सूर्यस्य ।
गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥

सम् इन्द्र नः ॥

आराञ् शत्रुम् अपबाधस्व दूरम् उग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद् गोमद् इन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥

इन्द्रो बलं रक्षितारं दुघानां करेणेव विचकर्ता रवेण ।
स्वेदाञ्जिभिर् आशिरम् इछमानो ऽरोदयत् पणिम् आ गा अमुष्णात् ॥

अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अपि हि बलं वः ।
तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ॥

इन्द्रा ओषधीर् असनोद् अहानि वनस्पतींर् असनोद् अन्तरिक्षम् ।
बिभेद वलं नुनुदे विवाचो ऽथाभवद् दमिताभिक्रतूनाम् ॥

यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य ।
यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनासा इन्द्रः ॥

अभि स्ववृष्टिम् ॥

भिनद् वलम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृंहितान्य् ऐरत् ।