०३

सरस्वत्य् अभि नो नेषि वस्य इदं ते हव्यम् ॥म्स्_४,१४।३॥

आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् ।
सादद्योनिं दमा आ दीदिवांसं हिरण्यवर्णम् अरुषं सपेम ॥

स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः ।
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥

बृहस्पतिः स सुष्टुभा ॥

बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
यद् दीदयञ् शवस ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥

एवा पित्रे विश्वदेवाय वृष्णे ॥

सूर्यो देवीम् उषसं रोचमानां मर्यो न योषाम् अभ्येति पश्चा ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

भद्रा अश्वास् तत् सूर्यस्य ॥

तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्यौर् उपस्थे ।
अनन्तम् अन्यद् रुशद् अस्य पाजः कृष्णम् अन्यद् धरितः सम्भरन्ति ॥

अद्या देवा उदिता सूर्यस्य निर् अंहसः पिपृता निर् अवद्यात् ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥

चित्रं देवानाम् उदगाद् अनीकं सुत्रामाणं महीम् ऊ ष्व् अदितिः पाशान् ॥

अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥