०२

यज्ञेन यज्ञम् अयजन्त देवाः ॥म्स्_४,१४।२॥

अग्ने नय ॥

प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूंष्य् अन्तर् विश्वानि विद्मना जिगाति ॥

अग्ने त्वं पारय ॥

अछा गिरो मतयो देवयन्तीर् अग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसन्दृशं सुप्रतीकं स्वञ्चं हव्यवाहम् अरतिं मानुषाणाम् ॥

अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥

प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
दक्षिणावाड् वाजिनी प्राच्य् एति हविर् भरन्त्य् अग्नये घृताची ॥

उद् उत्तमम् अस्तभ्नाद् द्याम् इमां धियम् ॥

कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म ।
सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥

अव ते हेडो वरुण तत् त्वा यामि ॥

पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
ग्नाभिर् अछिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥

आ नो दिवः ॥

इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधाना उपस्थेयाम शरणं न वृक्षम् ॥

यस् ते स्तनः शशयो यो मयोभूर् येण विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥