०१

प्रजापतिः प्रथमजा ऋतस्य सहस्रधामा जुषतां हविर् नः ॥म्स्_४,१४।१॥

वायो शतं हरीणां युवस्व पोष्याणाम् ।
उत वा ते सहस्रिणो रथा आयातु पाजसा ॥

ईशानाय प्रहुतिं यस् ता आनट् शुचिं सोमं शुचिपास् तुभ्यं वायो ।
कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्य् अस्य ॥

युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
आन् नो वायो मधु पिबास्माकं सवनागहि ॥

कुविद् अङ्ग नमसा ये वृधासः पुरा देवा अनवद्यासा आसन् ।
ते वायवे मनवे बाधितायावासयन्न् उषसं सूर्येण ॥

आ नो वायो महे तने याहि मखाय पाजसे ।
वयं हि ते चकृमा भूरि दावने सद्यश् चिन् महि दावने ॥

सं ते वायुः ॥

पीवोअन्नं रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुताम् अभिश्रीः ।
ते वायवे समनसो वितस्थुर् विश्वेन् नरः स्वपत्यानि चक्रुः ॥

राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥

आ वायो प्र वायुं प्र याभिः ॥

आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उपयाहि यज्ञम् ।
वायो अस्मिन्त् सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

देवानां भद्रा सुमतिर् ऋजूयतां देवानां रातिर् अभि नो निवर्तताम् ।
देवानां सख्यम् उपसेदिमा वयं देवा ना आयुः प्रतिरन्तु जीवसे ॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यद् आयुः ॥

शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः ॥

आ वो देवास ईमहे ॥

उत देवा अवहितं देवा उन्नयथा पुनः ।
उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥