हव्यवाड् अग्निर् इडोपहूता ॥म्स्_४,१३।१०॥
सोमो धेनुं सोमो अर्वन्तम् आशुं सोमो वीरं कर्मण्यं ददाति ।
सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशद् अस्मै ॥
अषाढं युत्सु पृतनासु पप्रिं स्वर्षाम् अप्सां वृजनस्य गोपाम् ।
भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वाम् अनुमदेम सोम ॥
त्वं सोम क्रतुभिः सुक्रतुर् भूस् त्वं दक्षैः सुदक्षो विश्ववेदाः ।
त्वं वृषा वृषत्वेभिर् महित्वा द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः ॥
या ते धामानि दिवि या पृथिव्याम् ॥
त्वम् इमा ओषधीः सोम विश्वास् त्वम् अपो अजनयस् त्वं गाः ।
त्वम् आततन्थोर्व् अन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
या ते धामानि हविषा यजन्ति सोमापूषणेमौ देवौ ॥
सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् ।
विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे ।
ता अस्मभ्यं पुरुवारं पुरुक्षुं रायस् पोषं विष्यतां नाभिम् अस्मे ॥
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु ॥
अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ॥
विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति ।
सोमापूषणा अवतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
प्रजापते नहि त्वत् तान्य् अन्यो विश्वा जातानि परि ता बभूव ।
यस्मै कं जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥
रयीणां पतिं यजतं बृहन्तम् अस्मिन् भरे नृतमं वाजसातौ ।
प्रजापतिं प्रथमजाम् ऋतस्य यजाम देवम् अधि नो ब्रवीतु ॥
प्रजापते त्वं निधिपाः पुराणो देवानां पिता जनिता प्रजानाम् ।
पतिर् विश्वस्य जगतः परस्पा हविर् नो देव विहवे जुषस्व ॥
तवेमे लोकाः प्रदिशो दिशश् च परावतो निवत उद्वतश् च ।
प्रजापते विश्वसृग् जीवधन्य इदं नो देव प्रतिहर्य हव्यम् ॥
प्रजापतिं प्रथमं यज्ञियानां देवानाम् अग्रे यजतं यजध्वम् ।
स नो ददातु श्रवणं पित्πणां तस्मै ते देव हविषा विधेम ॥
यो राय ईशे शतदाय उक्थ्यो यः पशूनां रक्षिता विष्ठितानाम् ।