०९

अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशं गृह्णन्न् अग्नया आज्यं गृह्णन्त् सोमायाज्यं बध्नन्न् इन्द्राग्निभ्यां छागं सूपस्था अद्य देवो वनस्पतिर् अभवद् अग्नया आज्येन सोमायाज्येनेन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रतिपचताग्रभीष्टाम् अवीवृधेतां पुरोडाशेन त्वाम् अद्य ऋष आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्या आ सङ्गतेभ्य एष मे देवेषु वसु वार्यायक्ष्यता इति ता या देवा देवदानान्य् अदुस् तान्य् अस्मा आ च शास्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीदं द्यावापृथिवी भद्रम् अभूद् आर्ध्म सूक्तवाकम् उत नमोवाकम् ऋध्यास्म सूक्तोच्यम् अग्ने त्वं सूक्तवाग् अस्य् उपश्रुति दिवस् पृथिव्योर् ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्तां शङ्गवी जीरदानू अत्रस्नू अप्रवेदे असम्बाधे उरुगव्यूती अभयङ्कृतौ वृष्टिद्यावा रीत्यापा शम्भुवौ मयोभुवऊर्जस्वती च पयस्वती च सूपचरणा च स्वधिचरणा च तयोर् आविद्य् अग्निर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत सोम इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतेन्द्राग्नी इदं हविर् अजुषेताम् अवीवृधेतां महो ज्यायो ऽक्रातां वनस्पतिर् इदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृत देवा आज्यपा आज्यम् अजुषन्तावीवृधन्त महो ज्यायो ऽक्रत अग्निर् होत्रेणेदं हविर् अजुषतावीवृधत महो ज्यायो ऽकृतास्याम् ऋधद् धोत्रायां देवङ्गमायाम् आशास्ते ऽयं यजमान आयुर् आशास्ते सुप्रजास्त्वम् आशास्ते विश्वं प्रियम् आशास्ते यद् अनेन हविषाशास्ते तद् अश्यात् तद् ऋध्यात् तद् अस्मै देवा रासन्तां तद् अग्निर् देवो देवेभ्यो वनुतां वयम् अग्नेर् मानुषा इष्टं च वीतं चोभे च नो द्यावापृथिवी अंहसस् पाताम् एह गतिर् वामस्येदं नमो देवेभ्यः ॥म्स्_४,१३।९॥
होतर् : फ़्न् प्। एद्।: होतर्। च्फ़्। त्ब्।३।६।१५।१

तञ् शंयोर् आवृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिर् अस्तु नः सवस्तिर् मानुषेभ्यः ।
ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

आप्यायस्व सं ते पयांसि ॥

इह त्वष्टारम् अग्रियं विश्वरूपम् उपह्वये ।
अस्माकम् अस्तु केवलः ॥

तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व ।
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

देवानां पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये ।
याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यछत ॥

उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।
आ रोदषी वरुणानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥

राकाम् अहं यास् ते राके सिनीवालि या सुपाणिः कुहूम् अहं कुहूर् देवानाम् ॥

अग्निर् होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
देवानाम् उत यो मर्त्यानां यजिष्ठः स प्रयजताम् ऋतावा ॥