देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वसुवने वसुधेयस्य वेतु देवीर् द्वारः सङ्घाते वीड्वीर् यामञ् शिथिरा ध्रुवा देवहूतौ वत्स ईम् एनास् तरुणा आमिमीयात् कुमारो वा नवजातो मैना अर्वा रेणुककाटः प्रणग् वसुवने वसुधेयस्य व्यन्तु यज देवीर् द्वारो वसुवने वसुधेयस्य व्यन्तु देवी उषासानक्ताद्यास्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनं दैवीर् विशः प्रायासिष्टां सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज देवी उषासानक्ता वसुवने वसुधेयस्य वीतां देवी जोष्ट्री वसुधिती ययोर् अन्याघा द्वेषांसि यूयवद् आन्या वक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री वसुवने वसुधेयस्य वीतां देवी ऊर्जाहुती इषम् ऊर्जम् अन्या वक्षत् सग्धिं सपीतिम् अन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं ताम् ऊर्जम् ऊर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती वसुवने वसुधेयस्य वीतां देवा दैव्या होतारा पोतारा नेष्टारा हताघशंसा आभरद्वसू वसुवने वसुधेयस्य वीतां यज देवा दैव्या होतारा वसुवने वसुधेयस्य वीतां देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्यां भारत्य् आदित्यैर् अस्पृक्षत् सरस्वतीमं रुद्रैर् यज्ञम् आवीद् इहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य व्यन्तु यज देवीस् तिस्रस् तिस्रो देवीर् वसुवने वसुधेयस्य व्यन्तु देवो नराशंसस् त्रिशीर्षा षडक्षः शतम् इद् एनं शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेद् अस्य होत्रम् अर्हतो बृहस्पतिः स्तोत्रम् अश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज देवो नराशंसो वसुवने वसुधेयस्य वेतु देवो वनस्पतिर् वर्षप्रावा घृतनिर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृंहीद् वसुवने वसुधेयस्य वेतु यज देवो वनस्पतिर् वसुवने वसुधेयस्य वेतु देवं बर्हिर् वारितीनां निधेधासि प्रच्युतीनाम् अप्रच्युतं निकामधरणं पुरुषस्पार्हं यशस्वद् एना बर्हिषान्या बर्हींष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनां वसुवने वसुधेयस्य वेतु देवो अग्निः स्विष्टकृद् यज देवो अग्निः स्विष्टकृत् ॥म्स्_४,१३।८॥