०६

पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ॥म्स्_४,१३।६॥

आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् ।
युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ॥

होता यक्षद् इन्द्राग्नी छागस्य हविषा आत्ताम् अद्य मध्यतो मेदा उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो ऽङ्गादङ्गाद् अवत्तानां करत एवेन्द्राग्नी जुषेतां हविर् होतर् यज ॥

गीर्भिर् विप्रः प्रमतिम् इछमाना ईट्टे रयिं यशसं पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥

देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस् ते अर्थम् ।
प्रदक्षिणिद् रशनया नियूय ऋतस्य वक्षि पथिभी रजिष्ठैः ॥

होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित यत्राग्नेर् आज्यस्य प्रिया धामानि यत्र सोमस्याज्यस्य हविषः प्रिया धामानि यत्रेन्द्राग्न्योश् छागस्य हविषः प्रिया धामानि यत्र वनस्पतेः प्रिया पाथांसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतं प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षद् रभीयांसम् इव कृत्वी करद् एवं देवो वनस्पतिर् जुषतां हविर् होतर् यज ॥

वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् ।
वहा देवत्रा दधिषो हवींषि प्र च दातारम् अमृतेषु वोचः ॥

पिप्रीहि देवान् ॥

होता यक्षद् अग्निं स्विष्टकृतम् अयाड् अग्निर् अग्नेः प्रिया धामान्य् अयाट् सोमस्याज्यस्य हविषः प्रिया धामान्य् अयाड् इन्द्राग्न्योश् छागस्य हविषः प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथांस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आयजताम् एज्या इषः कृणोतु सो अध्वराञ् जातवेदा जुषतां हविर् होतर् यज ॥