०५

ब्रह्म देवकृतम् उपहूतं दैव्या अध्वर्यवा उपहूता उपहूता मनुष्या य इमं यज्ञम् अवान् ये च यज्ञपतिं वर्धान् उपहूते द्यावापृथिवी पूर्वजे ऋतावरी देवी देवपुत्रे उपहूतो ऽयं यजमाना उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविःकरणे दिव्ये धामन्न् उपहूतो देवा म इदं हविर् जुषन्ताम् इति तस्मिन्न् उपहूतः ॥म्स्_४,१३।५॥
उपहूता : फ़्न् ⟨ उपहूतास्
उपहूता : फ़्न् एमेन्देद्। एद्।: उपहूता।
देवयज्यायाम् : फ़्न् एमेन्देद्। एद्।: देवयाज्यायाम्

त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥

अधा होता न्यसीदो यजीयान् इडस् पद इषयन्न् ईड्यः सन् ।
त्वं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनुग्मन् ॥

वृतेव यन्तं बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनुग्मन् ।
रुशन्तम् अग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥

पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् ।
नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त सन्दृष्टौ ॥

त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ॥

सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो निषसादा यजीयान् ।
तं त्वा वयं दमा आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ॥

तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः ।
त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥

विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
प्रेतीषणिम् इषयन्तं पावकं राजन्तम् अग्निं यजतं रयीणाम् ॥

सो अग्न ईजे शशमे च मर्तो यस् ता आनट् समिधा हव्यदातिम् ।
य आहुतिं परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ॥

अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः ।
वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ॥

आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः ।
बृहद्भिर् वाजैः स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं विभाहि ॥

नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः ।
पूर्वीर् इषो बृहतीर् आरेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥

पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् ।