ता एनं प्रविद्वांसौ श्रपयतं यथास्य श्रपणं तथा ॥म्स्_४,१३।४॥
जुषस्व सप्रथस्तमम् ॥
इमं नो यज्ञम् अमृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
स्तोकानाम् अग्ने मेदसो घृतस्य होतः प्राशान पह्रथमो निषद्य ॥
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः ।
स्वधर्मन् देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य ।
ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
तुभ्यं श्चोतन्त्य् अध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य ।
कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
ओजिष्ठं ते मध्यतो मेदा उद्भृतं प्र ते वयं ददामहे ।
श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान् देवशो विहि ॥
होता यक्षद् अग्निं स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानां स्वाहा स्वाहाकृतीनां स्वाहा हव्यसूक्तीनां स्वाहा देवा आज्यपा जुषाणा अग्ना आज्यस्य व्यन्तु होतर् यज ॥
सद्यो जातो व्यमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः ।
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ॥
अग्निर् वृत्राणि जङ्घनत् ॥
होता यक्षद् अग्निम् आज्यस्य जुषतां हविर् होतर् यज ॥
त्वं सोमासि सत्पतिः ॥
होता यक्षत् सोमम् आज्यस्य जुषतां हविर् होतर् यज ॥
शुचिं नु स्तोमम् ॥
होता यक्षद् इन्द्राग्नी छागस्य वपाया मेदसो जुषेतां हविर् होतर् यज ॥
श्नथद् वृत्रम् उभा वाम् इन्द्राग्नी ॥
होता यक्षद् इन्द्राग्नी पुरोडाशस्य जुषेतां हविर् होतर् यज ॥
प्र चर्षणिभ्य इडाम् अग्ने होता यक्षद् अग्निं पुरोडाशस्य जुषतां हविर् होतर् यज ॥
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस् त्वेड्यं जातवेदः ।
त्वां दूतम् अरतिं हव्यवाहं देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इडोपहूतोपहूतेडोपास्मं इडा ह्वयताम् इडोपहूता मानवी घृतपदी मैत्रावरुणी ॥