०३

वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥म्स्_४,१३।३॥

अग्निर् होता नो अध्वरे वाजी सन् परिणीयते ।
देवो देवेषु यज्ञियः ॥

परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव ।
आ देवेषु प्रयो दधत् ॥

परि वाजपतिः कविः ॥

अजैद् अग्निर् असनद् वाजं नि देवो देवेभ्यो हव्यावाट् प्राञ्जोभिर् हिन्वानो धेनाभिः कल्पमानो यज्ञस्यायुः प्रतिरन्न् उपप्रेष्य होतर् हव्या देवेभ्यो दैव्याः शमितार उत मनुष्या आरभध्वम् उपनयत मेध्या दुर आशासाना मेधपतये मेधं प्रास्मा अग्निं भरत स्तृणीत बर्हिर् अन्व् एनं माता मन्यताम् अनु पितानु भ्राता सङ्गर्भ्यो ऽनु सखा सयूथ्य उदीचीनां अस्य पदो निधत्तात् सूर्यं चक्षुर् गमयताद् वातं प्राणम् अन्ववसृजताद् अन्तर्क्षम् असुं पृथिवीं शरीरम् एकधास्य त्वचम् आछ्यतात् पुरा नाभ्या अपिशसो वपाम् उत्खिदताद् अन्तर् एवोष्माणं वारयताच् छ्येनम् अस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपेवांसाछिद्रे श्रोणी कवषोरू स्रेकपर्णाष्ठीवन्ता षड्विंशतिर् अस्य वङ्क्रयस् ता अनुष्ठुयोच्च्यावयताद् गात्रङ्गात्रम् अस्यानूनं कृणुताद् ऊवध्यगोहं पार्थिवं खनताद् अस्ना रक्षः संसृजताद् वनिष्टुम् अस्य मा राविष्टोरूकं मन्यमाना नेद् वस् तोके तनये रविता रवद् अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वम् अध्रिगो ॥

अध्रिगुश् च विपापश् च देवानां शमितारौ ।